.
हरविजयम्।
चतुर्दशः सर्गः।
इत्थमुक्तवति तत्र भारतीमुन्मिषत्स्मितकपोलमण्डलः।
वक्तुमारभत संसदि क्रमात्पुष्पहास इति नीतिनिष्ठुरम् ॥ 14.1 ॥
शक्तिमस्खलितसारसौष्ठवां क्ष्माधरोद्दलनदुर्धरां दधत्।
स्वामितामपि गतो गरीयसीमन्धकारितनयो न योऽभवत् ॥ 14.2 ॥
दुर्धरप्रसरतामुपेयिवानप्रथिष्ट भुवनान्तरेषु यः।
और्ववह्निरिव हेतिमण्डलीसंततक्षपितवाहिनीपतिः ॥ 14.3 ॥
यस्य दुर्गतविपक्षसुन्दरीम्डलेन बिभरांबभूविरे।
रोदनारुणितलोचनोत्पलच्छायकुह्कुमविलेपनाः स्तना ॥ 14.4 ॥
भास्वतोऽप्यविहितां करस्थितं दिङ्भुखेष्वधिकमाशु कुर्वतः।
यस्य मण्डलमलङ्घ्यमुच्चकै राहवीयमगमन्न विप्लवम् ॥ 14.5 ॥
नाप भूतिमलनात्कदर्थनां तापयोगमगमन्न च क्वचित्।
यः सुवृत्तविमलस्थितिर्दधौ रत्नदर्पण इवाधिकां श्रियम् ॥ 14.6 ॥
यस्य चारुगुणमौक्तिकोत्करभ्राजितेन्दुकरपाण्डुरचछविः।
हारयष्टिरिव कीर्तिरुच्चकैर्मण्डनत्वमगमत्परं दिशाम् ॥ 14.7 ॥
यस्य च प्रसृतया निरर्गलं कैटभद्विष इवोन्नतिश्रितः।
विष्टपत्रयमलङ्घ्यताञ्जसा दूरमस्खलितया यशः श्रिया ॥ 14.8 ॥
चन्द्रदीधितिविपाण्डुना यशःपुष्पसंभृतिभरेण भूरिण।
लङ्घिता भुवनकाननोदरे यस्य नेमुरखिला हलिल्लताः ॥ 14.9 ॥
स्थेयसी भुवनमन्दिरस्य दिग्भित्तिभागरचिताञ्चितस्तितिः ।
चारुटङ्कघटना बभौतरां यस्य कीर्तिमणिसालभञ्जिका ॥ 14.10 ॥
तस्य तत्र वदतो वचस्तदा निर्गता दशनरस्मिमण्डली।
जाह्नवीव शशिपाण्डुरेकतां प्राप संभुगलकान्तिसिन्धुना ॥ 14.11 ॥ (दशभिः कुलकम्)
क्रुद्धकालमुसलादिकीर्तितं संप्रहारनयगोचरं वचः।
ऊर्जितं च मधुरं च शुश्रुवान्वक्तुमभ्यधिकमुत्सहेन कः ॥ 14.12 ॥
कोविदारचितशोभ उच्चकैरत्रसन्निहितनीलकंधरे।
द्रोणकाक इव निष्ठुरं सदः कानने किमपि रौम्यलज्जितः ॥ 14.13 ॥
शुश्रुवानपि गणाधिपोदितं वाक्यमेतदहमक्ष्मं ब्रुवे।
श्रोत्ररन्ध्रगतकेकिकूजितः किं विरौति परुषं न मौकुलिः ॥ 14.14 ॥
तत्तथापि जडतानुरोधतः शत्रुतोऽथ युधि बिभ्यता मया।
नीतिवर्त्मरभसादुतोदितं श्रोतुमर्हथ मलीमसं वचः ॥ 14.15 ॥
न क्रुधोऽवसर एष सांप्रतं गाढमान्धयमतमो नृणामसौ।
दृश्यतां गणपतोऽन्यया दृशा कार्यमेतदतिसंकटे स्तितम् ॥ 14.16 ॥
तीक्ष्णतामविहतां दधानया भेदपाटवजुषा युधि द्विषाम्।
साधयन्त्यमलया धियोन्नताः कृत्यपक्षमथवासिधारया ॥ 14.17 ॥
यस्य नाम्नि सहसाभ्युदीरिते संभ्रमज्वरपरिग्रहाकुलाः।
बिभ्रति स्म विरसत्वमाननैः शोषितौष्ठपुटतालवः सुराः ॥ 14.18 ॥
सप्ततापमतितीव्रतीन्वितं छाययैव सुरराजमण्डलम्।
यश्चकार परिहीनमोजसा भानुबिम्बमिव सिंहिकासुतः ॥ 14.19 ॥
प्रापब्तमिन्धमवमृद्य तापितं यः करस्थितिमुपागतं क्रमात्।
आत्मदर्शमिव विद्विषां व्यदानमण्डलं मुखविलोकनक्षमम् ॥ 14.20 ॥
संयुगेषु शशिशुभ्रमुच्चकैः साधुशब्दमुखरीकृताम्बरम्।
यश्च शङ्खमिव कैटभं द्विषन्संदधौ करतलाश्रयं यशः ॥ 14.21 ॥
तादृसेऽपि सुरवैरिणीदृशं स्पष्टमग्रहणमेव बिभ्रताम्।
ब्रूत किं नु भवतां विभाव्यते धैर्यमेतदुत जाड्यजृम्भितम् ॥ 14.22 ॥ ( पञ्चभिः कुलकम्)
साध्यवस्तुषु न सामपूर्वकं साधनं न खलु शस्यते बुधैः।
बिभ्रतो भवति धीरकोपतामाननं प्रथमुन्मषत्स्मितम् ॥ 14.23 ॥
कृत्यवस्तु निपुणां प्रसाधयद्विप्लवोदयदशाविनाकृतम्।
विद्धि बेदगहनैरवस्थितं तच्च संकलिपपञ्चभक्तिकम् ॥ 14.24 ॥
कृत्यपक्षमखिलं विचिन्वतां साधनाह्गवचनानुदाहृतेः।
दृश्यते पुरत एव मन्त्रिणां वादानामिव विपर्यये जयः ॥ 14.25 ॥
मोहविप्लुतदशं प्रवर्तितस्वेदबिन्दुपुलकाङ्कुरोत्करम्।
विद्विषां हरतु मन्त्र एष वः क्ष्वेडमाप्यमिव दर्पविभ्रमम् ॥ 14.26 ॥
दर्शितावयवपञ्चकं क्रमात्तत्कणव्रतविनेयविभ्रमाः।
दुर्जयोर्जितविपक्षनिर्जये वाक्यमञ्चितधियः प्रयुञ्जते ॥ 14.27 ॥
साधयद्भिरविरुग्णमीप्सतं शास्6हेतुभिरिव त्रिलक्ष्मभिः।
जृम्भितं जगति यैरनर्गलं वैरिभिः प्रतिदिशं दिवौकसाम् ॥ 14.28 ॥
विस्फुरन्मणिकरालमूर्धतां बिभ्रतामतनुमेचकत्विषाम्।
भोगिनामिव न दण्डवट्टना नोपघातघटनाय विद्विषाम् ॥ 14.29 ॥ (युगलकम्)
आरिराधयिषुणा वृषध्वजं येन तीव्रतपसि स्थितात्मना।
अन्धकार इव शीरतोचिषा धूमराशिरकृशःक पुरा पपे ॥ 14.30 ॥
संयुगेषु हृतजीवीताञ्जवाज्जीवयन्दितिभुवोऽपि विद्यया।
सोऽमृतप्रतिनिधित्वमीयिवांश्चिन्त्य एव भृगुनन्दनोऽपि वः ॥ 14.31 ॥ (युगलकम्)
आयतेषु हृययेषु शेमुषी मन्दिमानमधुनाभ्युपागता।
ब्रूत दीपकशिखेव किं नु वो लक्ष्यते रभसघूर्णनाकुला ॥ 14.32 ॥
संकटेष्वधिकमेव धीमतां विस्फुरन्ति ननु मन्त्रशक्तयः।
वव्याप्तवत्सु तिमिरेषु दिक्तटानुन्मिषन्त्यहिमदीधितित्विषः ॥ 14.33 ॥
यूयमाहवरसे व्यवस्तिताः सप्रभावमपि वीर्यमत्र वः।
चिन्त्यतां ननु विपाक ईदृशे कृत्यवस्तुनि यतो भवेद्गुणः ॥ 14.34 ॥
अव्यपायफलसाधनास्पदं क्ष्माभृतां चिरमनुज्झितक्रमैः।
मण्डलं जगदिवर्तुभिः स्फुटं षड्भिरेव परिवर्त्यते गुंणैः ॥ 14.35 ॥
चञ्चलत्वविरसाविसंवदत्स्वाशयानुगुणवृत्तितां गताः।
मूढमार्गरभसाहृताः स्फुटं न श्रियोऽपि बहु मन्वते पतीन् ॥ 14.36 ॥
संप्रति प्रगुणरूपमुच्छ्वसत्संप्रहाररमसो मनोरथः।
नीतिवर्त्म विषमीकरोति वः क्षुण्णमेतदभितो महाजनैः ॥ 14.37 ॥
ह्लादहेतुरधिकं रणेषु वो यद्यपि क्वचन भीमदर्शनैः।
नोज्झिता सजलमेघमेचकैः कीर्तिचन्दनलतासिभोगिभिः ॥ 14.38 ॥
यद्यपीन्दुकरकोमलच्छविः कीर्तिरप्रतिमरूपतां गता।
कातरस्य गणनाथ हारिणी नाकलोकललनेव दुर्लभा ॥ 14.39 ॥
मन्दमारुतसलीलघट्टना मञ्जुलक्वणितधारतां गताः।
संयुगार्थमिव यद्यपीह वश्चोदयन्ति करवालयष्टयः ॥ 14.40 ॥
आहतस्तनतटारिसुन्दरीक्रन्दितेन जयशब्दघोषणाः।
संप्रहारधरणीतलोत्थितै रेणुभिश्च पटवासपांसवः ॥ 14.41 ॥
खड्गकृत्तभटकण्ठमण्डलौर्निर्मलाश्च मणिहारयष्टयः।
चण्डमारुतरयप्रवर्तिभिर्गृध्रपक्षधवनैः प्रकीर्णकाः ॥ 14.42 ॥
घातमुर्च्छितभटाननासृजा नागवल्लिदलरागसंपदः।
बद्धसंमदशइवोपगूहनैर्गाढभीरुपरिरम्भविभ्रमाः ॥ 14.43 ॥
शोकदीनरुदिताश्रुबिन्दुभिर्ह्लादबाष्पजलशीकरोत्कराः।
प्रेतसैनिकजनानकारवैः संप्रहारजयदुन्दुभिस्वनाः ॥ 14.44 ॥
छायया शकुनिमण्डलोत्तया छत्त्रधारणविडम्बनक्रमाः।
फेरवाननगतान्त्रमण्डजलीदामभिश्च जयमङ्गलश्रजः ॥ 14.45 ॥
नीलनीरजदलोज्जवलाननैर्मार्गणैः स्मरविलासशेखराः।
वाणभिन्नकरिकुम्भमण्डलीमौक्तिकोत्करकरैः स्मितोद्गमाः ॥ 14.46 ॥
संयुगश्रमजलच्छटाकणैर्मोहना विरलवारिबिन्दवः।
हेतिभिननभटदेहमण्डलीशोणितेन हरिचन्दनद्रवाः ॥ 14.47 ॥
संस्थिताप्लवनवारिसंचयैरुच्छलद्भिरभिषेकविप्रुषः।
दुःखदैन्यपरिदेविताक्षरेर्मन्द्रमङ्गलमृदङ्गनिःस्वनाः ॥ 14.48 ॥
संप्रहारमुखदीर्घनिद्रया प्रत्युषःसमयबोधविभ्रमाः।
वैरिबन्दिनिगडैः सनिःस्वनैः सारवा निजपुरंध्रिनूपुराः ॥ 14.49 ॥
संयुगेषु हतबन्धुसंहतेस्तत्तथापि भुजवीर्यशालिनः।
आस्थितस्य तरसा जयश्रियं ब्रूत यद्यधिभुवो न दूषिताः ॥ 14.50 ॥ (त्रयोदशभिः कुलकम्)
आयुधानि विविधानि सन्ति वः पीवरा भटजनस्य बाहवः।
कार्यमोहतिमिरावबोखधिनी दुर्लभा तु मतिदीपिका नृमआम् ॥ 14.51 ॥
दार्ढ्यशालिगुणनीतिशृङ्खलाबन्धसंयतपदामनर्गलम्।
स्थेयसीं विदधतीह पण्डिताः स्त्रीनिसर्गतरलां नृपश्रियम् ॥ 14.52 ॥
सांख्ययोगपरिनिष्ठितात्मतां ज्ञातसत्त्वपुरुषान्तरो दधत्।
नूनमेति न विकारविप्लवक्लेशलेशघटनां विवेकभाक् ॥ 14.53 ॥
मुंह्यते य इह कृत्यवस्तुनि ज्योतिरक्षतनयात्मकं दधत्।
अन्धकूपकुहरे परिस्फुटं दीप्रदीपककरः पतत्यसौ ॥ 14.54 ॥
विद्विषत्यतुलितोरुविक्रमे विक्रमेत सहसा न नीतिमान्।
को नु संशयितपन्नगे करं वामलूरविवरे विनिक्षिपेत् ॥ 14.55 ॥
मन्त्रयुक्तिगहनं प्रमाणतां सामबेदकृतसौष्ठवं दधत्।
श्रौतमागममिवातिवर्तितुं कः क्षमेत नयशास्त्रसंग्रहम् ॥ 14.56 ॥
संरम्भः प्रशममुपैतु वोऽत्र हेलानिष्पिष्टस्फुटकटकाच्छरत्नबन्धः।
मा स्मैतत्सुरसुरवैरिणां विरोधे त्रैलोक्य सकलमकाण्डभङ्गरं भूत ॥ 14.57 ॥
नन्दन्तु नन्दनवनावनिवीथिकासु
लीनालियूथशबलीकृतयूखथिकासु।
सार्घं सुरासुरगणाः कदलीदलोरू-
दोःकन्दलीवलितपीवरकण्ठभागाः ॥ 14.58 ॥
पुष्पौघवर्षममरप्रमदा मुदा च
मुञ्चन्तु शान्तसुरदैत्यविरोधहृष्टाः।
मन्दारदामविगलन्मकरन्दबिन्दु-
संदोहदोहदनदत्समदद्विरेफा ॥ 14.59 ॥
उडुपथमण्कडलं भवतु मा शुचिरविनिपत-
द्दिनकरखण्डचण्डचडुलीनिबिडतरतकडित्।
दिशि दिशि मा क्षुभञ्जलधयः पिशुनितसमराः
प्रचुरविकीर्णरत्नपटलीशबलतटभुवः ॥ 14.60 ॥
इति श्रीबालबृहस्पत्यनुजोविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये पुष्पहासनयोपन्यासो नाम चतुर्दशः सर्गः।