.
हरविजयम्।
त्रयोदशः सर्गः।
इत्यट्टहासवचनादथ जृम्भमाण-
संरम्भभीषणतरभ्रुकुटीविभङ्गम्।
चण्डेश्वरेण निजदेहभरावशीर्ण-
माणिक्यपीठनिबिडाश्रयसंधि चेले ॥ 13.1 ॥
निर्व्यूढसंगरभरस्य करेण बाहोः
केयूरशोणमणिदीधितिधातुदिग्धम्।
कुम्भस्थलं करिपतेरिव तीव्रमन्यु-
रास्फालयन्सपरुषध्वनिमंसपीठम् ॥ 13.2 ॥
कार्षाणवी करपुटोन्मलनादनल्प-
कोपस् पिङ्गितदिगन्तरमुत्पतन्ती।
उल्केव तस्य सकलासुरचक्रवाल-
सर्वप्रणाशपिशुना शुशुभे शुभार्चिः ॥ 13.3 ॥
तस्याग्रवर्तिभिरलक्ष्यत तीव्रकोप-
संरम्भविभ्रमभृतः सुरचक्रवालैः।
आकृष्टिपाशतुलनां दधती विपक्ष-
पक्षश्रियः कुटिलीता सुरसंसदि भ्रूः ॥ 13.4 ॥
तिर्यग्विवर्तनवलद्विकटांसकूट-
हेलाविमर्दरभसकोत्थितधूमलेखम्।
कण्ठं दधत्प्रकृतिनिष्ठुरकालकूट-
कूटासितच्छविमिवेन्दुकलाकिरीटः ॥ 13.5 ॥
केयूरशोणमकरीमणिचक्रवाल-
निर्यत्प्रभारुणितमौक्तिककर्णपूरः।
क्षीरोदसिन्धरिव गौररुचिः प्रवाल-
वल्लीप्रभावलयलङ्घितफेनचक्रः ॥ 13.6 ॥
निर्मुच्य धूर्जटिसदस्यभिलङ्घितौष्ठ-
बालप्रवालविटपाङ्कुरकोटिभागम्।
कोपानलाकुलितदुर्धरधैर्यसिन्धु-
फेनच्छटापटलविभ्रममट्टहासम् ॥ 13.7 ॥
आकोपकम्पितशिराःक सहसोज्जिहासु-
राप्टच्छ्यामान इव मानिमनास्तितिक्षाम्।
वाक्यं जगाद गणनाथनुतिप्रगल्भ-
मत्यूर्जितं रणनयान्तरतत्त्वेदी ॥ 13.8 ॥ (कलापकम्)
प्रज्ञां नमापि भुवनेषु विचित्ररूपा-
माद्यां गिरं च सकलव्यवहारहेतुम्।
वक्तुं यदाश्रयवशेन ममापि धैर्य-
मुक्ते त्वयापि गणनायक नीतिगर्भम् ॥ 13.9 ॥
मार्गत्रर्यऽप्यविहतप्रसारा मनोज्ञ-
शब्दश्रुतिः शुचितयानुगताञ्चितश्रीः।
जह्नोरिवशु तनया घटमानकर्ण-
धारा मनोहरति कस्य सतां न वाणी ॥ 13.10 ॥
सुप्तप्रबुद्धवदनर्गलमुन्मिषन्ति
यासु श्रुतासु सुधियामपि धीविकल्पाः।
श्च्योतन्ति ताः किमपि तन्मधु हृद्यरूप-
मर्थ्या गिरः श्रवणहारिगभीरबनधाः ॥ 13.11 ॥
कार्यं सुनिश्चितमुपक्षिपतीह मन्त्र-
चर्चासु नीतिनिपुणः परिणामरम्यम्।
बीजं प्रजापतिरुवाप तदर्ध्यमप्स
यस्माददः समुदभूत्कमलासनाण्डम् ॥ 13.12 ॥
श्लाघ्यां विकासघटनां वचसेयुषा त्व-
माबिभ्राता दशनदीधितिपक्ष्मलक्ष्मीम्।
शंसास्पदत्वमुपजग्मिथ सौम्य कल्प-
शखीव रत्नकुसुमस्तबकेन नूनम् ॥ 13.13 ॥
वाक्यं तव श्रवणहारि विनिर्गतं य-
देतद्गणाधिप मुखान्न तदत्र चित्रम्।
आह्लादहेतुमनिशं न जगत्त्रयस्य
स्यन्दिष्यते कथमिवामृतमिन्दुबिम्बात् ॥ 13.14 ॥
मन्येऽभिधातुमबुधात्र सरस्वतीति
लीलागृहीतविकचारुणपुण्डरीकम्।
संस्कारकार्यवशपुञ्जितसप्तलोक-
जिह्वावितानमिव हस्तलं वहन्ती ॥ 13.15 ॥
उक्ते त्वयापि परिनिष्ठितनीतिगर्भ-
मित्थं विकल्पशतसंकुलतामवाप्ते।
वक्तव्यमेव हि मया सविशेषमत्र
नैवास्ति किंचिदनपाश्रिततारतम्यम् ॥ 13.16 ॥
दोर्दण्डदर्परभसप्रतिबद्धवृत्ति-
मुत्साहमुत्ससृजुषां भजतां च नीतिम्।
न्यक्षेण कार्यगहनं विषमीकरोति
पुंसामुपायकलनाघनमारुतौघः ॥ 13.17 ॥
ब्रह्माप्युदीरयतु साम समीकदर्पा-
द्भेदं जनव्रजमुखानि च यान्त्वलं वः ।
दानं मतङ्गजघटा वितरन्त्वमन्द-
मूरीकृती युधि मया दितिजेषु दण्डः ॥ 13.18 ॥
ते मन्दवीर्यगतयः स्फुटमन्य एव
सामादिमन्थरपराक्रममासते ये।
ये तु प्रसह्य दलयन्ति विपक्षचक्र-
माक्रम्य ते जगति खड्गविषाणकल्पाः ॥ 13.19 ॥
एको गुणो गुणशतादपि तावदेष
संप्रत्यनन्यसदृशः किमिवात्र षङ्भिः।
येनेन्दुसुन्दरयशः पटलातपत्र-
दण्डत्वमेति तवप पीवर एष बाहुः ॥ 13.20 ॥
एषा विडम्बितभुजंगमभोगकाष-
कार्श्याङ्कमध्यविषमस्थितमन्दराद्रिः।
एकैव यत्र गुहहस्तगता विभाति
शक्तिश्च तत्र तिसृभिः किमिवापराभिः ॥ 13.21 ॥
प्रेङ्खच्छिखण्डभरशोभिवपुः कलिन्द-
कन्याह्नदश्रियमगाधतया दधानम्।
शक्तो रणे दलयितुं प्रचलाकिकेतु-
रह्नाय कालियमिवाहितमच्युतश्रीः ॥ 13.22 ॥
सङ्ग्रामवासभवने नियतं निषण्णा
निःसंशयं विदधति प्रतिपक्षलक्ष्मीम्।
संवाहिकां चरणयोः करिकुम्भपीठ-
पीनोन्नतस्तनकृतास्पदयोः समर्थाः ॥ 13.23 ॥
आरोप्यते भटजनेन शरासनाग्र-
कोटिं समीकभुवि यो गुणबन्धपाशः
आकृष्य तेन तरसा तरलत्वमाप्ता
संयम्यते दृढतरं प्रतिपक्षलक्ष्मीः ॥ 13.24 ॥
तेजस्विनो ननु विधेयमियत्पिनष्टि
दुष्टात्मनां यदनपेक्षितदेशकालः।
दैवानुभाववशतो वनगोचरोऽपि
किं श्रीफलं कथयतापरथा न भुङ्क्ते ॥ 13.25 ॥
देशो न सोऽस्ति न कृतस्थितिरेष यत्र
कालं विभोः प्रणुदतस्तदपेक्षया किम्।
मिथ्याविकल्पजनितारिविनाशविघ्न-
निघ्नाः किमेवमधुनाश्रितशङ्कमाद्धे ॥ 13.26 ॥
क्षीणोऽपि दूरमवलम्बत एव नूंन-
मव्याहतां जगति कार्यधुरां महस्वी।
किं लोचनोत्सवविधायिकलावशेष-
रूपोऽपि शीतकिरणः कुरुते न रात्रिम् ॥ 13.27 ॥
अम्बोनिधिं प्रलयकालविलङ्घितात्म-
आलोक्य धीरमनसो हृदयेन नून-
मुच्चैर्हसन्ति विपदि स्थिरधैर्यरूपाः ॥ 13.28 ॥
उत्पेक्ष्य नूनमभयेऽपि भयं निसर्ग-
भीरुर्नितान्तमुपगच्छति विक्लवत्वम्।
पंञ्चत्वमेति नितरां सुचिकित्सितोऽपि
शङ्काविषव्यतिकरेण विमूर्छितः सन् ॥ 13.29 ॥
विस्तीर्णतादि गगनोदधिभूभृतां य-
श्चक्रे स संकटमनाः स्फुटमन्य एव।
येन व्यधायि महतां हृदयेष्वनाप्त-
पर्यन्तवृत्ति तदसावपरोऽस्ति वेधाः ॥ 13.30 ॥
जृम्भापरीतवदनाः श्वसितानुबन्ध-
भाजः प्रकम्पिवुषोऽरुणरूक्षनेत्राः।
रोषज्वराकुलधियः सुभटाः कृपाण-
धाराजलं समभिलष्यथ हे कस्मात् ॥ 13.31 ॥
क्रोदानलस्य हृदयं भ्रुकुटेरर्भुवश्च
दन्तच्छदा दशनकोटिविलङ्घनानाम्।
स्कन्धश्च निर्दयकराभिहतेर्भटा वः
स्वाधीनगोचरतयैव हिशखन्ति हासम् ॥ 13.32 ॥
हेलानिरस्तपवना गुरुसंप्रहार-
रीढासहाः सुरभटाः पटुतां वहन्ती।
उच्चे रटिःक सपदि शीतलतां करोति
पृत्केव वक्त्रविसृतोष्मजुषां द्विषां वः ॥ 13.33 ॥
संवादितामजहतो दलिताद्रिकूट-
कल्पक्षयप्रसृतचण्डसमीरणानाम्।
कस्मिन्निरर्गलभुजार्गलचण्डदर्प-
निष्पिष्टदानवभटा न चकास्थ संख्ये ॥ 13.34 ॥
क्रेतुं यशांसि समरापणिषु प्रगल्भ-
मिन्द्रप्रभाधवलभांसि कृतस्प्टहाणाम्।
चेतो दुनोति भवतामनुतापहेतुः
कस्मात्परेण कृत एष न मानभङ्गः ॥ 13.35 ॥
संहारकालशिखितीव्रतरोऽपि मन्यु-
रुत्तंसलूनिफल एव स एष जातः।
छिन्ना इतीव भवतां किरणच्छटाभि-
रेते हसन्ति मणिकुट्टिमसीम्नि हाराः ॥ 13.36 ॥
स्वच्छं सुवृत्तमनुरागि हरिद्वयस्या-
लीलागृहीतमधुनापि यशःप्रकाशम्।
स्वासानिला मलिनयन्ति न बाहुदण्ड-
दर्पश्रियो ललितविभ्रमदर्पणं वः ॥ 13.37 ॥
शौर्यश्रिया नहि दरिद्रिथ संयुगेषु
पारं गताः स्थ च धिया नयमार्गसिन्धोः।
छिन्नं किमत्र भवतां यदलीकशौर्य-
शौटीर्यसात्रवनिकारदशां सहध्वे ॥ 13.38 ॥ (युग्मम्)
उन्मूलितक्षितिभृतां सहसा सहेलं
सुस्कन्धतां च दधतामपरेरितानाम्।
विस्तीर्णमम्बरमिव प्रलयानलानां
सङ्ग्रामवर्त्म भवतां हि विहारमार्गः ॥ 13.39 ॥
संविद्रते जगति के न यथाशु यूय-
माशाकरीन्द्रकरपीवरबाहुदण्डाः।
लीलावरुग्णदृढसंधिचतुर्मुखाण्ड-
खण्डद्वयं विपरिवर्तयितुं समर्थाः ॥ 13.40 ॥
उन्मूलितामरभुवां रणसंकटेषु
शक्यं न वः कलयितुं हृदयं परेषाम्।
अभ्युद्धृतक्षितिभृतां प्रलयागमेषु
निष्कम्पमेव गगनं हि समीरणानाम् ॥ 13.41 ॥
आकर्ण्य दुर्विषहमप्यरिविप्रकार-
मित्थं नयान्तरितनामभयोपगूढाः।
हस्ताभिघातकृतरन्ध्रपथैः पृथिव्या
जिह्रीय किं न सहसा तलमप्रविष्टाः ॥ 13.42 ॥
रूढा चिरं भुवनकाननचक्रवाल-
मूले विपाण्डुरयशःस्तबकोज्ज्लश्रीः।
कस्मात्करोति भवतामधुना न मोह-
मेषाततायिविषपादपकीर्तिवल्ली ॥ 13.43 ॥
दैत्यप्रतापतपनातप एष ताप-
मभ्युद्धृतामरवधूवदनेन्दुकान्तिः।
कस्मान्न वः प्रकुरुते विनिकोचितेन्दु-
रश्मिच्छटाधवलकीर्तिकुमुद्वतीकः ॥ 13.44 ॥
मन्दीकरोति भवतामसुरप्रताप-
वह्निः क्षणाद्भुवनमन्दिरकोटरस्थाम् ।
कीर्तिं निरर्गलतरेण विषोष्मणाशु
दीपप्रभामिव भुजंगमदृष्टिपातः ॥ 13.45 ॥
संकल्प एष रणदुर्ललितः क्षणेन
वाचात्र कालमुसलस्य विपूरितो नः।
मन्दाकिनीं प्रथितपुण्यगुणां विहाय
रत्नाकरं क इव पूरयितुं क्षमोऽन्यः ॥ 13.46 ॥
संपश्यतोऽन्तरमिहासुमतां विसारि-
सत्त्वं बलादधिकमित्यपि मे वितर्कः।
सिंहो निपातयति चण्डचपेटयैव
प्टष्ठेन तूह्वहति कुञ्जरमष्टपादः ॥ 13. 47 ॥
गम्भीरगर्झितरवश्रवणोत्थमीति-
नश्यत्कुरङ्गककुलस्य करालमूर्तेः।
लाभोऽस्ति कः कठिनकुञ्जरचक्रवाल-
कुम्भस्थलीविदलनादपरो मृगारेः ॥ 13.48 ॥
शब्दान्तराणि खलु सान्त पृथग्विधानि
यैर्व्याप्तमेव जगदव्यतिकीर्णरूपैः।
दानाम्बु शोषयति यः करिणां श्रुतोऽपि
कोऽप्यन्य एव हरिणाधिपतेः स नादः ॥ 13.49 ॥
हेलाविनिर्जितरिपुस्फुटशौर्यलक्ष्मी-
लीलानिकेतविकटोन्नतचन्द्रशालाम्।
विस्तारिणीं सुभटवंशहिमाद्रिगङ्गां
कीर्तिं न यान्ति तरणवर्त्मनि तीर्थकाकाः ॥ 13.50 ॥
अप्राप्तहारिपरिणामगुणा कदाचि-
दा जन्मनोऽपि विरसा मम सा दशाभूत्।
किं नीरसा जलप्टषज्जलदेरुपैति
मुक्ताफलत्वमिह शुक्तिपुटान्तरेषु ॥ 13.51 ॥
सङ्ग्रामलाभरभसेन भटैः सलील-
मास्फालिताश्च जयकुञ्जरकुम्भभागाः।
नाकौकसां विगलिताश्च विपक्षचक्र-
सीमन्तिनीस्तनतटास्पदतारहाराः ॥ 13.52 ॥
निस्त्रिंमोक्तिककणप्रकरावकीर्णे।
सङ्ग्रामवासभवनेऽभिमता जिगीषो-
स्तीक्षणौः शिलीमुखनखैर्वशमेति लक्ष्मीः ॥ 13.53 ॥
प्रत्यग्रहत्नकिरणच्छुरणाभिराम-
मम्भोदनीलमभिकतोऽधिवसत्यभीक्ष्णम्।
वक्षःस्थलं मधुरिपोरिव तीक्ष्णवर्त्म-
पट्टं परिप्लवतया रहितादृता श्रीः ॥ 13.54 ॥
संवादिनी नियतमस्य मुरारिदेह-
च्छायेति चञ्चलतया रहितात्र लक्ष्मीः।
शङ्के शरद्गगननीलरुचौ कृपाण-
पट्टेऽनुरक्तहृदयारचयत्प्रतिष्ठाम् ॥ 13.55 ॥
उत्सृज्य षट्चरणचारणचक्रवाल-
गीतस्तुतां नवकुशेशयकोशशय्याम्।
वीरानुरागरभसेन वसत्यभीक्ष्णं
शङ्के सलीलमसिपत्त्रवनेऽपि लक्ष्मीः ॥ 13.56 ॥
दोर्दण्डनिर्जितरिपोर्जगति प्रसङ्ग-
लभ्येषु नास्ति विभवेषु कदाचिदास्था।
तेजस्विनः करजजर्जरितेभकुम्भ-
कूटस्य मौक्तिकगणेषु हरेरिवार्याः ॥ 13.57 ॥
व्याघातविप्लुतमहो विधुरं बतैत-
दस्थानसंभ्रमतिरस्कृतधैर्यबन्धाः।
यूयं यदेवमधुना भुजशालिनोऽपि
ग्रासीकृता विषमनीतिपिशाचिकाभिः ॥ 13.58 ॥
उत्तिष्ठतासुरपतेः शरकाण्डपाण्डु-
च्छायानि संप्रति यशांसि हतस्य संख्ये।
धौताञ्जनास्रसालिलप्लुततत्पुरंध्रि-
गण्कडस्थलानि च मलीमसतां व्रजन्तु ॥ 13.59 ॥
दैत्याधिराजमकराकरलोडनाय
संरम्भिणो मयि जयामृतलाभहेतोः।
आरोपयन्तु विबुधा भरमीश ताव-
दद्यैव मन्दरमिवातनुकूर्मप्टष्ठे ॥ 13.60 ॥
श्लाघ्यः स एव कलशो भुवनेषु यस्मा-
दुत्थाय वन्द्यमहिमा सुरकार्यहेतोः।
अम्बोधिमेकचुलकेन विवर्तमान-
वैकुण्ठकूर्मशफरेण पपावगस्त्यः ॥ 13.61 ॥
हेतोः कुतोऽप्यसदृशादुदिता गरीयः
कार्य निसर्गगुरवः स्फुटमारभन्ते।
उत्थाय किं न कलशादपि सिन्धुनाथ-
मुद्वीचिमालमपिबद्भगवानगस्त्यः ॥ 13.62 ॥
क्ष्मामण्डलं सकलमेव सरत्नराशि-
विस्तारिनेमिवलयं रणबद्धकक्ष्यः।
चक्रीकरोति सुभटः श्रवणान्तकृष्टृ-
मौर्वीलतेन धनुषा सममेव नूनम् ॥ 13.63 ॥
वद्धास्पदा दितिजनायकचक्रवाल-
पङ्कोदरे बहुगुणोद्ध्रियतामिदानीम्।
नाकश्रियः परिभवातनुवह्निदाह-
शान्तीच्छया धवलकीर्तिमृणालवल्ली ॥ 13.64 ॥
संहारसिन्धुमिव काञ्चनशैलकूट-
भागे स्फुरत्तरणिदीधितिदुर्निरीक्षाम्।
अद्यैव दानवकुलप्रलयाय ताव-
दारोपयामि धनुषि द्रुतमत्र मौर्वीम् ॥ 13.65 ॥
विश्लिष्यदाकुलनिरर्गलगण्डशैल-
चक्राभिघातविधुरीकृततिग्मभासः।
कोदण्डदण्डघटितान्पृथुचारुकीर्ति-
रायोधनार्थमवनेर्विनिनज्मि शैलान् ॥ 13.66 ॥
बाणासनाग्रविकटाटनिगाढबन्ध-
संभावितार्तिरिव संयुगमूर्ध्नि मौर्वी।
आस्पलिता नदतु मे बडवानलस्य
हेतिच्छटोदधितरङ्गहतेव तारम् ॥ 13.67 ॥
कोदण्डकोटिमधिरोपयति स्म बाहु-
शाली समाकभुवि यां ननु सैव मौर्वी।
लक्ष्मीसमागमनकीर्तिविनिर्गमैक-
विस्पष्टपद्धतिविलासममुष्य धत्ते ॥ 13.68 ॥
क्रेंकारमेव धनुषःक श्रवणान्तकृष्ट-
मौर्वीप्रगाढपरिमण्कडलितस्य संख्ये।
ओंकारमक्षतमवैमि विपक्षपक्ष-
लक्ष्मीसलीलदृढकर्षणमूलमन्त्रम् ॥ 13.69 ॥
एकां गमागमनपद्धतिमेव मौर्वीं
कीर्तिश्रियौ भटजनस्य हि धावमाने।
नूनं परस्परकठोरकुचाभिघात-
विच्छिन्नहारधवलामखिलां विधत्तः ॥ 13.70 ॥
उद्दामदर्पनिकषप्रतिपक्षसंप-
दुत्सादनेन कृतविग्रहवल्गुशोभाः।
स्नाताश्च कीर्तिसलिलैः सुरभीभवन्ति
नूनं यशःपरिमलेन पराक्रमाढ्याः ॥ 13.71 ॥
चेतोहरेण हरकण्ठरुचा प्रकाम-
पुण्यात्मकत्वमनिशं दधता गरीयः।
आत्मानमासु सुभटः समरे पुनाति
निस्त्रिंशपुष्करजलेन कृताभिषेकः ॥ 13.72॥
निष्कण्टकीभवतु संप्रति नाथ विश्व-
मेतत्प्रसीद वृषकेतन देह्यनुज्ञाम्।
ग्रासीकरोतु वलनाकुलितः कृपाण-
सिंहिसुतोऽहितयशः शशिमण्डलं वः ॥ 13.73 ॥
भस्मावदातरुचयो विनिपत्य दिक्षु
घोरान्धकारकलुषां प्रमथाधिनाथाः।
भिन्दन्तु दानवचमूमधुनाट्टहास-
च्छेदा इव प्रलयकालनिशां स्मरारेः ॥ 13.74 ॥
सङ्ग्रामभूमिरधुना भुवनाधिनाथ
वृन्दावनस्थितिरिवास्तु सुरासुराणाम्।
विस्पष्टपीतवसनादरतातिगाढ-
रक्ताङ्गनोचितशिवाभिमतव्रजश्रीः ॥ 13.75 ॥
वङ्कालसंकुलमशङ्कितकाककङ्क-
संकेतधाम रणवर्त्म शशाङ्कमौले।
टांकारिकार्मुकविटङ्कपटङ्कमस्तु
टङ्काङ्कसंकटविशङ्कटकङ्कटं वः ॥ 13.76 ॥
निस्त्रिंशलूनविकटास्थिकठोरकण्ठ-
पीठापविद्धशिरसं युधि दैत्यनाथम्।
अभ्रंकषाग्रशिखरस्खलितार्कबिम्ब-
मस्तावनीध्रमिव पश्यतु जीवलोकः ॥ 13.77 ॥
कार्या वितर्कघटना न ककदाचिदूर्ध्व-
मायोधनावतरणे बत को विचारः।
आनन्दशून्यममरारिकुलं सुरेश
कुर्वे स्मितानुगमवन्ध्यमयं समाधिः ॥ 13.78 ॥
किं चिन्त्यतेऽन्यदपि दुर्बललोकचित्त-
मेषोऽञ्जलिर्मधुरमङ्गलगीतिर्भम्।
भास्वत्करालकरवालविलूनपीन-
पीलून्नतश्रवणमण्डलतालवृन्तम् ॥ 13.79 ॥
आनन्दनिर्भरनभश्वरचक्रमुक्त-
पुष्पोपकारनिपतन्मधुपावलीकम्।
सेनावमर्ददलितावनिधूलिधूप-
धूमच्छटाशबलिताखिलदिग्विभागम् ॥ 13.80 ॥
प्रेङ्खद्गदादलितकुञ्जरकर्णशङ्ख-
धूलिच्छटापटलवर्णककर्दमाङ्कम्।
अभ्यापतत्सुभटमन्मथकृष्यमाण-
कोदण्डनिर्गतशराशनिलुप्तधैर्यम् ॥ 13.81 ॥
सङ्ग्रामवासगृहमुच्छ्रितदन्तिदन्त-
पर्यङ्कमुत्पुलकमण्कडलगण्डभित्तिः।
आलिङ्गनातिरभसेन जयश्रियोऽय-
मद्यैव तावदधितिष्ठतु राजलोकः ॥ 13.82 ॥ (कलापकम्)
अद्यावस्कन्दलीलाचलितबलपरिस्यन्दखर्वीकृतोर्वी-
संरम्भोत्तम्भनास्थोन्नमितभरनमत्कंधरासंधिरास्ताम्।
शेषोऽपि स्फारफुल्लत्स्फुटपृथुलफणाफूत्कृताग्निस्फुलिङ्ग-
स्फूर्जत्संदोहसेदेहितविकटशिखामण्डलीरत्नषण्डः ॥ 13.83 ॥
इति श्रीबालबृहस्पत्युनजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतो रत्नाङ्के हरविजये महाकाव्ये चण्डेश्वरदण्डोपन्यासो नाम त्रयोदशः सर्गः।