१९

.

हरविजयम्।

एकोनविंशः सर्गः।

स्पष्टोच्छ्वसत्किरणकेसरसूर्यबिम्ब-
विस्तीर्णकर्णिकमथो दिवसारविन्दम्।
श्लिष्टाष्टदिग्दलकलापमुषावतार-
बद्धान्धकारमधुपावलि संचुकोच ॥ 19.1
अस्ताद्गिगोचरचरं रुरुचे चिराय
गोरोचनारुचिमरीचि विरोचनस्य।
बिम्बं दिनान्तपवनाहतपुण्डरीक-
पर्यस्तपक्ष्मरजसेव विलङ्घ्यमानम् ॥ 19.2
सिन्धौ कुसुम्भकुसुमस्तबकाभिकाम्र-
माजिह्मकान्ति तपनः प्रतिबिम्बितं सत्।
संबश्यति स्म निजमण्डलमस्तकूट-
संघट्टभग्नथकाञ्चनचक्रशङ्की ॥ 19.3
प्राप्ते क्रमाद्वलनपुञ्जितदिग्विभाग-
विक्षिप्तदीप्तिकुसुमक्षपितायतित्वम्।
अस्ताद्रिमूर्धनि बबन्ध सरोजबन्धु-
बन्धूकशेखरमथो दिवसावधिश्रीः ॥ 19.4
अस्तावलम्बिरविबिम्बतयोदयाद्रि-
चूडोन्मिषत्सकलचन्द्रतया च सायम्।
संध्याप्रनृत्तहरवाद्यगृहीतकांस्य-
तालद्वयेव समलक्ष्यत कनाकलक्ष्मीः ॥ 19.5
प्रत्यग्ररागघटनेन्दुकलाकिरीट-
शैलाधिराजसुतयोरिव गाढसंपत्।
संध्याहिताथ दिवसक्षपयोः शरीर-
भागद्वयाविरलवृत्तिरजृम्भत श्रीः ॥ 19.6
संध्याप्रवृत्तिरुधिरारुणसान्द्रधातु-
धूलिच्छटाकपिशिताम्बरदिग्विभागा।
अध्यम्बुराशि गिरिपङ्क्तिरिव न्यपत-
दभ्यापतत्कुलिशताकुलिता दिनश्रीः ॥ 19.7
प्रेङ्खत्कुलायकलनोन्मुखपत्त्रिचक्र-
कोलाहलाकुलविशङ्कटदिग्लताग्रः।
तिग्मांशुपातविशदाकृतीदूरदृश्य-
च्छायापथोऽधिनिशमम्बरपादपोऽभूत् ॥ 19.8
प्राप्तेऽस्तशैलशिखरस्थितिमुष्णभासि
लोकानुसारसरलत्वजुषो नलिन्यः।
संध्यां ससंभ्रममवन्दिषतेव साय-
माताम्रकोरककराञ्जलिजालबन्धाः ॥ 19.9
संध्यातपारुणितपार्श्वतटावलम्बि-
बिम्बैकदेशजलदः क्षणमस्तशैलः।
वज्रव्रणाननगलत्क्षतजोक्षितार्ध-
विच्छिन्नविश्लथपतत्त्र इवावभासे ॥ 19.10
अभ्येयुषः परिणतिं समयक्रमेण
सायं नभःसरसि वासरपङ्कजस्य।
स्रस्तांशुपक्ष्मरविमण्डलबीजकोष-
चक्रं बभार परिधूसरपीवरत्वम् ॥ 19.11
तुङ्गावकाशरचितस्थितिमातपस्य
शेषं समुत्सुकतयेव दिदृक्षमाणाः।
उत्कंधरा इव सरोजभुवो बभूवु-
रुन्नम्रकोरककरालितपुण्डरीकाः ॥ 19.12
आकृष्यमाणभिव पश्चिमदिग्विभाग-
बद्धास्पदद्विरददीर्घकरार्गलेन।
ताराच्छबुद्बुदकरालनभस्तटाक-
रक्ताम्बुजं तपनबिम्बमलम्बतारात् । 19.13
पर्यस्तमस्तगिरि सानुनि सान्द्रसांध्य-
रागारुणच्छवि सहस्रमरीचिबिम्बम्।
कंदर्पकोपितहरस्फुरितानलार्चि-
रूर्ध्वाक्षितारकतिरोहितभेदमासीत् ॥ 19.14
आविर्भवत्तिमिरसंवलनानुविद्ध-
संध्याशुधूसरविपाटलमुष्णधाम्नः।
भाति स्म निः श्वसितधूमशिखावकीर्ण-
विस्तीर्णशेषफणरत्नविडम्बि बिम्बम् ॥ 19.15
मुक्ताम्बरस्तिमिरतस्करलुप्यमान-
लक्ष्मीमलीमसरुचिः प्रकटोपघातः।
अङ्नाय वासरहितस्फुटलोहितश्री-
रुष्णांशुरस्तगिरिकाननमभ्यविक्षत् ॥ 19.16
सिन्दूरराजिषु घनं स्फुरदन्यवर्ण-
भेदेष्वलक्ष्यमधिमन्दिरभित्तिचित्रम्।
भाति स्म निर्जितजरच्छुकघोणशोण-
रागोल्बणच्छवि रवेः करचक्रवालम् ॥ 19.17
आभासतम्बरतलं दिवसावसान-
रागारुणच्छवि विडम्बयदम्बु सिन्धोः।
भङ्गाभियुक्तमधुकैटभहस्तकिधूत-
वैकुण्ठनाभिनलिनोदरधूलिपिङ्गम् ॥ 19.18
अध्यूषुषः सपदि चन्द्रकिणो निवास-
यष्टिं शनैर्निजभरानमिताग्रभागाम्।
संध्यातपो नयति कर्बुरतां स्वकण्ठ-
मुल्लासितस्फुरितचन्द्रकचक्रवालः ॥ 19.19
उत्तानकूर्मकरणिस्फुरदुष्णरश्मि-
बिम्बा शनैः सरिदिव स्फुटपत्त्रिनादा।
अस्तावनीध्रशिखरान्निपपात धातु-
पङ्कारुणातपजला जलधौ दिनश्रीः ॥ 19.20
विच्छायतामभजत क्षणदावतार-
सान्द्रीभवत्तिमिरधूसरितारुणश्रीः।
धूमच्छटाभिहतविद्रुमदण्डखण्ड-
संवादितां दिनकरस्य दधत्करौघः ॥ 19.21
तुङ्गात्मतासदृशमध्यवजह्नुषोऽस्त-
शैलस्य तस्य निघनं व्रजतु प्रतिष्ठा।
आलम्बितोऽम्बरतलात्परतता करौघैः
सिन्धौ न यः सह सहस्ररुचा न्यपप्तत् ॥ 19.22
तेजः प्रकर्षपरिहानिमुपेयिवांस-
मारात्प्रदोषतमसाभिबुभूष्यमाणम्।
अम्भोनिधौ तपनमन्वपतद्दिनश्री-
रेकात्मतां विदधतामिदमेव युक्तम् ॥ 19.23
आरूढमार्दवमुपाम्बुधिलम्बमान-
बिम्बः क्रमेण निपतन्रविरन्तरिक्षात्।
उल्लासितत्सलिलतुङ्गतरङ्गभङ्ग-
संसर्गजातजडिमेव बभार तेजः ॥ 19.24
विस्रंसमानकपिलांशुशिखासहस्र-
विष्पन्दिसान्द्ररुधिरस्रुति सूर्यबिम्बम्।
छिन्नं जवाज्जलनिधौ निपपात काल-
खङ्गेन विस्फुरितमह्न इवोत्तमाङ्गम् ॥ 19.25
गौरीव गौरकरशेखरकण्ठपीठ-
बद्धास्पदातनुविषच्छविलङ्घितश्रीः।
श्यामीबभूव जलधौ कलधौतकाष-
पिङ्गच्छविस्तिमिरसंवलिताथ संध्या ॥ 19.26
अन्तर्विविक्षुरिव भानुमतो रथाश्व-
पङ्क्तिः स्फुरत्सलिलसैरिभरोषदृष्टा।
श्वासानिलैः सपदि जर्जरयांचकार
सिन्धोर्जलं विधुतफेनिलवीचिचक्रम् ॥ 19.27
उच्चिक्षिपेऽवतरतामधिसिन्धु पद्म-
बन्धोरवाङ्भुखतया स्थगितेक्षणश्रीः।
सेवारसादिव तरङ्गसमीरणेन
कर्णप्रकीर्णकशिखानिकरो हरीणाम् ॥ 19.28
प्रयांसमर्कमिव दृष्टपथव्यतीत-
मन्तर्विकल्परचिताकृतिमीहमानाः।
प्रेम्णा विलोकयितुमस्खलितेन चक्रु-
रम्भोजनेत्रविनिमीलनमम्बुजिन्यः ॥ 19.29
श्यामावतारसमयेन मलीमसत्व-
मासेदुषा स्थागिततिग्म्मरीचिरोचिः।
सल्लोहकान्तमणिनेव तदान्धकार-
कालायसं प्रसभमाचकृषे पुरस्तात् ॥ 19.30
तावत्क्रमेण दयितार्कवियोगजन्म-
दाहज्वरव्यथितदिग्वनिताकरास्तैः।
क्ष्मामण्डलं विगलिताञ्जनबाष्पतोय-
लेशोत्करैविव तमःशकलैः पुपूरे ॥ 19.31
क्लान्तं दिवाकरकरालकराभिषङ्गा-
च्चायामशिश्रियदथो तिमिरं तरुणाम्।
लीलानिषण्णविनिमीलितलोचनार्ध-
रोमन्थमन्थरसमूरचमूरचक्रम् ॥ 19.32
छायापथैस्तिमिरसंवलनानुबन्ध-
निर्व्यामदीर्घविकटैः क्षितिपीठपृष्ठम्।
शारीबभूव पतिते तरणौ कलिन्द-
कन्याविवेष्टनविभिन्नजलौघकल्पैः ॥ 19.33
मन्दानिलाहति तरङ्गितकेसराग्र-
रक्तारविन्दमकरन्दसपीतिलग्नाः।
भग्रेऽहनि भ्रमरसंहतयः प्रसस्रु-
रेष्यन्निशातिमिरपत्तिचमूयमानाः ॥ 19.34
अस्ताद्रिपार्श्वमुपजग्मुषि तिग्मभासि
जानीत शीताकिरणोऽभ्युदितो न वेति।
चारा इवाथ रजनीतिमिरप्रुक्ता-
श्चेरुश्चिवं चरणभूमिषु चञ्चरिकाः ॥ 19.35
प्राप्तेऽस्तशैलशिखरं तरणावबद्ध-
गण्डूषगण्डगुरुगन्धगजान्धकाराः ॥ 19.36
भास्वच्छविर्भुवनवेश्मगतः शशाम
यावत्पतङ्गपतनाद्दिवसप्रदीपः।
तावत्कुतोऽप्युदभवन्नयनोपघात-
दक्षं मषीमलमलीमसमन्धकारम् ॥ 19.37
नक्तं निपेतुषि तुषारविपक्षभासि
शूरैरिवासमसमीकरणप्रगल्भैः।
द्यौर्लोहजालमलिनैस्तरसा तमोभि-
रातस्तरे दिशि दिशि स्तिमितानुबन्धैः ॥ 19.38
देशान्तरप्रवसनप्रवणोष्णरश्मि-
चिन्तानुबन्धवशजैहयजुषो नलिन्याः।
आसीन्निकोचभरजिह्मितपक्ष्ममाल-
मामीलितब्रमरतारकमब्जनेत्रम् ॥ 19.39
आलग्रनैशजलबिन्दुघनान्धकार-
जालेन कज्जलरुचा जललोचनानाम्।
रूपावलोकनसुखं प्रसभादहारि
किं वा शुभं प्रभवतो मलिनात्मनः स्यात् । 19.40
आक्रान्ततारकनिरर्गलजृम्भमाण-
तारावतीतिमिरविप्लवधूसरान्धाः।
अक्लीबिषुर्भुवनरूपनिरूपणेऽथ
संमीलिता इव दृशः सकला जनानाम् ॥ 19.41
छायां क्रमेण सकलामथ काननानां
सूर्यांशुखेषशबलां समतां नयद्भिः।
संहारमेघमलिनैरतिमेदुरत्व-
मासाद्य संपप्टचिरे ककुभस्तमोभिः ॥ 19.42
व्यक्तोपकारमधुना स्थगितासु दिक्षु
प्रेयोगृहं सुखमलक्षितमेव यामः।
धम्मिल्लबन्धरुचिरैरभिसारिकाभिः
प्रेम्णा तमश्चिरमितीव शिरोभिरूहे ॥ 19.43
दंष्ट्राकरालपृथुपोत्रतलावलग्न-
कासारपङ्ककलुषा सलिलादुदस्थुः।
ग्रस्तार्धचन्द्रशकला बहलान्धकार-
कूटा इवाथ वनसूकरयुथनाथाः ॥ 19.44
आबद्धपद्ममुकुलाञ्जलि याचितो मा-
मुत्सृज्य संप्रति गतः कथमंशुमाली।
अन्तर्निरुद्धमधुपक्वणितैरितीव
स्वप्नायते स्म नलिनी निशि लब्धनिद्रा ॥ 19.45
विस्रस्तकेसरविभावितबीजकोष-
मूलश्लथप्रविरलान्तरणण्डुपत्त्रम्।
कृच्छ्रेण बद्धमुकुलं सरलोरुदीर्घ-
नालं करालमभवज्जरठारविन्दम् ॥ 19.46
श्लिष्यद्दलाग्रघटितक्षमदोदबिन्दु-
विष्यन्दकर्दमितकेसरधूलिजालम्।
गम्भीरकुक्षिकुहरक्रमपुञ्जयमान-
सौगन्ध्यबन्धमरविन्दवनं निदद्रौ ॥ 19.47
स्यामामुखे शखीकरैर्दलितं न ताव-
दीषत्प्रसारितपलाशपुटं द्विरेफैः।
इत्यञ्जसा न विचकास न संचुकोच
पर्याकुलं कुमुदकाननचक्रवालम् ॥ 19.48
संकोचसंहृतदलस्फुटलक्ष्यमाण-
दूरान्तरालनवकुङ्भलचक्रवालम्।
शीतांशुपादपरिमर्शघृणामिवाप्य
लक्ष्मीर्मुमोच शनकैः कमलाकराङ्कम् ॥ 19.49
प्रेङ्खत्करालपरिपाण्डुपलाशपङ्‌क्ति-
संधानराडजिशबलीकृतप्टष्ठभागम्।
भाति स्म दृश्यमुकुलाननरन्ध्रपीत-
ज्योत्स्नाविनिर्गमनमार्गमिवारविन्दम् ॥ 19.50
कृच्छ्रेण मीलनमवाप विशीर्णजीर्ण-
पर्णोत्करश्लथविलम्बितपक्ष्ममालम्।
विस्तारिधूसरहरिच्छविबीजकोष-
चक्रं पुराणकमलं कमलाकराङ्के ॥ 19.51
प्रातः समागमसुखानुभवं विधाय
चेतस्यनीयत निशा रभसेन कोकैः।
कृच्छ्राद्वियोगचकितैस्तु दिनं व्यलङ्घि
दुःखे सुखं भवति साधु सुखे न दुःखम् ॥ 19.52
अभ्युन्मिषद्विकटकुड्भलपुण्डरीक-
गर्भोपरुद्धमधुपक्वणितानुबन्धैः।
अन्तर्मुखस्खलितघोषमिवेन्दुपाद-
भग्नातपक्लममशेरत पङ्कजिन्यः ॥ 19.53
तावन्निरर्गलमुदैदमलात्ममूर्ति-
कल्माषिताम्बरतलं गृहचक्रवालम्।
सूर्येन्दुमण्डलसमुद्गकवाचकोष-
विश्लेषकीर्णनवरत्नकणानुकारि ॥ 19.54
भास्वन्निशीथवनपुष्पकदम्बकेन।
नाकाम्बुराशिजलबुद्बुदजालकेन।
ब्रह्माण्डसुक्तिपुटमौक्तिकमण्डलेन
भूषां निशोडुनिकरेण परामधासीत् ॥ 19.55
नीहारगौरशिशिरांशुमरीचिराशि-
निर्भिन्ननैशनिबिरीसतमःप्रबन्धम्।
आलक्ष्यत स्फुरिततारकचक्रवाल-
शारीकृतं विततविभ्रममन्तरिक्षम् ॥ 19.56
लक्ष्मीं दधन्ति शबलीकृतदिग्विभाग-
रश्मिच्छटापटलभिन्नतमांस्यमन्दम्।
ज्योतींषि रात्रिरतिमांसलभांस्यसूत
रत्नानि कल्पतरुवल्लिरिवोल्लसन्ती ॥ 19.57
निष्पिष्टशैलविनिघृष्टयुगादिघृष्टि-
दंष्ट्राग्रकोटिपरिमण्डलसंनिवेशम्।
क्षीरोदशीकरकणच्छवि शारिताभ्रं
व्यभ्राजतात नभसि ग्रहचक्रवालम् ॥ 19.58
उत्सृज्य हर्म्यशिखराणि निवासयाष्टि-
कोटिप्रतिष्ठचरणैर्गृहकेकिसार्थैः।
उद्धूतचन्द्रकवितानवितन्यमान-
च्छायाछलेन ववृषे घानमन्धकारम् ॥ 19.59
कालागुरुप्रकरक्लृप्तविचित्रपत्त्र-
भङ्गे पयोधरतटे कबरीषु लीनम्।
व्युत्तानमुत्पलदृशां शितिरत्नशार-
भूषास्पदेषु तिमिरं विदधाविवेन्दोः ॥ 19.60
क्षोणीनिरोकजठरेषु विशङ्कटेषु
नैशं तमः स्तिमिततामभितस्तथापत्।
विस्पष्टमौहिषत पल्वलपङ्कमोह-
मुग्धा यथा महिषसंहतयोऽवगाढुम् ॥ 19.61
संध्यातपच्छुरणपिङ्गमरुद्विधूत-
विस्तारिकेसरशिकैर्वनमध्यभाग्भिः।
सुप्तोत्थितैर्विगलितेऽहनि पुण्डरीकै-
रेकैरजृम्भि रभसादपरैर्निदद्रे ॥ 19.62
विस्तीर्णदन्तपरिघस्फुरदंशुराशि-
सीमन्त्यमानतिमिरेषु मदाम्बु पातुम्।
लीनं कटेषु कृतदृष्टिविघातहृष्टि-
धृष्टं शिलीमुखगणैर्वनकुञ्जराणाम् ॥ 19.63
निष्ट्यूतकज्जलकरालशिखण्डखण्डै-
रुत्सङ्गवृत्तिमधिगम्य निकेतनानाम्।
स्रेहानुबन्दिभिरदीपि दिनावसान-
संध्यार्भकैरिव सरागकरैःप्रदीपैः ॥ 19.64
नेत्रैरिवाञ्जनपरागकणावकीर्ण-
तूलीविनिर्गमनमार्गनिबद्धरेखैः।
वातायनैरगुरुधूपजधूमलेखा-
निर्याणलिप्तशिखरैर्विबभुर्गृहाणि ॥ 19.65
निर्भिद्यमानमपि जालगवाक्षमार्ग-
निर्यत्प्रदीपरुचिराजिभिरन्धकारम्।
सान्द्रीबभूव भवनोदरदद्यमान-
कालागुरूत्थघनधूमशिखावलीभिः ॥ 19.66
शिखिविशिखचिते पुरान्तलग्रे स्मररिपुचाप इवार्करश्मिचक्रे।
असुरकुलमिवाथ चक्रनाम्नां हृदयमदह्यत विप्रयोगदीनम् ॥ 19.67
प्रथममधिधरित्रि च्छिन्ननिःशेषमूलं
तदनु खिखरिशृङ्गव्यङ्ग्यरागानुबन्धम्।
प्लुतमथ घनवीथ्यां रत्नराशिं विवक्षु-
स्तरणिरपचितश्रीरातपं संजहार ॥ 19.68
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये दिवसावसानवर्णनो नामैकोनविंशःक सर्गः।