.
हरविजयम्।
विंशः सर्गः।
लक्ष्मीं दधावुदयशैलतिरोहितेन्दु-
द्राधिष्टदीधितिशिखाभूजमञ्जरीका।
गौरच्छविः सुरपतेरथ दिवक्रमेण
नीलप्रभं तिमिरकञ्चुकमुत्क्षिपन्ती ॥ 20.1
उत्पित्सति स्म दिवमब्धिसरोवगाह-
ग्रस्तोच्छ्वसत्तिमिरशेवलवल्लरीका।
वेलाविकीर्णमणिशुक्तिशतच्छलेन
पोतैरिव व्यनुसृता शसीमूर्तिहंसी ॥ 20.2
गर्भाकृतौर्वविषमानलतापदाह-
मूर्छानुबन्धशमनोपकृतेन तेन।
तत्कालतालतरुतुङ्गतरोर्मिणेन्दु-
रन्वायि दूरमिव सस्पृहमब्धिनारात् ॥ 20.3
बिभ्रत्सलक्ष्म जलधेस्तलभागलग्न-
पङ्कच्छटाङ्कमिव बिम्बमनुष्णरश्मिः।
श्यामाकलिन्दतनयाजलबुद्बुदाच्छ-
तारागणस्तबकितं वियदारुरुक्षत् ॥ 20.4
विच्चायतामकृत यो मम भर्तुरिन्दो-
रंशुच्छटाभिरुदयन्नवधूय बिम्बम्।
पश्यामि भानुमुदधौ पतितं तमद्रि-
शृङ्गेष्वितीव नवचन्द्रिकयाध्यरोहि ॥ 20.5
तावत्तिरस्कृतकुशेशयखण्डकान्ति-
निःस्पन्दतारकनिशामुकवर्तिनीन्दोः।
विस्पष्टपाटलिम् शैलशिखाश्रिचुम्बि
संध्या सुधाविसरवर्षि लिलेह बिम्बम् ॥ 20.6
आक्षिप्ततामरसकाननचक्रवाल-
भाभिः क्रमादुदयशैलतिरोहितश्रीः।
इन्दुर्निशातिमिरमण्डलबाध्यमान-
माशिस्वसज्जगदिवोर्ध्वमुखैर्मयूखैः ॥ 20.7
भाति स्म पक्ष्मकुटिलोदयशैलशृङ्ग-
भागास्पदाभिनवकुङ्कुशीर्ण-
माणिक्यनेमिशकलाकृतिरिन्दुलेखा ॥ 20.8
रेजेतरामुदयशैलशिखाश्रिमुल-
लग्नाथ भग्नतिमिरा कुटिला कलेन्दोः।
रक्तारुणा नमुचिकण्ठविवर्तमान-
फेनच्छटावलयविभ्रममावहन्ती ॥ 20.9
विस्पष्टलक्ष्मशबलीकृतमध्यभाग-
विम्बार्धतामधिपतिर्दधदोषधीनाम्।
विष्यन्दिदानजलशीकरशारिताभ्र-
मातङ्गकर्णशिखराकृतिराविरासीत् ॥ 20.10
अप्सर्गविभ्रमभृति स्तिमितेऽन्धकार-
राशौ दिशः स्थागयति स्फुटपङ्कपीने।
उत्तिष्ठच्छ्वसितकुङ्कुमकोषगौर-
मालक्ष्यते स्म कनकाण्डण्डमिवेन्दुबिम्बम् ॥ 20.11
व्यक्तावचूलकलुषोदरमिन्दुबिम्ब-
माबद्धरागमुदयाद्रिगतं व्यराजत्।
संवादिनिर्गतविरिञ्चविमिन्नमध्य-
वैकुण्ठनाभिनालिनोत्थितबीजकोषम् ॥ 20. 12
आबद्धरागमुदगादुदयाद्रिमूर्ध्रि
नैसर्गिकीं धवलतामपहाय बिम्बम्।
निर्धूतकेसरपरागविलङ्घ्यमान-
निद्राविभुक्तकुमुदच्छदगौरमिन्दोः ॥ 20.13
चेतोहरस्फुरितकेसरदन्तहास-
मुद्वीक्षिताः कुमुदिनीभिरधिप्रदोषम्।
रेजुः कदर्थनभयादरविन्दवृन्द-
कान्त्याश्रिता इव नवोदितचन्द्रपादाः ॥ 20.14
विस्पष्टचिह्नमुदयाद्रिविटङ्ककूट-
संघट्टजर्जरतयेव सरन्ध्रमिन्दोः।
बिम्बं क्रमेण विगलन्नवसांध्यराग-
रक्तच्छटं नभसि पाण्डुरतामयासीत् ॥ 20.15
निद्राविमुक्तनवतिन्दुकपाण्डुभासि
बिम्बे प्रसुस्रुवुषि नाकनदीं हिमांशोः।
छाया श्रियं हरिणलक्ष्ममयी बभार
निर्यत्कलिन्दतयनाजलवेणिकाश्रीः ॥ 20.16
प्रत्यग्रलक्ष्ममलिनोदरकान्ति बिम्ब-
मिन्दुर्बभार नवकुन्ददलावदातम्।
वक्षो हलीव दृढधेनुकपश्चिमार्ध-
प्रेङ्खत्खुराग्रशिखरोल्लिखितव्रणाङ्कम् ॥ 20.17
लक्ष्मच्छलोपहितपीवरपङ्कपिण्ड-
कल्माषमध्यमतनुप्रतिबिम्बमिन्दोः।
लक्ष्मीं दधावधिजलं घटमानहारि-
रूपं भ्रमत्सरसि कालकुलालचक्रम् ॥ 20.18
कल्माषितं शशकलङ्कलवेन मध्य-
भागे बभार परिपाण्डुरमिन्दुबिम्बम्।
विस्रस्तमेचकगजाजिनपल्लवाग्र-
चन्द्रावतंसशुचिभस्मसितांसलीलाम् ॥ 20.19
भाति स्म मध्यघटितास्पदकालकूट-
सच्छायलाञ्छनरुचिः परिणाहिबिम्बः।
क्षीराम्बुराशिरिव मन्दरशैलमूल-
लीलाविवृत्तिपरिमण्डलितः शशाङ्कः ॥ 20.20
विस्पष्टचिह्नमचकादुदयाद्रिलग्र-
मालेख्याभित्तिफलकं स्मरदेवतायाः।
तद्विभ्रमाहितमषीमलपङ्कवर्ति-
विन्यस्तपत्त्रमकराङ्कमिवेन्दुबिम्बम् ॥ 20.21
अभ्राजतानिलविलोलितसांध्यराग-
पिङ्गीकृताभ्रशिखरक्षणलब्धसंस्थम्।
शीतांशुबिम्बमुरगाशननीयमान-
माणिक्यभासुरसुधाकलशाभिरामम् ॥ 20.22
प्रत्यग्रपक्षघटनेन निशावतार-
रामेषुणा सपदि वासरक्रौञ्चकुञ्जे।
निर्दारिते स्फुटमयुक्छदनच्छदाच्छा
निर्गच्छति स्म शशिदीधितिहंसपङ्क्तिः ॥ 20.23
और्वाग्निहेतिपरिमर्शविलीनमध्य-
भागो नु सिन्धुजठरादुदितः सलक्ष्मा।
कर्पूरचूर्णरुचिचारुमरीचिकुर्च-
निर्धौतादिक्कमरुचत्कठिनेतरार्चिः ॥ 20.24
उन्निद्रकुन्दधवलग्रहचक्रवाल-
पुष्पोत्करा भुवनकाननसीम्नि रेजे।
श्यामालता हरिणलक्ष्ममिषेण चन्द्र-
बिम्बालवालवलयादिव निष्पतन्ती ॥ 20.25
संवादमेष्यति ममागुरुपङ्कदिग्ध-
पत्त्रावलीशबलगण्डपुरंध्रिवक्त्रैः।
कल्माषितं किममुनापि न बिम्बमेत-
दुत्प्रेक्ष्य लाञ्छनमितीव बभार चन्द्रः ॥ 20.26
आश्रित्य शीतरुचिना सकलेन जाति-
सामान्यमुत्थितवता नयनान्महर्षेः।
आनन्दभारभरमन्थरता व्यधायि
तत्पक्षपातरभसादिव लोचटनानाम् ॥ 20.27
शिञ्जारवं सपदि मन्त्रमुदीरयन्स्वं
नक्तंमुखे विघटमानपलाशयन्त्रम्।
संरभ्य साधक इवात्तरसोपभोग-
मब्याविशत्कुमुदगर्भगृहं द्विरेफः ॥ 20.28
आपाण्डुदीधितिशिखानिकरावकीर्ण-
विस्तीर्णबिम्बपरिणाहतया हिमांशुः।
उन्मूलिताम्बरसरिज्जललकग्नपद्म-
नालावकीर्णसुरकुञ्जरविभ्रमोऽभूत् ॥ 20.29
क्षीरोदवीचिघवलैर्निजबिम्बभाग्भि-
रब्राजताभ्रसरणैः किरणैः शशाङ्कः।
संकोचनाभयमिवार्थयितुं सरोज-
खण्डस्य कोमलमृणालशतैर्विलग्नैः ॥ 20.30
लावण्यकान्तिपरिमृष्टकलङ्कलेख-
मप्राप्तपत्त्ररचनासु विलासिनीनाम्।
छायागतं नवमधूकविपाण्डुरामु
गण्डस्थलीष्वधिकमश्वितदिन्दुबिम्बम् ॥ 20.31
ज्योत्स्नातुषारनिकरस्थगितान्तरिक्ष-
दिङ्यण्डलः शिखिरकाल इवामृतांशुः।
आलिङ्गनान्यशिथिलानि दिशन्प्रियाणा-
मक्लेशयन्नवकुशेशयखण्कडकान्तिम् ॥ 20.32
भित्त्वा विषाञ्जनमिवाशु दृशां विघात-
हेतुं निसातिमिरवृन्दमनिन्द्यरूपैः।
संदानितच्छदपुटानि करैरमन्द-
मिन्दोरखिन्दत कुलान्यरविन्दिनीनाम् ॥ 20.33
सैरेयकस्तबकनीलमथान्धकार-
मुत्सृज्य भोगमलिनाम्बरनिर्विशेषम्।
संविव्युराशु ककुभः कलधौतगौर-
मिन्दुप्रभापटलकल्पलतादुगूलम् ॥ 20.34
अभ्युद्गते शशिनि शङ्कदलावदात-
प्रेङ्खन्मूखखचिताम्बरदिग्विभागे।
तापिच्छनीलमभवद्विवरानुसारि
वैभावरं विगलदम्भ इवान्धकारम् ॥ 20.35
भानोरसंनिधिवशात्तिमिरेण सार्ध-
मह्नाय संगतिमवाप्य कुमुद्वतीभिः।
चन्द्रोदये कुमुदकुक्षिगतास्तदीय-
गर्भद्विषः सुखमसाविषत द्विरेफाः ॥ 20.36
शिश्रीषुभिस्तुनुविकासदलत्पलाश-
कोषाः शनैः कुमुदिनीर्नभसि भ्रमद्भिः।
चन्द्रांशुजर्जरितशेषघनानुबन्ध-
नैशान्धकारसदृशैरतमि द्विरेफैः ॥ 20.37
लोकान्तराश्रयिणि घर्मघृणौ क्रमेण
यैरुत्थितैर्भुवनमूर्णुनुवे तमोभिः।
तानीन्दुरेव विचकार करोत्करेण
साधारणत्वरहिता महतां हि शक्तिः ॥ 20.38
हित्वा शनैः शितिमिव त्वचमन्धकार-
च्छायां निशोडुपटलस्फटिकाक्षसूक्षत्रा।
गौरी बभूव रुचिरागुरुपङ्कपत्त्र-
सच्छायलक्ष्मशशिमण्डलगण्डभित्तिः ॥ 20.39
स्पर्शोत्सवं विदधतीभिरमन्दराग-
मङ्गनि मन्मथवतामिव सुन्दरीभिः।
जह्लादिरे कुमुदिनीविपिनानि गाढ-
मालिङ्गितानि शशिदीधितिमण्डलीभिः ॥ 20.40
उत्सारितस्य तरणेः किरणच्छटाभि-
रिन्दोः करैश्च तमसोऽभिहतस्य नक्तम्।
विस्पष्टचारुचनाः सुरसुन्दरीणा-
मालम्बनत्वमगमन्निव केशहस्ताः ॥ 20.41
भिन्दन्सुधानिवहवाहिभिरन्धकार-
मंशूत्करैरुदजिहीत च शीतरश्मिः।
संकोचदुःखमहरच्च कुमुद्वतीनां
सन्तः परार्थघटने नहि विघ्नन्घ्राः ॥ 20.42
आलुङ्खिता दलितशङ्खविपाण्डुराभि-
रिन्दोः प्रबाभिरथ कैरवपद्मखण्डाः।
उन्निद्रबद्धदलकुङ्भलनीडलीन-
दीनद्विरेफपटलाः परितो बभूवुः ॥ 20.43
सौधेषु शीतकिरणस्य करच्छटाभि-
रापाण्डुराभिरभितः प्रतिफेलुषीभिः।
पर्यस्तसान्द्रबुजतार्यतमःप्रबन्ध-
मन्धं जगत्पुनरयुज्यत चक्षुषारात् ॥ 20.44
आदाय दग्धबहलागुरुधूपधूम-
पङ्कं कपोलफलकेषु सुराङ्गनानाम्।
पत्त्राङ्गुलीरिव रसार्द्रतय विधित्सो-
रिन्दोर्गवाक्षविवरेषु करा निपेतुः ॥ 20.45
लक्ष्मी दधुः शिशिररस्मिरुचो गवाक्ष-
निर्यूहनिर्यदसितागुरुधूमशाराः।
पर्यस्तमन्दरविघूर्णितदुग्धसिन्धु-
वीचिच्छटा इव परिप्लुतकालकूटाः ॥ 20.46
स्रस्तान्धकारवसनां रजनीपुरंध्रि-
मालिङ्गति प्रियसुधास्रुति दिक्सखीभिः।
दूरं मृणालशकलामलतन्मयूख-
हासच्छटाञ्चितमुखीभिरिवापसस्रे ॥ 20.47
संकोचजिह्मितकुशेखयकोशधौत-
कौशेयकोमलशशाङ्करुचोऽवकाशाः।
रेजुर्दिशामधिनिशं विशदप्रकाशा
काशा इवोपशरदं शमितान्धकाराः ॥ 20.48
सार्धं क्रमेण ककुभोऽथ कुमुद्वतीभि-
रुच्छ्वासलाभविशदस्थितिदूरदृश्याः।
प्राप्ता विकासमचकासिषुरैन्दवीभि-
रंशुच्छटाभिरवधूतनिसान्धकाराः ॥ 20.49
लीलानिपीतभरमूर्छितकैरवीय-
खण्डच्छदच्छविरिव च्छुरिताम्बरश्रीः।
इन्दोर्दुधाव धवलः कलकण्ठकण्ठ-
कालान्धकारकलुषाः ककुभः करौघः ॥ 20.50
प्रत्यग्रपीतनवकैरवखण्डलक्ष्मी-
लावण्यकान्तिभिरिवातनुपाण्डिमाभिः।
कीर्णा दिशो दलितसंतमसानुबन्ध-
मिन्दोरदीपिषत दीधितिदीपिकाभिः ॥ 20.51
दिक्सुन्दरीघनपयोधरभारतार-
हाराः सुधास्रुतिकरालमणिप्रवालाः।
भित्त्वा शनैस्तिमिरमञ्जनपुञ्जनील-
मानञ्जुरिन्दुकिरणा जगदञ्दजनील-
मानञ्जुरिन्दुकिरणा जगदञ्जसारात् ॥ 20.52
पौरंदरीं दिशमपोज्झ्य विलुप्तराग-
संपत्क्षणाज्जिगमिषत्यधुना प्रतीचीम्।
अन्याः प्रसादयति निर्जितपुण्डरीक-
शोभाग्रपादपतनैः ककुभः सलीलम् ॥ 20.53
नैशानिलाहतिपरस्परघट्यमान-
संफुल्लकैरवतयालिकुलप्रणादैः।
उक्त्वेति हस्ततलताडनयेव नक्तं
नक्तंचरश्चिरमहासि कुमुद्वतीभिः ॥ 20.54 ॥ (युगलकम्)
इन्दीरनीरकणकण्टकिता विकीर्ण-
पर्णा ववुर्दलितपङ्कजकुड्भलाग्राः।
शीता निशीथमरुतो निभृतद्विरेफ-
शेफालिकाकुसुमनिर्भरगन्दवाहाः ॥ 20.55
भाति स्म मारुतविधूतपलाशरन्ध्र-
लब्ध्रप्रवेशशिशिरांशुमरीचिशाराम्।
छायां विनेशुषि रवौ दधती तरूणां
संवीतचित्रमृगचर्मपटेव भूमिः ॥ 20.56
प्रत्यग्रफेनधवला नभसि प्रसस्रु-
रुल्लङ्घितोडुनिकराः शिशिरांशुभासः।
उद्रश्मिरत्नसिकताकणचक्रवाल-
मन्दाकिनीजलतरङ्गघटायमानाः ॥ 20.57
प्रेङ्खत्कठोरशतपत्त्रपलाशयूल-
पाण्डक्षपाकरमरीचिविलङ्घिता द्यौः।
उत्तमभनाकुलजगत्क्षयकालकोल-
दंष्ट्रा प्रकाशधवलक्षितिविभ्रमाभूत् ॥ 20.58
भाति स्म संवलिततारकचक्रवाल-
चन्द्रातपच्छुरणपाण्डुरमन्तरिक्षम्।
बिभ्रज्जराजरठजिह्मगदीर्घभोग-
मुक्तास्फुरद्विकटकञ्चुकपट्टलीलाम् ॥ 20.59
निर्धौततारतरुमच्छवितारकौघ-
कल्माषितेन नभसा विभरांबभूवे।
निःशेषशोषितलप्लवपङ्कगर्भ-
दृश्यावरुग्णबिसकन्दजलाशयश्रीः ॥ 20.60
जिह्मीकृताब्जनयनं श्वसनानुबन्ध-
कम्पाकुलस्थिति विपाण्डुरतां दधत्या।
संकोचमाप जरयेव कृतावमर्श्-
मिन्दुत्विषा कमलकाननचक्रवालम् ॥ 20.61
चन्द्रप्रभामुकुलितं सलिलातिरिक्त-
नालं ससर्प कमलं निशि चक्रवाकी।
आबिभ्रती हृषितपक्ष्मतनूरुहैक-
पादस्तितोन्मुखविदूरगकान्तशङ्काम् ॥ 20.62
आप्लावितावनितले नवचन्द्रिकाम्बु-
पूरे निमग्नमथ कैरवचक्रवालम्।
उत्तारलग्नमिव मन्दसमीरपात-
पारिप्लवीकृतपलाशभूजं वल्यराजत् ॥ 20.63
वैकुण्ठशङ्कधवलाब्जविभेदकुण्ठ-
सोत्कण्ठकैरवकरालकरोत्करेन्दुः।
श्यामेति रात्रिरगमत्स्फुटमर्थशून्य-
पर्यायतां क्षततमःपरिपाण्डुरश्रीः ॥ 20.64
पर्याप्तजृम्भणभरस्फुटनानुबन्धि-
पत्त्राङ्गुलीनिकरकैरवचारूहस्ता।
उत्क्षिप्तषट्पदघटामुखरोमराजि-
रिन्दुं विलोक्य सहसा कुमुदिन्यथासीत् ॥ 20.65
इन्दोः करैरतनुकौसुमसौकुमार्य-
भाग्भिर्मनोभुव इवेषुभीराहताभिः।
उद्गीर्णगन्धकुमुदाननमूढनैश-
धर्मोदबिन्दुभिरजृम्भि कुमुद्वतीभिः ॥ 20.65
इन्दोः करैरतनुकौसुमसौकुमार्य-
भाग्भिर्मनोभुव इवेषुभिराहताभिः।
उद्गीर्णगन्धकुमुदाननमूढनैश-
धर्मोदबिन्दुभिरजृम्भि कुमुद्वतीभिः ॥ 20.66
श्च्योतत्सुधाशिशिरनिर्झरशीकरार्द्र-
चन्द्रांशुराशिपरिमृष्टकरालकोषाः।
पद्माकराः सपदि संचुकुचुर्निशीथ-
शीतार्दिता इव दलाम्बरसंतृताङ्गाः ॥ 20.67
प्रेयःसमागमसुखार्द्रपुरंध्रिनिर्य-
दानन्दपबाष्पकणिकाशिशिरो नभस्वान्।
बनधक्रमाधिगततानवतारतम्य-
सौगन्धिकोत्थघनसौरभसंपदासीत् ॥ 20. 68
निःशेषमेव सुरभिं मम कोषगन्ध-
मावान्दिनक्षयमरुन्मम मैष मोषीत्।
इत्थं भियेव कमलं कलयांचकार
संकोचसंकटविशङ्कटकुड्भलत्वम् ॥ 20.69
स्पृष्टान या दिनकरांशुभिरङ्नि वाह्नि-
गर्भैरपि क्वचन चक्लमुरम्बुजिन्यः।
मम्लस्तरां शशिकरैरपि ताः सुधार्द्रै-
रक्षुण्मवामचरिता बत पद्मनेत्रः ॥ 20.70
पातुं मधून्यधिकुमद्वति बद्धराग-
मुद्धूतपक्षति मधुव्रतमुत्पतन्तम्।
श्लिष्यत्सरोजदलसंपुटपीडिताङ्घ्रि-
मीर्ष्यावशादिव कुशेशयिनी बबन्ध ॥ 20.71
साध्यं न तज्जगति यन्न कलावयोऽस्ति
चन्द्रः करैः सकलदिङ्भुखकर्णपूरैः।
विष्यण्णवारिविसराः परितो निनाय
यच्चन्द्रकान्तदृषदोऽपि तदार्द्रभावम् ॥ 20.72
संकोचधूसरमकारि सरोजखण्ड-
मग्रे यदस्य शरीना परिपीड्य पादैः।
तेन स्पुरद्विकचटकेशरदन्तपङ्क्ति
तोषादिवातिविशदं कुमुदं जहास ॥ 20.73
संधु***तासमशरेण करैरवाप्त-
निद्रा सती कुमुदिनी शशीनावमृष्टा।
हुंकारिणीव बुबुधे कुमुदोदरस्थ-
कूजन्मधुव्रतकुलक्वणइतानुबन्धैः ॥ 20.74
प्रेयोंशुमालिविरहव्यसनानुबन्ध-
मूर्छानिमीलितसरोजदृशो नलिन्याः।
न्यस्ताः सलीलमभवन्नुपरीन्दुनापि
खेदाय कोमलमरीचिमृणालदण्डाः ॥ 20.75
कल्लोलपीवरपयोधरप्टष्ठभाग-
माकृष्य वीचिवलिभङ्गभुवं च चन्द्रः।
आवर्तनाभिनिहिताग्रकरश्चकार
रक्ताब्जिनीं सुखनिमीलितपद्मनेत्राम् ॥ 20.76
पर्युच्छ्वसत्सरलकेसरकाञ्चनोत्थ-
नाराचचक्रपरिपूरितकुक्षिरन्ध्रम्।
ईषद्विभिन्नमुकुलाननमिन्दुभाभि-
रादत्त कैरवमनङ्गनिषङ्गलीलाम् ॥ 20.77
ज्योत्स्नामयं यदमृतप्रभमेघमुक्त-
मम्भः पपात कुमुदच्चदशुक्तिकोषे।
तत्थूललग्नरजनीजलबिन्दुजाल-
व्याजेन मौक्तिककणत्वमभिप्रपेदे ॥ 20.78
उद्भिन्नकण्टकभरात्पुलकानुबन्ध-
पर्याकुला कुमुदिनी मुदिता प्रदोषे।
धूतारविन्दरुचिचन्द्रकरप्रणोद-
चक्रीभवत्कुमुदचारुकुचा चकाशे ॥ 20.79
पर्याप्तनिर्मलकरेण करैः सुधार्द्रैः
संभावितानि न हिमद्युतिनापि नेतुम्।
निन्ये जलानि निशि निर्विषतामगस्त्यः
कार्ये क्वचिद्भवति कस्यचिदेव शाक्तिः ॥ 20.80
आस्कन्द दूरमुदयं मदयस्व मन्द-
मानन्दयेन्दुवदना मदनाविदूनाः।
क्रूरं तमः किर करैः कुरु कोरकाग्र-
भङ्गं च कैरवकुलस्य करालकान्तैः ॥ 20.81
चञ्च्वग्रचुम्बनविकुञ्चितकेसरासु
संचारयाञ्चितदलासु च चञ्चरीकान्।
कुन्दावदातविदलद्दलदीर्घदण्ड-
दूरोदितासु मुदितासु कुमुद्वतीषु ॥ 20. 82
संधेहि पत्त्रपटलं पटुपुण्डरीक-
खण्डस्य मण्डय दिशः स्फुटमण्डलश्रीः।
संक्षोभयोद्दलनदोहदलीलदोल-
कल्लोलकाण्डकलिलं सलिलं च सिन्धोः ॥ 20. 83
संधुक्षय स्मरमवन्ध्यशरप्रबन्ध-
संधानबन्धुरसमादि धनुर्धुनानम्।
धैर्यं विधूनय वधूषु विवर्धमान-
मानोद्धुरं वलिधुरबन्धुविरोधिनीषु ॥ 20.84
पारीः प्रसादय च पानपरम्परासु
कर्पूरपांसुपटलीभिरिव प्रभाभिः।
इत्याचरन्रुचिररोचिररोचिररोचतेन्दु-
रर्चैकचर्चजनलोचनचक्रवालः ॥ 20.85 ॥ (पञ्चभिः कुलकम्)
पातालान्तश्छविमिव घनां शेषभोगप्रकाशः
कण्ठच्छायामिव पशुपतेरट्टहासोऽभिनीलाम्।
विक्षिप्यारान्नभसि तमसां मण्डलीं रत्नराशे-
र्दत्तोल्लासः शशभृदमलश्रीश्चकासांचकार ॥ 20.86
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये चन्द्रोदयवर्णनो नाम विंश सर्गः।