२३

.

हरविजयम्।

त्रयोविंशः सर्गः।

इत्यम्बुधौ शशधरोदयलब्धतोष-
मुल्लासिवीचिभुजसंभृतनृत्तशोभे।
आसन्नवल्लभदजनागमनः पुरंध्रि-
लोकः प्रसाधनविधाववधानमाधात् ॥ 23.1
प्रेङ्खन्नखस्खलितचन्द्रमरीचयोऽथ
लक्ष्मीं पुरंध्रिचरणा बिभरांभभूवुः।
प्रेयःसु भावि(?)विनतेष्वपराधवत्सु
मूर्तं प्रसादमिव संभृतमुद्वहन्तः ॥ 23.2
आविष्कृतातिशयनिर्भररागसंप-
दासादितातिनिबिरीसनितम्बबिम्बः।
स्थाने बभार सुरकामवतीजनस्य
चण्डातकः पुलकबन्धमनोहरत्वम् ॥ 23.3
विन्यस्तयावकरसारुणसान्द्रराग-
भास्चन्नखैकचरणाङ्गुलिपङ्क्तिराभात्।
भीरोरशोकविटपिप्रसवप्रक्लृप्त-
शल्योरुमन्मथशिलीमुखपञ्चकश्रीः ॥ 23.4
रामाजनेन निबिडं कलधौतकाञ्ची
बद्धा शिलातलविशालनितम्बबिम्बे।
उद्भिन्नकोमलमनोरमरोमवल्ली-
रत्नालवालवलयस्य विलासमापत् ॥ 23.5
वद्धास्तु नाम भवती वनिता नितम्ब-
बिम्बे पुरा भवति ते रत एव मोक्षः।
मा भून्मधैव मुखरा विरुतैरितीव
काञ्चीमुवाच चरणाभरणं रणन्तीम् ॥ 23.6
मध्ये स्थिता शिथिलबन्धनभागपाद-
पद्माग्रपातिकलधौतकरालकाञ्च्याः।
शोभां बचार रचिताञ्चितहेमवप्र-
चक्रा क्षणां कुसुमकेतुपुरीव काचित् ॥ 23.7
काञ्चीगुणौर्विचिता जघनेषु लक्ष्मी-
र्लब्धा स्थितिः स्तनतटेषु च रत्नहारैः।
नो भूषिता वयमितीव नितम्बिनीनां
कार्श्यं निरर्गलमधार्यत मध्यभागैः ॥ 23.8
लावण्यकान्तिजलशैवलवल्लरीभि-
रक्षुण्णपुष्पशरकाननपद्मिनीभिः।
शोभां पुरंध्रिजनता बिभरांचकार
हाराश्मर्भकशिखाकिरणच्छटाभिः ॥ 23.9
तारावलीद्युतिरनम्रकुचद्वयान्त-
रालम्बिनी भृशमशोभत हारयष्टिः।
अभ्युन्मिषन्नवकुशेशयकोशयुग्म-
भिन्नानना बिसलतेव विलासवत्याः ॥ 23.10
हारस्य मध्यगत इन्दुमणिर्मृगाङ्क-
पादावमर्शगलितैः सुदृशो जलौघैः।
मूकीचकार रशनागुणमार्द्रतन्तुं
मध्यस्थतामपि दधत्तरलो न भूत्यै ॥ 23.11
चेतोऽहरत्कुचयुगं मणिहारयष्टि-
मध्यस्फुरन्मरकतांशुविलङ्घिताग्रम्।
लीलागृहीतनवशेवलवल्लरीक-
चञ्च्वग्रकोकयुगविभ्रममऋञ्चितोर्वाः ॥ 23.12
कृच्छ्रेण यन्निबॢडसंवलिताङ्गुलीक-
हस्ताम्बुजेतरकरेरितमप्यनह्यत्।
प्रेयस्यनीयुषि शुचा गलति स्म तत्र
सून्ये क्षणेन वलयं तदरालकेश्याः ॥ 23.13
प्रत्येकमेव विनिवेशितदृश्यपुङ्ख-
भागाभिरामनखकोटिशिलीमुखाभिः।
तूणीरयष्टिभिरिवाभिबभे स्मरस्य
लीलाप्रसारितपुरंध्रिकराङ्गुलीभिः ॥ 23.14
प्राप्तस्य सामिकृतमण्डनदेहयाष्टि-
रर्चालताकिसलये ललना सलीलम्।
रागं निजोष्ठरुचके विनिवेशयन्ती
काचिद्व्यधत्त हृदये हृदयेश्वरस्य ॥ 23.15
श्लाध्यात्मना दशनकोटिकृतक्षतेन
संप्राप्य चुम्बनसुखानुभवं तदानीम्।
रागः कुशेशयदृशामधरेषु नाग-
वल्लीदलेन यदभारि किमद्भुतं तत् ॥ 23.16
ताम्बूलरागरुचिराधरमध्यभाग-
रेखा जरहार हृदयं हरिणेक्षणायाः।
उत्कृष्टचापझषकेतुकृपाणयष्टि-
धारानिपातकृतसक्षतजव्रणश्रीः ॥ 23.17
भाति स्म काचन तिरस्कृताबिम्बकान्ति-
दन्तच्छदोन्मिषितदीधितिमण्डलश्रीः।
अन्तःप्रविष्टभरसंभृतपुष्पबाण-
नाराचगर्भमकरन्दमिवोद्गिरन्ती ॥ 23.18
लावण्यकान्तिरमला मलिनात्र मा भू-
द्भीत्या सखीति विलिलेख न पत्त्रलेखाम्।
अक्लेशयत्पुनरमूं प्रतिमागतेन्दु-
बिम्बप्रभाधिकतरं तरुणीकपोले ॥ 23.19
गण्डस्थलं लकुचकुड्भलपाण्डुशोभा-
मभ्युच्छ्वसात्तिलकपत्त्रलताभिरामम्।
छायानिषण्णहरिणाङ्कमधत्त पुष्प-
कोदण्डकाननमिवोन्नतमङ्गनायाः ॥ 23.20
सावर्ण्यनिह्नुतविपाण्डुरमण्डलस्य
गण्डस्थलीभुवि तुषाररुचोऽपरस्याः।
स्पष्टाभिलक्ष्यवपुषा मृगनाभिपत्त्र-
पत्त्रावलीरुचिरतन्यत लक्ष्मणैव ॥ 23.21
बिभ्रत्यराजदसितागुरुपङ्कदिग्ध-
पत्त्रावलीविरचनाशबलं कपोलम्।
आलोलकुण्डलशिखरुणरत्नदीप-
निष्ठ्यूतकज्जलविप्तमिवाञ्चितभ्रूः ॥ 23.22
भाति स्म पर्युषितकेसरपुष्पपाण्डु-
गण्डस्थलीविरचितागुरुपत्त्रलेखा।
वामभ्रुवो रजतभित्तिविलग्नकाल-
वल्लीविलासमसमानगुणं वहन्ती ॥ 23.23
तिर्यक्कृताननहिमांशुकरालहस्त-
शाखानखांशुभरसान्द्रतरप्रकाशम् ।
सुभ्रूरराजत विलम्बिनि कर्णपाशे
माणिक्यकुण्डलमुदंशु निवेशयन्ती ॥ 23.24
लावण्यकान्तिविसरामृतवाञ्छयेव
बिभ्रत्सुधानिकरनिर्भरतामपीन्दुः।
छायाछलेन निपपात वधूकपोले
संतोषवान्भवति को गुणवान्गुणेषु ॥ 23.25
संशिक्षतां ललितविभ्रमयचेष्टितानि
पारिप्लवक्षणगतानि मृगोऽङ्गनायाः।
इत्यादरादिव शशी प्रतिमाछलेन
स्वच्छे कपोलफलके वसतिं चकार ॥ 23.26
लावण्यकान्तिसलिलस्रुतिधौतलक्ष्म-
लेखः कपोलफलके प्रतिमानिषण्णः।
अक्षुण्णमेव विबभौ हरिणेन मुक्त-
मध्यस्तनोः श्रवणपाशभयादिवेन्दुः ॥ 23.27
श्यामीकृते निपतता नवलोध्ररेणु-
भस्मोत्करेण परिमार्जनवाच्छयारात्।
कंदर्पदर्पण इवेन्दुकराः पुरंध्रि-
गण्डस्थले कमलकान्तिमुषो निपेतुः ॥ 23.28
आलोक्यतोन्नतपयोधरप्टष्टभाग-
बिम्बागतश्रवणकाञ्चनकुण्डलैका।
सज्जीकृतप्रकटचक्रचतुष्टयाङ्क-
संचारिपुष्पशरकम्बलिवाह्यकश्रीः ॥ 23.29
एकां पिनद्धनिरुपप्लवचन्द्रबिम्ब-
विस्तारसालिशुचिदीधितिशङ्कपत्राम्
बिभ्रत्यराजदपरा तरुणी विटङ्क-
ताटङ्कमङ्किततलां श्रवणाग्रपालीम् ॥ 23.30
स्थूलेन्द्रनीलदरदन्तुरमध्यभाग-
मुक्ताफलग्रथितविभ्रमकर्णपूरा।
शोभां बभार रमणी निभृतद्विरेफ-
कल्माषितस्तबककोमलकल्पवल्ल्याः ॥ 23.31
कान्तिप्रकर्षमनपेक्ष्य परात्मतत्त्वं
हर्तुं प्रगल्भत इदं जलसंगमेषु।
इत्थं रुषेव रुरुधे निजसंनिवेश-
भूमिर्दृशायतदृशः श्रवणोत्पलस्य ॥ 23.32
पारिप्लवस्फुरिततारकचक्रवाल-
नीलोत्पलस्फुटतरत्विषि दीर्घिकायाम्।
विस्पष्टमञ्जनरजश्छटया द्विरेफ-
पङ्क्त्येव पक्ष्मलदृशो दृशि संनिपेते ॥ 23.33
भ्रुलेखया कुटिलपक्ष्मदृशः शलाका-
न्यस्ताञ्जनाधिकविलीनरुचा व्यरोचि।
कर्णाश्रितोत्पलगलन्मकरन्दपान-
लोभादिवोपगतया मधुपायिपङ्क्त्या ॥ 23.34
चक्रे ललाटभुवमिन्दुमुखीजनस्य
कस्तूरिकातिलकबिन्दुरमन्दशोभाम्।
संचारिपुष्पशरकुञ्जरपादचक्र-
मुद्रानिवेश इव कर्दमधूसरश्रीः ॥ 23.35
दोलायमानचटुलातिलकं ललाट-
पट्टं ललामललितश्रियमुद्वहन्ती।
एकीभवत्सुरशरासनशीतरश्मि-
खण्डाङ्कितामनुचकार दिवं नतभ्रूः ॥ 23.36
नैशान्धकारनिकरेण सहाविरुद्ध-
मेकत्र साधु यदि संनिविशेत तेजः।
बद्धास्पदा मृगदृशः शशिलेखया त-
दासादयेत्सदृशतां कचहस्तभूमिः ॥ 23.37
उद्धूतधूलिमकरन्दकणार्द्रमुक्त-
निद्रस्फुरद्वलनपुञ्चितचारुपुष्पाः।
उत्सृष्टदैर्ध्यघटनाः कबरीषु गाढ-
बन्धाः पुरंध्रिभिरवत्सत चारु शेषाः ॥ 23.38
गन्तुं प्रियान्तिकमथो रभसेन केश-
संस्कारधूमनिकरं करबोरवस्ताः।
शीतांशुदीधितिशिखादलितं विरेजु-
रुत्पादयन्त्य इव शार्वरमन्दकारम् ॥ 23.39
लावण्यकान्तिकलुषीकरणाय तासा-
मालीजनेन रचितः परमङ्गरागः।
स्थैर्य जगाम दयितागमभावनोत्थ-
घर्माचितेषु न चिरादपि विग्रहेषु ॥ 23.40
लक्ष्यीकृतं स्मृतिभुवा बिभरांचकार
शोभां वपुः सरसकुङ्कुमकर्दमाङ्कम्।
निर्मुक्तपुष्पशरकेशरसान्द्रधूलि-
संपातपिङ्गितमिवाधिकमङ्गनायाः ॥ 23.41
विन्यस्य भूषणशतानि मुधैव देह-
कान्तिः कुशेशयदृशा कलुषीकृतेयम्।
चारुभ्रुवः प्रतिमितिऽच्छकपोलभित्ति-
भागे गभस्तिभिरितीव जहास चन्द्रः ॥ 23.42
व्यक्ताङ्गरागघनसौरभबद्धवाञ्छ-
व्यावर्तनाकुलशिलीमुखचक्रवाला।
दुर्वारमार****तभयेन लोह-
वर्मान्तरालघटितेव रराज काचित् ॥ 23.43
जह्रुर्मनांसि सरलोन्नतचारुनासा
वंशाः पयोधरमृदङ्गभृतस्तरुण्यः।
दोलायमानमणिकुण्डलकांस्यतालाः
संगीतभूमय इव स्मरलासकस्य ॥ 23.44
शृङ्गरिणी धृतमदोज्ज्वलकालधौत-
कक्ष्या कलापकरपुष्करचारुशोभा।
भाति स्म कामकरिणीव पिनद्धहार-
नक्षत्रमालकुचकुम्भतटा वरोरूः ॥ 23.45
आह्लादहेतुनिरवद्यशरीरयष्टि-
लावण्यकान्तिकलुषीकरणेन तासाम्।
आसीत्कुशेशयदृशामयथार्थतैव
पर्यस्तभास्वररुचामपि भूषणानाम् ॥ 23.46
प्रेयोगृहागमनभावनयान्यचेताः
स्वच्छे धृते सवयसा गृहचन्द्रबिम्बे।
भूषाविशेषरचनासदसद्विवेक-
शून्यैव काचिदवलोकयति स्म वक्त्रम् ॥ 23.47
चित्रप्रसाधनपरिग्रहशोभिवक्त्र-
मालोक्य दर्पणतले मुहुरुच्छ्वसन्त्याः।
मत्वाभिसंदिमभिवल्लभधाम बद्ध-
राग ययावनुदितापि विदग्धदूती ॥ 23.48
एषा गतैव निबिरीसनितम्बबिम्ब-
भारेण पक्ष्मलदृशः क्रियते तु विघ्रः।
यान्त्या इतीव दयितान्तकमेणदृष्टे-
रग्ने जगाम गदितुं लघु चित्तवृत्तिः ॥ 23.49
श्रोत्राभिराममुपकल्प्य रसार्द्रवृत्ते-
रभ्येयुषो दयितवारिधरस्य शब्दम्।
रम्याभ्यचपद्यत विदूरभुवेव नार्या
पर्युच्छ्वसत्पुलकरत्नशलाकया श्रीः ॥ 23.50
प्रेयांशमीक्षितुमथेक्षणतारकस्य
दूरादपाङ्गपदवीमभिदावतोऽस्याः।
आनन्दबाष्पजलबिन्दुनिभेन सान्द्राः
स्वेदाम्बुशीकरकणा इव संनिपेतुः ॥ 23.51
काचिद्विकल्परचिताकृतिचित्तनाथ-
गाढोपगूहनरसस्रुतघर्मलेशैः।
लावण्यकान्तिजलमज्जनलग्नाबिन्दु-
वृन्दामिवाभृत तनुं स्फुटरोमहर्षाम् ॥ 23.52
भीता वधूरभिमुखं न शशाक भर्तु-
रुद्वीक्षितुं यदचिरोढतया कथंचित्।
प्टष्टागतस्य वदनं श्वसिताहतेऽथ
पस्यन्त्यदूयत तदस्फुटमात्मदर्शे ॥ 23.53
काचिद्विधूसरितकान्तिमधत्त दत्त-
दुःखासिकाधरमणिं चिरयत्यभीष्टे।
निःश्वासमारुतपरम्परयानुबन्धि-
रोषान्धकारकलुषीकृतयेव भिन्नम् ॥ 23.54
प्राप्तः सभीतिरसितागुरुपङ्कपत्त्र-
भङ्गामवैक्षत पुरंध्रिजनस्य कान्तः।
अन्तर्व्यलीकचकितः स्फुरणानुबन्धि-
मानाग्निधूमकलुषामिव गण्डलेखाम् ॥ 23.55
क्षी(ह्नी)णोऽपि मुग्धवदनेऽनुशयाप्तिहेतो-
र्वाच्यस्त्वया न खलु विप्रियमेष किंचित्।
स्पष्टागसि प्रियतमे सुदृशो न बाष्प-
स्तम्भो विरूक्षमभिधातुमदादितीव ॥ 23.56
कान्ते प्रणेमुषि कृतागसि तद्वतंस-
पुष्पाधिवाससुरभौ विबभौ तरुण्याः।
भ्राम्यन्मधुव्रतगणश्चरणारविन्द-
पार्श्वे मुहूर्तमसितोपलनूपुरश्रीः ॥ 23.57
संसक्तकज्जलकरेण विलोचनाम्बु-
पूरप्लवं प्रसभमुन्मृजता सरागम्।
हस्तीकृतः कृशतनोरभवत्प्रियेण
मानान्धकार इव रत्युपबोगविघ्नः ॥ 23.58
कृष्णायतानमितपार्श्वनितम्बचुम्बि-
वेणीलताननगतत्रिपताकपाणिः।
साचीकृतभ्रु विनिमीलितलोचनाथ
काचित्पुरः स्मररसात्कमितुर्जजृम्भे ॥ 23.59
अन्या पुनः सरभसोर्ध्वविविक्तभास्व-
दुत्तानकर्कटकरस्थितिबाहुयष्टिः।
उत्क्षिप्तमूलकुटिलीकृतकुञ्चितभ्रू-
लेखातरङ्गितकरालललाटपट्टा ॥ 23.60
प्रेङ्खन्नितम्बतटचुम्बिकरालकाल-
वेणीलतदोन्नमितपीनपयोधरश्रीः।
दीर्घीभवत्तमुतरोदरलुप्तपार्श्व-
भागा विवर्तवलनं वपुषश्चकार ॥ 23.61 ॥ (युगलकम्)
तासामपाङ्गपदवीव्यतिरिक्तनील-
तारत्विषो ललितवीक्षितविभ्रमेषु।
आवृत्तिपीतभरनिर्गतकज्जलौघ-
धूलिच्छटा इव दृशो दधति स्म लक्ष्मीम् ॥ 23.62
प्राप्ताः प्रदोषसमये स्फुरदिन्द्रनील-
कोषाभिरमशितितारकमण्डलाभिः।
दृग्भिः सविभ्रममपायिषतावधूत-
मानान्धकारमरविन्ददृशां युवानः ॥ 23.63
तासां दृशस्तरलतारकचक्रवाल-
पक्ष्मच्छटांशुशबलीकृतगण्डभागाः।
आचिक्षिपुः प्रियमनांसि झषावचूल-
लीलावशीकरणविभ्रमवर्तयस्ताः ॥ 23.64
प्रियतममवलोक्यापाश्रयादुत्पतन्त्याः
सरभसमपरस्याः पादमूले सलीलम्।
न्यपतदथ कराग्रादच्छरत्नात्मदर्शः
शशधर इव वक्त्रच्चायया निर्जितश्रीः ॥ 23.65
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये प्रसाधनवर्णनो नाम त्रयोविंशः सर्गः ।