१६

.

हरविजयम्

षोडशः सर्गः।

तस्मिन्नुदीर्य वचनं जितमेघगर्ज-
मावर्जितोर्जितभटं विरते शिखण्डी।
स्फुर्जत्सभाभवनभित्तिपुटोपगूढ-
पर्जन्यधीरनिनदप्रतिनादसान्द्रम् ॥ 16.1 ॥
वैकक्ष्यकस्फुरदुदंशुविचित्ररत्न-
दामाबिरामतनुरिनन्दुकरच्छटाच्छः।
तिर्यङ्निषण्णकुलिशायुधकार्मुकाङ्क-
नीहारशैलसदृशीं श्रियमादधानः ॥ 16.2 ॥
प्रेङ्खत्फणामणिशिखारुणितोपवीत
सूत्राधिकारभुजगः सदसीन्दुमौलेः।
निर्घौतधातुकपिलीकृतनिर्झराद्रि-
लीलां दधद्वचनमित्थमुदाजहार ॥ 16.3 ॥ (तिलकम्)
विद्याधिपो यदनघान्द्विषतो जिघांसु-
रत्युर्जितं वचनमाह न विस्मयस्तत्।
लोकान्दिधक्षुरखिलानयुगार्चिरर्चि-
रुग्रं यदीरयति तत्र किमद्भुतं स्यात् ॥ 16.4 ॥
सारं ततापि गदतः सदसि ग्रहीतु-
मर्हाः स्थ यूयमधुना वचसो ममास्मात्।
अम्भोजपक्षमरजसो मकरन्दबिन्दु-
माधूसरादपि किमाददते न भृङ्गाः ॥ 16.5 ॥
गर्भीकृतत्रिभुवनोदरवर्तिविश्व-
निःसंख्यवाङ्भयकृतास्पदवर्णदेहा।
काप्यद्भुतेयमनघा परमेश्वरस्य
शक्तिः स्थिता प्रतिमुखं भुवि मानवानाम् ॥ 16.6 ॥
यस्याः प्रसादवशतो विनिशेमुषां नः
कार्यर्थतत्त्वमनघस्थिति शेमुषीयम्।
वक्तुं निसर्गमलिनामपि वाचमित्थ-
मुच्चैः प्रवर्तयति संसदि चन्द्रमौलेः ॥ 16.7 ॥
भ्राम्यन्त्यनर्गलमितस्तत एव मोह-
पङ्क्रप्रतानमलिना शशिमौलिना धीः।
स्पष्टीकृते व्रजतु नीतिपथे प्रसाद-
मेषा शरत्समयबन्ध इवापगा वः ॥ 16.8 ॥
व्यापारिता नंयपथेन जगत्यभीक्ष्णं
भावा व्रजन्तु मृदवोऽपि पटुक्रियत्वम्।
प्रस्तौति मन्त्रकृतसंस्कृतिरूपवेणु-
वीणारवपोऽपि विषमस्य विषस्य नाशम् ॥ 16.9 ॥
सत्कृत्य साधनविविक्तनयानुसार-
निघ्नायमानमनसः संमयव्यपेक्षः।
प्राज्यः समीकरभसो हृदये न मेऽस्ति
सान्द्रो रसः कथमिवाम्रशालाटुनि स्तात् ॥ 16.10 ॥
संहारभानुरिव रत्ननिधिं प्रताप-
रिक्तीकृतामलयशःसलिलं य एकः।
चक्रे हरिं प्रकटितातनुमीनकूर्म-
रूपं विशृङ्खलमखण्डितमण्डलाग्रः ॥ 16.11 ॥
आकर्णताण्डवितकीर्तिलतालवाल-
कोदण्डमण्डलभुजेन नतोत्तमाङ्गाः।
येनोज्झिता युधि दयामृदुना विजित्य
याथार्थ्यमापुरमरा प्रथितस्य नाम्नः ॥ 16.12 ॥
सङ्गामदुग्धजलधेः स्फुटकालकूट-
लेखायमानकरवालकरालमध्यात्।
योऽभ्युत्थितां कुमुदगौररुचिं चकार
सत्कीर्तिचन्द्रकलिकां श्रवणावतंसम् ॥ 16.13 ॥
यऋः योदभारजलदच्चविना निशात-
पत्त्रेण संयुगमुखेष्वसिनापि दोष्णः।
साहायकं विदधतां स्फुटमत्रपिष्ट
पिष्टाततायिकरिकुम्भभुवोर्जितश्रीः ॥ 16.14 ॥
सोऽप्यन्धकः सकलदानवचक्रवाल-
भास्वत्किरीटकषणक्वणिताङ्घ्रिपीठः।
हेलावरोपितनिरर्गलवैरिवंश-
बाहुद्रुमोऽत्रभवतामभियोज्यपक्षे ॥ 16.15 ॥ (पञ्चभिः कुलकम्)
ये दानवाघपतयो मृदिता मृधेषु
शार्ङ्गायुधेन कथमप्यपरः स तेभ्यः।
येनेतरः शममुपैत्यनलो जलेन
भस्मीकरोत्यखिलमेव तदौर्ववह्निः ॥ 16.16 ॥
नैकत्र शक्तिविरतिः क्वचिदस्ति सर्वे
भावाः क्रियास्वपरिनिष्ठिततारतम्याः।
आक्लपमौर्वदहनेन निपीयमान-
मम्भोधिमेकचुलकेन पपावगस्त्यः ॥ 16.17 ॥
निर्जित्य यचान्विजयिनः सुरलोकपाला-
न्दैत्यानसौ सकलदिक्प्रभुतामनैषीत्।
प्रत्येकमाजिभुवि तेऽपि च दृष्टसाराः
सर्वाभिसाररभसेन सुरैरजेयाः ॥ 16.18 ॥
यत्राभियोगचलिते दिवि देवजात-
मालोक्य सैनिकधुतावनिधूलिलेखाः ।
सस्मार लग्नशशिमौलिशिलीमुखाग्नि-
संधुक्षितत्रिपुरधूमशिखावलीनाम् ॥ 16.19 ॥
दध्रे रणेषु कनकाङ्गदबन्धनिर्य-
दंशुच्छटापटलविच्छुरितासियाष्टिः।
दोष्णापि यस्य भुवनक्षयदक्षशिक्ष-
शौर्यातिरेकनिकषोपलपट्टिका श्रीः ॥ 16.20 ॥
अभ्येत्य यत्र चरणानतिभाजि गाढ-
मानग्रहा रिपुचमूः प्रतिपत्तिमूढा।
प्राप्तधिकक्षतिरचेष्टत नैव किचि-
दाप्लवितक्षितितलं परमस्रमौज्झीत् ॥ 16.21 ॥
प्रत्यग्रमौक्तिकशिलाशबलान्यवाप्य
वेलातटान्यविरलं बहुधा विभिन्ना।
कीर्तिः शशाङ्कलिकाधवला तरङ्ग-
लेखेव दुघ्धजलधेः श्रियमाप यस्य ॥ 16.22 ॥
संत्रासकम्पतरलाः कुरुते विपक्ष-
सीमन्तिनीस्मृतिगतोऽपि स कालकेतुः।
यस्याच्छमौक्तिकनिभेन वहन्ति सिन्धु-
वेलावनानि फलितामिव कीर्तिवल्लीम् । 16.23 ॥ (पञ्चभिः कुलकम्)
यस्य प्रयाणसमयेषु चमूविमर्द-
निर्दिरितावनितलोत्थितधूलिदग्धाः।
श्यामीबभूवुरहितोन्नतवंशदाह-
लग्नप्रतापशिखिधूमचिता इवाशाः ॥ 16.24 ॥
आलग्नभग्नकरजाङ्कुरया नृसिंह-
मूर्तौ नवाभ्र इव गर्जति शार्ङ्गपाणौ।
यस्योत्थिताभिनवरत्नशलाकयेव
लक्षअमीरुरः स्थलविदूरभुवा विदध्रे ॥ 16.25 ॥
सङ्ग्रामकाननतलेऽवचिकाय यस्य
चारूणि कीर्तिकुसुमानि रिपुद्रुमौघात्।
विस्पष्टहेतिपरिघट्टनतारघोष-
माणिक्यनूपुरकलक्वणिता जयश्रीः ॥ 16.26 ॥
यं प्रस्थितं समनुगन्तुमिवारिपक्ष-
लक्ष्मीस्वयंवरपतिं तरसा विचेलुः।
उद्दामनागकटका धरणीभृतोऽपि
सेनावमर्दपरिकम्पितभूमिपीठाः ॥ 16.27 ॥
शक्यो हिरण्यकशिपोस्तनयः स जेतु-
मायोधने कथमिव त्रिणतां धुनानः।
केयूररत्नरुचिवन्दनमालिकाङ्क-
पीनोन्नताग्रजयतोरणबाहुदण्डः ॥ 16.28 ॥ ( पञ्चभिः कुलकम्)
यस्मिन्परिस्फुरति संयुगमूर्ध्नि दूर-
मैरावणस्य मदशून्यकपोललग्नाः।
शङ्के शिलीमुखगणाः क्वणितच्छलेन
शौर्यातिरेकमतिगाढरुजो निनिन्दुः ॥ 16.29 ॥
दिक्चक्रवालघटितास्खलितप्रताप-
तीव्रातपव्यतिकरादिव मन्दिरेषु।
बन्दीकृतोर्जितविपक्षनितम्बिनीनां
श्यामायितं सपदि यस्य मुखेन्दुबिम्बैः ॥ 16.30 ॥
रोमाञ्चकण्टकिततां जडिमानुबन्ध-
मुद्वेपथुत्वमतिलोठनतामदार्ढ्यम्।
यस्यातंतायिप्टतना युधि नायकस्य
संदर्शनादभृत संभ्रमलोलदृष्टिः ॥ 16.31 ॥
येनावकीर्णमुखराग्रशराग्निहेति-
तिग्मत्विषा विदधिरे दयितायमानाः।
प्लुष्टरिकाननतलोत्थितसान्द्रधूम-
धम्मिल्लबन्धरचनारुचिरा इवाशाः ॥ 16.32 ॥
श्रौतः स मन्त्र इव कस्य न शान्तिहेतु-
रायोधनेऽप्रतिरथस्तिमिरासुरः स्यात्।
शोकेन यस्य मलिनानुकरोति मन्द-
संचारिणी रिपुवधूर्निजदृष्टिमेव ॥ 16.33 ॥ (पञ्चभिः कुलकम्)
यस्याभिषेणनरसप्रवणस्य पीन-
हस्तार्गलान्तरविनिर्गतशीकरौघैः।
मार्जन्ति मत्तजयनागघटा रिपूणां
दिग्भित्तिलग्नमिव कीर्तिसुधोपलेपम् ॥ 16.34 ॥
सच्चक्रनन्दकतयानिशमन्वितस्य
यस्याहवेषु दुहुषा श्रियमाशु दीप्ताम्।
शौरेः समग्रजगतामिव संक्ष्येषु
कुक्षौमतास्थितिरलक्ष्यत शात्रवाणाम् ॥ 16.35 ॥
वोढुं क्षमा धवलमस्य यशः प्रवाह-
मेका न भूरिति विचिन्त्य स यस्य धात्रा।
ज्योत्स्नानिभेन नभसि स्फुटशेषभोग-
च्छायाछलादवनितालुनि च व्यभाजि ॥ 16.36 ॥
लीनद्विरेफविधुतामरपुष्पकर्ण-
पूरोत्थितोऽनधिगतप्रसरोऽपि दूरात्।
यस्याशु केसररजोनिकरश्चकार
नाकाधिपस्य कलुषत्वमभीक्षणमक्ष्णाम् ॥ 16.37 ॥
शक्यः कथं स शतदुन्दुभिराहवेषु
जेतुं सुरैर्दलितसंधिविनिर्गताभिः।
यस्य प्रतापदहनोग्रशिखावलीभिः
शङ्के बहिर्ज्वलितमेव दिवस्पृथिव्योः ॥ 16.38 ॥ (पञ्चभिः कुलकम्)
अभ्येयुषां विरचिताञ्चलिबन्धमुर्वी-
तृष्णा दयार्द्रमनसा परिरक्षतासून्।
येनोपतापशमनैकरसेन खड्ग-
धाराजलैः शममनीयत शात्रवाणाम् ॥ 16.39 ॥
भ्राम्यन्ननेकशतपत्त्रशरारिराशि-
सेवास्पदाहवसरोभुवि राजहंसः।
यो हेलया चिरमखण्डयदूढशूक्ल-
पक्षौ रिपोर्धवलकीर्तिमृणालवल्लीः ॥ 16.40 ॥
पस्पन्दिरे शिखपिणोऽब्धिपयांसि दूर-
माकाशवर्त्म परिपुप्लुविरेऽनुवेलम्।
पुस्फोट चावनितलं बलचक्रवालं-
मर्देन यस्य हरनृत्त इव प्रयाणे ॥ 16.41 ॥
पातालरन्ध्रघटितास्पदभोगिभोग-
वेल्लज्जटाविघटनाहितपातशङ्कः।
भ्रष्टर्कचन्द्रफलदन्तुरदिग्लताग्र-
संशीर्यमाणविकटाम्बुदपत्त्रवृन्दः ॥ 16.42 ॥
तेनावरुग्णकरकेसरपक्ष्मशोभ-
नक्षत्ररत्नकुसुमस्तबकोज्जवलश्रीः।
एकेन कालदमनासुरकुञ्चरेण
नोन्मूलयते न भुवनत्रयकल्पवृक्षः ॥ 16.43 ॥ (युगलकम्)
(युगलकगर्भं पञ्चभिः कुलकम्)
उत्खातशातकरवालकरालबाहु-
रुत्प्लुत्य मत्तजयकुञ्जरकुम्भकूटात्।
मूर्तां रिपो रुचिरधौतदुकूलशुक्लां
जग्राह कीर्तिमिव यो युधि वैजयन्तीम् ॥ 16.44 ॥
यस्याततायिजनताश्चरणप्रणाम-
वैलक्ष्यकेदजनितं परिपाण्डुरत्वम्।
वक्त्रेषु गोपयितुमाकुलिता भवन्ति
सेवाञ्जलिस्थगितदीर्घललाटपट्टाः ॥ 16.45 ॥
पार्ष्णिप्रहारघटनारभसावदीर्ण-
शल्यायमानविकटाश्थिशिलावकीर्णम्।
यस्यामराधिपगजोऽपि बिभर्ति दान-
पङ्कच्छटाकलुषकान्ति कपोलमूलम् ॥ 16.46 ॥
यस्य प्रतापदहनो धवलं निनाय
विच्छायतामरियशः प्रविजृम्भमाणम्।
उल्लङ्घितार्णवतटः सहसा सहस्र-
रश्मेः प्रकाश इव शीतमरीचिबिम्बम् ॥ 16.47 ॥
शक्तो गवाक्षमधुना क इवानुबन्धु-
मायोधनेषु रचितातनुजालमार्गम्।
यत्रारिभीतितमसा न पदं व्यधायि
विस्पष्टपाण्डुरयशःशशिचन्द्रिकाढ्ये ॥ 16.48 ॥ ( पञ्चभिः कुलकम्)
सत्कर्णिकाकनकपीठपठद्विरिञ्च-
निर्मुक्तमञ्चितदलं हरिनाभिपद्मम्।
उत्खाय यः करतलेन सुरारिराज-
लक्ष्म्या वतंसकपदे विनिधातुमैच्छत् ॥ 16.49 ॥
सङ्ग्राममार्गमरूभूमिषु तिग्मरश्मि-
रश्मिच्छटाखचितखड्गमरीचिकासु।
छायामुपोढजरठातिदृढोष्मवैरि-
चक्रं न यस्य यदवाप किमद्भुतं तत् ॥ 16.50 ॥
दोर्दण्डदर्पदलनाकुलितत्वमाप्त-
मायोधनेषु रभसात्प्रविजृम्भमाणम्।
उत्सृष्टिकाङ्कमिव यो विदधौ निवृत्त-
युद्धोद्धतप्रहरणं प्रतिपक्षमेकः ॥ 16.51 ॥
यस्मिन्समुच्चलति फूत्कृतवह्निसान्द्र-
धूमच्छटारुणितकान्तिकलापमुच्चैः।
शेषः फणमणिगणं परिणामिपिण्ड-
सर्जरकोमलमधत्त विगाढखेदः ॥ 16.52 ॥
तं संयुगाग्रभुवि भावय भावयव्य (त्व)-
मुत्सृज्य मत्सरमयं गणानाथ भावम्।
उन्निदतां सुमनसामसकृच्चकार
शौर्यं मधोरिव विजृम्भितमाशु यस्य ॥ 16.53 ॥ (पञ्चभिः कुलकम्)
निः श्रेणिमूर्जितविभक्षचमूं विधाय
कीर्तिं दिदृक्षुरिव दिक्षु कृतप्रतिष्ठाम्।
यस्यारुरोह शशिशुभ्रयशः प्रकाश-
सौधोन्नतांसशिखरं भुजवीर्यलक्ष्मीः ॥ 16.54 ॥
अक्ष्मायि यस्य शिथिलीकृतनागनाथ-
विस्तारिभोगनिगडं भरखर्वितं सत्।
उद्वेलसिन्धुपरिखं क्षितिपीठप्टष्ठ-
माजघ्रुषीभिरभितः ककुभश्चमूभिः ॥ 16.55 ॥
यस्यारिकुञ्जरकटेषु तलाभिघात-
लीलाविवर्णरुधिरौघमलीमसेषु।
विच्छिन्नदानसलिलेष्वपि तत्कलङ्क-
शङ्काकुलैश्चिरमलीयत चञ्चरीकैः ॥ 16.56 ॥
तं च प्रतापवडवामुखवह्नहेति-
संप्लुष्टदुस्तरदुरन्तविपक्षसिन्धुम्।
हेलाविडम्बितहरिं क इवोत्सहेत
जेतुं विलङ्घितजगत्त्रितयं प्रजङ्घम् ॥ 16.57 ॥ (कलापकम्)
यस्याततायिदयिंतानयनोदबिन्दु-
संपातहेतुरनिशं विरराज खङ्गः।
पीनांसकूटविकटोन्नतबाहुदण्ड-
निर्यत्प्रतापशिखिधूम इवाहवेषु ॥ 16. 58 ॥
आस्कन्दलग्रबलबंहिमभूरिभार-
नम्रीकृतं विधुरितस्थितिदिग्गजेन्द्रम्।
शेषेण यस्य धरणीवलयं कथंचि-
दुत्भिप्तकुञ्चितफणानिकरेण बभ्रे । 16.59 ॥
आपीनमग्नजयकुञ्जरकुम्भचीन-
पिष्टच्छटाच्छुरितकतोयतरङ्गताम्राः।
यत्सैनिकैर्ददृशिरे जलधेस्तटेषु
गर्भीकृतौर्वदहना इव वारिवाहाः ॥ 16.60 ॥
यस्य प्रयाणसमयेषु वशीकृतानां
वैलक्ष्यखेदजनितं परिणाण्डुरत्वम्।
निह्नयते सपदि पादनखांशुजाल-
लेपेन शङ्खशुचिना वदनेष्वरीणाम् ॥ 16.61 ॥
मन्दप्रतापघटने सति निग्मभासि
पर्यस्तशोणितरसारुणमण्डलाग्रे।
छायाद्रुमेण रणवर्त्मगतेन तेन
दूरायतोन्नतिभृता सविशेषमूहे ॥ 16.62 ॥ (पञ्चभिः कुलकम्)
व्यूहं समारचय तेजय सैनिकौघ-
मास्फालयेष्वसनमासु विमुञ्च बाणान्।
भिन्द्धि क्षणात्करिघटा दलयाश्ववारा-
नाचेरिवांसमिति योऽरिगणं व्यमृद्रात् ॥ 16.63 ॥
मायाप्रपञ्चविवशीकृतविग्रहेण
येनावलोकयत एव शशाङ्कगौरम्।
विस्मायिनस्त्रिदशदानवमण्डलस्य
दैत्यारिणामृतमिवाशु यशोऽपजह्ने ॥ 16.64 ॥
यस्याभियातिभवनेष्वसमाप्तचित्र-
संभारभित्तिपुरुषा मलिनीभवन्तः।
उन्मीलनावसरशून्यदृशः समिद्धां
दध्युर्दिवानिशमिव श्रियमव्यवस्थाम् ॥ 16.65 ॥
नाभातिकोमलकपोलतलार्पितैक-
हस्ताङ्गुलीनखमयूखशिखावकीर्णम्।
यस्याततयियुवतेर्नवयौवनेऽपि
बिभ्रज्जराघवलतामिव कर्टणमूलम् ॥ 16.66 ॥
शक्यः कथं स रणवर्त्मनि धूमकेतु-
रुत्सोढुमन्यसुभटैर्दृढमूलबन्धः।
उल्लासिकीर्तिधवलाञ्चितवैजयन्ती-
रुद्धाखिलाम्बरतलोन्नतबाहुदण्डः ॥ 16.67 ॥ (पञ्चभिः कुलकम्)
लक्ष्मीलतामकृत यो बलिदानवस्य
पर्युच्छ्वसत्सुमनसं फलबन्धहृद्याम्।
विश्राणनामलजलस्फुटखड्गयष्टि-
धारानिरर्गलनिपातविरुग्ण्मूलाम् ॥ 16.68 ॥
शीतांशुशुभ्ररुचि लङ्घयतो जगन्ति
यस्यात्मना सह यशो बलिबन्धहेतोः।
पादारविन्दमकरन्दरसायमान-
मन्दाकिनीसलिलधौतमिवोदनंसीत् ॥ 16.69 ॥
विच्छिन्नदैत्यपतिनिष्ठुरकण्ठपीठ-
विष्यण्णशोणितमलीमसशातधारम्।
प्रत्यग्रटङ्कघटनापरिषेकलग्न-
पङ्कच्छटाङ्कमिव यस्य विभाति चक्रम् ॥ 16.70 ॥
प्रेङ्खन्नखप्रकरदीधितिपक्ष्मपङ्क्ति-
रक्ताङ्गलीदलकुलं विरराज यस्य।
विश्वाकृतेरतनुपाणिसरोजयुग्म-
मुत्तम्भितार्कशशीमण्कडलबीजकोशम् ॥ 16.71 ॥
यस्याचकासतितरां कप्रतिपन्नविश्व-
रूपस्य दीर्घसरला बहुतामवाप्ताः।
निःशेषषोडशनितम्बवतीसहस्र-
गाढोपगूहनरसादिव बाहुदण्डाः ॥ 16.72 ॥
यस्याधिवारिनिधि खर्वितशेषभोग-
शय्यानिरर्गलविवर्तनविभ्रमश्रीः।
हेलाविनिर्मृदितशोणितपङ्कगर्भ-
दूरावमग्नमधुकैटभटिट्टिभासीत् ॥ 16.73 ॥
फूत्कारपावकशिखानिकरो दिधक्षु-
राक्रान्तकालियफणानिकुरुम्बमुक्तः।
निर्वापितः सपदि यस्य शिखण्कडमूल-
निष्यन्दमानयमुनाजलनिर्झरौधैः ॥ 16.74 ॥
यस्य व्यलोक्यत नवाम्बुदनीलकान्ति-
रुत्तालकेशिवदनावटसीम्नि बाहुः।
बिभ्रद्वलिसारिवडवामुखरन्ध्रलग्न-
वेलानिलावधुतसिन्धुतरङ्गलीलाम् ॥ 16.75 ॥
बिभ्यत्स कैटभरिपुः स्फुटकोलसिंह-
रूपामवाप वनभूमिमिव व्यवस्थाम्।
येभ्यः सचामरकराममराधिराज-
लक्ष्मीं मुखेक्षणपरां परमां दधभ्द्यः ॥ 16.76 ॥
किं कीर्तितैर्बहुभिरत्र कृतात्मभिस्तै-
रन्यैश्च सारमिदमेव ननु ब्रुवे वः।
शंसन्ति नीतिहृदयं सुधियस्तदेत-
दालोच्यते स्वपरपक्षबलाबलं यत् ॥ 16.77 ॥ (दशभिः कुलकम्)
वक्त्रामृतांशुकिरणाहतमप्यभीक्ष्ण-
मुन्निद्रमेव दधती करपुण्डरीकम्।
लक्ष्मीर्नृणां मतिमतामिह चित्तवृत्ति-
माह्लादयत्यधिकमेव नयादवाप्ता ॥ 16.78 ॥
तत्तस्य कश्चिदुपयातु समीपमाशु
संदेशदानचतुरो दितिजस्य दूतः।
भिन्नेतरप्रकृतिमण्डलकार्यतत्त्व-
बोधे यतः प्रणिधिरेव रिपोस्तमाहुः ॥ 16. 79 ॥
तेनोदितोऽपि मधुरं सुरलोककार्य-
मार्याः स नोऽसुरपतिः प्रतिपत्स्यते चेत्।
सर्वक्रियासु भवतां तदवस्थ एव
दण्कडस्ततः समुपपादितसद्व्यवस्थः ॥ 16.80 ॥
इति नयगुणगर्भं कीर्तितं वो मयैत-
न्न मम दितिसुतेभ्यः काचिदस्त्यत्र भीतिः।
विभुरयमधुनास्ते कार्यदोलाधिरूढः
किमपरमिति तर्कातीतमार्गं न विद्मः ॥ 16.81 ॥
इत्यान्दोलितरत्नकुण्डलशिखानिर्घृष्टगण्डस्थलो
वाक्यं नीतिपथानुसारि रभसादुक्त्वा व्यरंसीदसौ।
शंसन्साध्विति तच्च कालमुसलं दूत्ये नियोज्य द्विषः
शूली बन्दिजनाभ्युदीरितजयज्योत्कारमौज्झीत्सभाम् ॥ 16.82 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये दूतसंप्रेषणनिरूपणो नाम षोडशः सर्गः।