१५

.

हरविजयम्।

पञ्चदशः सर्गः।

इति संहृतसंयुगामियोगे सदसि व्योम्नि पयोमुचीव तस्मिन्।
अभिगर्जति साधुवादकेकाकलकोलाहलनीलकण्ठचक्रे ॥ 15.1 ॥
चलिते समरोत्सवाप्तिकालप्रमदोत्फुल्लविलोचनारविन्दम्।
प्रलयानलघामदुर्निरीक्ष्यत्विषि संभावितपौरुषं भटौदे ॥ 15.2 ॥
कथमेतदिति व्युपायचिन्ताभयोगाञ्चितमूर्ध्नि शून्यदृष्टौ।
स्थितवत्यपरत्र नीतिगर्भे स्फुटनिम्नोन्नतपटष्टभुग्नवक्षः ॥ 15.3 ॥
मुकुलीकृततदृष्टि फुल्लगण्डं परिवाह्याशु शिरो मुखं दधाने।
जडमैडविडेऽरिमण्डलश्रीयकण्डूभरडिम्बडम्बरस्थे ॥ 15.4 ॥
परदेशमुपेत्य यस्य भीत्यानवमञ्जीरकमण्डलीसनाथम्।
चरणाम्बुरुहं विपक्षलोकः स्मरति स्म व्यसानातुरः पुरंध्रयाः ॥ 15.5 ॥
गमनादिव मन्थरत्वमुच्चैः परिपाण्डुत्वमिवाच्छगण्डभागात्।
कृशताक भृशमाददे च मध्यादिव यस्यारिनितम्बिनीवपुर्भिः ॥ 15.6 ॥
परिवृत्तिपरीतहारिवर्णस्वरमभ्युज्झितसंधियोगमुच्चैः।
रिपुचक्रमनूष्मतां दधानं सपदि प्राकृतमेव यस्य जज्ञे ॥ 15.7 ॥
युधि येन विवल्गता सलीलं करिकुम्भा गलदच्छमौक्तिकौधाः।
करवालसहायबाहुना स्त्रीस्तनभारैः सह चक्रिरे रिपुणाम् ॥ 15.8 ॥
स्फुटपक्षपरिग्रहेण शश्वद्दधताप्याहवमूर्घ्न्यपक्षतित्वम्।
क्षयकालनभस्वतेव शैलास्तरसापिक्षत येव विद्विषन्तः ॥ 15.9 ॥
युधि वल्गति यत्र तिग्मतेजःप्रतिपक्षास्तमयप्रदोषखड्गे।
दितिदा भुजवीर्यसंपदोच्चैरदरिद्रासिपुरद्रिसारदेहाः ॥ 15.10 ॥
श्रियमेति च यस्य खड्गयष्टिर्विपुला पाण्डुरदन्तमण्डलाङ्का।
उडुपाण्डुनिजाण्डपिण्डनिर्यत्तिमिरव्रातविधूसरोरगश्रीः ॥ 15.11 ॥
प्रथयन्भुजपादपालितस्य स्फुटकेयूरमदा(सा) ररश्मिभङ्ग्या।
कदलीदलसंनिवेशमुच्चैरिव दुर्वारपराक्रमद्विपस्य ॥ 15.12 ॥
भुवनप्रलयानलस्त्रिलोकीदहनायेव शिखावलीर्विकीर्णाः।
स दधत्परिपिङ्गला जटालीर्गुरुसंरम्भविधूनितोत्तमाङ्गः ॥ 15.13 ॥
गुरुकार्यविचारणावितर्कस्फुरदुद्वृत्तपुटां दृशं दधानः।
प्रमथाधिपतेर्निराकरिष्यन्गिरमौर्जित्यवतीं विवृत्य किंचित् ॥ 15.14 ॥
दशनांशुमिषेण नन्दिषेणः शुचिना दर्शिततीरकाशशोभाम्।
अपमृष्टकलङ्कदोषरम्यामिति निश्चित्य सरस्वतीं ससर्ज ॥ 15.15 ॥ (पञ्चदशाभिः कुलकम्)
स्फुरिताधरधातुरागधूलिच्छुरिता दन्तमरीचयोऽस्य शुभ्राः।
शुचिमानसनिर्झराभिरामां श्रियमासेदुरथो विनिष्पतन्त्यः ॥ 15.16 ॥
हरसंसदि तस्य चाभिधित्सोर्गिरमुच्चैरनभिप्लुतार्थगुर्वीम्।
ककुभः समवस्त्रयन्निवैता दशनांशूत्करमिन्दुरश्मिगौरम् ॥ 15.17 ॥
अनपेक्ष्य भवादृशां पुरो यल्लघुवाग्मित्वमभिव्यनक्ति मादृक् ।
अपराध्यति तत्र नूनमेषा तदनार्या खलु कार्यनिम्ननैव ॥ 15.18 ॥
प्रतिपादयितुं यदन्यथार्थान्कुशलत्वेन जनो व्यवस्ततीमान्।
सकलः स गुणोऽस्य वाग्मितायाः सततं ते पुनरात्मरूपनिष्ठाः ॥ 15.19 ॥
निजशक्तिपरिक्षयेण लोको भयमेष व्यवलम्बतां नयाख्यम्।
पृथगेव पराक्रमस्तु सिद्ध्यै घटते दोर्द्रुमदर्पदर्पणो वः ॥ 15.20 ॥
रिपुणा व्यवरोपितेषु धाम्नः परिमृष्टावयवार्थसंज्ञकेषु।
सकलेषु कृतेषु नाकसत्सु प्रसभं ह्रीपदवृत्तिजीतिवेषु ॥ 15.21 ॥
असुरीजनकर्णपूरलीलाव्यवलुप्तामलरत्नपल्लवेषु।
सुरसाखिकदम्बकेषु दूरं दृढतापास्पदतामुपागतेषु॥ 15.22 ॥
दितिजापहृतामरेन्द्रबन्दीरतसाक्षित्वमुपेयिवद्दधत्सु।
विकसन्मणिपुष्पनेत्रचक्रं त्रिदशाक्रीडलतागृहान्तरेषु ॥ 15.23 ॥
स्फुटलक्ष्मगवाक्षमार्गनिर्यन्नवकालागुरुधूमशारमध्यम्।
विदधत्स्विव मण्डलं हिमांशोरपनीतेषु विमानमण्डलेषु ॥ 15.24 ॥
विनिमग्नसुरारिचक्रकानताकुचकाश्मीरकपिञ्जरीकृतासु।
व्यवरोपितरत्नपङ्कजासु त्रिदशोद्यानलतारविन्दिनीषु ॥ 15.25 ॥
करलाङ्गलनिर्दयावकृष्टप्रकटारावविपक्षवाहिनीके।
हलिनीव हृते हिमांशुशुभ्रत्विषि दुग्धोदधिजन्मनि द्विपेन्द्रे ॥ 15.26 ॥
गुरुदुः खभरानुबन्धकाष्ठारुदितोच्छूनविपाटलेक्षणासु।
सकलामरराजवृन्दबन्धीजनतासु व्यसनौघविप्लुतासु ॥ 15.27 ॥
जगदप्रतिपल्लदर्पकण्डूभरसंभिन्नभुजे भुजिष्यभावम्।
नयति प्रसभं प्रसारितेजः प्रसरे संप्रति देवराजशत्रौ ॥ 15.28 ॥
प्रतिबद्धजयाश इन्द्रमौलो सुरलोके सममेव लोकपालैः।
गमयत्यपि वासरान्कथंचिद्दयितालिङ्गनमङ्गलाभिलाषात् ॥ 15.29 ॥
अधुनापि किमास्यते जयश्रीरभसाकर्षणबद्धनिश्चयानाम्।
ननु ताम्यति मानसं भटानां किमुपायान्तरचिन्तनान्तरायैः ॥ 15.30 ॥ (दशभिः कुलकम्)
अनपेक्षितकालयापनानां भुजदण्डेऽद्रिशिलाविशङ्कटांसे।
युगपन्निवसन्ति सत्त्वभाजामसिसङ्ग्रामजयश्रियो भटानाम् ॥ 15.31 ॥
कृतमेव हि मन्त्रचिन्तया वः समरस्योन्मिषतः शताश्रिपाणेः।
कवलीकुरुते यदस्तमभीतिर्ग्रकल्लोल उपेत्य चन्द्रसूर्यौ ॥ 15.32 ॥
युधि दैत्यपतौ विजृम्भमाणे वयमासिष्महि यन्निरस्तयत्नाः।
प्रभुशासनलाभशून्यतायाःक परिणामः कटुकः सुदारुणोऽयम् ॥ 15.33 ॥
पिनषाम किमाशु चूर्णपेषं विनिमेषान्तरतः सुराहितानाम्।
इति चन्द्रकिरीट देह्यनुज्ञां त्वदनुद्योगहता हि नो जयश्रीः ॥ 15.34 ॥
द्रुतमित्थमतर्किते गतेऽपि द्विविधं कालमवेत शौर्यशौण्डाः
समयाख्यमुपस्थितं रणे नः सुरशत्रोः समवर्तिसंज्ञमन्यम् ॥ 15.35 ॥
रण्मूर्धनि दैत्यराजलक्ष्म्या दिदरिद्रासति नूनमन्धकोऽसौ।
यदनेन कृताः प्रकृप्यतां वो भ्रुकुटीभङ्गतरङ्गिता ललाटाः ॥ 15.36 ॥
अपजह्नुविरे ययाशु जह्नोस्तनयायाः पतिता दिवो जलौघाः।
सकलासुरवंशनाशहेतुस्तव सैकेव जटास्तु नाथ मुक्ता ॥ 15.37 ॥
रणमूर्ध्रि जयश्रियं भटौघे दृढमाश्लिष्टवति द्युलोकनार्यः।
सुननाथ भवन्तु दूरचिन्ता मदानाकूतविघातबद्धमूर्छाः ॥ 15.38 ॥
कवतचानि पिनेहिवांस एते समराय प्रमथाः सघोरगर्जाः।
क्षयकालघनाघनौघघाटिं दधतु व्योम जवाद्विलङ्घयन्तः ॥ 15.39 ॥
गणनाथ भवन्तमुत्सुकत्वात्परिषिष्वङ्क्षुरविश्लथं जयश्रीः।
पुलकोद्गमकर्कशां बिभर्ति ध्रुवमायोघनमूर्ध्नि देहयष्टिम् ॥ 15.40 ॥
स्थिरनिश्चितवैरमानसेन प्रभुतामप्यधिजग्मुषा त्रिलोक्याम्।
द्विषता मलिनात्मकेन शंभोस्तिमिरेणेव न भास्वतोऽस्ति संधिः ॥ 15.41 ॥
भजते हि न साध्यतां स साम्ना सकलोच्छेदितयाप्तवान्प्रभुत्वम्।
नियतं विबुधेषु बद्धवैरा अपि तन्मण्डलवर्तिनो न भेद्याः ॥ 15.42 ॥
न तदस्ति जगत्त्रयेऽपि रत्नं न कृतं तेन तदात्मसात्किलादौ।
भवतां तदुपप्रदानसाध्यां स्तइतिमीयादिति वार्तमेव मन्ये ॥ 15.43 ॥
इति दण्ड इहावशिष्यमाणे सकलाः सन्तु वरूथिनीचरा नः।
स्फुटकुट्टनविभ्रमासयोऽमी सुरनारीजनसंगमेष्वरीणाम् ॥ 15.44 ॥
अथवा किममीभिरिन्दुमौलिर्भ्रुकुटीभिन्नललाटभित्तिरास्ताम्।
क्षणमेकमपि व्रजन्तु चारिप्रमदानां स्मरणीयतां विलासा ॥ 15.45 ॥
शिखितापविलीनमेरुशृङ्गस्रुतकार्तस्वरनिर्झरद्रवेषु।
प्रविलङ्घितसीमसप्तसिन्धुप्लवमग्नावनिपीटमण्डलेषु ॥ 15.46 ॥
परिपुञ्जिततारकप्रसर्पत्पवनाधूर्णितसप्तविष्टपेषु।
गुरुगर्जितपूरिताखिलासामुखसंवर्तकमेंघमण्डलेषु ॥ 15.47 ॥
भुवनप्रलयेषु सोमसुर्यज्वलनानेकमरुद्गणा विशन्तः।
पृथुवक्त्रगभीरतालुमूलं बहुधा विश्वसूजो मयास्य दृष्टाः ॥ 15.48 ॥ (तिलकम्)
अविपन्नविभावसूचितत्वं दधदुद्दीपितमीनकेतु चक्षुः।
श्रियमापदमुष्य चित्रभेदस्फुटशृङ्गाररसप्रबन्धकल्पम् ॥ 15.49 ॥
द्विषतामयतिष्यतायमेको भुवनोपप्लवदायिनां वधे चेत्।
समपत्स्यत नेदृशो निकारस्तदयं नाकसदां सदैव तेभ्यः ॥ 15.50 ॥
बहुना किमुदीरितेन नाथ त्वदुपेक्षावसरेण दैत्यलोकः।
सकलानपुनःप्ररोहहेतोः स्मृतिशेषानमरान्विधास्यतेऽसौ ॥ 15.51 ॥
उपयुक्तमृणालसूत्रगर्भास्तितिरत्राहितभीतितो मरुत्वान्।
अपनिद्रयतीति पक्षपातादिव यस्याम्बुज्खण्डमुष्णरश्मिः ॥ 15.52 ॥
नमुचिप्रमदालतासु यस्य स्मितपुष्पोद्गमशोभितां दधानाः।
कुलिशाग्निशिखाहता इवैते न ययुर्विभ्रमपल्लवाः प्ररोहम् ॥ 15.53 ॥
अवधीरितघोरवज्रवह्नेर्नमुचेर्निष्ठुरकण्ठपीठमूलम्।
गमितं सपदि च्छिदां मयेति स्वरुचेतीव जहास यस्य फेनः ॥ 15.54 ॥
पुनरप्यरविन्दनालसुत्रस्तितिमासाद्य स दानवेन्द्रभीतेः।
क्रशिमातिशयेन शोकदीनः स विकासस्पदतां पुरैति शक्रः ॥ 15.55 ॥ (चक्कलकम्)
शिखिनि प्रलयंप्रमेण नीते द्विषतायोधनमूर्ध्नि तद्वधूनाम्।
स भविष्यति दाहसत्क्रियायै स्फुटमेवान्यमयो वियोगवह्निः ॥ 15.56 ॥
प्रधने निधनं प्रभञ्जनोऽपि प्रसभं दानवमण्डलेन नीतः।
सुरनाथपुरावरोधनारीगुरुनिःश्वासमयः प्रवर्ततेऽसौ ॥ 15.57 ॥
दितिजास्त्रकृशानुतापशुष्कः पुनरप्याप्स्यति नूनमात्मसाभम्।
गुरुदुःखभरावरोधनस्त्रीस्रवदस्रस्रुतिनिर्झरैःप्रचेताः ॥ 15.58 ॥
विनिहत्य यमं च दैत्ययोधा नरकद्वारकवाटसंपुटालीः।
दलयन्ति पुरा परेतचक्रप्रसभाकर्षणहर्षबद्धहासाः ॥ 15.59 ॥
इति डामरमस्तु मैव तावत्सुरकर्णोडुमरप्रणादचण्डम्।
रणसिन्धुतरण्कडबाहुदण्डा रिपुलक्ष्मीहरणे भटाः क्रमन्ताम् ॥ ॥ 15.60 ॥ (पञ्चभिः कुलकम्)
रथकुञ्जरवाजिपत्तिसैन्यं प्रततां दिक्षु रसातलोदरं वः।
विदधद्भरनम्रभूमिताम्यत्फणिफूत्कानलधूमधूम्रगर्भम् ॥ 15.61 ॥
संक्षिप्तमेतदिह दुर्घरधैर्यदर्पा-
दुद्वेलवारिनिधिकम्पितशैलचक्राः।
नायान्ति यावदसुराधिपतिंध्वजिन्य-
स्तावत्क्षमं तदभिषेणनमिन्दुमौलेः ॥ 15.62 ॥
आक्रान्तिभुग्नभुजगेन्द्रफणाग्रपीठ-
पारिपब्लवक्षितितला पृतना स्मरारेः।
प्रस्थाप्यतां रुरुधुषी दिननाथवर्त्म-
कल्पावसानजलधेरिव वीचिपङ्क्तिः ॥ 15.63 ॥
उद्वृत्तदानवकुलप्रलयोत्सवाय
देवो यदैव चलितः प्‍टतनासहस्रैः।
तद्ग्रसघस्मरतया विवृतौष्ठवक्त्र-
मभ्येत्य धावति तदैव पुरोऽस्य मृत्युः ॥ 15.64 ॥
हेलानिरस्तहरिहेतिविलूनकण्ठ-
पीठः सुरारिप्टतनानिकुरुम्ब उच्चैः।
प्राप्नोतु सांप्रतमविग्रहतामुपोढ-
सिंहीसुतानुकृतिरर्दितचन्द्रसूर्यः ॥ 15.65 ॥
क्षुन्दन्तु दन्तपरिघप्रसभाभिधात-
निर्धूतकाञ्चनपरागपिशङ्गिताङ्गाः।
वप्राभिघातघटिताः करिणो विरुग्ण-
कल्पद्रुमौघविषमानि तटचानि मेरोः ॥ 15.66 ॥
आवासितस्य शिशिरांशुभृतोऽधिमेरु
मन्दाकिनीहदजलं विनिमज्जनेषु।
कुर्वन्तु सैनिकवधूजनता मुखेन्दु-
लावण्यकान्तिजितकाञ्चनपद्मशोभम् ॥ 15.67 ॥
उत्पाता एवं नूनं सकलदितिसुतग्राससंरम्भधाव-
न्मृत्युव्याधूतकल्पानलकपिलशिखाविभ्रमोल्काकलापाः।
शंसन्त्युद्वेलरत्नाकरसलिलरयाध्माततीराद्रिरन्ध्र-
ध्वानैः सङ्ग्रामगोष्ठीमुदितसुरवधूचक्रसंचारिकां वः ॥ 15.68 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये नन्दिषेणनयाभिषेणनवर्णनो नाम पञ्चदशः सर्गः।