.
हरविजयम्।
चतुर्विंशः सर्गः।
इति रात्रिमुखे समं प्रियैर्घटमानासु चकोरदृष्टिषु।
अपराः प्रियविप्रयोगतो भृशमासेदुरुपप्लुतां दशाम् ॥ 24.1
स्मरकार्मुकयष्टिविभ्रमं कुटिला चान्द्रमसी कलावहत्।
दधीति स्म तदीरिताः शरा इव तन्व्यास्तदभीषवो व्यथाम् ॥ 24.2
न तदा तमसोऽभवत्क्वचिच्छशिधाम्नस्च विशेषदर्शनम्।
अकरोत्सुतनोर्यदन्धतां चिरमस्या विरहे विजृम्भितम् ॥ 24.3
कुसुमेषुष्टषत्कपक्षजः परिधुन्वन्विरहाशुशुक्षणिम्।
अधृतद्रढिमाणि सुभ्रुवां हृदयान्याशु ददाह मारुतः ॥ 24.4
क इवैति विपद्वतीह नो प्रतिकूलत्वमदोषवानपि।
सुदृशो विरहेऽमृत(स्रवाः शशिभासो) प यदूहुरग्निताम् ॥ 24.5
प्रतिबिम्बितवल्लभाकृतौ गुरुमूर्छातिमिरैः स्म दूयते।
अपि चेतसि दूसरीकते श्वसितैर्दर्पणवत्तदापरा ॥ 24.6
कुसुमं निजबन्धनादिवं प्रसभं दक्षिणमारुताहतम्।
न्यपतान्निजसंनिवेशतः सुकुमारं कुटिलभ्रुवो मनः ॥ 24.7
मदनस्य शरासनाश्रयामपरां ज्यामिव कर्तुमिच्छता।
बिसतन्तुततिस्तनौ स्तिथता मरुताधूयत वामचक्षुषः ॥ 24.8
प्रतिपन्नसमागमं प्रिये श्रमसंवेगवशादिवायतम्।
हृदयं श्वसिति स्म निर्भरं गुरुचिन्ताभरभारपीडितम् ॥ 24.9
विजहीहि शुचं पुरा तव व्यपयात्येष वियोगसंज्वरः।
क्षणमाश्वसिहि व्यपोहितुं व्यसनं धीरतया हि शक्यते ॥ 24.10
चिरकालवतंसितोत्पलस्पृहया मञ्जुरुतैः परिभ्रमन्।
इति धीरयति स्म कामपि श्रवणोपान्तमिवैत्य षट्पदः ॥ 24.11 ॥ (युगलकम्)
इह वल्लभविप्रयोगतः प्रविशन्त्युज्झितशङ्कमाधयः।
व्यधित व्रणितं शरैः स्मरो विवृतद्वारमितीव तन्मनः ॥ 24.12
अविलुप्तपरम्परास्तितैर्दयितप्रेमविमर्षविस्तरैः।
कृततीर्थ इवाधृतिस्तनोरवतारं कुरुते स्म मानसे ॥ 24.13
असमाप्तविकल्पसंकुलस्मरसंकल्पनिबद्धमालया।
अतिदैर्घ्यभृतेव सुभ्रुवः ससृपे भावनयानुवल्लभम् ॥ 24.14
न च कार्श्यदशां नतभ्रुवं मदनो ज्यां च शरासनाटनिम्।
सुमनःसुकमारविग्रहां विररामापघृणोऽधिरोपयन् ॥ 24.15
कृतचन्दनपङ्कचर्चनामपरां तापधृतो व्यधुः क्षणात्।
गुरुशोषकृशां सरोजिनीमिव सुग्रीष्मकभङ्गवासराः ॥ 24.16
स्फुटसौरभसंपदागता मधुपा निःश्वसितानिलांस्तनोः।
पपुरेव तदूष्मविप्लुताः सुखमेवाधिकदुःखसाधनम् ॥ 24.17
निशितैरशरीरमार्गणैर्हृदयस्य क्षतिमीयुषः क्षणात्।
शशिचन्द्रिकयाञ्चितभ्रुवः परुषं क्षाररजश्छटायितम् ॥ 24.18
विरहानलतापविप्लवव्यथयेवाशु पलायनोन्मुखम्।
अपरा हृदयं न पाणिना गुरुचिन्तानिहितेन नारुधत् ॥ 24.19
अभिनन्मदनस्तथा शरैः सुदृशश्चित्तशरव्यमुत्सुकम्।
न पुनः प्रतिसंदधौ यता तदभिन्नांशविनाकृतेर्धनुः ॥ 24.20
तटभूमिरिवापरा बभौ मकराङ्केन विवृद्धिमीयुषा।
निशि लोचनशुक्तिसंपुटच्युतबाष्पोदकबिन्दुमौक्तिका ॥ 24.21
अपनिद्रमधूकपाण्डरा सुदृशोऽदृश्यत गण्डमण्डली।
गमिताश्रुजलप्लवैरिव क्रशिमाकीर्णतयातिनिम्नाताम् ॥ 24.22
सुरभिश्वसितानिलागताः कृतमूर्छा मधुपायिनोऽपराम्।
अनयन्भृशमाकुलात्मतामुरगाश्चन्दनकन्दलीमिव ॥ 24.23
भवनोन्नतचन्द्रशालिकाशयने दीर्घवियोगभीतितः।
प्रथमं प्रियकण्ठवर्तिनी निशि निद्रामभजत्क्षणं न या ॥ 24.25
अपरेक्षितुमाहितस्प्टहा दयितं स्वप्रनवितीर्णदर्शनाम्।
बत तामपि बह्वमंस्तयत्तदहो कार्यगतेर्विचित्रता ॥ 24.26 ॥ (युगलकम्)
अबलत्वमुपेयुषी तथा विरहे काचिदताम्यदुत्सुका।
विनिमिलितपक्ष्मपीडितं कथमप्यश्रुजलं यथामुचत् ॥ 24.26
प्रतिमापतितां सखीव तां गुरुतापोपशमाय सुभ्रुवम्।
व्यध्रितान्तरुपागतार्द्रतां शशिकान्तोपलसालभञ्जिका ॥ 24.27
शशिनो जलधेरुदीयुषो गुरुतद्रर्भविषाग्निनेव ताम्।
उपगूढशिखा मरीचयो घनमूर्छाकुलितां निशि व्यधुः ॥ 24.28
विबभौ घनसारसंहतिर्निहिता स्निग्धसखीजनैस्तनौ।
सुदृसोऽश्रुकदर्थनाभयाद्रलिता गण्डतलादिव च्छविः ॥ 24.29
स्मरतापभरेण विभ्रमा न परिम्लानिमवापुरुद्भुतम्।
सुदृशस्तरुपल्लवा इव स्मितपुष्पाभरणोज्ज्वलश्रियः ॥ 24.30
करमर्पितमानने दधौ स्मरजृम्भासु पिधानलीलया।
गलिताञ्जनधूसरं वधूः श्वसितैः प्लुष्टमिवातनूष्मभिः ॥ 24.31
विनिमीलितलोचनाम्बुजा दधती कण्टकितां तनुत्वचम्।
नलिनीव शशाङ्करश्मिभिर्द्रुतमम्लायत काचिदुत्सुका ॥ 24.32
विरहानल………तत्तनुटांकार इवोपशुश्रुवे।
शयनीकृतफुल्लपङ्कजस्पुटपक्ष्मास्पदषट्पदारवः ॥ 24.33
दयितागमनेऽपि भाविनीं स्तितिमालेक्य विकल्पसंभृतैः।
विदधे पुलकादिभिस्तनौ सकृदभ्यास इवाञ्चितभ्रुवः ॥ 24.34
व्यजनीकृतपद्मिनीदलस्खलितैर्दूरमिवानिलैर्वपुः।
समुपोद्वलितो मृगीदृशः सविशेषं मदनानलोऽदहत् ॥ 24.35
लुलितालकवल्लरीकतां दधता पाणितले निषेदुषा।
अपराख्यदनालपन्त्यपि स्मरसंतापदशां मुकेन्दुना ॥ 24.36
शशभृन्मणिहारयष्टयो न शमायोत्पलचक्षुषोऽभवन्।
स्मरसंज्वरशोषितोच्छच्छविविष्यन्दितवारिबिन्दवः ॥ 24.37
विरहे मृगशावचक्षुषामयुगान्तप्रलये विजृम्भिते।
नवपङ्कजकोमलं ययावहिमापातविवर्णतां वपुः ॥ 24.38
दयिते चिरयत्यनुक्रमाद्वियदास्कन्दति चन्द्रमण्डले।
भृशमुत्कलिकाकुला मुहुर्मुमुहुर्मूढमनोरथाः स्त्रियः ॥ 24.39
जग्राह नूनमतुषारमरीचिबिम्ब-
मध्यप्रवेशपुनरुक्तिवशोत्थमौष्णयम्।
यद्विप्रयुक्ततरुणीजनदेहदाह-
मिन्दुः स्प्टशन्करशिखावलिभिश्चकार ॥ 24.40
आश्चर्यमेतदसमं मकरन्दबिन्दु-
संदोरहवर्षिभिरपि प्रसवात्मकैर्यत्।
वामभ्रुवां विरहविप्लुतचेतनानां
संशोष्यते तनुरहो विशिखैः पतद्भिः ॥ 24.41
दिग्धा इवोदधिविलोडनविभ्रमोत्थ-
लक्ष्मचछलोच्छलितहालहलच्छटाभिः।
मूर्छा व्युधुः शशुभृतः किरणाः सुधाम्बु-
विष्यन्दिनोऽपि विरहातुरसुन्दरीणाम् ॥ 24.42
वृष्टिं नवां रसमयीं विकिरत्यमन्द-
मातङ्कदयिनि शशाङ्कघने घनोर्वाः।
स्थूलाश्रुबिन्दुकणमौक्तिकपङ्क्तिरावि-
रासान्निरायतविलोचनशुक्तिगर्भात् ॥ 24.43
अन्यादृगप्यपरथैव जनस्य नूनं
भावस्थितिर्भवति विप्लुतचित्तवृत्तेः।
नक्तंकरस्य किरणाः सुधया यदार्द्राः
प्रेयोवियोगविधुरास्तरुणीरधाक्षुः ॥ 24.44
विक्षिप्तवेल्लहलबाहुलताः कराब्ज-
रक्ताङ्गुलीदलमरीचिमधुच्छटाभिः।
ताः संविभागमिव पङ्कजसंस्तरस्य
संतापशुष्कमकरान्दकणस्य चक्रुः ॥ 24.45
निः श्वासमारुतपराहतपुण्डरीक-
पर्यङ्कपिङ्गलपरागकणापदेशात्।
रेजे वियोगशिखिभीतिपलायमान-
गौरात्मदेहपरमाणुगणएव काचित् ॥ 24.46
स्रस्ता भुजाब्जशयनान्णिकुट्टिमस्थ-
रक्तारविन्दमुखलग्ननखांशुलेखा।
उद्ग्रीवहंसशिशुचञ्चुविकृष्यमाण-
सूत्रा मृणालकलिकेव तनोरभासीत् ॥ 24.47
तन्व्याः शशाङ्कशकलं प्रतिबिम्बितं स-
दच्छे कपोलफलके विदधार लक्ष्मीम्।
चेतोनिमग्ननिशितस्मरबाणशल्य-
निष्कर्षणानिहितकङ्कमुखायमानम् ॥ 24.48
शय्यीकृतैककरपङ्कजसंनिषण्ण-
मच्छं कपोलफलकं विदधार काचित्।
संधुक्षितस्मरकृशानुशिखाशतस्य
रोद्धुं रुषेव शशिनः प्रतिमावकाशम् ॥ 24.49
इत्थं विसंस्थुलदशाः सुदृशो बभूवु-
रिन्दूदयोल्लसितरत्ननिधौ प्रदोषे।
उज्जृम्भमाणरमणप्रतमानुराग-
मानप्रवासविधुरस्तितिविप्रलम्भाः ॥ 24.50
इति श्रीबालवृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये विरहवर्णनो नाम चतुर्विंशः सर्गः।