.
हरविजयम्।
पञ्चविंश सर्गः।
इत्थं शशाङ्कातपदर्शनेन विजृम्भमाणं सुरसुन्दरीणाम्।
ससंभ्रमं काश्चन तामवस्तामभ्येत्य दूत्यः सुहृदां विवव्रुः ॥ 25.1
धृतारविन्दच्छसौकुमार्ये हस्ते च पुण्पास्तरणे च तस्याः।
विपाण्डुरत्वं दधती नितान्तं कपोलभित्तिश्च तनुश्च तस्थौ ॥ 25.2
सौगन्ध्यकृष्टैः श्वसितानिलानां तदूष्मदाहाहितगाढखेदैः।
पिपास्यमाना मधुपैर्भ्रमद्भिः पतन्ति तस्या नयनाम्बुधारा ॥ 25.3
चन्द्रोदयारम्भविजृम्भितेन व्यधायि तस्या मकरध्वजेन।
वेलातटोर्व्या इव नेत्रशुक्तिमुक्ताश्रुबिन्दुस्फुटमौक्तिकत्वम् ॥ 25.4
दोःकन्दलीनिर्जितसौकुमार्यं मृणालमस्या निहितं सखीभिः।
करोति दाहं सविशेषमेव तन्मत्सरेणेव शरीरयष्टेः ॥ 25.5
आबिभ्रती चन्दनपङ्कलेखां ललाटभित्तिः श्रियमेति तन्व्याः।
आविर्भवच्चन्द्रकलेव दुग्धसिन्धूर्मिलेखा विरहातिपाण्डोः ॥ 25.6
कुचद्वयं संप्रति सा बिभार्ति श्वासागतालिप्रतिबिम्बगर्मम्।
उष्णोष्णबाष्पाम्बुकणप्रतानप्लोषेण शारत्वमिव प्रयातम् ॥ 25.7
संप्रत्यसौ मुञ्चति बाणवर्षमाबद्धकोपेव मनोभवेऽपि।
प्रजागरेणारुणिते बिभर्ति विलोचने पद्मपलाशदीर्घे ॥ 25.8
अनेकसंकल्पविकल्पगाढां दशां वहन्त्या विरहे त्वमेव।
स्वप्नेऽपि जाग्रच्चरिते च तस्याः सुखस्य दुःखस्य च हेतुरेकः ॥ 25.9
वियुज्यतासौ भवता च यस्मिन्क्षणे सखेदं विवशा सखी मे।
स दग्धाबिम्बः स्मरबन्धुरेको दिघक्षुरेनामुदियाय चन्द्रः ॥ 25.10
त्यया विलुप्तावसरो नताङ्ग्याः शरैः शरीरं कृशातां नयद्भिः।
भिनत्ति तस्या निशितैरनङ्गः क्षतिस्तु मे चेतसि गाढगुर्वी ॥ 25.11
विनिष्पतन्तः शलबाः प्रदीपशिखामिवाब्युज्ज्वलचारुकान्तिम्।
अकम्पयन्दग्धदशायां तां स्मरेषवः संभृतपक्ष्मशोभाः ॥ 25.12
अन्तर्वियोगज्वलनोष्मतापपपरीयमाणैरिव जाततृष्णैः।
निपीयते मुग्धदृशोऽघराग्ररसोऽधुना निःश्वसितप्रबन्धैः ॥ 25.13
निशासु विन्यस्तमरीचिदण्डमृगालनालेन शरीरयष्टै।
तुषारभासापि निपीयमानलावण्यतोयेव विभाव्यतेऽसौ ॥ 25.14
लावण्यलक्ष्म्या मणिपारिहार्यं रूपामृतांशोः परिवेषचक्रम्।
न भाति साकल्पकशल्यविद्धा मृणालवल्लीवलयं वहन्ती ॥ 25.15
कुतूहलनेव कुचद्वयस्य मध्येऽवकाशाधिगमाय तन्वी।
सखीकरन्यस्तमृणालनालसूत्रैः परितं हृदयं बिभर्ति ॥ 25.16
रूपं वहन्ती हरति स्म यूनां या चित्तवृत्तिं शुभलक्षणाढ्या।
अवैमि तत्पादतलस्थमेव झपाङ्कमाविष्कृतचारुशोभम् ॥ 25.17
न निष्ठुरत्वं हृदयं वियोगे न सौकुमार्यं च बिभर्ति तस्याः।
विभिद्यमानं स्मरमार्गणैर्यन्न दार्ढ्यमाप्रनोति न शीर्यते वा ॥ 25.18
निशागमे मन्दिररत्नभित्तच्छायागतेनार्द्रतया सखी में।
अनामयप्रश्नविधितसयेव निषेव्यतेऽसौ शिशिरत्विषारात् ॥ 25.19
उपोढरागैः प्रतिबद्धखेदमालोकमार्गं दयितं नयद्भिः।
गृहीतचितैः क्रियते कृशाङ्ग्याः सखीजनस्यानुकृतिर्विकल्पैः ॥ 25.20
स्थूलाश्रुधारापतनानुबन्धप्रमृष्टिसंजातभयेव तन्व्याः।
गण्डार्पिते संप्रति पाणिपद्मे न भाति लग्नागुरुपत्त्रवल्ली ॥ 25.21
विदूयते सा निपतद्द्विरेफकल्माषिताभिर्नवमञ्जरीभिः।
स्रमरेषुभिर्धूर्जटिलोचनाग्निशिखावदग्धाभिरिवेक्षिताभिः ॥ 25.22
संधुक्षणायेव झषावचूलनाडिंधमेनोग्रवियोगवह्नेः।
न्यस्तां शरीरे बिसदण्डशण्डनाडीं नतभ्रूः सरलां बिभर्ति ॥ 25.23
त्वद्विप्रयोगानलदाहतप्रे म्लानीकृताम्भोरुहिणीपलाशे।
अच्चिन्नपाताः कुचकुम्भप्टष्ठे तस्याश्छमित्य श्रुकणाः पतन्ति ॥ 25.24
क्रोडेन सा केतुशिखाग्रलग्नमिवानुरागान्मकरं स्मरस्य।
निशासु लक्ष्मोद्वहता तुषारमरीचिना दग्धशरीरयष्टिः ॥ 25.25
ललाटपट्टाम्बरचन्द्रलेखं लावण्यरत्नाकरफेनराजिम्।
ललाटिकां चन्दनपङ्कदिग्धां कंदर्पलीलाकदलीं बिभर्ति ॥ 25.26 ॥ (युगलकम्)
सचन्दनास्तद्धृदये सखीभिर्मुहुर्व्यधीयन्त शमाय हस्ताः।
विनिर्गलत्स्वच्छनशांशुतोयधारप्रणालीसरलाङ्गुलीकाः ॥ 25.27
निशासु तस्याः प्रतिबिम्बमिन्दोरलक्ष्यत क्षामकपोलभागे।
लक्ष्मोद्वहत्तच्छयनीकृतैकहस्ताङ्गुलिश्यामकिणायमानम् ॥ 25.28
संताप्यमाना विरहानलेन शशाङ्कलेखारुचिरा सखीनाम्।
तदस्यास्तनुः स्वेदजलच्छलेन विलीयमानेव तनोति खेदम् ॥ 25.29
विभाव्यते मौक्तिकहारयष्ट्या वियोगवह्नेः प्रशमाय सुभ्रूः।
निजप्रभाचन्दनवारिवर्षैः सख्येव संसिक्तकृशाङ्गलेखा ॥ 25.30
विनिद्रनीलोत्पलपुण्डरीकमृणालवल्लीवलयान्वितां सा।
धत्ते दशामश्रुजलावकीर्णामुद्यानवापीमिव मन्मथस्य ॥ 25.31
विकल्पजालाकुलितं तदीयं चेतः परिभ्राम्यति निर्व्यवस्थम्।
विनिष्पतन्मन्मथमार्गणौघपतत्त्रवातैरिव नुद्यमानम् ॥ 25.32
धृतोष्मभिः श्वाससमीरपातैर्निर्दग्धमेवोष्ठदलं तयाद्य।
न दह्यते यावदलं शरीरमुपैहि तां तावदपास्य मानम् ॥ 25.33
विडम्बितापूर्वविनिद्रपद्मविचुम्बनालग्नमृगाङ्कबिम्बम्।
न भाति चिन्ताहितशून्यदृष्टि करारविन्दे वदनं तदीयम् ॥ 25.34
मृणालिनी चन्दनपङ्कदिग्धललाटिका केतकशोभिवक्त्रा।
प्रसन्नलावण्यजला विपाण्डुपयोधरा श्रीरिव शारदी सा ॥ 25.35
बिम्बायमानाधररागलक्ष्मीकदर्थनाखेदभयादिवाच्छाम् ।
अश्रुश्रुतिं जर्जरतां नयद्भिः श्वासानिलैर्दत्तकुचाग्रकम्पा ॥ 25.36
विगर्ह्यमाणातनुविप्रयोगकृशानुसंतापदशेव दूरम्।
रुतेन भृङ्गेः कृतशोषपुष्पशय्यामधुस्यन्दविवृद्धखेदैः ॥ 25.37
बिभर्ति बिम्बागतचन्द्रबिम्बसंस्पर्शशीतार्ततयेव नक्तम्।
गण्डस्थलीमुत्पुलकामनेककंदर्पसंकल्पवशान्नतभ्रूः ॥ 25.38 ॥ (चक्कलकम्)
मूर्छानुबन्धश्वसितप्रलापप्रजागरोत्कम्पविजृम्भणानि।
फलान्यवाप्तानि तया सुखार्थमात्मार्पणं त्वय्यापि नाम कृत्वा ॥ 25.39
`व्यर्थो हारो मृणालैश्चितमपि शयनं धिक्किमम्भोरुहैर्वा
कर्पूरं दूर एव क्षिपत हिमशिलाशर्कराभिः किमाभिः।
मिथ्या मैवातिखेदं भजत गुरुतरः कोऽपि दाहज्वरोऽस्या
इत्यन्योन्यं तदाल्यः सुभग परिगदन्त्यश्रुपूरप्लुताक्ष्यः ॥ 25.40
तदेहि यावन्न भजत्यवाच्यां दशां सखी मे तव विप्रयोगात्।
संचारिकाया वचसोति दूरमुत्साहितः सत्वरमेत्य कश्चित् ॥ 25.41
उपास्यमानां शिशिरोपचारव्यग्रात्मना तत्र सखीजनेन।
निकेतनान्तः कदलीगृहस्य गर्भे निषण्णां दयितामपश्यत् ॥ 25.42
शय्यीकृतं गण्डतलस्य बाष्पधाराञ्जनश्यामलितं कराग्रम्।
जृम्भापिधाने वदन्स्य दत्तं श्वासैरिव प्लुष्टमुपादधानाम् ॥ 25.43
कुचद्वयेनामलमौक्तिकांशुप्लुतां वहन्तीमधिकोन्नतेन।
अन्तर्वियोगानलतीव्रतापविलीयमानामिव हारयष्टिम् ॥ 25.44
शरीकृतैरेभिरनन्यजन्मा भिनत्ति चेतांसि वियोगिनीनाम्।
इतीव पुष्पाण्युपकारभूमौ संशोषयन्तीं श्वसितोष्णवातैः ॥ 25.45
धौताञ्जनैरश्रुकणैः पतद्भिरालक्ष्यमाणाक्षरपङ्क्तिशोभैः।
अनङ्गसंदेशाविधित्सयेव कल्माष्यन्तं श्वसितोष्णवातैः ॥ 25.46
चन्द्रोदयेनाहितवृद्दियोगां विकीर्णमुक्ताफलचूर्णराशिम्।
वेलामिवाक्रान्तनवप्रवालां दशां वहन्तीं मकरध्वजस्य ॥ 25.47
अन्तः पतन्मन्मथपुष्पबाणपक्षानिलेनेव कृताभिवृद्धीन्।
विकम्पितोत्तुङ्गपयोधराग्रान्निः श्वासदण्डान्मुहुरुत्सृजन्तीम् ॥ 25.48
सुगन्धिनिःश्वासरसात्पतद्भिस्तदूष्मदाहाहितगाढखेदैः।
न सेव्यमानं न च मुच्यमानं शिलीमुखेराननुद्वहन्तीम् ॥ 25.49
अत्युष्णबाष्पाम्बुकणप्रतानविदाहभीत्येव विकम्पमानम्।
विम्बाधरं निःश्वसितानुबन्धनितान्तपारिप्लवमुद्वहन्तीम् ॥ 25.50
मुक्ताफलत्वं निजकर्णशुक्तिपातेन बाष्पाम्बुकणैरिवाप्तैः।
सलीलमुत्तानितवक्त्रचन्द्रां सितेऽब्जमालाशयने निषण्णाम् ॥ 25.51
सुगन्घिनिःश्वासरसेन लीनं तदूष्मदाहेऽपि पुरो भ्रमन्तम्।
विनिष्पतद्भिर्दशनांशुतोयैर्निर्वापयन्तीमिव भृङ्गयूथम् ॥ 25.52
सखीर्लतापङ्गजजालशय्याविधूतधूलीकपिलैः सदेशे।
निःश्वसवातैर्हृदयस्तगाढरागोपलिप्तैरिव धूनयन्तीम् ॥ 25.53
स्तनस्रजा सार्धमवाप्तशोषां साकं गलन्ती नयनाम्बुपूरैः।
दग्धां सहालीजनचित्तवृत्त्या वियोगसंतापदशानुबन्धैः ॥ 25.54
सब्रुलताषट्पदमालयौष्ठदलाभिरामां श्रियमुद्वहन्त्या।
अवाप्तवक्त्राश्रययारविन्दकान्त्या प्रतीपं विजेतेन्दुबिम्बाम् ॥ 25.55
पयोधराग्रप्रतिफाललीलासमुच्छ्वसच्चन्दनचूर्णदिग्धैः।
अत्युष्णदीर्घेः श्वसितानुबन्धैरुत्क्षेपनिर्हासकदर्थितास्याम् ॥ 25.56
मा स्मोद्गमन्निःश्वसितेन सार्धं वियोगदुःखादसवोऽभितप्ताः।
इतीव संचिन्तयताशु बाष्पस्तम्भेन संरम्भ निरुद्धकण्ठाम् ॥ 25.57
समुद्वहन्तीं कृशतातिनिम्नगण्डस्थलीघूर्णनमन्दवेगान्।
आवेगसंफुल्लपुटाग्रनासामार्गागताल्ँलोचनवारिबिन्दून् ॥ 25.58
चिन्तानुबद्धस्फुटशून्यदृष्टि करार्पितक्षामकपोलभागम्।
मुखं दधानां विनिकुञ्चितभ्रूलेखापरिष्वक्तललाटलेखम् ॥ 25.59
नासापथेनोपगतां निरुग्णमुक्ताफलक्षोदपरागशीताम्।
अन्तर्वियोगानलतापतृष्णावशादिवाश्रुस्रुतिमापिबन्तीम् ॥ 25.60
उपेक्षितां विभ्रमषट्पदौघैः पर्यस्तदोर्दण्डमृणालदण्डाम्।
स्मरद्विपस्याम्बुजिनीमिवातिनिशातनाराचविषाणभग्नाम् ॥ 25.61 ॥ (कुलकम्)
संभ्रम्य कण्टकितगात्रलता सलील-
मावेद्यमानदयचितागमना कथंचित्।
आनन्दबाष्पजलबिन्दुगुरूकृताग्र-
पक्ष्मोदमीमिलदथो नयनद्वयं सा ॥ 25.62
श्वासनिलोष्मगुरुदाहविधूसरस्य
निर्वापणं सपदि कर्तुमिवाधरस्य।
शीतान्मुमोच मुहुरश्रुकणान्विलम्बि-
पातानसौ कुटिलपक्ष्मशिखाग्रलग्नान् ॥ 25.63
तस्यास्तदा रुचिरचन्दनवारिपङ्क-
चर्चाकृतामिव विधूसरतां प्रमार्ष्टुम्।
स्चेदाम्भसि प्लुतिसमुन्नमितप्रहर्ष-
रोमाञ्चराजिनि ममज्ज शरीरयष्टिः ॥ 25.64
किं कार्यमत्र भवता दयितागमेऽपि
संतापशोषितरसेन शरीरयष्टौ।
तन्व्या इतीव घनचन्दनपङ्कलेपो
रोमाञ्चराजिभिरनुद्यत निर्गताभिः ॥ 25.65
प्रेयस्युपेयुषि ससंभ्रममश्रुवारि
यच्चक्षुषोः परिममार्ज सुखोत्सुकासौ।
विस्पष्टमेव पुनरञ्जनपङ्कदिग्ध-
पर्यन्तता रुदितमाह तयोः स्म तस्याः ॥ 25.66
रोमाञ्चभिन्ननवचन्दपनङ्कचर्चं
भ्रश्यन्मृणालशकलं विचलज्जलार्द्रम्।
विस्रस्तहारमुपजग्मुषि सा प्रियेऽथ
सार्धं मुमोच दशयाम्बुजपत्त्रशय्याम् ॥ 25.67
विच्छिद्यमानविरहानलतापशुष्क-
सूत्रा तदा दयितगाढनिगूहनेन।
मुक्ताफलान्यमलहारलता मुमोच
धर्मोदबिन्दुपटलानि तनुश्च तन्व्याः ॥ 25.68
मध्यस्य तानवभृतो दयितादलब्ध-
स्पर्शत्वमुन्नतिवशाद्बत मावयोर्भूत्।
चक्रीकृतौ तदुपगूहवशादितीव
तन्व्याः स्तनौ सपदि वामनतामधत्ताम् ॥ 25.69
रोमाञ्चपीनतनुतां दधतोः क्रमेण
संप्राप्तयोस्तरुणयोरथ कातरत्वम्।
आलिङ्गनेन चिरसंभृताविप्रयोग-
तप्ताखिलाङ्गघठना सुदृढा बभूव ॥ 25.70
इत्थं दूतीमधुरवचनाकर्णनादागतानां
श्लाघ्यः कालो विपुलपुलकालंकृतिः कोऽप्यपूर्वः।
यूनामासीदतनुविरहोपप्लवक्लान्तकान्ता-
गाढाश्लेषश्लथभरगलत्ताररत्नाङ्कहारः ॥ 25.71
इति श्रीषालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्.य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये दूतीसंकल्पो नाम पञ्चविंसः सर्गः।