continution the month of october2002
हरविजयम्।
षड्विंशः सर्गः।
इत्यागताः कलितचन्द्रकलाप्रकाश-
कर्पूरवाससुरभीण्यनुकूलवृत्तीः।
प्रेमामृतार्द्रमनसो दयिता मधूनि
नीलारविन्दशबलानि वधूरपीप्यन् ॥ 26.1 ॥
उद्गीवराजतवरावरवीसलील-
हंसीसनाथशुचिशुक्तिशतैकदेशा।
आपानभूमिरमराद्रितरङ्गिणीव
लक्ष्मीं तदातनुत काञ्चनवालुकाभिः ॥ 26.2 ॥
इन्दोः कला इव विकासवतीः प्टथक्त्व-
मभ्यागता निपतिताः कथमप्यथोर्व्याम्।
शुक्तिर्जना मणिमयीर्जगृहुर्विधूत-
रोषाः पिपावयिषवोऽथ वधूनि योषाः ॥ 26.3 ॥
तासामदृष्टचरपार्वणचन्द्रमुक्त-
निद्रारविन्दघटनासदृशत्वमाप्ताः।
लीलागृहीतमधुपूरपिशङ्गरत्न-
कोषाः कराः श्रियमथ प्रथयांबभूवुः ॥ 26.4 ॥
किं कार्यमत्र भवता विजहीहिचाप-
मित्यभ्यधादिव रुतैर्मदनं द्विरेफः।
रङ्गत्तरङ्गतरलोत्पलगर्भरत्न-
पांरीविकीर्णसहकारसहर्षचेताः ॥ 26.5 ॥
प्रत्यग्रशोणमणिशुक्तितलेन शीधु-
धारां वधूः करकतो मधुराभिरामाम्।
जग्राह पाटलपलाशमुखेन बाल-
सूर्याशुराजिमिव पङ्कजिनी पतन्तीम् ॥ 26.6 ॥
उत्क्षिप्यमाणकनकावरवीविकीर्ण-
मैरेयरेचकरयाकुलरत्नकोषैः।
स्त्रीणां विकासिनवतामरसाभिराम-
रूपैरतामि सुकुमारतया कराग्रैः ॥ 26.7 ॥
संपाद्यते भृशमनेन ममावतंस-
च्छायेति रत्नकरकान्निपतन्रमण्याः।
व्यावलृत्तिभिश्चषकमध्यजुषश्चकार
शीधुः प्रदक्षिणामिव क्षणमुत्पलस्य ॥ 26.8 ॥
अस्या जितोऽपि निरवद्यमुखेन्दुना त्वं
तिष्ठन्पुरो न किमपत्रपसे सदोषः।
इत्युत्पले कलरवैरिव हुं चकार
भृङ्गः सशीधुचषकप्रतिबिम्बचन्द्रम् ॥ 26.9 ॥
पीतः कलङ्ककलुषः सह शीधुनाय-
मिन्दुर्मनो मलिनयिष्यति मा तवाच्छम्।
इत्थं प्रपञ्चचतुरस्तरुणः पिबन्तीं
मुग्धां करेण परिहासरसो व्यरौत्सीत् ॥ 26.10 ॥
शोभां बभार मकरन्दरसायमान-
मैरेयगर्भमणिकांस्यकरालकोषम्।
वामभ्रुवां प्रकृतिताम्रतलाभिराम-
दीर्घाङ्गुलीदलकुलं करपुण्डरीकम् ॥ 26.11 ॥
आलक्ष्य लक्ष्ममलिनां प्रतिमागतस्य
मूर्तिं तुषारमहसः परिमार्ष्टुमिच्छुः।
काचित्कराङ्गुलितरङ्गितशीधुपूर-
मायस्यति स्म चषके परमार्थमुग्धा ॥ 26.12 ॥
विन्यस्तशीतलरजःसुरभिष्वमन्द-
मिन्दीवराणि चषकेषु सलीलमूर्ध्वम्।
अप्लोषत भ्रमरपक्षमरुद्विधूत-
पक्ष्मावलीललितधूलिलधूनि तासाम् ॥ 26.13 ॥
विस्तारशालिमधुराञ्चितपक्ष्मशोभ-
मभ्य [र्णवर्तिनि लसन्मणिपानापात्रे]।
भृङ्गः पपौ विकचमुत्पलमाननेन
दृष्ट्या पुनर्मधुनि बिम्बितमक्षि नार्याः ॥ 26.14 ॥
निःश्वासवातधुतशीधुतरङ्गरङ्गि
तस्थौ प्रसारितविलोलदलं तरुण्याः।
तत्सौरभातिशयवासनमात्ममूर्ते-
राधातुमुत्पलमिवासवभाजनाग्रे ॥ 26.15 ॥
त्वत्सांनिधिग्लपितशोभतया मयात्र
कष्टं वतंसपरभागरुचिर्न लब्धा।
इत्यम्यधादिव शिलीमुखशिञ्जितेन
नीलोत्पलं चषकबिम्बितमक्षि वध्वाः ॥ 26.16 ॥
नारीविनिःश्वसीतधूतमधूर्मिपूर-
पारिप्लवः प्रपतितः प्रतिमापदेशात्।
आत्मानमिन्दुरसकृत्परिवृत्य रत्न-
पार्यामधावदिव लग्नमलं विशुद्ध्यै ॥ 26.17 ॥
अन्याभिधाग्रहणबद्धरुषोऽभिभर्तृ
पारी विलक्ष्यहसितद्युतिभिस्तरुण्याः।
आप्लावितेव विबभौ प्रतिबिम्बवर्ति-
शीधुद्रवीकृतमृ-गाङ्करसच्छटाभिः ॥ 26.18 ॥
आवर्जिते तपदि यत्र तरङ्गभङ्ग-
दोलाधिरोहरभसात्सरसोदनंसीत्।
निःशेषिते मधुनि तत्र शुचेव जात-
संकोचमुत्पलमधोमुखतामयासीत् ॥ 26.19 ॥
विस्पष्टलक्ष्मणि सशीधुतरङ्गरत्न-
पारीतलप्रतिमिते शशिनि प्रियायाः।
गण्डस्थले च विकचोत्पलकर्णपूर-
कल्माषभासि बिभिदे न जनस्य दृष्टिः ॥ 26.20 ॥
प्राप्तावधूतकमलच्छविचन्द्रमूर्ति।
पादावमर्शसुभगश्चषकालवाले।
लक्ष्मीमशोकविटपीव विकासिताम्र-
वीचिच्छटाकिसलयो विदधार शीधुः ॥ 26.21 ॥
आलिङ्गिता प्रसृतरश्मिभुजं [मसार-
कोषान्तर]प्रतिमितेनतुषारभासा।
प्रीत्या विकासिनवनीलसरोजचक्षुः
सोदर्यसंजनितयेव सुरा बभूव ॥ 26.22 ॥
किंचिन्निपीय चषकात्तरलायताक्ष्या
लब्धौष्ठचुम्बनसुखः परिशेषितः सन्।
शीधुर्मुदेव सुरभिश्वसितावधूत-
पर्युच्छ्वसत्सरलवीचिभुजो ननर्त ॥ 26.23 ॥
निःशेषितेऽथ मधुनि स्फटिकाच्चशुक्ति-
गर्भादुदैयत शुचिप्रतिमापदेशात्।
संवादितारकनवोत्पलशोभिनिऽत्रे-
नेत्रोदरादिव तुषाणकरेण भूयः ॥ 26.24 ॥
सीमन्तिनीवदनपङ्कजदीयमान-
गण्डूषशीधुनि रसाद्धृदयालवाले।
पुष्पास्त्रबाणबकुलः कमितुर्बभार
पर्युच्छ्वसन्मुकुलदृष्टिमनोहरत्वम् ॥ 26.25 ॥
नालक्ष्यतात्ममणिभाजनमध्यगं य-
त्सावर्ण्यतः स्फुटमलं प्रतिमेन्दुबिम्बम्।
उत्क्षिप्यमाणमिव सोत्पलसीन्धुवार-
पुष्पावतंसरुचि तन्मधुनाविरासीत् ॥ 26.26 ॥
वीक्ष्य स्फुरत्सरसशीधुनि रत्नशुक्ति-
गर्भेऽभिलक्ष्यहरिणं प्रतिबिम्बमिन्दोः।
आलीयते स्म मधुपो मधुपानलोभ-
लीनालिजालशबलस्तबकाभिसशंसी ॥ 26.27 ॥
भाति स्म रत्नचषके शशिनो निपण्ण-
मीषन्निपीतपरिशोषितशीधुगर्भे।
तद्वीचिधौतवनिताधरबिम्बलग्न-
ताम्बूलकृष्णिकमिव स्फुटलक्ष्म बिम्बम् ॥ 26.28 ॥
आवर्जितदस्य मधुनोऽरुणरत्नशुक्ति-
गर्भेऽशुजालभृति काञ्चनकर्करीभिः।
पूरोऽन्वमीयत मुखानिलघूर्णमान-
विस्तारितच्छदनवोत्पलदर्शनेन ॥ 26.29 ॥
कोषोदरप्रतिमितः शशभृत्पुरंध्रि-
हासांशुविच्छुरितपाण्डुरमध्यबिम्बः।
निर्मृष्टलाञ्छनमलः श्रियमाससाद
सोदर्यया मदिरयेव तरङ्गहस्तैः ॥ 26.30 ॥
सौगन्ध्यमाप मधु रत्नकरालकोष-
विन्यस्तमुत्पलवतंसविकासशारम्।
प्रत्यग्रलग्रसहकारकृताधिवास-
मुच्छ्वासभिन्नमुत वामदृशः पिबन्त्याः ॥ 26.31 ॥
आविर्भवन्मदनदोहदजृम्भमाण-
निःश्वासमारुतविकम्पबिपयोधरश्रीः।
विश्रम्य कापि कपिशं पिबति स्म चन्द्र-
बिम्बावतंसकुसुमस्तबकं नतभ्रूः ॥ 26.32 ॥
सर्पन्निरङ्कुशतयारुणरागसान्द्र-
सिन्दूररञ्जितमुखो निरपेक्षवृत्तिः।
वामभ्रुवां परिणमन्नयनेषु धैर्य-
वप्राभिघातमकरोन्मदगन्धहस्ती ॥ 26.33 ॥
छायागतस्फुरितचन्द्रकलातमाल-
पत्त्राभिराममसितोत्पलचारुनेन्रम्।
काचिन्मदश्रिय इवाननमुद्विकासि-
वीचिभ्रु रत्नचषकं विबभौ वहन्ती ॥ 26.34 ॥
निःश्वासधूततरलोत्पलयोपलक्ष्य-
विस्तारया दयितपीतविमुक्तयान्या।
शोभां बभार मधुपाटलयाच्चरत्न-
शुक्त्या वधूर्ललिततारकया दृशा च ॥ 26.35 ॥
निःशेषितासवमपि प्रतिमागतेन्दु-
बिम्बाहितामिव दधद्गुरुतां तदानीम्।
आविर्भवन्मदविलोलदृशः कराग्रा-
दस्रंसत स्फटिकभाजनमस्फुटोक्ति ॥ 26.36 ॥
वामभ्रुवामतनुनूतनपद्मराग-
खण्डास्पदार्कमणिभाजननिर्विशेषम्।
भाति स्म रूढमदिरामदगाढराग-
गण्डस्थलप्रतिमितं शिशिरांशुबिम्बम् ॥ 26.37 ॥
निःश्वासमारुतहृतप्रतिमानिषण्ण-
संचारिषट्चरणचित्रकबिन्दुशारैः।
शोभां कुशेशयदृशो बिभरांभभूवु-
रुज्जृम्भमाणमदप्ल्वितैः कपोलैः ॥ 26.38 ॥
आघूर्णमाननतपक्ष्मदृशो मदेन
संवादितां तदनु गीतविधेर्दधानः।
अक्ष्णोः कपोलफलकेऽघरपल्लवे च
त्रिस्थानसोभितगुणो विचकास रागः ॥ 26.39 ॥
गण्डस्थली कपिशपानपरम्पराभि-
रारूढरागमदताम्ररुचिस्तरुयण्याः।
आवृत्तिचुम्बनकृतोत्सवल्लभोष्ठ-
ताम्बूलरागपरिणामवशादिवासीत् ॥ 26.40 ॥
बिम्बाधराञ्चितरुचा मधुना तदाथ
पीतेन पक्षअमलदृसोऽच्छकपोलभागे।
आसीन्मदः प्रकटितारुणराग एव
कार्यं हि कारणसदृग्भवतीति सत्यम् ॥ 26.41 ॥
पश्यामि तावदधुना मदरागताम्रः
पुष्णाति कां श्रियमायं ललनाननेन्दुः।
इत्युद्विकासमुदमीमिलदाशु रत्न-
कोषः सकौतुक इवोत्पलमक्षिशोभम् ॥ 26.42 ॥
संवादिष ट्चरणतरकपक्ष्मपङ्क्ति-
लक्ष्मीधरां धवलिमानमिवोद्गिरन्तीम्।
तन्व्या दृशां मधुमदो मुकुलीचकार
बालातपः कुमुदिनीमिव गाढरागः ॥ 26.43 ॥
प्रेयोविलोकनरसाद्विचकास पीत-
शीधोः शनैर्मदभरान्मदिरेक्षणायाः।
पक्ष्माग्रलग्ननवकज्जलधूलिजाल-
भारातिगौरववशादिव नेत्रयुग्मम् ॥ 26.44 ॥
शोभां बभार परिणामविरूढकान्त-
दन्तव्रणः सपदि पीतसुरासवायाः।
चारुभ्रुवश्चषकविम्बितचन्द्रबिम्ब-
मध्यावलग्नमलबिन्दुरिवाधरौष्ठः ॥ 26.45 ॥
प्राप्तस्य मन्मथशिलीमुखतामभीक्ष्ण-
मक्ष्णश्च विभ्रमवतीकरपुण्डरीकम्।
संधानकारणवशादिव पक्ष्मपुङ्ग-
भागाग्रकोटिपरिमर्शविलोलमासीत् ॥ 26.46 ॥
अभ्युल्लसत्कनककुण्कडलपद्मराग-
धामारुणीकृतकपोलतले मुखेन्दौ।
व्यक्तिं जगाम् न नितम्बवतीजनस्य
रूढोऽपि सान्द्रमदिरामदताम्ररागः ॥ 26.47 ॥
अक्ष्णोर्बभूव यदरालकरालपक्ष्म-
लक्ष्मीभृतोर्मधुमदेन विपाटलत्वम्।
आहूतवत्यभिमुखे प्रतिपक्षवर्ति-
नाम्नान्वबुध्यत तदेव रुषा तरुण्याः ॥ 26.48 ॥
उत्तंसपङ्कजविकासविलासमोष-
मेषोऽनपेक्ष्य मधुनः कुरुने मयूखैः।
इत्थं रुषेव मदरागभरः पुरंध्रि-
गण्डस्थलप्रतिमितं शशिनं व्यरौत्सीत् ॥ 26.49 ॥
अन्याभिधानपरुषे वचसि प्रियेण
कापीरिते सपदि मुक्तमदा समन्युः।
स्थूलाश्रुबिन्दुपटचलैरिव धाव्यमान-
रागं कपोलतलमिन्दुसितं बभार ॥ 26.50 ॥
आरूढगाढमदिरामदसान्द्रराग-
मादत्त ताम्ररुचिगण्डतलं तरुण्याः।
प्रातः समुन्मिषदनूरुविकीर्णधाम-
निर्धाव्यमानशशिविम्बविडम्बकत्वम् ॥ 26.51 ॥
रामाजनस्य मधुपानपरम्पराभि-
रच्छेकपोलफलके मदरागलक्ष्मीः।
उद्भिन्नबालकुटिलाङ्गुलिचक्रवाल-
संवादिनुतननखक्षतिरविरासीत् ॥ 26.52 ॥
काचित्तुषारमहसः प्रतिमानिषण्ण-
मभ्यर्णवर्ति मणिकुट्टिमसीम्नि बिम्बम्।
पीतासवाच्छमणिकोशधिया सलील-
मादित्सुरुन्मदतया जहसे सखीभिः ॥ 26.53 ॥
अन्या कराम्बुरुहवर्तिनि पीतशीधौ
विस्तीर्णरत्नचषके स्मृतिविप्रमोषात्।
उज्जृम्भमाणमदधूर्णितनेत्रमात्म-
वक्त्रेन्दुमच्छमणिदर्पण इत्यपश्यत् ॥ 26.54 ॥
मत्ता तदाभिनवपल्लवपाटलाभि-
रन्यापराधगणमक्त्रममङ्गुलीभिः।
स्मेराननस्य पुरतो गणयांचकार
भर्तुर्मदस्खलीतमन्मथधमन्थरोक्तिः ॥ 26.55 ॥
कख्या पुरो विधृतमुन्नतपद्मकोष-
हस्तारुणाङ्गुलिदलाग्रकृतप्ततिष्ठम्।
आशङ्कते स्म विगलत्परिपीतशेष-
मैरेयधारमपरा कुरुविन्दकोषम् ॥ 26.56 ॥
रक्तारविन्ददलकोमलहस्तकान्ति-
पिङ्गीकृतां मधुयुतेति विशङ्कमाना।
पोतासवामपि मुहुः शुचिरत्नशुक्ति-
मनया प्रियेण समदा जहसेऽर्पयन्ती ॥ 26.57 ॥
घूर्णदृशां रभसपीतपरिस्रुतोऽपि
दूराधिरोहविकसन्मदमन्थराणाम्।
वामभ्रुवामबिभरुश्चषकान्कथंचि-
दिन्दीवराहितगरिम्ण इवाग्रहस्ताः ॥ 26.58 ॥
गण्डस्थली मृगदृशो मधुपानलीला-
विस्रम्भसंभृतमदारुणतां तथापत्।
तच्छायया श्रवणवर्तिपरीतमूढ-
रक्ताब्जकान्ति [शितिपङ्करुहं यथाभूत्] ॥ 26.59 ॥
……………….
विश्लिष्टभेदमदिरामदताम्ररागौ।
गण्डावधोमुखप्टथग्गतपद्मराग-
रत्नोत्पलोज्ज्वललसमुद्गकवपाटशोभाम् ॥ 26.60 ॥
व्यक्तिं जगाम मदरागभरेण दृष्टे-
रन्याभिधाग्रहणजो दयितेन रोषः।
निष्ठब्धतारक …..भिन्यवेदि
स्फष्टं पुनर्मृगदृशो हृदये विषादः ॥ 26.61 ॥
पीतस्तुषारकिरणो मधुनैव सार्ध-
मन्तः प्रविश्च चषकप्रतिबिम्बवर्ती।
मानान्धकारमभिवानवतीजनस्य
नूनं बिभेद यदसौ प्रससाद सद्यः ॥ 26.62 ॥
आरूढरागतरुमन्मथकम्पधूत-
संफुल्लशेखरशिखागलितैर्नताङ्ग्या।
उत्तुङ्गपीवरकुचप्रतिपामिषण्णः
प्रेयानिवाशु समभाव्यत पुष्पवर्षैः ॥ 26.63 ॥
क्षीणात्मनः प्रतिनिशं शशिनः क्रमेण
संभृत्य कान्तिमिव विश्वसृजा निदिग्धाम्।
बिभ्रत्यराजत मदेन पुरंध्रिगण्ड-
भित्तिः स्फुरत्पिचुलपल्लवापाटलश्रीः ॥ 26.64 ॥
रेजुः स्त्रियो मधुमदारुणगण्कडभित्ति-
लग्नावतंसितविकासिशिरीषपुष्पाः।
आरुढपाकफलगोचरवर्तिमुग्ध-
कीराभिरन्वितगुमा नवदाडिमीभिः ॥ 26.65 ॥
आविर्भवन्मदनविभ्रमशुभ्रहार-
च्छेदांशवः शशीरुचामभिनिष्पतन्तः।
भान्ति स्म शीधुसमकालनिपीतरत्न-
पारीतलप्रतिमितेन्दुकलाभिरामाः ॥ 26.66 ॥
निःशेषितासवलघुं प्रतिबिम्बवर्ति-
शातींशुमण्डलकृतातिभरामिवैका।
हस्ताश्रयां गुरुममन्यत रत्नशुक्ति-
माविर्भवन्मधुमदालसदेहयष्टिः ॥ 26.67 ॥
उद्दाममानहति चातुरतारतम्य-
बेदानुबन्धिमधुपानपरम्पराभिः।
हस्ताश्रयं स्फटिकभाजनमञ्चिताक्षया-
श्चेतश्च निर्भरमनायितरां प्रसादम् ॥ 26.68 ॥
दृष्टव्यलीकदयितोल्बणमन्युवेश(ग)-
लीलाविधूतशिरसोऽक्षिणगते विकासम्।
तत्प्रेरणाहितनिजास्पद[संधि] भङ्ग-
भीत्येव कर्णकुसुमं सदृशश्चकम्पे ॥ 26.69 ॥
आविर्भवन्मनसि दूरनिरस्यमान-
मानान्धकारविशदो मदनः पिबन्त्याः।
सख्यान्वमीयत चकोरदृसोऽभिभर्तृ
विस्तारितच्छदनवोत्पलदर्शनेन ॥ 26.70 ॥
प्राप्यावतंसितमनोहरगन्धपुष्प-
लीनद्विरेफनवदृद्यमधुप्रसङ्गम्।
श्यामालता इव दधुर्दशनांशुपक्ष्म-
रम्यस्मितस्तबकविभ्रमपल्लवत्वम् ॥ 26.71 ॥
प्रत्यक्षमन्ययुवतेः स्वकरोपनीत-
मैरेयगर्भचषकस्तरुमीमपीष्यत्।
यन्नायको मदमवाप यथा च तेन
पीतेन [न] स्मयवती मधुना तथासौ ॥ 26.72 ॥
अक्ष्णोर्विकारमुपपादयतावसाद-
मङेगेषु चोत्पुलकपङ्क्तिषु भूयसोच्चैः।
व्यक्तेतरीकृतगिराहितधूननेन
तन्व्या मदेन मदनेन [च न] व्यभेदि ॥ 26.73 ॥
नेत्रद्वयं मधुमदेन विपाटलत्व-
माधत्त मन्थरिततारकमायताक्ष्याः।
गन्धाकुलब्रमरपक्षधुतावतंस-
नीलाब्जपक्ष्मरजसेव कृताभिधातम् ॥ 26.74 ॥
नालीयते स्म सुरभिश्वसितेऽवतंस-
नीलोत्पले न चषके न च माल्यपुष्पे।
तासां विकासिमदिरामदसान्द्रनिर्य-
दामनोदसंपदुपनीतिरतिर्द्विरेफः ॥ 26.75 ॥
आलोक एव दयितस्य बभूव बद्ध-
कम्पा तनुर्मृगदृशः पुलकोपरुद्धा।
अन्तःस्थशीधुसमकालनिपीतकांस्य-
बिम्बागतेन्दुकृतशीतविजृम्भिकेव ॥ 26.76 ॥
मानावलेपभरसंभृतमप्युपोढ-
नानाविधप्रियतमानुनयव्यवस्थम्।
विस्तारितं हृदि नितम्बवतीजनेन
निर्मज्जति स्म मधुपूर इवाशु धैर्यम् ॥ 26.77 ॥
निर्मृष्टपानलधुकानि मनांसि कुर्वं-
ल्लज्जामपास्य विदधत्सुरताभिरलाषम्।
आलिङ्गनान्यशिथिलानि दिशन्प्रियाणा-
माविर्भवन्बहुमतो मदविभ्रमोऽभूत ॥ 26.78 ॥
लीलारविन्दधुतपक्ष्मशिखापराग-
पिङ्गीकृता गलितमानरुचो निरीयुः।
स्वासा मुहुर्मधुमदारुणिता इवाभि-
भर्तृ स्मरप्रवणतापिशुनाः पुरंध्रेः ॥ 26.79 ॥
उत्साहिता सकलशीधुमदेन वक्तु-
मर्धोदिते नववधूरवलम्बितकह्रीः।
आलीजनेष्वनुपसंहृतवाक्यशेषा
भर्तुश्चकार सविशेषकुतूहलत्वम् ॥ 26.80 ॥
मानान्धकारमवधूय शुचौ प्रसाद-
चन्द्रेऽधिरोहति मनोम्बरमम्बुजाक्ष्याः।
उज्जृम्भमाणसरसोत्कलिकासहस्रै-
रव्याहतो मकरकेतुरवाप वृद्धिम् ॥ 26.81 ॥
निर्मृष्टमानलधुतां हृदयान्यवापु-
राविर्भवन्मधुमदाञ्चितविभ्रमाणाम्।
उद्भिन्नपीनपुलकैर्विहितावसाद-
मङ्गै पुनर्मृगदृशां गुरुभिर्बभूवे ॥ 26.82 ॥
जग्राह वक्त्रकमलं हृदयं च रागो
दृष्टिस्तनुश्च परिमन्थरतां प्रपेदे।
चस्खाल कोमलपदं गमनं वचश्च
चेतस्युपेयुषि मदं सुरसुन्दरीणाम् ॥ 26.83 ॥
तावत्सलीलमनुपप्लुतरागगर्भ-
मग्रे जगे युवभिरुत्पललोचनानाम्।
आश्रावितश्रुतिविभेदकृतव्यवस्थ-
हारिस्वरग्रथितसारणवल्लकीकैः ॥ 26.84 ॥
आपादयन्नयनपक्ष्मनिमीलनानि
भावानुबन्धवशतो दयितायमानः।
वेणुः कयाचिदधराग्रनिपीकडनेन
विस्पष्टमाक्रियत निर्भररागगर्भः ॥ 26.85 ॥
अङ्के निवेश्य चतुराङ्गुलिपल्लवाग्र-
संचारचारुयतिपाणिलयप्रपञ्चाम्।
आस्फालयत्करतलादिविभेदधातु-
वाद्यप्रपञ्चरुचिरामपरा विपञ्चीम् ॥ 26.86 ॥
भ्रूविभ्रमानुमितगाढतरावधान-
मन्या विलोलमणिकुण्डलघृष्टगण्डम्।
गायन्त्यवादयदनेकविकल्पकल्प-
कोणावघट्टनकलक्वणितां च कूर्मीम् ॥ 26.87 ॥
अन्या निवेश्य हृदये विनिपीडितैक-
पीनस्तना सपदि भावनयैव सारम्।
आशावय….लगुणक्वणितामलाबु-
वीणां किणाङ्कसुकुमारतराङ्गुलिश्रीः ॥ 26.88 ॥
तासाममन्दमदमन्थरमञ्जुकण्ठ-
कुण्ठाक्षरस्खलितलोतपदप्रबन्धम्।
आर्द्रोऽपि शुष्क इव गेयविधिर्बभार
सद्वेणुरञ्जितमनोहरविभ्रमत्वम् ॥ 26.89 ॥
अव्यक्तवर्णमभवत्तरुणीजनस्य
यत्कर्णवर्ति मदमन्थरगीतशेषम्।
आधित्सुभिस्तदनुसंधिमिवातिमञ्जु-
निःश्वासमारुतदृतैरलिभिः शिशिञ्जे ॥ 26.90 ॥
इत्थं व्यजृम्भततरां मधुपानगोष्ठी-
बन्धः क्रमात्सुरतनाटकपूर्वरङ्गः।
उद्दामकामकमनीयगुणाभिराम-
रामाविरामरमणआकुलकामिलोकः ॥ 26.91 ॥
तदाभिलष्यन्त्यसकृत्प्रियाननान्निपातुमव्याहति कापिशायनम्।
निशान्तकालावधि जागरं रसादियेष प्टष्ठं न तु कापि शायनम् ॥ 26.92 ॥
भाववेशनिमीलितेक्षणयुगं संपूरितैर्वेणुभि-
र्मूर्छद्भिः कृतसौष्ठवं रसभरादाकर्ण्य गीतं पुनः।
प्रेमस्निग्धमपाययन्त रतये तास्त्वर्यमाणा इव
स्रस्ताङ्गश्लथसंधिरत्नरशनादामस्वनैः कामिनः ॥ 26.93 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये पानगोष्ठीवर्णनं नाम षड्विंशः सर्गः