.
हरविजयम्।
सप्तदशः सर्गः।
उत्तस्थुष्यथ दिवसार्धशङ्खशब्दे रामाभिस्तदनुचराः सविभ्रमाभिः।
उच्चेतुं तरुकुसुमानि मन्दराद्रेर्निर्जग्मुर्मुदितधियः कृतानुयात्राः॥ 17.1॥
तं नानाफलरलसपानसङ्गमत्तव्यावल्गत्कपिकरलुप्तमातुलुङ्गम्।
कल्पान्तोत्थितपवनाभिघातसाक्षिव्यावृत्तिव्यतिकररत्नगण्डशैलम् ॥ 17.2 ॥
प्रभ्राम्यत्सुरप्ररदीर्घिकोदगाहव्यासक्तद्विपकरशीकरोक्षितार्कम्।
कुञ्जान्तः फलितमृगेन्द्रनादलीलावित्रस्यच्चमरचमूरचक्रवालम् ॥ 17.3 ॥
उद्वेल्लत्तटकलधौतकल्पवल्लीसंतानस्तिमिततडिद्विलासमेघम्।
संभुक्तत्रिदशवधूविशीर्णभूषारत्नांशुच्छुरितगुहागृहाग्रभित्तिम् ॥ 17.4 ॥
स्थूलाश्मप्रतिफलदच्छनिर्झराम्भोनिर्धूतत्रिदशवधूरतान्तखेदम्।
प्रभ्राम्यद्रविरथवाजिवक्त्रनिर्यत्फेनौघस्तबकितरत्नसानुकुञ्जम् ॥ 17.5 ॥
स्वच्छाम्भः कटकसरस्तटान्तकूजत्कादम्बीदलितमृणालकाण्डखण्जम्।
दावाग्निव्यतिकरदह्यमानभूरिप्रत्यग्रागुरुमवलोक्य रेमिरे ते ॥ 17.6 ॥ (पञ्चभिः कुलकम्)
लावण्यग्लपितशरन्निशाकराणि श्यामानामिव परिपश्यतां मुखानि।
तच्चित्रं सुगततया यदन्वितनां पादानामविरलरागताविरासीत् ॥ 17.7 ॥
विभ्राणा विपुलकबन्धतां जयन्त्यो निःशेषं भुवनमुदीर्णकम्बुनादाः।
प्रत्यग्रोज्ज्वलकरवालिकास्तरुण्यस्तन्वाना रुचिरतराङ्गदोपशोभाम् ॥ 17.8 ॥
अङ्गानामसमरतान्तताभिरामां बिभ्रत्याः श्रियमसिरोपघातभाजाम्।
भूयस्योवनमनु नायकानुयातास्ताः सेना इव कुसुमायुधस्य चेलुः ॥ 17.9 ॥ (युगलकम्)
यान्तीनां विजितविनिद्रपङ्कजानां पादानां कुमुदवनानि संमदेन।
मञ्जीरक्वणितविकृष्यमाणहंसव्याजेनानुगममिव व्यधुर्वधूनाम् ॥ 17.10 ॥
कान्तानां कुचकलशैर्यथायथोहे तुङ्गत्वं व्यवदधदाननेन्दुलक्ष्मीम्।
तामुद्वीक्षितुमिव तैस्तथा तथाप्तैर्विस्तारं क्षितिरवतस्तरे नितम्बैः ॥ 17.11 ॥
विस्रस्ते त्रिदशपुरंध्रिरुत्तरीये पश्यन्ती दयितनखक्षतं स्तनाग्रे।
चस्खालानवहिताचित्तवृत्ति यान्ती प्रेमाहो क्वचिदपि नेक्षते व्यपायम् ॥ 17.12 ॥
आलोक्य प्रियतमचुम्बिचक्रवाकीचक्राङ्कस्फुरदरविन्दवृन्दमम्भः।
औत्मुक्यात्किल जघनालसाः प्रियाणां कण्ठान्तः प्रणिहितदोर्लतं ययुस्ताः ॥ 17.13 ॥
न्यस्यन्ती सपदि पदानि तत्पदेषु स्वेदाम्भः कणककरालिकानि पश्चात्।
संचेले दयिततमस्य वर्त्मनैका प्रेमाहो विविधविधिप्रपञ्चदक्षम् ॥ 17. 14 ॥
कस्याश्चिल्ललितगतागतैः प्रयान्त्याः संसक्तं भुजलतया विघट्यमानः।
चक्रन्दासुलभनितम्बपातशङ्कासंमोहादिव मणिमेखलाकलापः ॥ 17.15 ॥
मा स्मैषां पथि परुषे कदर्थना भूत्पादानामिति दययेव कोमलानाम्।
स्वच्छायाकिसलयसंस्तरः पुरस्तादातेनेऽरुणमणिनूरुरैर्वधूनाम् ॥ 17.16 ॥
क्लाम्यन्त्याः प्रतिपथमाशु वीजितायाः सख्यारान्नवशिखिपिच्छनालगौरः।
कस्याश्चिद्विमलकपोलबिम्वितश्रीरुत्तंसस्तबकपदे प्रकीर्णकोऽभूत् ॥ 17.17 ॥
अन्यस्या दयितकरावलम्बिपाणेस्तत्स्पर्शाहितपुलकानुबन्धभाजैः।
गच्छन्त्याः पथि विचकास वक्त्रशोभा नीवी च श्लथितनितम्बबिम्बवासाः ॥ 17.18 ॥
सर्पन्त्याः किसलयपाणिना मुहूर्तं श्लिष्यन्ती तरूगहनेऽभिवेष्ट्य दूरात्।
श्यामायास्तनुममिमित मध्यभागं कस्याश्चित्प्रकटकुतूहलेव वल्ली ॥ 17.19 ॥
गच्छन्त्यस्तनुखगजालपादमुद्रान्यासानामुदधिपुरंध्रिसैकतानाम्।
सुन्दर्यः सरसनखक्षतावचूलैस्तुल्यत्वं विकटकटीरकैः शशंसुः ॥ 17.20 ॥
उत्तानस्थितिविकरालकालजङ्घव्याकोशाङ्गुलिखगपादनिर्विशेषम्।
संस्थानं तनुतरनालपत्त्रामग्रे नारीभिः प्रतिपथमैक्ष्यतौरुबूकम् ॥ 17.21 ॥
ताः शोभाधिगतपरस्परोपमानं श्रोत्राक्षिस्तनकरपादमुद्वहन्त्यः।
सद्वर्त्मस्थितिमपि पक्ष्मपङ्क्तिमूहुर्यज्जिह्मां तदवमतामिव प्रपेदे ॥ 17.22 ॥
आह्लादं शिशिरतरावमर्शहृद्याः कुर्वत्योऽधिकमपरिप्लवप्रकाशाः।
और्वर्यः स्फुरदघनावलम्बिबिम्बा बिम्बोष्ठ्यो विबभूरपूर्वविद्युतस्ताः ॥ 17.23 ॥
आक्षिप्तप्रियतमचेतसा तदानीं पुष्पेषुस्फुटमवतावधानयोगम्।
पर्याप्तस्वरपदतालसच्छ्रियोच्चैर्गान्धर्वस्थितिरथ यौवतेन तेने ॥ 17.24 ॥
आभास्वत्किरणकरालरत्नहारप्रत्यग्रां दधदलकास्पदामभिख्याम्।
वैदग्धीं युवतिजनोऽथ पुष्पकाञ्चीछायावान्द्रविणपतेरिवललम्बे ॥ 17.25 ॥
तुङ्गत्वं कुचकलशेष्वथाङ्गनानां विस्तारं विकटकटचीरकस्थलीषु।
मध्येषु क्रशिमदशां शशंस लोको भावेषु स्थितिरुचिता जनस्य शस्या ॥ 17.26 ॥
प्राप्तानामबलतयापि निःसहत्वं भ्रष्टानां न तु बलिमाबलग्नतायाः।
उत्तुङ्गैः कुचकलशैरभारि तासां सद्वृत्तैरपि चतुरश्रताश्रया श्रीः ॥ 17.27 ॥
विस्पष्टद्रढिमगुणाभिरामरूपैः सत्स्थानस्तितिभिरनूनलक्षणाढ्यैः।
रामाणां करणगणैरिवाङ्गहारा नाजह्नुः श्रियमथ मौक्तिकैर्न हाराः ॥ 17.28 ॥
शृङ्गारस्तितिरमणीयनर्मगर्भव्यापारातनुरसनायकानुयाता।
रम्भोरूरथ चतुरङ्कलाञ्छितश्रीः प्रत्यग्रामतनुत नाटिकेव शोभाम् ॥ 17.29 ॥
बिभ्रत्या समकरकेतनश्रियोच्चैः प्रत्यग्रामधरदलप्रवालवल्लीम्।
मार्गकस्थं हरिणदृशा जनं हरन्त्या लावण्यं जलनिधिवेलयेव भेजे ॥ 17.30 ॥
संस्प्टष्टश्चरणतलेन पक्ष्मलाक्ष्या संसक्तैः स्तबकशतैरशोकवृक्षः।
क्षेपीयः पथि विकसल्लताकुलोऽभून्मार्गस्थः क इव न भाजनं विभूतेः ॥ 17.31 ॥
नन्वस्मिन्रतगुरुणा समं निकुञ्जे विश्रम्य व्यपनय तावदध्वखेदम्।
इत्यारादकृत नवांशुकाञ्चलाग्रव्यासक्ता व्रततिरिवार्थनां रमण्याः ॥ 17.32 ॥
अन्यस्या गुरु जघनं बभार पश्चादायान्त्याः स्फुटमधिकं सगौरवत्वम्।
पश्यन्त्यां प्रतियुवतौ सरागमेनां यत्कान्तश्चिरमनुपालयांचकार ॥ 17.33 ॥
अन्वीये मधुकरमण्डलेन तावत्संसर्पन्नुपवनमारुतः सुगन्धिः।
यावत्स्त्रीपरिमलगोचरो न लेभे को नाद्यं त्यजति पदं विशेषलाभात् ॥ 17.34 ॥
प्रस्तावे नवमधुमासनाटकस्य स्थित्वान्तर्गहनलतातिरस्करिण्या।
प्रारब्धा परभृतनर्तकेन कूजा स्त्रैणस्य श्रुतिमहरत्प्ररोचनेव ॥ 17.35 ॥
बिभ्राणं वसनमिवान्तरापि चूतं सामोदस्थिति गिरिकर्णिकाभिरामम्।
गाणिक्यं सविकटहारतां दधत्तत्क्षमाभर्तुस्तटमनु काननं च रेजे ॥ 17.36 ॥
निर्वाणस्थितिमपवर्तितैलमुच्चैरव्याप्तं न मृदुमरुद्विधीयमानम्।
तं प्रातस्तनमिव दीपकं विलोक्य स्त्रैणेन द्विगुणरताभिलाषतापे ॥ 17.37 ॥
बिभ्रणाः कनकमयं नु बीजकोशव्याजेनातनुचषकं कुशेशायिन्याः।
उत्क्षिप्तस्तरलदलाङ्गलिव्यलोकि श्यामाभिः कर इव भास्करस्य पद्मः ॥17.38 ॥
गच्छन्तः पथि घटिता निकुञ्जदेशे विश्रान्ताः क्वचन परस्परं युवानः।
सौहार्दं विदधुरयन्त्रणं क्रियाणां विस्रम्भः सुहृदि फलं ननु प्रधानम् ॥ 17.39 ॥
वामभ्रूमुखमदिरासुगन्धिसेकव्यासङ्गस्फुटबकुलद्रुमप्रसूनम्।
भृङ्गालीचरणविधूतपक्ष्ममालापर्यस्तस्तबकपरागपारिभद्रम् ॥ 17.40 ॥
उद्रच्छन्नवलवलीलवङ्गपुष्पप्रत्यग्रातनुतरसौरभाभिरामम्।
दिक्चक्रस्फुरदनुबन्धिगन्धफुल्लन्मन्दारस्तबकमधुप्रसङ्गिभृङ्गम् ॥ 17.41 ॥
सच्छायं विपिनमनुप्रविश्य पार्श्वव्यासक्तप्रियकरलग्नपाणिपद्मः।
प्रश्चयोतन्नवमकरन्दपानलीलाविस्रम्भातिशयसुखोपलब्धनिद्रैः ॥ 17.42 ॥
ऐक्षिष्ट भ्रमरकुलैः कृतं गुरुत्वं वल्लीनां युवतिजनस्तदा नतानाम्।
कस्यार्थी न भवति गौरवाय लोके संपन्नाभिमतफलऋः समाश्रितो वा ॥ 17.43 ॥ (चक्वलकम्)
आबद्धक्रमहरिकम्प्यमानसाला सा रामाभिगमसमाकुला तदानीम्।
लङ्केव स्फुटशुकसारणा वनोर्वी बभ्राजे घनरुचिराक्षसानुविद्धा ॥ 17.44 ॥
आकर्षन्मधुरसशीकरान्वनेभ्यः शेफालीकुसुमकषायगन्धगर्भः।
आनन्दं मरुदतनोत्तनूदरीणां कः श्रेयानधिकगुणात्वमाप्य न स्यात् ॥ 17.45 ॥
एकोऽपि प्रसवशरः स केन सह्यो नानात्मा किमु गणनातिगोचरो यः।
तद्भिन्ने हृदि चरितार्थ एव कामो मानिन्यां न पुनरभूदधिज्यचापः ॥ 17.46 ॥
वासन्त्यः कुसुमभृतश्च कुन्दवल्लयो ग्रैष्म्यश्च प्रतिगिरि पाटलाः प्रफुल्लाः।
अन्योन्यं युवतिजनस्य मानभङ्गप्रागल्मयं व्यतिजहसुस्तरामिवारात् ॥ 17.47 ॥
रामाणां नवनवमालिकाविकासप्रक्यग्रप्रसवतिरस्कृतं तदानीम्।
प्रारम्भे परिणतिमाप मानधैर्यं सुग्रीष्मे मुकुलमिवाथ कुन्दपुष्पम् ॥ 17.48 ॥
प्रत्यग्राङ्कुररचितश्रियं वनाली बिभ्राणा विटपततिं सपत्त्रिनादाम्।
अभ्यर्णा शरदिव निम्नगतटोर्वीमानन्दं व्यतनुत मत्तकाशिनीनाम् ॥ 17.49 ॥
उत्सृज्य प्रविकचचूतयाष्टिमुच्चैस्तृष्णान्धा अपि परिबभ्रमुर्द्विरेफाः।
कान्तास्ये श्वसितसुगन्धिनि प्रकर्षान्नैवार्ता लघुति पदे भवन्ति धीराः ॥ 17.50 ॥
संस्थानं दधदुपरि च्छदत्रयस्य त्रेताग्रिस्थितिसदृशं नितम्बिनीभिः।
नृत्यन्त्याः पवनवशाल्लाङ्गनायाः काङ्गूलः कर इव पल्लवो व्यलोकि ॥ 17.51 ॥
बिभ्राणैरधिकगुणत्वमङ्गनानां हस्ताग्रैः प्रसभमकारि पल्लवानाम्।
प्रत्वग्रोज्जवलनिजशोभया सरगैर्भग्नानामपि पुनरुक्त एव भङ्गः ॥ 17.52 ॥
मूलस्थप्रियनखमण्ड़नस्य बाहोरुत्क्षेपात्प्रतियुवतिं विदूनयन्त्याः।
आदित्सोर्द्रुमविटाग्रवर्तिपुष्पं पुष्पत्वेऽप्यमृतफलत्वमेव भीरोः ॥ 17.53 ॥
श्लिष्यन्त्या विटपशिखाश्रयप्रसूनवप्यादित्सासरभसचेतसस्तरुण्याः।
अप्राप्तप्रसवफलोदयोऽपि शाशीं संपत्तिं फलभरशालिनीमवाप ॥ 17.54 ॥
शाखाग्रस्थिति कुसुमं तरोर्जिघृक्षुर्यत्पीनस्तनविनता शशाक नाप्तम्।
तत्रासीद्रतगुरुणा विलूय दत्ते प्रत्यक्षं प्रतियुवतेः समुन्नता स्त्री ॥ 17.55 ॥
बिभ्राणै रसभरशालितामभीक्ष्णं रागश्रीसमुदयशोभिभिस्तदानीम्।
दिव्यस्त्रीकरजपरिक्षतैस्तरूणां तारुण्यं सफलमभारि पल्लवौघैः ॥ 17.56 ॥
भग्नानामगणिततद्विपत्तिदोषैर्वल्लीनां मधु कुसुमेष्वपायि भृङ्गेः।
युक्तानां तरलतया मलीमसानां न स्वार्थात्क्वचिदतिरिच्यतेऽनुरोधः ॥ 17.57 ॥
कुर्वाणा पृथुनि वधूर्नितम्बबिम्बे विस्रस्तं वसनमनास्थदुर्विनीतम्।
विस्पष्टामनुरहसं प्रियस्य नान्या न व्याञ्जीन्निधुवनलालसां स्फुरन्तीम् ॥ 17.58 ॥
भ्रूक्षेपानुगतनिकुञ्जदत्तदृष्टेराकूतं सपदि निशेमुषी प्रियस्य।
तद्वर्त्मन्यविशत काचिदिङ्गितज्ञा नो कार्ये क्वचन भवन्ति दीर्घसूत्राः ॥ 17.59 ॥
निःश्वासैरविरलसौरभैर्विकृष्टः श्यामायाः करकमले संभ्रमन्त्याः।
बभ्रामाभिमुखमपाकृतोऽपि भृङ्गः पर्याप्तं न खलु मलीमसस्य धार्ष्ट्यम् ॥ 17.60 ॥
कान्तानां करकमलैरनौकहानां लुप्तेषु प्रसभमुपेत्य पल्लवेषु।
धूतानामुपवनवाहिभिः समीरैः किं चित्रं यदसुमनस्कताविरासीत् ॥ 17.61 ॥
व्याविद्धा मधुकरपङ्क्तिधूम्ययारादाभासीदधिकमशोकपादपस्य।
प्लुष्यन्ती सपदि मनांसि माननीनामाताम्रच्छविरभिलुङ्खितेव वल्ली ॥ 17.62 ॥
नीलाब्जं श्रवणवतंसतां तरुण्या यद्भर्त्रा विकचमनीयतानतं सत्।
आत्मानं विमलकपोलदर्पणस्थं तच्छोभातिशयपरीतमैक्षतेव ॥ 17.63 ॥
न श्रेयान्सममधिकश्रिया विरोधो युक्तात्र प्रणतिरितीव पीवरोर्वाः।
उत्तंसोत्पलमवनम्य दूरमक्ष्णः प्रास्तावीत्सतवमिव चञ्चरीकशब्दैः ॥ 17.64 ॥
आताम्रासितधवलैः प्रसूनवृक्षैः स्थेयोभिः कृतवसतिस्तितेस्तदानीम्।
व्यातस्थे स्मरणभुवो वनस्थलीषु स्थूलाभैश्विरमविसंश्थुलस्फुलश्रीः ॥ 17.65 ॥
पर्यश्रुस्रुतिपरिपाटलत्वलमक्ष्णो कुर्वाणं मनसि मनोरमं व्यलीकम्।
मानित्यो रज इव चक्षुषि प्रविष्टं संरम्भस्फुरदधरा न पर्यमृष्यन् ॥ 17.66 ॥
कुर्वाणामधितरु सुग्रहेऽपि पुष्पे हस्ताग्रं सपदि युवा स्वयं प्रदित्मुः।
रम्भोरूमरुधदनेकयुक्तिभेदैः प्रेमाहो रचयितुमीहतेऽनुकूलम् ॥ 17.67 ॥
नैकत्र श्रकवसि तथा सहेमताडीताटङ्केऽप्यकृत वधूः प्रसाधितास्थाम्।
अन्यत्र प्रियकरकृष्टलम्बपालीविन्यस्तच्छदसुभगे यथाम्भमित्रम् ॥ 17.68 ॥
अन्यस्याः सुरभिमुखानिलावकृष्टा वक्त्रेन्दोः प्टथुपरिवेशचक्रबन्दम्।
भृङ्गाणां ततिरकरोत्पतत्त्रवातव्याधूतस्तबकवतंसधूलिजालैः ॥ 17.69 ॥
उन्निद्रच्चदमुपदेति पुष्पमारादानीतं यदिततमेन मेनकाश्रीः।
विब्बोकाञ्चितविनिहिञ्चितोत्तमाङ्गा वामोरूपभिमुखमग्रहीत्सपत्न्याः ॥ 17.70 ॥
व्यत्यासाद्दयिततमेन कापि नाम्नः प्रत्तायामपि सुमनस्यमर्षहेतोः।
संरम्भस्फुरदधरारुणेक्षणश्रीस्ताच्चित्रं यदसुमनस्कतां प्रपेदे ॥ 17.71 ॥
विश्राम्यत्कुचयुगलोरसि प्रियस्य स्मेरान्या मृदुचरणाग्रदुर्निविष्टा।
आदाय स्खलनपदं विलोलदृष्टिः कण्ठान्तः प्रणिहितबाहुकन्दलीका ॥ 17.72 ॥
संरम्भोन्नमितनितान्तातन्तमध्या भूयोऽपि स्थितिमधिजग्मुषी कथंचित्।
आमोदापहृतमधुव्रतं नतभ्रूरुत्तंसं शिरसि बबन्ध बन्धुरश्रीः ॥ 17.73 ॥ (युगलकम्)
कस्याश्चिद्दयितकराब्जयोजितेन श्रोत्राग्रे तरुणतमालपल्लवेन।
धूमेनाविरतमिवाभिहन्यमानं बाष्पाम्भः प्रतियुवतेर्मुमोच चक्षुः ॥ 17.74 ॥
नीरन्ध्रव्रततितिरोहितेऽपरस्याः साशङ्कं दयिततमे बभूव चेतः।
अध्यास्ते हृदयमकृत्रिमप्रियाणां कान्तानामतिबहुमत्सरो ह्यनङ्गः ॥ 17.75 ॥
संबाधाद्विरहितवल्लभा तदानीं गायन्ती रणरणकात्तपञ्चमैका।
निर्लक्षं कुसुमपरिग्रहाय सुभ्रूः संदंशं सुचिरमबभ्रमत्कराग्रम् ॥ 17.76 ॥
स्पष्टक्षिभ्रुवविकृतिप्रपञ्चशोभी शृङ्गाराकृतिपिशुनो विपक्षवामः।
सग्रीवानिरुपमरेचको जजृम्भे रम्भोर्वा दयितविलोकनेन हावः ॥ 17.77 ॥
रामाणां द्रुमविटचपाग्रजन्मपुष्पव्यादित्सारभसवशात्सवेपथुभ्यः।
हारौघैः प्रविगलितं पयोधरेभ्यो नोद्वृत्तैः सह गुणिनां चिराय योगः ॥ 17.78 ॥
नेपथ्ये मसृणमनोरमे कृतास्था शृङ्गाराञ्चितरसशालितां वहन्ती।
कान्तस्य प्रमदमुदारनुत्तलीला रम्भोरूरतनुत कैशिकीव वृत्तिः ॥ 17.79 ॥
संफुल्लन्नवनवपुष्पशेखराङ्गे निःशङ्कं मधु पपुषीभिरन्तराले।
कान्तानां चितरससंचितेन चेतो रामाभिर्मदाकिलकिञ्चितेन जह्रे ॥ 17.80 ॥
बिभ्राणा श्रुतिसुखतां मनोरमश्रीर्यान्तीनां वनभुवि मत्तकाशिनीनाम्।
मायूरी कलविरुतिः स्वराश्रयत्वं संप्राप्ता व्यतनुत मार्जनेव शोभाम् ॥ 17.81 ॥
प्रापर्ताया रहसि मनोरमेण योगं रामायाः प्रमदभरोत्थमीक्षणाम्भः।
पत्त्रालीं सपदि दुधाव गण्डभित्तावश्रेयो जगति बवेज्जडान्न केषाम् ॥ 17.82 ॥
अक्षुण्णा बत शतमन्युता तवेयं साश्चर्या सुभग विनिर्ममे विदात्रा।
निःशङ्कं विदधत एव गोत्रभेदं वज्रस्ते निवसति वाचि यन्न पाणौ ॥ 17.83 ॥
इत्यारादभिदधुषीं पुनः सपत्नीनाम्नौवावनतशिरा युवानुनीषुः।
बाष्पाम्भःप्लुतनयनां विजृम्भितान्तःसंतापामपि युवतिं व्यधात्सहासाम् ॥ 17.84 ॥ (युगलकम्)
वीक्ष्याराद्वनभुवि चूतशाखिवल्लीं वल्गन्तीं कुसुमप्टषत्कहस्तभल्लीम्।
निर्माना युवतिरभूद्रते विधेया नौत्सुक्यं व्रजति हि रम्यदर्शनात्कः ॥ 17.85 ॥
उत्तुङ्गद्रुमकुसुमग्रहाभिलाषादुत्तानीकृतवदनश्रियोऽवतंसः।
सस्रंसे युवतिजनस्य कर्णमूलादारूढो विनिपततीति नात्र चित्रम् ॥ 17. 86 ॥
कान्तायाः कुसुमरजो विलोचनस्थं यत्प्रेयान्वदनसमीरणैर्निरास्थत्।
तेनैव प्रतियुवतेः समीपभाजः कालुष्यं युगलमनायि दूरमक्ष्णोः ॥ 17.87 ॥
उत्क्षिप्ता कुसुमजिघृक्षया तदानीं तन्वङ्ग्याः सदुपलपत्त्रमण्डनश्रीः।
अक्लाम्यद्भुजलतिकातिसौकुमार्यात्सद्वृत्तैरपि खलु खेदमेति कश्चित् ॥ 17.88 ॥
विभ्राणे स्फुटतरशुष्कवर्णगेयश्थानीये निरुपमवक्त्रंपाणिशोभाम्।
विच्छित्तिं वपुषि विलोक्य वल्लभायाः प्राणेशो विपुलविलोचनोत्सवोऽभूत् ॥ 17.89 ॥
आबध्य स्रजमभिधाविपर्ययेण श्यामया दददतिवैमनस्यभाजः।
वैलक्ष्यागमपरिपाण्डुराननोऽन्यो निःस्पन्दस्थितिरकोज्झरङ्कशङ्काम् ॥ 17.90 ॥
सागस्के सुहृदि सवेपथुत्वमाप स्वेदाम्भःप्लुतपुतकाङ्कुरोत्करासीत्।
आदातुं सुतनुरियेष चावहित्थं प्रेमाहो युवतिषु मौग्धयदुर्विदग्धम् ॥ 17.91 ॥
उत्सृज्य स्फुटतरवर्णशोभमारान्नर्गन्धं युवचिजनोऽथ कर्णिकारम्।
आदित्सुः सुरभितया लवङ्गमभ्यैदाकारादपि गुण एति वल्लभत्वम् ॥ 17.92 ॥
भ्राम्यद्भइर्घनमकरन्दशीधुपानव्यासङ्गप्रमुदितमानसैस्तदानीम्।
संरम्भादलियुवभिर्वितन्यमानो न स्त्रीभिर्न नवलतोत्सवः शशंसे ॥ 17.93 ॥
सौगन्ध्यादविरलकान्तिसौकुमार्यात्तद्वक्त्रैरथ विजितः सरोजखण्डः।
भृङ्गौघैः क्वचिदपि नाध्यवत्स्यताराद्वञ्च्यन्ते न खलु परैर्विशेषनिष्ठाः ॥ 17.94 ॥
बिभ्रत्यःक प्रकृतिमनोरमाकृतित्वं ता माल्यग्रथनविकल्पशिल्पदक्षाः।
प्राणेशानथ सविशेषमेव जह्रुः साधीयो हरति गुणान्तरेण गुण्यः ॥ 17.95 ॥
श्लक्ष्णत्वं विरलविलेपनश्रियस्ता विभ्रत्यो रुचिरतराङ्गवर्तनाभिः।
सद्रूपाः सललितनाट्यचित्राभित्तीरालोक्याभिमतजनः पुपोष तोषम् ॥ 17.96 ॥
गच्छन्ति प्रकृतिमनोरमाः कदाचित्कालेन स्फुटमसता गुणेन योगम्।
निःश्वासश्वसनपरम्पराभिरासां सौगन्ध्यं यदुचितमापि कर्णिकारैः ॥ 17.97 ॥
प्रेयस्या निबिटनितम्बबिम्बशोभामादित्सुः कुसुममयीं विधाय काञ्चीम्।
यामारात्सरसमना युवोपनिन्ये संसर्गात्प्रतियुवतेः कृतापराधः ॥ 17.98 ॥
प्राप्तस्तत्स्मरणसरोषपाटलाक्ष्या सस्मेराननानलिनस्तया बबन्धे।
प्रायेण ह्यननुगुणे विधावुपैति ध्याततोऽर्थः परिणतिमन्यथैव पुंसाम् ॥ 17.99 ॥ (युगलकम्)
निःश्वासावधुतपयोधरा विहारव्यापाराद्वनभुवि मम्लुषी तदानीम्।
स्वेदाम्भः कणनिकरं मुमोच सुभ्रूः शेफाली पवनहतेव पुष्पवर्षम् ॥ 17.100 ॥
प्रम्लानाञ्चितपुटतामरालकेश्या बिभ्राणा निपतिततारकाभिरामा।
अन्यस्या विपिनविहारविभ्रमेण श्रान्ताया दयिततमं जहार दृष्टिः ॥ 17.101 ॥
भ्रान्ताया गिरितटकानने मृगाक्ष्याः प्रेक्ष्यत्वं दयिततमस्य जग्मिवांसः।
स्विद्यन्त्या बभुरवलग्नपबिन्दुचित्राः प्रोत्तुङ्गतनतटवर्तिनो नखाङ्काः ॥ 17.102 ॥
प्राप्तायाः किसलयपाणिनोपकण्ठं कस्याश्चित्कुसुमरजोभिरासजद्भिः।
आलीव द्रुतमलिखल्लता कपोले निर्धौतां श्रमसलिलेन पत्त्रवल्लीम् ॥ 17.103 ॥
सर्वतुग्रथितमनोरमश्रियोऽद्रावुन्निस्तबकभृतो यथाविशेषम्।
भृङ्गेभ्यो भृशतरमस्वदन्त वल्ल्यो भावानां भवति कुतः प्रकर्षनिष्ट ॥ 17.104 ॥
आकृष्यांशुकममलं नवोढवध्वास्तद्दृष्टिप्रकटकुतूहलस्य भर्तुः।
विस्पष्टं व्रततिरदर्शयन्मुखेन्दुं भव्यानां भवति यतस्ततोऽर्थसिद्धिः ॥ 17.105॥
पात्रत्वं मनसिजलासकस्य याता नर्तित्वा कुसुमविहारनाटकान्ते।
विष्कम्भस्तितिविशदप्रवेशमार्गन्निर्जग्मुः कमलदृशेऽथ काननाङ्कात् ॥ 17.106 ॥
स्पष्टेहामृगडिमवीथिकं सदङ्कव्यायोगं तदनु विहृत्य निःसहाङ्ग्यः।
अत्याक्षुः स्फुटदशरूपकव्यवस्थं मन्थाद्रेर्मणितटकाननं रमण्यः ॥ 17.107 ॥
बिभ्राणं दिशि दिशि रासकाङ्कलीलां नानान्वानुगतविशालतालशोभम्।
सुन्दर्यः कथमपि तद्वनं जहुस्ता रम्याः स्युः क इव हि सुत्यजाः पदार्थाः ॥ 17.108 ॥
प्रेयोभिः सममवगाह्य काननोर्वीं देहार्धस्थितिरिव शूलिशैलपुत्र्योः।
रामाभिर्न रुचिरसैकताभिरामा नालोकि त्रिदशतरङ्गिणी विदूरात् ॥ 17.109 ॥
कूजन्तीं मधुकरमण्डलीं पुरस्तादालोक्य स्तबकितकोविदारलीनाम्।
प्रौढत्वाद्दयिततमेव कापि सार्धं प्रस्तावं व्यतनुत कोविदा रलीनाम् ॥ 17.110 ॥
भाति स्म वल्लभकरग्रथितं नितम्ब-
बिम्बावलम्बि रशनागुणदाम पौष्पम्।
चारुभ्रुवः प्रचुरसौरभलोभलीन-
शिञ्जानहारिमधुपावलिकिङ्किणीकम् ॥ 17.111 ॥
उत्तंसभागकुचबनधुरकंधराग्र-
काञ्चीगुणास्पदविचित्रविनिद्रपुष्पाः।
रेजु कुशेशयदृशः कुसुमायुधस्य
सुग्रीष्मकेण रचिता इव हेतिशालाः ॥ 17.112 ॥
अथ विपिनविहारक्लान्तिजन्माननेन्दु-
ग्रहगणपरिवारस्वेदबिन्धूद्गमानाम्।
श्रियमिव परिमार्ष्टुं श्वाससौगन्ध्यलुभ्य-
न्मधुकरकुलपक्षैर्वीज्यमानाः सलीलम् ॥ 17.113 ॥
कल्लोलानिललोलदोलनललच्चामीकराम्भोरुहां
रत्नक्षोदपरागसैकतभुवं मङ्क्तुं सुरस्यन्दिनीम्।
प्रेयोभिः सममुच्छ्वसत्कुचभरक्लाम्यन्नितम्बस्थली-
लीलामन्थरचारचारुचरणन्यासा नताङ्ग्यो ययुः ॥ 17.114॥ (युगलकम्)
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये कुसुमावचयवर्णनो नाम सप्तदशः सर्गः।