१२

.

हरविजयम्।

द्वादशः सर्गः।

इति स्थिरारातिविरोघनिश्चयामुदीर्य वाचं विरते गणाधिपे।
स्मितच्छटाबृंहितहारदीधितिस्ततोऽट्टहासो व्यवलद्विवक्षया ॥ 12.1 ॥
अरातिमत्तद्विपकुम्भमण्डलीविपाटनोत्थामलमौक्तिकावलिः।
कृपाणलग्ना विदधार यस्य सा तदच्छधाराजलबुद्बुदश्रियम् ॥ 12.2 ॥
वितेनिवांसोऽप्यविलङ्घ्यरूपतामनेकसंख्या दधतोऽनपायताम्।
हरेण कल्पा इव येन कालतामुपेयुषानायिषत द्विषः क्षयम् ॥ 12.3 ॥
दघत्यभीक्ष्णां धवलानि भूयसीं दिगन्तरव्याप्तिनिरर्गलां श्रियम्।
रणेषु निर्जित्य बलानि विद्विषां यशांसि येन प्रथयांबभूविरे ॥ 12.4 ॥
दधत्सदाशोणितपानशैण्डतां कृताभियोगो बहुलक्षपाटने।
बभूव यस्यातनुदन्तमण्डलः क्षयाय कौक्षेयकराक्षसो द्विषाम् ॥ 12.5 ॥
सुबन्धुरामोदमनोरमां श्रियं स्फुरच्छरारौ युधि योधिकां दधत्।
निरास सैन्यं तरसा सुरद्विषामिषीकतूलं शरदीव मारुतः ॥ 12.6 ॥
यशः सुवृत्तस्थिति येन निर्मलं समुद्वहद्दर्पणमण्डलश्रियम्।
पुरंध्रिनिः श्वासममीरणाहतं मलीमसच्छायमकारि विद्विषाम् ॥ 12.7 ॥
रणाजिरक्ष्माकलशीकृतं जवात्फमोज्झितः सन्नसहाय एव यः।
अरातिलोकं मथितं सहस्रधा चकार दण्डाहतमप्यगोरसम् ॥ 12.8 ॥
श्रियं दधानं चतुरस्रताश्रयामनेकपत्त्यश्वरथद्विपाकुलम्।
विपक्षमाविष्कृतसंधिविग्रहं तथाप्यनष्टापदमेव यो व्यधात् ॥ 12.9 ॥
विकासयन्कीर्तिकुमुद्वतीं क्षणाद्विलोचनानन्दकरः कलास्पदम्।
सरूपबावेऽप्यपराजयक्ष्मतां दधन्मृगाङ्कं विशिनष्टि यो गुणैः ॥ 12.10 ॥
अनेकपक्ष्माहितसङ्गराजितं श्रियं दधानं विकटांसमुज्ज्वलाम्।
बभार सद्राघिमचारुतारकं प्रवेष्टयोर्यश्च दृशोरिव द्वयम् ॥ 12.11 ॥
उपेयुषोन्मूलनदक्षतां क्षणात्क्षयानिलेनेन विपक्षतां गता।
क्षमाभृतां येन ततिः प्रसर्पता प्रकम्पितासन्नवधातुराजिता ॥ 12.12 ॥
करेण चक्रं दधदुज्ज्वलेन यः पुरंदरस्याप्यभिमानमाक्षिपत्।
रणाजिरं स्वर्गमिवातनोद्बलादपारिजातं पुरुषोत्तमो यथा ॥ 12.13 ॥(कुलकम्)
अपक्रमारम्भविजृम्भिताधिकगप्रकोपनिर्धतशिरः श्लथास्पदम्।
यथाप्रदेशं विनिवेशनेच्छया करेण माणिक्यकिरीटमुत्क्षिपन् ॥ 12.14 ॥
उरःस्थलीविस्फुरदश्मगर्भकस्फुरत्प्रभामण्डलहारिविग्रहः।
दधत्त्रिमार्गसलिलावगाहनप्रसक्तशेवालसुरद्विपश्रियम् ॥ 12.15 ॥
स्फुरज्जयश्रीमणिसालभञ्जिकाविशङ्कटस्तम्भभूजः सविभ्रमम्।
विवेष्टमानोरगभीरुभीषणां वितर्कजिह्माकृतिमुत्क्षिपन्भ्रुवम् ॥ 12.16 ॥
स भारतीं बाङ्भयकल्पपादपस्फुरत्प्रतानोज्ज्वलरत्नमञ्जरीम्।
निनाय निर्यद्दशनांशुकेसरां सभाङ्गनायाः शुचिकर्णपूरताम् ॥ 12.17 ॥ (कलापकम्)
विशुद्धवर्णोज्ज्वलहंससंहतिः प्रसादगाम्भीर्यविशेषशालिनी।
मनोरमा तस्य मुखं सरस्वती वसुंधरापीठमिव व्यभूषयत् ॥ 12.18 ॥
गिरानया पस्तुतमेतदीदृशं तवार्यकार्यं बहु मन्यते न कः।
मृणालवल्लीकुसुमं तनोति तत्करोति लक्ष्मीरपि यन्निकेतनम् ॥ 12.19 ॥
वचोऽत्र सर्वस्य मनोरमं भवान्यदभ्यधात्तत्र क एव विश्मयः।
यतो भवत्येव विवेकशालिनां विपश्चितां प्रातिजनीनवास्यातया ॥ 12.20 ॥
अतस्त्वयात्यूर्जितसत्त्वशालिना समन्त (स्त) भद्रेऽपि वचस्युदीरिते।
ममावकाशोऽस्ति न वक्तुमित्यवन्ब्रुवे तथाप्याश्रितकार्यगौरवः ॥ 12.21 ॥
ययं जडोऽस्मात्कुत एव नीतिमद्वचोऽभ्युदेतीति न कल्पना क्षमा।
किमश्मनोऽप्यन्तमलीमसात्मनः सुवर्णमक्षुण्णगुणां न जायते ॥ 12.22 ॥
गतार्थतत्त्वप्रतिपत्तिहेतुतां मतिः कुतस्ते तिमिरानुषङ्गिणी।
प्रभासमाना गणनाथ दृश्यते न रत्नदीपस्य शिखा सकज्जला ॥ 12.23 ॥
अभीक्ष्णमन्तः सरसान्यतन्द्रिताः सुवृत्ततां बिभ्रति नीतिशालिनः।
वितन्वते संसदि कूर्चकेशरद्रुमाः फलानीव वचांसि सूरयः ॥ 12.24 ॥
समीक्ष्य सम्यग्भुवि कृत्यवस्तु यः प्रतीक्षते देशबलादिसाधनम्।
भवन्ति तस्यानपचारचारवः क्रियाविशेषा न विपाकनीरसाः ॥ 12.25 ॥
अखण्कडितात्यूर्जितवीर्यसंपदो निराकरिष्णोस्तरसा युधि द्विषः।
प्रमाददोषानुपघातसुस्थितं न नीतितुल्यं क्षममस्ति साधनम् ॥ 12.26 ॥
प्रयुक्तसंस्कारगुरुर्गरीयसां व्रजत्यवस्थैव ननु प्रतीक्ष्यताम्।
भजत्युपावर्जिततैलसेकया नहि प्रदीपो दशया विना स्थितिम् ॥ 12.27 ॥
मलीमसाचारनिरर्गलस्तितेरखण्डमन्यन्मलिनं प्रकल्पते।
तमोघने वेश्मनि तिष्ठतोऽनिशं व्रजत्यशेषं जगदन्धकारिताम् ॥ 12.28 ॥
सुरद्विषां निह्नुमहे न पौरुषं न च प्रशंसां तनुमस्तथात्मनः।
निरूपयामो नयवर्त्म केवलं यथाभिलाषास्तु परस्य वृत्तयः ॥ 12.29 ॥
सभूमिलाभं शुभवर्तिरेखया मनोरमं मण्डलकार्यमस्खलत्।
अशेषमुन्मीलयति क्षमाभृतां विचित्ररूपा नु नीतितूलिका ॥ 12.30 ॥
यथाखिलद्रव्यगतांश्चिकित्सका विविञ्चते पञ्चरसादिकान्बुधाः।
तथैव मन्त्राश्रयतामुपेयुषः सुनीतिभाजोऽवयवाञ्जिगीषवः ॥ 12.31॥
अपार्थतादोषपरितमक्रमं ससंशयं संसंशयं संधिविहीनतां गतम्।
न देशकालादिविरोधि पण्डितैः प्रशस्यते कार्यमसाधुकाव्यवत् ॥ 12.32 ॥
बिभर्ति पारिप्लवतामुदन्वतस्तदूर्मिसंसर्गकृतामिवोत्थिता।
अवैमि लक्षअमीर्नयवर्त्मनागता स्तिरं निबध्नाति नृपे पदं पुनः ॥ 12.33 ॥
अमन्दरभ्रान्तिकदर्थितोदधिर्विलुप्रदेवासुरमन्थसंभ्रमः।
सचेतसः कस्य न वल्लभोऽर्झने नयप्रकारोऽपर एव वा श्रियः ॥ 12.34 ॥
न नीतिशास्त्रोपनिषत्सु पञ्चधा स्थितिं जहात्येष परः पुमानिव।
प्रदीपितोद्दामविपर्ययग्रहैर्निरूपितो मन्त्र इह प्रणेतृभिः ॥ 12.35 ॥
विभज्यमाना बहुधार्थकोविदैः ससंशयग्रन्थिरमन्थरात्मभिः।
मृणालवल्लीव गुणान्विहाय किं व्यनक्ति नीतिर्जडसंकरोद्धृता ॥ 12.36 ॥
उपायशून्यास्तरवः क्षिताविव क्रियाविशेषा व्यभिचारिणः फले।
त एव नूनं नियमेन भूभृतांफलन्ति कगल्पद्गुमवन्नयाश्रयाः ॥ 12.37 ॥
स्थिराम्भुपायप्रकटारसंचयं दधद्विरूढक्रमकालनेमिताम्।
प्रवर्तितं मण्डलनाभिबन्धनं न कार्यचक्रं क्वचनावशीर्यते ॥ 12.38 ॥
व्यपेक्षते बाहुबलं जिगीषतः सुनीतिमाक्रान्तजगत्त्रयं ध्रुवम्।
रथास्पदं चक्रमिवाश्वमण्डलीं विवस्वतो मेरुतटीविवर्तिनः ॥ 12.39 ॥
उपायसोपानपरम्परामिमां यथाक्रमं योऽधिरुरुक्षुराश्रितः।
स नूनमुच्चैः पद एव नीतिमान्कृतप्रतिष्ठो न चिराद्विभाव्यते ॥ 12.40 ॥
नरेन्द्रलक्ष्मीरुचितैरुपक्रमैः क्रमेण तैस्तैर्गुरुभिः प्रसाधिता।
नयात्मदर्शे गुणदोषदर्शनस्फुटावधाना व्यवलम्बतामियम् ॥ 12.41 ॥
प्रकाश एव प्रविलुप्तदर्शनो गतः क्षणाद्धूक इवान्ध्यविप्लवम्।
न जातु कालं मतिदुर्विधो जनो बिभर्ति सामर्थ्यमुदर्कमीक्षितुम् ॥ 12.42 ॥
विवृण्वतां मण्डलसंधिविग्रहव्यपाश्रयाः कार्यगतीरनेकशः।
क्रियापचारा न भवन्ति धीमतामनुक्रमापक्रमयोगचिन्तया ॥ 12.43 ॥
विरूढमूलस्य नयानुसारिमः सकोषदण्डोपचयस्य भूपतेः।
कुशेशयस्योपचितेव कार्णिका बिभर्ति लक्ष्मीः परिणामपीनताम् ॥ 12.44 ॥
विचिन्वतोऽर्थं निजमण्डलाश्रयं गुणानुपायांश्च नृपस्य शक्तयः।
न देशकालानवधारणक्रमात्समुत्पतिष्णोरुपयान्ति बृंहणम् ॥ 12.45 ॥
मदच्छटार्द्रीकृतगण्डमण्डलीनिलीनभृङ्गद्विपयूथदारिणः।
निमज्जतो वारिणि तीव्रतेजसः सटा विलुम्पन्ति हरेर्झषा अपि ॥ 12.46 ॥
अतीतकालस्य तदत्र दृम्भितं तपस्यमासे करिणोऽपि दुर्जयः।
निदाघकाले मुखलाङ्गलः शुनामपि व्रजत्येव निकार्यतां यतः ॥ 12.47 ॥
समुद्वहन्नक्षतपक्षभूमिभृद्विभेददयक्षामिह शक्तिमायताम्।
मयूरकेतुर्वदनैरिवाधिकं विभाति षङ्भिर्नयविस्तरो गुणैः ॥ 12.48 ॥
विभाव्यमानासनसंधिसंश्रया गुणाः परिष्करमणिस्फुटत्विषः।
तदद्धुतं यद्विजयैषिणां श्रियं प्रसाधयन्त्यप्रविमृष्टविग्रहाः ॥ 12.49 ॥
कृतास्पदा सारगुरुः स्तिरात्मसु क्षमेव दिक्कुञ्जरविग्रहेष्वसौ।
जहात्युपायेषु चतुर्षु न स्थितिं दृढीकृता नीतिरिह क्षमाधरैः ॥ 12.50 ॥
उपेयसिद्ध्यै भवतां मतिः स्थिरा प्रवर्तते चेदनुपायसाधना।
अवैमि षाङ्गुण्यविचारगोचरैः कृतं ततः संप्रति नीतिशासनैः ॥ 12.51 ॥
क्षमा भवन्तः क्षयसूर्यतेजसो जगत्त्रयस्य स्थितिसर्गसंहृतीः।
विधातुमेकाकिन एव लीलया न मूर्तिभेदा इव किं स्वयंभुव ॥ 12.52 ॥
जिगीषतां मण्डलसंधिविग्रहव्यपाश्रयाः कार्यगतीर्विहाय वः।
न युद्धसंरम्भरसात्तथधापि तु क्षमाः परान्मार्ष्टुमिहांसभित्तयः ॥ 12.53 ॥
अवैमि दैत्यान्समरेषु दुर्जयचान्भुजांश्च वो दिग्गजहलस्तपीवरान्।
अतोऽत्र युक्तो नय एव संकटो जलप्लेवे सेतुरिवोत्तितीर्षताम् ॥ 12.54 ॥
किमस्त्यतः शंसत वाच्यविप्लुतं यदभ्युपायेषु परेषु सत्स्वपि।
द्विषत्सु चर्चा भवतामपीदृशी प्रचम्डदण्डैकरसा विजृम्भते ॥ 12. 55 ॥
उपाय एवेति च दण्ड एव नो न नीतिवृद्धैरवलम्बनीकृतः।
तथापि कार्येऽत्र गुरुण्युपेक्षितुं न युक्तरूपो भवतामनुक्रमः ॥ 12.56 ॥
निरुद्धरन्ध्रप्रसरश्लथीभवज्जडप्रवेशस्थिरसंधिसुस्थिताः।
न कार्यसिन्धोरिह तारयन्ति कं प्लवा इवोच्चैः कृतिनः सकर्णकाः ॥ 12.57 ॥
दहन्ति कल्पप्रलयेषु भानवो जगन्ति वेलां श्लथयन्ति सागराः।
न तातृशोऽसौसमयोऽस्ति यत्र वा स्थितिं विभिन्दन्ति रुषा भवादृशाः ॥ 12. 58 ॥
अवैमि नूनं न च भर्तुराज्ञया विना समर्थाः स्थ रिपोर्विनिग्रहे।
जगत्परिप्लावयितुं न वीचयः क्षमास्तटस्थस्य कदाचिदम्बुधेः ॥ 12.59 ॥
प्रवर्तमानांप्रतिपत्तुमर्हथ त्रिगदा विमिन्नामत एव शूलिनः।
हिताय शक्तिं कृतविष्टपत्रयस्तितिं पुरारेरिव नाकनिम्नगाम् ॥ 12.60 ॥
अथं प्रभुः कर्मसु दैवमानुषप्रभेदरूपेष्वविलङ्घ्यतां दधत्।
अचिन्तनीयो नयतत्त्वचिन्तकैर्मनीषिभिर्दैवमिति स्म कथ्यते ॥ 12.61 ॥
जिगीषतां दोर्द्रुमदर्पविभ्रमा धियश्च षाह्गुण्यविचारगोचराः।
न यान्त्युपायप्रतिपत्तये दृढाः पराङ्भुखेऽस्मिन्फलभागितां क्वचित् ॥ 12.62 ॥
यदानुगुण्यं भजते जगत्यसौ तदा तदात्वायतिषु स्फुटं नृणाम्।
क्रियाविशेषाः सकलाः प्रवर्तिता विपर्ययेणापि हिसिद्धिहेतवः ॥ 12.63 ॥
प्रतीयमानाः प्रकटं पृथग्जनैर्विरुद्धरूपा इव कस्य विस्मयम्।
अमुष्य चेष्टा जनयन्ति नोच्चकैर्विलुप्तमोहप्रतिपत्तिगोचराः ॥ 12.64 ॥
इहैव निःश्वासगमागमक्रियाप्रबन्धभेदन चराचरात्मनि।
व्रजत्यभीक्ष्णं प्रतिबद्धवृत्तितामशेषविश्वोदयसंहृतिक्रमः ॥ 12.65 ॥
अमुष्य गर्भीकृतसागरोदरप्रतिष्ठशेषोरगभोगशायिनः।
मुरद्विषो नाभिसरोजकर्णिकाविटङ्कपीठः समभूच्चतुर्मुखः ॥ 12.66 ॥
अभीक्ष्णमष्टाभिरमुष्य मूर्तिभिर्विभोरवष्टभ्य जगन्ति तस्थुषः।
भिनत्ति मायीयमथाणवं नृणां स्मृतिस्तथा कार्मणमाशु बन्धनम् ॥ 12.67 ॥
स्थिरप्लवानुप्लवविप्लवोज्झिता निजेऽत्र तिष्ठन्तयणवस्तदात्मनि।
दुरन्दमायीयविवर्तभेदिनी यदास्य शक्तिः स्वभुवो विजृम्भते ॥ 12.68 ॥
अमुष्य तत्त्वान्यखिलानि शेमुषी निशेमुषी प्रस्तुतकार्यनिर्णयम्।
विधातुमर्हत्यमलीमसाधुना मुधा किमाद्ध्वे गुरुमोहविप्लुताः ॥ 12.69 ॥
अस्मादवाप्य भुवनैकगुरोरनुज्ञा-
मज्ञानसंतमसबन्धविभेदभानोः।
मर्हाः स्थ कर्तुमनवस्तितनिश्चयान्धाः ॥ 12.70 ॥
संरम्भिणः किमिति नीतिपथं विहाय
लीलाविगाढगुरुकीर्तिरतरङ्गिणीकाः।
स्तम्बेरमा इव तनुः करपिष्टहार-
धूलिच्छटाभिरधुना कलुषीकुरुध्वे ॥ 12.71 ॥
लोकः प्रमादपरमः क्वचिदर्थसिद्धि-
माप्नोति नूनमिह सत्यपि नाभ्युपाये।
आलोकयत्यभिनिमीलितलोचनः कि-
मादर्शमण्डलतले विमलेऽपि वक्त्रम् ॥ 12.72 ॥
प्रस्तूयते यदभिधेयवचोभिरस्त-
मोहान्धकारनिकरैहिह कार्यतत्त्वम्।
भङ्गं तदाशु मतिदुर्विधदुर्दुरूट-
कूटाभिरूपकुटिलाङ्गुलिभिः सहैति ॥ 12.73 ॥
वन्ध्यात्मनामिह नरेन्द्रकथासु मन्त्र-
चर्चा निरूपयितुमाशु तथा क्षमा वः ।
ग्रासीकरोति न तथाभ्रपिशाच एष
निःशङ्कमर्कशशिनावधुनापि तावत् ॥ 12.74 ॥
प्राप्ता विशुद्धिमधिकां परिणामरूप-
वन्ध्याश्रिता प्रकृतिभोगनिरर्गलत्वम्।
उर्वीधरस्य चितिशक्तिरिवापचार-
शून्या भवत्यनिशमप्रतिसंक्रमा श्रीः ॥ 12.75 ॥
तस्मान्निरूपितपरात्मबलाबलैक-
कार्यक्रमौपयिकशाक्तिगुणोदयानाम्।
कर्तुं तदत्रभवतां क्षममाहवेषु
येनानुतापशिखिना न परिप्लवध्वे ॥ 12.76 ॥
चेतो विकल्पमरुताभिहतं किमेत-
दालक्ष्यलाघवमवस्थितिलाभशून्यम्।
संवादितां नयति दूरमिषीकतूल-
माकाश एव हि परिभ्रमणाकुलं वः ॥ 12.77 ॥
तीक्ष्णेन तीक्ष्णमनिशं मृदुना मृदुं च
संसाधयन्ति परमौपयिकेन तज्ज्ञाः।
सुर्योपलं दिनपतिर्ज्वलयत्यभीक्ष्ण-
मिन्दुश्च चन्द्रमणिमार्द्रयति स्वधाम्ना ॥ 12.78 ॥
इति गिरं समुदीर्य नयानुगां विरतिमीयुषि पार्षदनायके।
अवधृतार्थशरीरतया सदः कलकलाकुलसाधुवचोऽभवत् ॥ 12.79 ॥
वाक्यं नवाम्बुदगभीररवं तदीय-
माकर्ण्य पार्षदपतेः सभया तदानीम्।
संहृष्टयाशु लवलीलतयेव तत्र
संभावितातनुफलोदयया बभूवे ॥ 12.80 ॥
आबद्धविस्मयविधूनितमूर्धभाग-
हेलोत्पतद्विकटरत्नवतंसभृङ्गैः।
तद्वाक्यमस्य सुरसंहतयः शशंसु-
रुद्गीर्णमोहतिमिरा इव कर्णरन्ध्रैः ॥ 12.80 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्येऽट्टहासनयोपन्यासो नाम द्वादशः सर्गः।