१८

.

हरविजयम्

अष्टादशः सर्गः।

कुर्वननङ्गक्लान्तिमर्कप्रकाशो गच्छन्तीभिर्मन्युनेवाङ्गनाभिः।
फुल्लन्नीलाम्भोजसंवादिनेत्रच्छायापातैः खण्डशोऽथ व्यधायि ॥ 18.1 ॥
आशाप्लाविस्वच्छलावण्यकान्तिज्योत्स्नापूरापह्नुतान्यप्यशेषम्।
छत्त्राण्युच्चैर्धार्यमाणानि तासां हैमैः पाण्डून्यन्वमीयन्त दण्डैः ॥ 18.2 ॥
तिर्यग्ज्योत्स्नापाण्डुभासा धृतेन च्छत्रेणान्या राजति स्म व्रजन्ती।
वक्त्रेन्दोः स्विन्मण्डलग्रेण चञ्चन्मुक्तादामोद्दामतारागणेन ॥ 18.3 ॥
स्म्याभोगैर्गैरतामुद्वहद्भिः प्रौढस्येन्दोर्बिम्बशोभामवाप्तैः।
छत्त्रैश्छायातानि सीमन्तिनीनां वक्त्रैश्चाराच्चारुनेत्राभिरामैः ॥ 18.4 ॥
बंहीयस्त्वं नाकनारीजनस्य छत्त्रच्छायामण्डलैरीयिवद्भिः।
तद्वक्त्रेन्दुग्रासगर्धावतीर्णैराकीर्णेर्वी सैहिकेयैरिवासीत् ॥ 18.5 ॥
मार्गोद्धूता धूलयो धूसरत्वं मासां कार्षुः स्वच्छलावण्यकान्तेः।
वल्ल्योऽधुन्वन्वातनुन्नानितीव स्त्रीणामाराद्वल्लरीचामरौघान् ॥ 18.6 ॥
काञ्चीनद्धैः स्थूलबिम्बैर्नितम्बैःक संबाधत्वं वर्त्मनः कुर्वतीभिः।
मन्दं जग्मेऽथाङ्गलेखानिषण्णस्फुर्जत्कंदर्पातिभारादिवाभिः ॥ 18.7 ॥
प्रत्युप्तानां हेमपादाङ्गदेषु स्त्रीणां भागे पद्मरगोपलानाम्।
अभ्रष्टोऽपि च्छायया निह्नुतः सन्नाप व्यक्तिं यावकीयो रसौघः ॥ 18.8 ॥
अग्रे यान्तं काननालोकनेच्छाव्यग्रत्वात्त्वं वीक्षितो नो मयेति।
व्याजादाख्यद्वल्लभं पीवराभ्यामाहत्यारात्कापि पृष्ठे स्तनाभ्याम् ॥ 18.9 ॥
गच्छन्तीनां नूपुरक्वाणकृष्टा हंसश्रेण्यो धृष्टमग्रे सरन्त्यः।
गण्डाभोगैरप्यहास्यन्त भास्वत्पाण्डुच्छायाहासभावेन तासाम् ॥ 18.10 ॥
स्पष्टागस्कं जीवितेशं विधूय प्रत्यासन्नं मन्युनाग्रे व्रजन्तीम्।
आलीवाराद्बन्धशैतिल्यहेतोः काञ्ची कांचित्पादपातिन्यरैत्सीत् ॥ 18.11 ॥
सीमन्तिन्याः संसरन्त्याः सलीलं वर्त्मन्यारात्पीनतुङ्गस्तनाग्रात्।
प्रालम्बेन च्छिन्नसूत्रेण पेते योग्यः पातः सर्वथा निर्गुणानाम् ॥ 18.12
या पादानामुज्ज्वाला श्रीरमीषामभ्योजानां सा कुतोऽभ्येति मुग्धाः ।
मञ्जीरौघो मञ्जुना शिञ्जितेन प्रीत्येतीव व्याजहाराथ हंसान् ॥ 18.13
लक्ष्म्याधारैर्भङ्गरापाङ्गभृङ्गश्रेणिच्छायाशारिताशावकाशैः।
अम्लायद्भिर्विभ्रमाम्भोजखण्डैरम्भोरूढैरापि मार्गे विकासः ॥ 18.14
उल्लङ्घ्यचाथ स्पष्टताम्बूलवल्लीजालाश्लिष्यत्केसरान्सानुमार्गान्।
हंसव्रातासेवितस्वर्णपद्मच्छायामापुः स्यन्दिनीमिन्दुवक्त्राः ॥ 18.15
शान्तेः शश्वत्सज्जलाभां निषद्यां पुण्यां लोके वीचिभङ्गप्रगल्भाम।
प्रत्यासीदत्पुष्करावर्तकौघां प्राप्तां कल्पापायवेलाविलासम् ॥ 18.16
निद्रामुद्रारेचितस्वर्णपद्मां पद्मच्छायाशीतलस्वच्छतोयाम्।
तोयोद्गच्छद्वीचिविक्षिप्तहंसां हंसश्रेणीशीरितोत्तानतीराम् ॥ 18.17 ॥ (तिलकम्)
संसर्पन्त्या मङ्क्तुमेत्याधिरोधः सीमन्तिन्या निर्जितान्वीक्ष्य गत्या।
वल्गद्वीचिक्षोभभिन्नं तदाम्भो मुक्तास्थत्वेनैव हंसान्निरास्थत् ॥ 18.18
आयान्तीनां निर्मलाम्भः कणौघव्याजालक्ष्यस्वच्छमुक्ताफलार्घम्।
सत्कारयेवाब्जिनीपत्त्रपात्रं मन्दाकिन्या संदधे सुन्दरीणाम् ॥ 18.19
काचित्तीरोत्सङ्गसंस्था मिमङ्क्षुः सर्वाङ्गीणस्वच्छलावण्यकान्तिः।
अत्यौत्सुक्यप्रेरितेनानुरागादभ्युत्थायालिङ्गितेवाम्भसासीत् ॥ 18.20
स्वर्शेनाङ्गान्याशु निर्वापयन्त्यः स्वच्छच्छायालोकनेत्राभिरामाः।
रामस्तस्मिन्स्निग्धवैदूर्यनीले व्योम्नीवानुष्णांशुभासो निपेतुः ॥ 18.21
तीरोत्सङ्गात्तुङ्गतामादधानाद्भ्रश्यन्तीन्माशु सीमन्तिनीनाम्।
अभ्योभागे निर्झरिण्या गुरुत्वात्तासां पेते पीवरैः प्राङ्नितम्बैः ॥ 18.22
भ्रस्यन्माल्या विश्लथत्केशहस्ता त्रुट्यत्तारस्फारहारावलीका।
प्रावर्तिष्टाकृष्टसंभोगलक्ष्मी रम्भोरूणां मज्जनारम्भलीला ॥ 18.23
आयान्तीनां तीरहंसीनिनादस्तासां जिग्ये मेखलाभिर्यकाभिः।
आक्रम्यान्तर्मत्सरेणेव सिन्धोर्मूकावस्तास्ता व्यदात्क्षुभ्यदम्भः ॥ 18.24
बद्धत्रासा रत्नसोपानपट्टक्षोभोद्घच्छल्लोलकल्लोलमम्भः।
आलम्ब्यैकावातरत्कान्तहस्तं पीडागाढं तत्सपत्न्याश्च चेतः ॥ 18.25
शीचासुच्लाजप्यनिच्छुर्निमङ्क्तुं काचित्तोयं चित्तनाथानुरोधात्।
रोधः सीम्नो निम्नगाया जगाहे किं तत्प्रेण्णा कार्यते यन्न लोकः ॥ 18.26
सासूयान्तः काचिदङ्गेऽन्यनारीगात्राल्लग्रं वल्लभस्याङ्गरागम्।
क्रीडाव्याजाच्छृङ्गकाम्भः प्रहारैरुन्मार्ष्टि स्म वल्लभस्याङ्गरागम्।
क्रीडाव्याजाच्छृङ्गकाम्भः प्रहारैरुन्मार्ष्टि स्म स्मेरवक्त्राम्बुजश्रीः ॥ 18.27
मार्दङ्गीभिस्ताललीलाभिरामं हस्ताम्भोजैराहतेऽम्भस्यमन्दम्।
भ्रूनर्तक्यो वेल्लितव्याजनृत्तव्याक्षेपेण प्रेयसो जह्रुरारात् ॥ 18.28
सप्तासङ्गा सिन्दुवारप्रसूनस्रग्वैदग्धीं बिभ्रती सुन्दरीणाम्।
वल्गद्वीचिव्यालविश्लिष्टवेल्लन्निर्मोकश्रीर्व्यद्युतत्फेनपङ्क्तिः ॥ 18.29
आमग्नानां वीचिपारिपलवोर्मिभ्राम्यन्मीनोन्मेषिचक्षुस्तदम्भः।
विष्वग्वृत्तिं कौतुकेनेव तासामाङ्गीं शोभामङ्गनानामपश्यत् ॥ 18.30
सिक्ताम्भोभिः कापि दुरात्सपत्नीनामग्राहं दाहसंवेगमापत्।
सान्तिं भेजेऽनुक्षितापीतरा स्वां संज्ञां श्रुत्वा कीर्तितां वल्लभेन ॥ 18.31
स्त्रीवक्षोजस्फालनोत्था नदन्तः पातुं पद्मोषूर्मयः षट्पदानाम्।
किंजल्कालीं नो ददुः किं विधत्तामुद्वृत्तैर्वा संगतोऽन्यज्जलौघः ॥ 18.32
मङ्क्त्वा प्रेयानीयिवानम्भसोऽन्तर्यत्पश्यन्त्यां रोषरूक्षं सपत्न्याम्।
आशिश्लेष स्मेरवक्त्रां स्त्रियं तत्साफल्यं सा तत्प्रसादस्य मेने ॥ 18.33
सादृश्यं यैः कल्प्यते स्त्रीमुखानां फुल्लाम्भोजैस्तेऽसमीचीनबोधाः।
इत्यालोच्येवान्तरं तच्छ्रियोऽभूद्वीचिव्रातः स्फीतफेनस्मिनश्रीः ॥ 18.34
दूरादेव स्त्रीमुखौपम्यलक्ष्मीं यत्संप्राप्ता यूयमेतावदस्तु।
ह्रीहेतुर्वोऽभ्यर्णतेतीव भृङ्गैरशिञ्जानैरभ्यधीयन्त पद्माः ॥ 18.35
वीक्ष्य भ्रष्टं कर्णपूरीकृतं सल्लीलावक्याः फुल्लनीलारविन्दम्।
मन्दकिन्यां कीर्णमर्णः कणौघैः सोदर्यत्वेनेव पद्मं व्यरोदीत् ॥ 18.36
उत्तं सादावुत्पलान्यङ्गनानां यान्यासंस्तान्यूर्मिजालानि जह्रुः।
तस्थावम्भोरूढमब्जं तथैव स्यात्साध्यः को बद्धमूलो जलानाम् ॥ 18.37
आरोप्य त्वामङ्गनैषधिकर्णं नुनं नेत्रच्छाययाधः करोति।
इत्यम्भोजं वीचिहस्तैस्तनूजस्नेहेनेवापाहरत्क्षुभ्यदम्भः ॥ 18.38
संसर्गेणावाप्तमम्भोऽतिभूमिं कर्णारूढान्युत्पलान्यङ्गनानाम्।
उद्गच्छद्भिर्नर्मणेवोर्मिहस्तैर्हृत्वा दूरं फेनहसं व्यतानीत् ॥ 18.39
रोमाञ्चालीमञ्चितां कम्पमूर्वोः शीतव्याजात्सीत्कृतं चाधितोयम्।
काचित्प्रेयःकामरागोत्थामग्रे प्रत्यग्रोढा स्पष्टमह्नोष्ट सख्याः ॥ 18.40
वीचिक्षोभाविर्भवत्संभ्रमत्वात्कान्तं काचित्सस्वजे जातसौख्या।
प्रायेणेत्थं श्रेयसे विक्रियापि प्रादुर्भूता कल्पते कोमलानाम् ॥ 18.41
रोधोहंसस्वानलक्ष्मीं व्यजेष्ट स्पष्टं यः स्त्रीमेखलानां निनादः।
विच्छिन्नोऽसौ सज्जलौघैरितीव स्रोतस्विन्या फेनहासौ वितेने ॥ 18.42
कल्लोलौघैर्घट्टितस्येन्दुगौरी हंसव्रातस्येव देहच्छविश्रीः।
भ्रष्टा रेजे कामिनीनां कुचाग्रक्षोभोद्भूता फेनफालिः स्फुरन्ती ॥ 18.43
लोलेनोच्चैः पाटलावृन्तभासा दीर्घेणोर्मिव्रातसंपिण्डितेन।
वेणीदण्डेनाप्यते स्माङ्गनायाः पातालोत्थव्यालभोगानुकारः ॥ 18.44
रोमाञ्चौघं बिभ्रती शीततोयस्पर्शेनेव प्रेयसाभ्येत्य दुरात्।
व्यात्युक्षीभिर्निर्जितान्यात्तहासं पर्यष्वञ्जिव्यञ्जितप्रेम सुभ्रूः ॥ 18.45
आदायैका पद्मनालाग्रसूत्रं रुग्णैरम्भःक्रीडयाग्रे विकीर्णैः।
मुक्ताजालैः कर्तुमैहिष्ट हारं कस्य स्याद्वा मौग्ध्यभाजौ विवेकः ॥ 18.46
क्रीडामर्दात्सुभ्रुवो रत्नकम्बोर्भग्रस्याच्छा कोटिरक्लिष्टकान्तिः।
प्रभ्रश्यन्ती तोयराशेरधस्तात्तारामार्गादिन्दुलेखेव रेजे ॥ 18.47
पक्ष्मश्रेणीपत्त्रशोभाभिरामप्रेङ्खल्लीलालुङ्खितापाङ्गपुङ्खाः।
ताभिर्मुक्ता दृष्टिबाणास्तदानीं निःसारङ्गां चक्रिरे काननोर्वीम् ॥ 18.48
सार्धं स्त्रीणां वल्लभैर्मज्जतीनामुद्वृत्तत्वाद्भज्यमानाः स्तनाग्रौः।
रोधोहंसव्रातमासुस्तरङ्गा निःसामर्थ्ये शक्तताहो जडानाम् ॥ 18.49
श्चयतल्लावण्यामृतं निर्भरत्वादूर्मिव्रातैर्गाढमापीय भूयः।
अभ्युद्वेमे घूर्णमानैरिवासां संक्षोभाविर्भाविफेनच्छलेन ॥ 18.50
स्वच्छच्छाये बिम्बितं गण्डभागे विब्बोकिन्याः फुल्लनीलारविन्दम्।
सेवार्थीवालक्ष्यतोपान्तवर्ति प्रत्याहर्तुं कान्तिसर्वस्वमक्ष्णः ॥ 18.51
लब्ध्वा नाभीमण्डलान्तःप्रवेशं कुर्वंल्लीलास्फालनं स्त्रीस्तनेषु।
कल्लोलौघोऽमानिवात्मन्ययासीत्तोषावेशादुद्भरीभूय रोधः ॥ 18.52
धौतेऽप्यक्ष्णोरञ्जने वीचिभङ्गैर्नैसर्गिक्या हानिरासीन्न लक्ष्म्याः।
येनारब्धं यन्न तत्र व्यपेते तस्याभावाज्जायतेऽतिप्रसङ्गः ॥ 18.53
प्रत्यासन्ने वीचिभङ्गे मुहूर्तं बिम्बायाता काप्यकाशिष्ट धृष्टम्।
उत्कीर्णोच्चैः स्पाटिकस्तम्भभित्तौ स्पष्टकारा पुत्रिकेव स्फुरन्ती ॥ 18.54
लेखाः सीता बिभ्रती मध्यभाजः सुभ्रूरन्या कामकेदारभूमिः।
आप्यायिष्ट प्रेयसो हस्तपद्मक्षिप्तैरम्भःशीकरैः सिक्तमूर्तिः ॥ 18.55
श्योतत्पादालक्तकाम्भस्तरह्गव्यासङ्गेनाबद्धरागाङ्घ्रिवक्त्राः।
रोघोलेखावर्तिनो धार्तराष्ट्रास्तासामग्रे राजहंसा इवासन् ॥ 18.56
कल्लोलौघाब्याहतेब्यस्तदानीं तद्गात्रेभ्यश्चयोतता चन्दनेन।
नीतं लावण्यामृतेनेव गौरीं छायमासीदम्बु संदिग्धफेनम् ॥ 18.57
विस्रस्तः सन्कौतुकेनाग्रभाञ्जि व्यालोलाग्रः कामिनीकेशहस्तः।
विस्तारत्वं वीचिजालेन नीतः पद्मानीवाजीगणान्निर्झरिण्याः ॥ 18.58
व्यात्युक्षीच्छाप्रेरितेनाम्भसारात्सिक्ता काचित्प्रेयसा न प्रतीपम्।
प्रागल्भिष्टाहन्तुमेनं नवोढा ह्रीर्वैयात्यं हन्ति लज्जाधनानाम् ॥ 18.59
स्थूलोच्छ्वासा निर्भरं वाजयन्ती गाढोत्कम्पोच्चैस्तरां दन्तवीणाम्।
शीतार्ता नु प्राप्तकामज्वरा नु भ्रेजे रोमाञ्चाञ्चिताङ्गी नतभ्रूः ॥ 18.60
स्पष्टप्रेङ्खत्पक्ष्मशोभाभिरामैर्नेत्रैः स्त्रीणां दिक्षु कान्तिं किरद्भिः।
फुल्लन्नीलाम्भोरुहैश्च स्रवनत्याः संघर्षेण व्यावहासीव तेने ॥ 18.61
अस्पर्धिष्टाम्भोरुहं यत्तरुण्या वक्त्रेणाराच्छायया जीयमानम्।
तत्संवव्रे निर्झरिण्या तदानीं फेनव्रातैर्वीडयेवोन्मिषद्भिः ॥ 18.62
अभ्राजिष्ट प्रेरितो मूर्ध्नि भर्तुः सीमन्तिन्या मज्जनारम्भनाट्ये।
कम्पोद्रेकान्निर्गलत्तोयशेषः फेनव्रातः पाण्डुपुष्पाञ्जलिश्रीः ॥ 18.63
विच्छिन्नानां तारहारावलीनां लग्नैरम्भःशीकरैरुन्मिषद्भिः।
प्रत्याजह्रे श्रीः पुरंध्रिस्तनेषु स्वच्छैर्योगः संपदे कस्य न स्यात् ॥ 18.64
मा द्राक्षुर्मां भ्रष्टमन्यानि भीरोः कर्णोत्सङ्गादुत्पलान्यम्भसीति।
ह्रीतेनेव क्वापि संचिन्त्य वीचिक्षोबाज्जग्मे कर्णपूरोत्पलेन ॥ 18.65
छायां बिब्रद्वासरेऽप्यक्षतश्रीश्छातोदर्या गम्यरूपो न राहो।
निद्रातङ्कं पङ्कजानामकुर्वन्व्यद्योतिष्टापूर्व एवाननेन्दुः ॥ 18.66
वक्त्रच्छायानिर्जिताम्भोजशोभं रोषेणेव स्त्रीजनस्येक्षणानि।
अम्भश्चक्रे वीचिधौताञ्जनानि स्वल्पः प्रीत्यै विप्रकारोऽप्यरातौ ॥ 18.67
हारप्रेङ्खत्तारमुक्ताफलौघज्योत्स्नाजालव्याजतो निर्भरत्वात्।
अस्यन्दिष्टेवाच्छलावण्यवृष्टिं पीनोत्तुङ्गः सुन्दरीणां स्तनौघः ॥ 18.68
अन्यस्त्रीदृग्दाहिधौताङ्गरागस्पष्टग्रेङ्खत्पाणिजार्द्रक्षताङ्कम्।
छातोदर्याश्छादयन्ती कुचाग्रं सासूयत्वं फेनपाली चकार ॥ 18.69
निःश्वसानां सौरभादापतिष्णून्रोलम्बौघान्वारयन्तीः कराग्रैः ।
व्यालोलाक्षी काचिदारिप्सतेव क्रीडालोला कन्दुकक्षेपवृत्तिम् ॥ 18.70
प्रत्यासन्नां कांचिदम्भोजनालैरालोक्यैव प्रेयसा हन्यमानाम्।
बिभ्रत्यन्या वक्त्रमाबद्धकोपाताम्रच्छायं विव्यथेऽनाहतापि ॥ 18.71
संग्रथ्यादात्कांचनाम्भोजमालां यामुद्वोढा रागभाजो रमण्याः।
प्लोषं चक्रे सा निकारानलस्य ज्वालेवान्यस्त्रीदृशोर्विस्फुरन्ती ॥ 18.72
किं पद्मोऽसौ लीनभृङ्गोऽङ्गनायाः किं वा हस्तः सेन्द्रनीलोर्मिकाङ्गः।
मङ्‌क्त्वा तोये कान्तयोत्क्षिप्तमित्थं संशिश्येऽन्यः पाणिमालोक्य दूरात् ॥ 18.73
प्रेङ्खन्नारादुत्थितो वीचिभङ्गैरध्यारूढः शीकरौघः स्तनाग्रम्।
गण्डाभोगं चुम्बति स्माङ्गनायाः कः स्यान्नोच्चैःस्तानलाभो गुणाय ॥ 18.74
भूतार्थैव श्रेयसी नन्वभिख्याः कोऽर्थोऽमीभिस्चिन्तयेतीव तासाम्।
ओष्ठदक्ष्णोर्यावकं कज्जलौघं तोयं निन्ये चन्दनं च स्तनाग्रात् ॥ 18.75
वीक्ष्य भ्रष्टं कर्णपूरीकृतं सल्लीलावत्याः फुल्लनीलारविन्दम्।
चित्रं यन्मे नापदेषेति तोषान्नृत्तारम्भीवाब्जमूर्मौ चकम्पे ॥ 18.76
सीमन्तिन्या निष्पतन्ती मुखीन्दोः पातुं लावण्यामृतस्येव दृष्टिम् ।
निर्भिन्नं सत्कैरवं वीचिभङ्गैर्व्यादादारादादरादाननाग्रम् ॥ 18.77
रुग्णोन्निद्राम्भोजकण्डास्तदानीं मन्दाकिन्याः क्षोभमापादयन्तीः।
सानुस्वारैर्निःस्वनैर्भृङ्गचक्रं संभ्रम्येव भ्राम्यदग्रे न्यषेधीत् ॥ 18.78
वेचिव्राताभ्याहतः कुण्डलाग्रस्पष्टाधातक्वाणरभ्यं रमण्याः।
अस्रंसिष्ट स्वाश्रयात्कर्णपूरः पात्यन्ते नो के जलौघैः सुवृत्ताः ॥ 18.79
या पर्यासे योषितां चन्दनाम्भः प्रालेयौघेनाभिपत्य स्रवन्त्याम्।
नेत्राण्यारात्सैव रक्तारविन्दच्चायासाम्यात्पाटलान्याललम्बे ॥ 18.80
प्रभ्रष्टः सन्कर्णपूरस्तदानीं धामात्मीयं सिन्धुतोयाविलश्रीः।
भूयो नाध्यारोप्यते स्माङ्गनाभिः प्रत्यापत्तिर्भ्रशभाजां दुरापा ॥ 18.81
लीलाम्भोजात्पक्ष्मधूलिः पिशङ्गी नो तन्वङ्ग्या मन्मथं नादिदीपत्।
चन्द्रोत्तंसस्येव नेत्रात्ततीयादग्निज्वालाभ्युत्थिता विस्फुरन्ती ॥ 18.82
वीचिक्षोभादुज्जिहानं मुहूर्तं बिम्बौष्ठीनां बौद्बुदं चक्रवालम्।
ऐक्षिष्टाराद्वक्त्रचन्द्रानुसारिज्योतिश्चक्रच्चायमच्छं युवौघः ॥ 18.83
हारैः प्राप्ताः स्पष्टगुञ्जाफलस्रक्छायैः शोभां कुङ्कुमाम्भःपिशङ्गैः।
ता पद्मिन्याः पत्त्रापालीं वसानां लीलामूहुः शाबरीणां वधूनाम् ॥ 18.84
निर्जित्यापि च्छायया लोचनानामम्भोजौघं तस्थुषीस्तास्तदानीम्।
मूढो लोकः पङ्कजाक्षीरवोचद्दुर्लङ्घ्चाहो रूढरूपा प्रतीतिः ॥ 18.85
व्यक्तं नेत्रच्छायया जीयमानं लज्जवेशाद्दृष्टिमार्गं जिहासत्।
मन्दाकिन्यचामाहतं विचिभङ्गैरस्पन्दिष्टेन्दीवरं सुन्दरीणाम् ॥ 18.86
वीचिक्षोभादुत्थितः फेनपुञ्जे विष्वगव्याप्तव्यायतश्रोणिबिम्बः।
सीमन्तिन्या न्यस्यमानो मूहूर्तं शोभां भेजे पाण्डुचण्डातकस्य ॥ 18.87
प्रभ्रष्टानामंशुकानां तदानीं फेनव्रातैर्वीचिभङ्गच्छटोत्थैः।
लग्नैरारात्स्त्रीजनस्य स्तनेषु प्रापि स्तान्यादेशसंबन्धिलक्ष्मीः ॥ 18.88
प्राप्ताभिख्या मुक्तशैथिल्यभाग्भिर्वेणीदण्डैर्द्राधिमाणं दधानैः ।
क्षेपोत्क्षेपायस्तपादरविन्दव्राताघातप्रेङ्खदूर्मिप्रतानम् ॥ 18.89
स्थूलाभोगैः कृष्णमाणा नितम्बैस्तोयस्यान्तस्ताः स्तनैश्चातितुङ्गैः।
कृच्छ्रात्क्लाम्यन्मध्यदोःकन्दलीकाः संप्लुत्याराद्वल्लभानालिलिङ्गुः ॥ 18.90 ॥ (युगलकम्)
बिम्बोष्ठीनां विभ्रमा हारिणोऽथ द्रागन्थोन्यासक्तहस्तारविन्दाः।
निर्यान्तीनां जाह्नवीरङ्गभूमेः पिण्‌डीबन्धा नर्तकीनामिवासन् ॥ 18.91
भाति स् मकान्तमिव कापि रसाद्दिदृक्षु-
राविष्कृतेक्षणचतुष्टयमाननेन्दुम्।
निर्घौतपत्त्ररचनाच्छकपोलभाग-
भित्तिद्वयप्रतिमितोत्पलमुद्वहन्ती ॥ 18.92
कल्लोलदोलनदलत्कनकारविन्द-
पक्ष्मावलीलुलितसान्द्रपरागापिङ्गम्।
स्त्रीणां पयः प्रियकरैरभिनुद्यमान-
मन्तः कृतास्थामपि रञ्जयति स्म चेतः ॥ 18.93
तासां कुचस्थलविमर्दविजर्जराम्बु-
वीचिच्छटाशिशिरशीकरबिन्दुकीर्णे।
स्पर्शादलक्ष्यत कुशेशयिनीपलाश-
गर्भे विशीर्णनवमौक्तिकहारपङ्क्तिः ॥ 18.94
प्रत्यग्रमज्जनरसार्द्रतया गुरूणि
लालाटभित्तिलुठितान्यलकानि तासाम्।
आघ्रातुमुत्पलमिवामलगण्डभित्ति-
बिम्बागतं विकचकोमलपत्त्रमीषुः ॥ 18.95
अन्तः प्रविश्य मकरन्दरसं पिपासु-
र्नारीकुचस्य नवगौररुचोऽङ्घ्रिपातैः।
निद्रालुकाञ्चनकुशेशयशाङ्किचेताः
श्लिष्यन्मुहुर्मधुकरो मुखमुल्लिलेख ॥ 18.96
लावण्यकान्तिसलिलप्लुतमाप लक्ष्मी-
मालक्ष्यकान्तकरजक्षतराजि नार्याः।
वप्तुं वपुर्ललितविभ्रमबीजमुष्टि-
माकृष्टसीरमिव कामकृषीवलेन ॥ 18.97
सिन्धोरथोभयकराग्रनिपीडितोद-
भारार्द्रकुन्तलकलापमनोहराभिः।
निर्धौतकज्जलजलौघकदर्थिताच्छ-
लावण्यकान्तिपरिपाण्डुरगण्डभाभिः ॥ 18.98
प्रेङ्खन्नशांशुनिकुरुम्बविडम्ब्यमान-
तोयोत्करस्रुतिकरस्थगितस्तनीभिः।
गाढोच्छ्वसज्जघनलग्नजलच्छटार्द्र-
तन्वंशुकाहितागुरूद्धरणक्रमाभिः ॥ 18.99
वीचिच्छटापटलपङ्किलरत्नपट्ट-
सोपानपद्धतिपरिस्खलनाकुलाभिः।
तत्कालसंभ्रमनिलीनमनोज्ञदत्त-
हस्तावलम्बमुदतारि नितम्बिनीभिः ॥ 18.100 ॥ (तिलकम्)
जघनफलकास्फालक्षुम्यत्तरह्गततेः क्रमा-
त्त्रिदशसरितो रत्नक्षोदस्थलीपुलिनाश्रयाः।
न्यवसत सितान्युत्तीर्याथ स्त्रियो वसनानि ता
जलधरकुलानीव स्वच्छाः शरद्दिवसश्रियः ॥ 18.101
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये जलक्रीडावर्णनो नामाष्टादशःक सर्गः।