.
हरविजयम्।
एकविंशः सर्गः।
स्थितोऽथ सौधोन्नतचन्द्रिशालिकातले विभुः क्लृपब्तमहार्घसंस्तरे।
इति प्रियामङ्कगतामभाषत क्षपाकरस्य श्रियमीक्ष्य हारिणीम् ॥ 21.1
इतोऽधुनाविष्कृतलक्ष्म लक्ष्यतां निशाकरस्योत्थितमत्रिलोचनात्।
विभाति तन्वङ्गि तदीयतारकत्विषावलीढोदरवर्त्म मण्डलम् ॥ 21.2
विधित्सुना केलिमिवोदयश्रिता निजपर्रबाकुङ्कुमवासमुष्टिभिः।
पराहतं पक्ष्मलमेणलक्ष्मणा निमीलयत्यम्बुजनेत्रमब्जिनी ॥ 21.3
स्फुटं परसेकपराङ्भुखात्मनः स्तिरा विभूतिर्विमलस्य जायते।
स्तितं जगद्व्याप्य तथाहि तामसं नताङ्गि निःशेषितमेतदिन्दुना ॥ 21.4
असौ शशाङ्कः कुरुते समुन्नताः कुमुद्वतीनां कुमुदस्तनावलीः।
निजप्रभाहरलताविभूषणा षडङ्घ्रिकालागुरुपत्त्रभङ्गिनीः ॥ 21.5
विगाढतोयः प्रतिमाछलादसौ नवोऽरुणत्वं गमितो नु चन्द्रमाः ।
मधुच्छटाशीकरवारिवर्षिभिः कुमुद्वतीकैरवहस्तसंपुटैः ॥ 21.6
दधत्यमूर्मीलितपङ्कजेक्षणाः क्षणादवश्यायकणैः करालिताः।
कुसेशायिन्यो दयितार्कभावनासमुच्छलस्वेदजला इव श्रियम् ॥ 21.7
निशाकृता बिम्बमुखेन पाटलप्रभासवं प्रत्तमसौ कुमुद्वती।
अपावृतोत्तानितकैरवानना चिरं नतभ्रूः पिबतीव सस्पृहम् ॥ 21.8
विदार्य दंष्ट्राङ्कुरकोमलत्विषा निशान्धकाराद्रिकुलं स्वलेखया।
बिभर्त्यसावागदिवरावहविभ्रमं सदा तु लक्ष्मोद्वहनेन चन्द्रमाः ॥ 21.9
अनेन ते पूर्णकपोलभित्तिना क एव वक्त्रेण कृशोदरि स्मयः।
बिभर्ति लक्ष्मीं प्रतिमासमुत्थितं निशाकरस्येदृशमेव मण्डलम् ॥ 21.10
मृणालिनीनिन्दोः स्पृशतः करैः क्रुधा विवर्तयन्तीव कुशेशयाननम्।
बिभर्ति पृष्ठागदतया गृतक्षियं द्विरेफवेणीलतयाम्बुजस्तनम् ॥ 21.11
स्फुटं पतन्ती शशीचन्द्रिकाम्बुधौ निशागमेऽपीयत शुक्तिसंपुटैः।
कुतो नु ताम्भोऽम्बुदमुक्तवारिणो विपाण्डुमुक्ताफलसंभवोऽन्यथा ॥ 21.12
निशाकरे केसरधूलिकुङ्कुमच्छटापिशङ्गग्रकरे विशेषकम्।
विधित्सतीव श्लथभृङ्गमण्डलीभ्रुवा स्तितं कैरवकाननश्रिया ॥ 21.13
कुमुद्वती कैरवहस्तमुच्छ्वसद्दलाङ्गुलीकं श्रियमेति बिभ्रती।
अवाप्तपार्श्वस्थितभृङ्गमण्डलीकृतावनद्धासितकम्बुविभ्रमम् ॥ 21.14
अधिक्षपं लक्षितकामिनीमनो मनोभवस्य क्षिपतः शिलीमुखान्।
तदीयपक्षावलिसंभृता इव क्रमेण शीताः प्रसरन्ति मारुताः ॥ 21.15
शिलीमुखैः शेखरसौरभाहृतैर्भ्रमद्भिरेतयोपरि बद्धमण्डलम्।
श्रियं चिकीर्षद्भिरिवाभिसारिकाः स्चकान्तवेश्म श्थगिताः प्रयान्त्यमूः ॥ 21.16
व्यधायि संकोचविधूसरेन्दुना किमित्यसौ स्वादुरसापि पद्मिनी।
इतीव तं निन्दति षट्पदः स्वनैः सदानुकूले हि जनोऽनुरज्यते ॥ 21.17
कुमुद्वतीनां प्रतिबिम्बितां जले विजिह्मवीचिश्रुतिपाशमध्यगाम्।
अदः स्फुरन्मण्डलङ्खपत्त्रतां बिभर्ति सुश्रोणि मृगाङ्कमण्डलम् ॥ 21.18
मृणालिनीनां निबिडाकृतारुणच्छदाङ्गुलीदन्तुरचारुकोटिभिः।
पिनह्यतेऽम्भोरुहपादमण्डलैर्द्विरेफमालामणिनूपरावलिः॥ 21.19
कुमुद्वतीभिर्मकरन्दकुङ्कमच्छटापिशङ्गाम्बुविपूरितोदरः।
सविभ्रमं कैरवशृकोत्करः क्षपाकरं हन्तुमिव व्युदस्यते ॥ 21.20
नभःसमुद्रोदरफेनसंहतिर्नगेन्द्रनागाधिपभूतिचर्चिका।
निशीथिनीकल्पलतांशुकावलिर्निशाकरस्य श्रियमेति चन्द्रिका ॥ 21.21
इति स्मरोद्दीपिनि चन्द्रशेवरे विभुर्विवृत्ते समय स्वसंनिभे।
हिमाद्रिकन्यामभिधाय सादरं स सांध्यवेलाविधितत्परोऽभवत् ॥ 21.22
अवन्दतानन्दितमानसस्ततस्तनुं स संध्यामरविन्दजन्मनः।
मुरारिनाभीह्रपदद्मविष्टरप्रकीर्णरेणुच्छुरणादिवारुणाम् ॥ 21.23
अपावृतौष्ठान्तरलब्धनिर्गमैर्जपक्रियायां दशानांशुमण्डलैः।
बभौ शिरश्छिद्रपथप्रवेशिभिः सुरस्रवन्त्या इव धूर्जटिर्जलैः ॥ 21.24
उदग्रनासाविनिविष्टचक्षुषः पिशङ्गपक्ष्मावलिमेलनक्रमात्।
सरोचनारेखमिवास्य वह्निमल्ललाटपट्टं विदधे विलोचनम् ॥ 21.25
निबध्धपद्मासनपादपङ्कजस्फुटारुणोत्तानतलप्रवर्तितैः।
विलुप्यमानातनुकण्ठमण्डलप्रबान्धकारच्छविरंशुराशिभिः ॥ 21.26
अवाप्तनाभिव्यतिषङ्गविस्फुरत्प्रभारुणोत्तानकराम्बुजद्वयः।
स्थिरांसपीठः स समाधिगोचरं चिराय दध्यौ किमपीन्दुशेखरः ॥ 21.27 ॥ ( युगलकम्)
व्यतीतसंख्यातिगपङ्कंजासनव्यपाश्रयाम्भोरुहबीजनिर्मितम्।
निजाक्षसूत्रं निजमुद्रया जपन्करान्तरेणाब्जरुचं व्यवर्तयत् ॥ 21.28
विलोकयन्ती गिरिराजकन्यका तथा च तं ध्याननिमीलितेक्षणम्।
बभार संध्यातपरागपाटलामिवोन्मिषत्कोषायितां दृशम् ॥ 21.29
समन्युनिः श्वाससमीरणोष्मभिः कदर्थ्यमानारुणधूसराधरा।
द्विरेफमालाङ्कितमुग्धपल्लवांवसन्तलक्ष्मीमथ सा व्यडम्बयत् ॥ 21.30
समाप्तसंध्याविधिरीश्वरोऽपि तां विलोक्य कोपात्परिवृत्य तस्युषीम्।
रसार्द्रगर्भैर्बहुसान्त्यवनक्रमैः प्रसादयामास चिरेण सस्मितः । 21.31
मधूपनीतं जयया निशाकरप्रभावतंसं समायज्ञया ततः।
विनिद्रकल्पद्रुमसूनसंभवं क्रमादमुं पाययते स्म सस्मितः ॥ 21.32
कपोलभागेन सदारुणत्विषा जहार चेतः शशिशेखरस्य सा।
विपाकपिङ्गेन फलेन बिभ्रती लतेव रक्ताधरपल्लवा श्रियम् ॥ 21.33
तया वियुक्तां किल कोककामिनीं विलोकयन्त्या भवनाब्जिनीगताम्।
अयाच्यताशङ्कितविप्रयोगया शरीरभागस्थितिमिन्दुशेखरः ॥ 21.34
तया समं सोऽपि वियोगभीतिमान्न्यवेशयत्तां तनुसामिसीमनि।
प्रकर्षतः प्रेमगुणस्य नास्ति तन्न वल्लभस्य क्रियते यदीप्सितम् ॥ 21.35
कथं नु संध्यानतिषु प्रयोक्ष्यते करेण मे मत्सरखिन्नमञ्जलिः।
शिरःस्थगङ्गजलशीकरच्छटा तुषारशीतापि न मां न धक्ष्यति ॥ 21.36
इति प्रियस्यार्धशरीरसंस्थितौ क्षणं विकल्पाकुलमानसा सती।
बभूव तत्संश्रयकातरा पुनर्न गण्यते प्रेमणि दोषदूषणम् ॥ 21.37 ॥ (युगलकम्)
विमुक्तपार्श्वस्य भुजंगशेखरस्फुरत्कणाफूत्कृतकातरैरिव।
किरीटचन्द्रस्य मरीचिमण्डलैः पिशङ्गजूटान्तरपुञ्जितैः स्थितम् ॥ 21.38
विधुंतुदोपप्लुतभागविस्फुरन्नवार्कबिम्बोपममग्निपिङ्गलम्।
निलीनभागान्तरमिश्रमूर्ध्वगं विभाति चक्षुर्दधदर्धतारकम् ॥ 21.39
निवेशितस्यान्तरसीम्नि चक्षुषे निमिलितारालकरालपक्ष्मणः।
विधीयते भावनयैव तत्क्षणं प्रियाननाम्भोरुहदर्शनोत्सवः ॥ 21.40
ललाटलेखावलिभङ्गमुच्चकैः समासजन्त्यान्तरवर्त्मनि भ्रुवा।
मनोरथारूढहरेक्षणक्रिया सविभ्रमोत्क्षेपदशा निविद्यते ॥ 21.41
अपाङ्गभागं रभसादपाश्रितः सलीलमभ्यासवशेन तारकः।
अदृष्टकान्ताननकेदमन्थरं कथंचिदेवोत्कतयापि वर्तते ॥ 21.42
प्रसक्तताम्बूलकलङ्कधूसरां श्रियं दधत्याधरमध्यलेखया।
स्फुटेव मूर्तिद्वितयस्य पेशला विभागसीमा सरला विरच्यते ॥ 21.43
स्तनस्य रोमाञ्चभरावलम्बिनः शरीरभागं विशतोऽनुमीयते।
विलोचने मीलितपक्ष्मसंपुटे मनोरमस्पर्शसुखोदयोत्सवः ॥ 21.44
निषिद्धदेहार्धनिवेशविभ्रमं कृशात्वयोगं प्रति बद्धकोपया।
सभङ्गुरभ्रूलतयेव केवलं बलिच्छलान्मध्यभुवा व्यवस्तितम् ॥ 21. 45
मनोरमान्तर्विनिवेशनिर्वृतेरवाप्तविस्तारगुणोदयेऽधिकम्।
नितम्बभागे मणिमेखलागुणो भरेण विच्छिन्नगुणः पतत्यथः ॥ 21.46
इति प्रियस्याचलरराजकन्यया शरीरभागे कृतसंनिवेशया।
जगत्सु सौभाग्यगुणैर***गैर्व्यजीयताशेषनितम्बिनजिनः ॥ 21.47 ॥ (दशभिः कुलकम्)
एकत्र पन्नगमयी सजलाभ्रनील-
च्छाया कटीरकतटे कृतसंनिवेशा।
व्यावर्तिकण्ठकुहरास्पदकालकूट-
तोयाशयस्रुतिविलासमधत्त काञ्ची ॥ 21.48
शोभां बभार जघने ग्लपितान्धकार-
मन्यत्र रत्नरशना भधुरं रणन्ती।
लावण्यकान्तिसरसीपुलिनायमान-
विस्तारशालिजघनस्थलहंसपङ्क्तिः ॥ 21.49
अध्यूरु शीतकिरणाभरणस्य कान्तिं
कल्माषमाप मृगचर्म विषज्यमानम्।
बिभ्रत्किरीटशशिदर्शनबद्धराग-
ताराधृतागतसितेतरपक्ष्मलक्ष्मीम् ॥ 21.50
निसर्गसूक्ष्मच्छविशारमम्बरं विचित्रकाञ्चीगुणरत्नरश्मिमभिः।
विलग्रमन्यत्र स पञ्चरागतामिवोद्वहच्चारु तरङ्गितं बभौ ॥ 21.51
परस्परप्रेमविजुम्भितोऽनयोश्चिराय योगोऽस्तु शरीरभागयो।
दधौ तुलाकोटिकशिञ्टितच्छलादितीव गौरीचरणस्तदाशिषम् ॥ 21.52
नृत्यत्परिक्रमभरानतभूमिपीठ-
निष्पिष्टरत्नशिरसं खलु मा कृता माम्।
भस्मावगदात इति शेष इवेन्दुमौले-
र्भोगी बभौ कटकितश्चरणाग्रलग्रः ॥ 21.53
सेवागतामृतकरप्रतिबिम्बगर्भं
वक्षःस्थलार्धमभृतोन्नतमिन्दुमौलिः।
अन्तःप्रवेशपरिमण्डललक्ष्यमाण-
गौरीवपयोधरमिवाच्छतया परीतम् ॥ 21.54
संध्याहितोत्सवविकासमहीनकाञ्ची-
दामाभिराममनिशं विकटचाक्षवक्त्रम्।
लक्ष्मीमनुत्तमहिमांशुकलाञ्छितं स-
दाविश्चकार शिवयोर्वपुरित्यभिन्नम् ॥ 21.55
अन्योन्यमन्मथसुखानुभवानुबन्ध-
निःस्पन्दमीलितविलोचनयोस्तदानीम्।
चेष्टास्तयोरुदभवन्नविबिन्नचित्त-
संतानपर्यवसिता विनिबद्धवाचः ॥ 21.56
इति रसपोषयुक्तिमदनुज्झितवृत्ति गुणव्यपाश्रयं
प्रथितशुभाङ्गलक्षणमपूर्वकृतिप्रवणात्मतां दधत्।
कविरिव नाटकं घटितसंधि विधाय शसाङ्कशेखरः
शिखरिसुतार्धमर्धवपुषि प्रमदान्वितमानसोऽभवत् ॥ 21.57
इत्थं भूयो वियोगज्वरविसरदशोपप्लवच्छेदहेतोः
स्पष्टप्रेमानुबन्धं स्थितवति दयितादेहरत्नेन मिश्रे।
हर्षोत्कर्षान्निपेतुर्वपुषि पुररिपोरेकलक्ष्यास्तदानी-
माश्चर्योद्वृत्तताराः प्रविकसितपुटा दृष्टयः पार्षदानाम् ॥ 21.58
इसि श्रीबालबृहस्पत्यनुजीविनो वागीश्वरङ्कस्य विध्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये गौरीश्वरदेहार्धवर्णनो नामैकविंशः सर्गः।