.
हरविजयम्।
द्वाविंशः सर्गः।
इत्यर्धदेहरचितस्थितिमुत्तमाङ्ग-
गङ्गाभ्यसूयनपरां गिरिशस्य गौरीम्।
नाथोऽधिगम्य सरीतामथ चन्द्रधाम-
संमूर्छितः क्रुध इव क्षुभितस्तदासीत् ॥ 22.1
उत्पल्लुत्य दूरमनुवव्रजुषा मृगाङ्क-
मङ्कादिवाभ्रपदवीमवगाहमानम्।
स्वस्थान एव परिवृत्तिजुषा मूहूर्त-
मम्भोधिना स्तिमितशान्तजलेन तस्थे ॥ 22.2
तावद्विधाय जलधिः स्तिमितामवस्था-
मुन्मीलितानुकृतलोचनरत्नशुक्तिः।
श्च्योतत्सुधार्द्रशिशिरांशुकरावमर्श-
विश्लिष्टशेषविषमूर्छ इवोदतिष्ठत् ॥ 22.3
तारापथं सपदि शिश्रयिषः सलील-
मर्धेन योजयितुमिच्छुरिवामृतांशोः।
उल्लासिवीचिफलकप्रबिम्बितं स-
दभ्युत्ससर्ज पयसां पतिरञ्जसार्धम् ॥ 22.4
उन्नम्रमीनमकरप्रकारवचूल-
कल्लोलकेतुगजवाजिसमाकुलं सत्।
अत्यौर्ववह्नमगमज्जलधेरमन्द-
मास्कन्ददानरभसादिव तोयसैन्यम् ॥ 22.5
अन्तर्गतौर्वविषवह्निशिखाभितप्ता
रत्नोज्जवलाः शितिरुचो ववलुः पयोधौ।
कल्लोलभोगिपतयः परिरब्धशीत-
सच्छायचन्द्रकरचन्दनशाखिवृन्दाः ॥ 22.6
अभ्युत्थितेन रभसोर्ध्वतरङ्गबाहु-
संछादिताम्बरतलं क्षितिप्टष्ठपीठे।
अस्रंसि रत्ननिधिनानधिजग्मुषात्र
सिन्धूपगूहनसुखं सशुचेव दूरात् ॥ 22.7
अन्तःस्फुरद्विकटविद्रुमदण्डनिर्य-
च्छायानुविद्धमुदधेः शरदभ्रभासः।
आवर्तमम्डलमराजत मुक्तनिद्र-
रक्ताम्बुजं मधुरिपोरिव नाभिचक्रम् ॥ 22.8
मध्याधिरूढसकलप्रतिमागतेन्दु-
बिम्बस्फुरद्विकटरत्नविटङ्कपीठा।
अध्यम्बुराशि रचिता जलदेवताभि-
र्दोलेव राजतितरां स्म तरङ्गलेखा ॥ 22.9
नीहारगौररुचिभिर्मकराकरस्य
तारागणैरधिजलं प्रतिमानिषण्णैः।
दध्रे तरङ्गभुजदण्डदृढोपगूढ-
ज्योत्स्नानिदाघजलशीकरबिन्दुलक्ष्मीः ॥ 22.10
छायागताविकलनूतनचन्द्रबिम्ब-
विस्पष्टचक्रघटनं क्षुभितस्य सिन्धोः।
मुक्ताम्बरं निपतति स्म विनीलकान्ति
दैत्याधिपस्य भुजवृन्दमिवोर्मिजालम् ॥ 22.11
चक्रेऽङ्कगामरनदीशुचिहारगौर-
कल्लोलपीवरपयोधरप्टष्ठभाजः।
वीचीकरैर्जलनिधिः फणिफूत्कृताग्नि-
धूमच्छटासितनवागुरुपत्त्रवल्लीः ॥ 22.12
पारिप्लवोर्ध्ववलितातनुरत्नकम्बु-
सावर्तचक्रकरवर्तनवीचिबाहुः।
वेलाङ्गना विलुलिताञ्जननीलनाग-
वेणीलताश्चिरमनर्तयतेव सिन्धुः ॥ 22.13
व्यक्तं रसातलमुखं क्षणमुद्वहन्ती
निःशेषनेत्रकुमुदोत्सवहेतुमिन्दुम्।
द्रष्टुं कुतूहलवशादिव नागलोक-
लक्ष्मीर्व्युदास जलराशिजलोत्तरीयम् ॥ 22.14
वेलानिलाहतिविजर्जरितस्य सिन्धोः
प्रत्यग्ररत्नकुसुमस्तबकान्यमन्दम्।
कल्लोलकम्प्रतनुकाननमण्डलानि
भस्मीचकार वडवामुखसंक्षयाग्निः ॥ 22.15
प्रेङ्खत्प्रवालवलयारुणमिन्दुमौलि-
पर्यस्तलग्नविशिखाग्निशिखासहस्रम्।
सिन्धोः पुरत्रयमिव स्फुरदैन्द्रनील-
स्तम्भायतोर्मि नभसः सलिलं न्यपप्तत् ॥ 22.16
वैमानिकामरवधूर्गगने तरङ्गैः
क्षिप्ताः सरागमवलोक्य पयोमनुष्याः।
अध्यौर्ववह्नि तदलाभविजृम्भमाण-
शोका इवाशु जलधौ ददति स्म झम्पाम् ॥ 22.17
क्षिप्तास्तथोर्ध्वमुदधेस्तरलैस्तरङ्ग-
भङ्गैः प्लवाः सह विमानगणैर्विचेरुः।
आलोक्य सस्पृहममीषु यथा सुरस्त्रीः
सांयात्रिकाश्च्युतिममंसत नाकधाम्नः ॥ 22.18
गर्भीकृतस्फुरितविद्रुमताम्रतोय-
तालूनि रेजुरुदधेर्विवृतानि पातुम्।
तालूरमण्डलमुखान्यसमौर्वताप-
तृष्णावशादिव निशाकरचन्द्रिकाम्भः ॥ 22.19
अभ्रंकषैः स्फुटमलैर्जलधिस्तरङ्ग-
भङ्गेषु शीतकिरणस्य बभार बिम्बैः।
श्यामाङ्गनाजनकृतास्पदचारुरत्न-
वातायनासितशिलाचितहर्म्यलीलाम् ॥ 22.20
प्राप्ते विवृद्धिमुदधौ स्फुटफेनहास-
सिन्धुप्रभाधवलकञ्चुकपूर्णपात्रम्।
वेलाङ्गनाः फणभृतां तरसापजह्रु-
र्जिह्मप्रवालनिकराङ्गुलिकोटिकृष्टम् ॥ 22.21
आलोक्यतोद्धतपरस्परसंप्रहार-
कण्डूयनाकुलभुजैर्मुखरागलक्ष्मीः।
संसक्तशङ्खशकलत्सरुवीचिभङ्ग-
खड्गोदरेष्वधिपयोधि पयोमनुष्यैः ॥ 22.22
अभ्युद्धृतप्रचुररत्ननिधानकुम्भ-
गम्भीरगर्तनिकरैरिव सिन्धुराभात्।
आवर्तमण्डलशतैःक प्रसभापविद्ध-
पर्यन्तवर्तिभुजगायसशृङ्खलौर्घैः ॥ 22.23
काश्मीरकेसरपरागरुचिर्व्यलोकि
लोकेन शीतकिरणस्य निशामुखे यत्।
तद्धाव्यमानमिव नीरनिधेरुदग्र-
वीचिच्छटाभिरभवत्परिपाण्डु बिम्बम् ॥ 22.24
अभ्रंकषक्षुभितसिन्धुतरङ्गभङ्ग-
धौतान्मृगाङ्कवपुषोऽविरलं गलद्भिः।
फुल्लानि कैरवकुलानि कलङ्कबिन्दु-
वृन्दौरिवालिवलयैः शबलीबभूवुः ॥ 22.25
कल्लोलचक्रमुददेस्तटशैलसानु-
निर्धौतधातुरसारञ्जितमाबभासे।
प्रातः समुन्मिषदनूरुकरातपाङ्क-
मभ्रंकषं शिखरजालमिवाश्मधाम्नः ॥ 22.26
हेलाविदारिततटाचलदैत्यवप्र-
वक्षःस्थलप्रकटशुक्तिनखोर्मिहस्तः।
सिन्धुर्नृसिंह इव तारविराववृत्ति-
रुद्धूतवाडवकृशानुशिखासटोऽभूत् ॥ 22.27
भाति स्म गर्भगिरिकाञ्चनकूटकोटि-
निर्यन्मयूखनिकुरम्बकरम्ब्यमाणम्।
मायाशयालुमधुसूदननाभिपद्म-
वर्यस्तकेसरसहस्रमिवाम्बु सिन्धोः ॥ 22.28
विभ्राजिरे जलनिधेर्भुजगोत्तमाङ्ग-
माणिक्यखण्डकिरणच्छुरितास्तदानीम्।
तीरेषु लग्नवडवाग्निशिखास्तरङ्ग-
भङ्गाः पलायनपरायणतामिवाप्ताः ॥ 22.29
सिन्धोरुदीयुषि हिमत्विषि चन्द्रकान्त-
विष्यन्दिवारिभिरिवाहितवृद्धियोगाः।
आस्फालनेन तटशैलशिलातलेषु
पस्फायिरे स्फुरितरत्नरुचस्तरङ्गाः ॥ 22.30
भोगीन्द्रभोगविनिषण्णतनोस्तदानीं
प्रत्यक्षमेव भुजगाशनकेतनस्य।
भस्मीचकार मकराकरमौर्ववह्निः
शक्तोन न रक्षितुमिहापदि कोऽपि कंचित् ॥ 22.31
लक्ष्मच्छलभ्रमरमण्डलशारतार-
भासा शशिप्रतिमयोत्थितया चकाशे।
पर्यन्तघूर्णिततरङ्गपलाशजाल-
तालूरतामरसकर्णिकयार्णवश्रीः ॥ 22.32
ज्वालाजटालवडवलामुखवह्निसान्द्र-
धूमाभिघातघटनव्यथितैरिवाच्छाम्।
मुक्ताफलाश्रुकणसंततिमुत्ससर्ज
विस्तारिभिर्जलनिधिर्मणिशुक्तिनेत्रैः ॥ 22.33
प्रत्यग्रशोणमणिदीधितिचक्रवाल-
गण्डूषशीधुविसराः पुलिनानि सस्रुः।
अप्रौढतीरवनकेसरशाखिखण्ड-
सेकक्रियार्थमिव सिन्धुतरङ्गलेखाः ॥ 22.34
ऊहुः प्रवालविटपाङ्कुरकोटिभाग-
लग्ना विलोलवडवानलधूमदिग्धाः।
शङ्काः करालडजलवीचिषु ताम्रनाल-
नीलारविन्दमुकुलश्रियमम्बुधाम्रः ॥ 22.35
चक्रुः स्थिता नभसि कूर्मकुटीरकस्य
किर्मीरिताः फणिफणामणिरश्मिरागैः।
सौदामिनीशबलिताम्बुदवृन्दमोह-
विद्राणहंसविसरं तटमूर्मिभङ्गाः ॥ 2.36
स्थूलस्फुलिङ्गनिकरारुणरागपुष्प-
शारीकृताः पवनवेगवितन्यमानाः।
लक्ष्मीं दधुर्जलनिधेर्वडवाग्निधूम-
लेखास्तदङ्कसरितामिव दिर्घवेण्यः ॥ 22.37
काकोलकण्ठरुचिभिर्विकसत्कराल-
रत्नाङ्कशीकरकणैः सदृशीभवद्भिः।
प्रेङ्खोलितैर्दिवि निजुह्रुविरे तरङ्ग-
भङ्गैर्भुजंगपतयः क्षुभितस्य सिन्धोः ॥ 22.38
विस्तारिभिः स्फुरितरत्नमरीचिराग-
धातुच्छटाशबलितैस्तरसा तरङ्गैः।
प्रेङ्खद्भिरम्बरमतस्तरदम्बुराशि-
रुच्छ्रायमाप्य शिखरैरिव विन्ध्यशैलः ॥ 22.39
वीचीविघट्टनविकीर्णविलोलशुक्ति-
र्मुक्तांशुभिर्मकरकेतुरवाप लक्ष्मीम्।
संचारवर्त्मभिरिवाभिनवोत्थितस्य
शीतत्विषः प्रमथनाथकिरीटधाम्नः ॥ 22.40
अभ्याहतानिव विघूर्णितमन्दराद्रि-
सानुच्युतैर्निशितकोटिभिरश्मकूटैः।
उच्छ्रासलक्ष्यरुधिरस्रुतिताम्रराग-
च्छेदाज्झषा जलनिधौ दधति स्म कण्ठान् ॥ 22.41
व्यातेनुषीभिरभितः स्फुटफेनहास-
लक्ष्मीं रराज जलधिः सरिदङ्गनाभिः।
पश्चादुपेत्य परिहासविधत्सयेव
कल्लोलपाणिपिहितातनुशुक्तिनेत्रः ॥ 22.42
मन्दीकृतस्य शिखिनो जठरास्पदस्य
तोयातिपानवशतः प्टथुवीचिहस्तैः।
उत्तेजनार्थमिव तीरवनान्तराल-
तालीसचूर्णनिकरं विचकर्ष सिन्धुः ॥ 22.43
उज्जृम्भिताविरलवेपथवोऽधिजग्मु-
रासज्यमानविरकटोत्कलिकानुबन्धाः।
अभ्युल्लसन्मकरकेतुशराभिघात-
क्रोडीकृतास्तटभुवो भृशमाकुलत्वम् ॥ 22.44
यस्योदयाधिगम एव कुलाद्रितुङ्ग-
भङ्गीशतैः श्रियमवाप विशेषगुर्वीम्।
तस्य प्रमार्ष्टुमिव बिम्बकलङ्कमिन्दो-
रम्भोदवर्त्म जलधिस्तरसा जगाहे ॥ 22.45
चन्द्रावदातरुचयो जलधेर्विरेजु-
रुज्जृम्भिता दिशि दिशि स्फुटफेनपाल्यः।
प्रेङ्खत्तरङ्गभुजगाधिपदीर्घमोग-
निर्मुक्तकञ्चुककलापपुलाकशोभाः ॥ 22.46
संक्षोभमादधतमुद्धतवीचिचाप-
मौर्वीनिरर्गलशरस्थितिमौर्ववह्नेः।
गौरीपतेरिव विलोचनमूर्ध्वसंस्थ-
मोषांचकार मकरध्वजमिद्धमर्चिः ॥ 22.47
उद्दामवाडवकृशानुशिखासहस्र-
तापानुबन्धशमनार्थमिवोर्मिहस्तैः।
नीता नदीभिररुचज्झषकेतनस्य
फेनच्चटारुचिरचन्दनपङ्कचर्चा ॥ 22.48
अभ्युत्पत्सरभसं सुरचक्रपीत-
शेषोदरस्थमदिराव्यतिषङ्गहेतोः।
मुक्ताम्बरं निपतति स्म तरङ्गजाल-
मुज्जृम्भमाणमदमोहमिवाम्बुधाम्नः ॥ 22.49
निःशेषलोकनयनोत्सवहेतुमेक-
मालोक्य चन्द्रमिव संभृतगाढतोषः।
अम्भोनिधिर्गलितमौक्तिकबाष्पबिन्दु-
संदोहशारशुचिशुक्तिविलोचनोऽभूत् ॥ 22.50
सिन्धोश्चकासतितरां स्म मणिप्रकाण्ड-
रश्मिच्छटाविसरविच्छुरितास्तदानीम्।
हर्तुं रसातलतमांसि गृहीतदीप्र-
दीपा इव प्रतिदिशं पृथुवीचिहस्ताः ॥ 22.51
तारापथं चतुरपातसमीरवेग-
धूता तथोदपतदम्बुधिवीचिपङ्क्तिः।
तन्मध्यवर्तिभिरलाभि यथा मुहूर्त-
माराद्ग्रहैस्तरलबुद्बुदवृन्दलक्ष्मीः ॥ 22.52
कल्लोलपङ्क्तिभिरथोरगफूत्कृताग्नि-
धूमच्छटाशबलिताभिरपाति नाकात्।
बिम्बं तुषारकिरणस्य दधावुषीभि-
रालग्नतद्गतमलाभिरिवाम्बुराशेः ॥ 22.53
और्वाग्निदाहमनपेक्ष्य रसानुबन्ध-
भाजो जवाद्विविशुषीः ककुभां मुखेभ्यः।
सिन्धुश्चकार तरसा सरितः पराचीः
स्निग्धेऽपि जातु न जडस्य भवत्यपेक्षा ॥ 22.54
अन्तस्थशेषफणमण्डलफूत्कृतोत्थ-
निःश्वासवातवशतो नु सरत्नरागाः।
सिन्धोरवर्धिषत धौतदिशः शशाङ्क-
धामावमर्शजनितास्तरसा तरङ्गाः ॥ 22.55
संक्षोभमागतवतः प्रसरत्तरङ्ग-
भङ्गोत्थितं क्रमविशङ्कंटमम्बुराशेः।
तालूरमण्डलमधत्त कुलालचक्र-
निर्वर्त्यमामनपरिणाहिशरावलीलाम् ॥ 22.56
वेलापर्यस्तकुक्षिप्रकरविगलितस्थूलमुक्ताफलाच्छ-
ज्योत्स्नालोकोपलिप्तग्रहमणिशबलव्योमवीथीविलग्नाः।
तस्थुः सिन्धोस्तरङ्गाः क्षणमतनुशिखशेखरौर्वानलार्चि-
स्तापप्लोषप्रशान्त्यै शिशिरशशधरस्पर्शतर्षादिवोर्ध्वम् ॥ 22.57
वितन्वन्तो लक्ष्मीमविरलदरीदत्तघटनां
स्फुरद्रत्नच्छायारुचिरतटवल्लीवनभुवः।
विरेजुः कल्लोलाः क्षितिभृत इव व्यालवसतिं
विहायोत्तिष्ठन्तः क्षुभितजलजालस्य जलधेः ॥ 22.58
संध्यानृत्तानुबन्धद्रुतरयशिथिलग्रन्थिनिर्मुक्तमध्यं
स्थाणोर्वैयाघ्रमारादजिनमिव भुवि स्रंसमानं विरेजे।
वज्रत्रासाकुलान्तःश्रितशिखरिकचत्काञ्चनाधित्यकोर्वी-
निष्ठ्यूताभीषुवंशवव्यतिकरशबलच्छायमम्भोऽम्बुराशेः ॥ 22.59
धुततटगिरिधातुव्रातधूलिच्छटाभि-
श्छुरितप्टथुमुखानां सिन्धुरम्भोगजानाम्।
द्रुतमकृत शिरःसु क्वच्छनक्षत्रमाला-
श्रियमतनुतरङ्गक्षिप्तरत्नावलीभिः ॥ 22.60
क्षिप्त्वा तीरेष्वनर्घान्ग्लपितशशिरुचः संचयांस्तान्मणीनां
तच्चोन्मूल्यानुकूलं सरसफलभृतां मण्डलं पादपानाम्।
दूरारूढा निपेतुर्जलधिजलरयास्तत्क्षणं वाडवाग्नौ
के वा न प्राप्नुवन्ति व्यसनमुपगता विक्रियां जाड्यहेतोः ॥ 22.61
आदायौर्वानलकवलितं शङ्खचूर्णं चदानी-
माकर्षन्तस्तटवनभुवो नागवल्लीदलौघान्।
भग्नानेकक्रमुकशकल(खदिर) ग्रन्थयो वीचिभङ्गा-
स्ताम्बूलस्य स्थितिमविकलां चक्रुरब्धे (रिन्दो) रिवेत्थम् ॥ 22.62
प्राप्तः कामप्याभिख्यां यदुदयसमयारब्धवेलाविजृम्भा-
संभारोद्दामिताम्भः कुलगिरिखइखरश्रेणितुङ्गैस्तरङ्गैः।
तस्याशक्तः प्रमार्ष्टुं मलममृतरुचो नक्तमङ्कोत्थितस्य
स्थाने धूमायमानं हृदयमिव दधौ सिन्धुरौर्वानलार्चिः ॥ 22.63
संभोगेद्दामलीलारसरभसहसद्वक्त्रचन्द्राः पुरंध्रीः
कुर्वाणस्यापराधस्मृतिविमुखधियो वल्लभेष्वस्तमानाः।
कंदर्पस्येव केतुं समकरमुदधिर्वीचिदण्डं जलौघ-
क्षोभाविर्भाविघोषस्फुटजयपटहारावरम्यं व्युदासे ॥ 22.64
प्रतिककुभं गवाक्षघटिता विकासिकुमुदक्षियं विदधतः
स्फुटतरमैन्दवानरहिता गृहीतविकटद्रुमाद्रिशिखराः।
पुनरपि सेतुरभसाद्वलीमुखगणा इवाशुकिरणाः
सकलमचुक्षुभन्पतिमपां विकीर्णनवरत्नशारपुलिनम् ॥ 22.65
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये समुद्रोल्लासवर्णनो नाम द्वाविंशः सर्गः।