.
हरविजयम्।
एकादशः सर्गः।
श्रुत्वास्य वाचमिति तं विकटाट्टहास-
फेनच्छटाच्छुरितदिकतटमग्निदंष्ट्रः।
चुक्षोभ सिन्धुरिव संसदि कालकूट-
रेखाकरालविकटभ्रुकुटीविभङ्गः ॥ 11.1॥
संवर्तवारिदघटाविकटाभिनील-
च्छायान्धकारकलुषीकृतदिग्विभागाम्।
आभङ्गिनीं भ्रुकुटिमुत्कटकोपवह्नि-
वेणीलतामिव बबन्ध स कालरात्रेः ॥ 11.2 ॥
व्यावृत्तिमण्डलितरोमलतालवाल-
चक्रायमानविकरालकणीनि कोपात्।
सस्यन्दिरे सदसि घर्मजलानि तस्य
तन्वन्ति रत्नकवचश्रियमाशुदेहे ॥ 11.3 ॥
क्रोधस्तथास्य ववृदे भ्रुकुटीविभङ्ग-
लेखातरङ्गितललाटतटाननाग्रः।
भर्तुर्यथानधिगतोद्धतशासनोऽपि
संहर्तुमाशु भुवनत्रितयं स ऐच्छत् ॥ 11.4 ॥
तस्य घ्रतः करतलेन करालमंस-
कूटं रुषा नखमयूखशिखाः खचन्त्यः।
ऊहुः कठोरभुजपञ्जरपुञ्ज्यमान-
दुर्वारविक्रममृगेन्द्रसटाविलासम् ॥ 11.5 ॥
औचित्यशालि सरुषो वचनं विवक्षो
तस्याहतांसशिखरस्य वितृत्तिलीला।
सन्नायिकेव सदसि प्रतिपन्नपीठ-
मर्दा रराज कुटिलोन्नमिताञ्चितभ्रूः ॥ 11.6 ॥
हृत्पुण्डरीकमिव तस्य सूरैः सरोष-
पादाभिघातकृतरन्ध्रपथेन पृथ्व्याः।
पातालकुक्षिकुहरे मणिरश्मिराग-
पिङ्गं व्यलोकि प्टथुशेषफणासहस्रम् ॥ 11.7 ॥
बिभ्रत्स सौरभबराकुलिकद्विरेफ-
मालं मणिस्तबककर्णशिखावतंसम्।
अंसोपधानभुजतल्पनिविष्टयेव
लक्ष्म्यार्पितं निजकराद्विकचारविन्दम् ॥ 11.8 ॥
उत्सार्पिदर्पजलधिस्फुरदूर्मिसंघ-
संघट्टघोरतरघोषनिभारवश्रीः।
लीलाविवृत्तनिजदेहभरावरुग्ण-
रत्नासनाशिथिलसंधिरिदं बभाषे ॥ 11.9 ॥ (युगलकम्)
सत्यं गिरा तव विभूषित एव नीति-
मार्गो निसर्गगहनोऽपि गमेन्द्र गुर्व्या।
एकैव सा जलनिधेरुदियाय चन्द्र-
लेखा समस्कुरुत या शितिकण्ठजूटम् ॥ 11.10 ॥
उत्पद्यते जगति कोऽपि स एक एव
यस्योक्तिषु स्फुरति सर्वमनोरमोऽर्थः।
अन्यः स कल्पविटपी मणिमञ्जरीषु
चिनतामणिः स्तबकतामुपयाति यस्य ॥ 11.11 ॥
क्षोमं न या व्रजति जातु नयार्थतत्त्व-
गर्भा परा तव गणाधिप सात्र वाणी।
पङ्कत्वमेति न मधुस्थितिकारणं या
सान्यैव संभृतगुणा कुसुमस्य धूलिः ॥ 11.12 ॥
आकारदारुणतयापि ममान्वितस्य
वाक्यं विलक्षणमाभिप्लुतितुच्छरूपम्।
अस्थास्नु तुलमिव शाल्मलिपादपस्य
संश्रूयमाणमुपयास्यति हास्यतां वः ॥ 11.13 ॥
हेलापरिभ्रमणमण्डलितेन यस्य
नीलत्विषारिदलनादसिना रणेषु।
वक्त्रेण मन्मथरिपोरिव निर्मलाट्ट-
हासच्छटा विचकरे भुवनेषु कीर्तिः ॥ 11.14 ॥
स ज्योतिरिङ्गणगणैरिव वज्रमुष्टि-
गातोचछलद्विकटकङ्कटवह्निलेशैः।
यस्याजिदुर्दिनमुखेषु कृपाणमेघ-
धारा जहार रिपुपङ्कजकोषलक्ष्मीम् ॥ 11.15 ॥
यस्याशु कीर्तिबकुलावलिराततायि-
सेनावधूव्रजमुखस्खलितैः सलीलम्।
निन्ये विकासमसकृन्नवरक्तशीधु-
गण्डूषसेकविसरै रणकाननेषु ॥ 11.16 ॥
तस्यापि नाम भवतः सकलार्थशास्त्र-
तत्वावगाहनगभीरमातिप्रगल्भम्।
आकर्ण्य वाक्यममरा नयमार्गशालि
शङ्के भवन्ति सविशेषरणाभिलाषाः ॥ 11.17 ॥ (कलापकम्)
उद्दामदानववरूथवतीसमीक-
संमर्दयोग्यमपरं क्षितिपीठप्टष्टम्।
निर्मित्स्यमानमिव पश्य हरिं सरोष-
रत्नाङ्गदप्रकरपेषपरागपुञ्जैः ॥ 11.18 ॥
संरम्भगर्भगुरुमन्युजुषस्त्रिलोकीं
कुर्वन्ति सांप्रतममी मुसलायुधस्य।
श्वासा विधूर्णनविसंस्थुलतिग्मरश्मि-
बिम्बाहिता नियतदेशदिनत्रियामाम् ॥ 11.19 ॥
भीतिं तनोति विकटभ्रुकुटीविलास-
वेल्लद्विषद्रुमलताङ्कललाटसानुः।
क्रोधेश्वरक्षितिधरः प्रतिपक्षकोप-
कल्पावसानपवनाहिततीव्रकम्पः ॥ 11.20 ॥
संवर्तमेघमलिनच्छविरप्रकम्प-
कोपस्य हुंकृतिहुतासनधूमवर्तिः।
आभात्यमुष्य कवलीकृतकालदेह-
च्छायेव वक्त्रकुहरादभिनिष्पतन्ती ॥ 11.21 ॥
भ्रूभङ्गमेष विदधाति यथा यथा च
संरम्भपाटलविलोचनतां विधत्ते।
निष्पिष्टहारलतपाणिपुटो यथा च
पेक्ष्यत्यवश्यमचिरेण तथासुरणाम् ॥ 11.22 ॥
रोषानुबन्धदृढपीडितदन्तपट्ट-
संघट्टवलह्निमिव तर्पयति त्रिशूलम्।
तत्कोटिनिष्ठुरविदष्टनिजौष्ठप्टष्ठ-
विष्यन्दिसान्द्ररुधिराहुतिभिः पुरस्तात् ॥ 11.23 ॥
काली मषीमलमलीमसमांसलार्चि-
रुद्दामधामकरवालकरालबाहुः।
दुर्गाहतां प्रलयकालनवाभ्रकाय-
सच्छायकालियलया यमुनेव धत्ते ॥ 11.24 ॥
स्तम्बेरमाननममुं विकटा विषाण-
दण्डग्रभा कुमुदखण्डविपाण्डुरश्रीः।
मन्दाकिनीव गुरुसंगरबद्धकक्ष्य-
मेषा विचुम्बति मुखे तनयप्रियत्वात् ॥ 11.25 ॥
लज्जानताननतया रणशैण्डदर्प-
कण्डूयनद्रुमभुजोऽत्र विभाव्यतेऽसौ।
माणिक्यकुट्टिममयूखजलं विषाण-
लीलामृणालशकलेन पिबन्निवैतत् ॥ 11.26 ॥
वाक्यं तवैतदिति शुश्रुवुषः सलील-
माक्षिप्तनीतिगहनं सदसीन्दुमौलेः।
पश्याधुनातिविमलापि गुहस्य वक्त्र-
च्छाया गणाधिप मलीमसतां बिभर्ति ॥ 11.27 ॥
एकीभविष्यति रणे करवालघात-
भीतिप्रणश्यदसुरेश्वरदर्शनोत्थैः
हासंसुभिस्तव यशः स्तबकायमान-
मासलतासु शिशिरांशुमरीचिशुभ्रम् ॥ 11.28 ॥
प्रत्यर्थिनो मदभरोद्धुरकंधरस्य
शक्तिं दधद्दलितभूधरसारगुर्वीम्।
कीर्तिं मृणालघवलामहमुद्धरामि
दन्तार्गलां गणपतेरिव कार्तिकेयः ॥ 11.29 ॥
किं कालखञ्जनिकरैर्मम जृम्भमाण-
वातापिभिः स्फुरदरिष्टदुरन्तशल्यैः।
तान्दैवदग्धवपुषो रणमन्तरेण
नष्टात्मनः प्रथममेव न वेत्थं कस्मात् ॥ 11.30 ॥
अव्याहतप्रसरतां भुवनत्रयेऽपि
प्राप्ताभ्रवर्त्म परिपूरयतु क्षणान्नः।
प्रत्यग्रपत्त्रमकरा सुरनाथ जह्नु-
कन्येव सिन्धुसलिलं युधि बाणपङ्क्तिः ॥ 11.31 ॥
आपाण्डुरीभवतु वः प्रतिपक्षपक्ष-
नारीजनस्य वदनं पतिविप्रयोगे।
दुःखाग्निदग्धहृदयेन्धनभस्मधूलि-
पुञ्जैरिवाभिहतमुच्छ्वसितव्युदस्तैः ॥ 11.32 ॥
सङ्ग्रामरङ्गभुवि चारुतराङ्गसोभा-
संदर्भवत्यतिरसाद्द्विषतोऽपसारान्।
सन्नर्तकीव विदधातु कृपाणधारा-
लग्नेन शौर्यविभवेन पदं जयश्रीः ॥ 11.33 ॥
आलक्ष्यतां क्षितितलं दृढवज्रमुष्टि-
निष्पिष्टकुञ्जरघटोन्नतकुम्भमुक्तैः।
मुक्ताफलैः स्फुरितदीधितिपक्ष्मपङ्क्ति-
शौर्यद्रुमस्तबकविभ्रममाक्षिपद्भिः ॥ 11.34 ॥
संरम्भविभ्रमभृतां युधि मन्युगर्भ-
मुज्झन्तु घर्मजलशीकरबिन्दुवृष्टीः।
सार्धं ललाचकटका भवतामराति-
सीमन्तिनीजनविलोचनबाष्पपूरैः ॥ 11.35 ॥
आयोधने गजघटाविकटास्थिकूट-
कुम्भस्थलस्खलितशड्गखकडत्कृतिर्वः।
अन्तर्दधातु मधुरं जयशब्दतार-
कोलाहलं नभसि खेचरसंहतीनाम् ॥ 11.36 ॥
संस्फोटविस्फुटसस्फुटितव्रणोत्थ-
रक्तच्छटाचिररुचो गजगण्डमेघाः।
मुञ्चन्तु दानजलवृष्टिममानसस्य-
क्षेत्रं विदातुमधुना सुरवैरिचक्रम् ॥ 11.37 ॥
अभ्यर्णतौणिकविकीर्णविकर्णघात-
रुग्णामरारिकरिकर्णमुदीर्णसत्त्वम्।
तूर्णं वितिर्णभयमस्तु रणं निदाघ-
संशीर्णजीर्णतरुपर्णवनायमानम् ॥ 11.38 ॥
निष्फिष्टलोचनयुगं दृढवज्रमुष्टि-
पिष्टास्थिकूटशिरसं विदधे सुरारिम्।
वज्राभिघातदलितातनुकूटकोटि-
विस्रस्तरत्नशकलाञ्जनशैलकल्पम् ॥ 11.39 ॥
प्राप्य क्रियासमबिहारमहं प्रकर्ष-
पर्यन्तवर्तिनमुपोद्धृतशैलशृङ्गान्।
संहारमारुत इव प्रसभं क्षूणद्मि
सङ्ग्रामसीम्नि तरसा सुरशत्रुशैलान् ॥ 11.40 ॥
संभ्रान्तविभ्रमवतीकरपुण्डरीक-
धूता विपाण्डुररुचो मम चामरौघाः।
उत्पादयन्ति बत शोकजरामिवारि-
हेलानिकारकलुषीकृतचित्तवृत्तेः ॥ 11.41 ॥
तीव्रात्मनो दलंयतः करवज्रमुष्टि-
घातेन दानवकुलाचलचक्रवालम्।
व्यापारिता युधि भटैः कृपणाः कृपाण-
पट्टा भवन्ति म नूनममी पुरस्तात् ॥ 11.42 ॥
आरोपितोऽपि सकलासुरसंप्रहार-
भारो भराय न भविष्यति मेऽत्र बाहौ।
संहारकोलवपुषः खगकेतनस्य
दंष्ट्राग्रभागा इव रत्नवतीनिवेशः ॥ 11.43 ॥
उद्दामकुञ्जरघटोन्नतकुम्मपीठ-
मर्दो हिताहवकलासु विचक्षणेऽहम्।
तां नायिकामिव जयश्रियमाभिमुख्य-
मेको नयामि नयनिर्विषयैकवृत्तिः ॥ 11.44 ॥
लक्ष्मीमखण्डनवसू रणभूमिरेतु
नानाध्वजांशुककृतां सुरदारुणासौ।
अद्यैव देव हरिणारहिता हिमाद्रि-
सानुस्थलीव प्टथुवंशकरीरराशिः ॥ 11.45 ॥
कैलासशैलमिव बाहुवलेन लोक-
मुन्मूलयन्तमहितं बहुदोषमेकः।
तीव्रार्तिनादमुखरं चरणेन नाथ
निष्पीड्य संप्रति तवानुकरोमि लीलाम् ॥ 11.46 ॥
सङ्ग्रमवर्त्मनि भयानकतां गतेन
चक्रेण नाथ दधतापि सुदर्शनत्वम्।
राहोरहारि हरिणाशु यदोत्तमाङ्ग-
मासंस्तदा दितिसुताः क्व समीकशौण्डाः ॥ 11.47 ॥
एतेन किं नु कवलीकृतसूर्यचन्द्र-
बिम्बेन राहुशिरसा स्फुरतान्तरिक्षे।
चामुण्डया किमिति मुण्डमखण्डमेत-
दुत्कृत्य मांसमधुना ध्रियते न पाणौ ॥ 11.48 ॥
बद्धे बलौ बलवता मधुसूदनेन
भिन्ने हिरण्यकशिपौ च सकाञ्चनाक्षे।
दूरं व्यपास्तमधुना भुजदण्डदर्प-
कण्डूविनोदनसुखं दनुजाहवे वः ॥ 11.49 ॥
तद्वाडवं वदनमात्रमनौचितीस्थ-
मौर्वानलः कथमिवाधिवसेदुदर्चिः।
तस्यास्पदं कवलिताखिलवाहिनीश-
तिग्मत्विषः कुपितवीरकृतान्तवक्त्रम् ॥ 11.50 ॥
तेजस्वितामुपगतोऽपि मृदुः प्रकृत्या
कार्ये क्वचिन्न खलु गण्यत एव नूनम्।
मध्ये किलाहुतिभुजामतमुप्रकाश-
मिच्छन्ति पञ्चतपसस्तपनं न चन्द्रम् ॥ 11.51 ॥
उद्वृत्तमत्तकरिकूबरिवाजिपत्ति-
दुःसंचरत्वमुपजग्मुषि संगराग्रे।
कृत्तारिकण्ठघनशोणितपङ्किलापि
निस्त्रिंशयष्टिरमलैव भटस्य पाणौ ॥ 11.52 ॥
तेजो विकासि दधतः करचक्रवाल-
लीलागृहीतककुभः शुचिमण्डलस्य।
भानोर्दिनस्तितिरिवापरिवृत्तिशून्य-
मैकात्म्यमेव भजते क्षितिपस्य लक्ष्मीः ॥ 11.53 ॥
ज्योत्स्नावितानपरिपाण्डुरुचो न जातु
कीर्तेर्जनो भजति भाजनतां विजिह्मः।
दण्डत्वमेति कुटिलो ज्यवैजयन्त्याः
प्रत्यग्रकण्टकशिखाजटिलो न वंशः ॥ 11.54 ॥
तुच्छोपमानपदविमुपजग्मुषापि
निःसारतामपि गतेन जडात्मवृत्तेः।
क्रोडे न्यधायि हरिणेन पदं यदस्य
चन्द्रस्य पश्यत फलं तदनूष्मतायाः ॥ 11.55 ॥
तज्जड्यसंभृतिविजृम्भितमेव तस्य
तेजस्विशब्दसदृशं विदधाति नासौ।
निर्हीक इन्दुरसकृत्तपनावधूत-
चछायोऽप्युदेति निशि यत्प्रतिकारशून्यः ॥ 11.56 ॥
आजन्मनोऽपि चपला नियमेन तत्र
लक्ष्मीः कथं न निवसेदरविन्दखण्डे।
तिष्ठन्ति यस् यपरिणआमशुचावखण्ड-
कोषस्थितेर्गुणगणाः सकृदेव दण्डे ॥ 11.57 ॥
शान्तिं नि यात्यपरथा परविप्रकार-
पांसुर्जगत्यतनुसंभृतिरेष तावत्।
तिग्माभितापशमनाय कृपाणमेघ-
धाराजलान्यविरलं न पतन्ति यावत् ॥ 11. 58 ॥
आधारदाम्नि रचितस्तितिरल्पकेऽपि
तुच्छेऽपि तेजसि परिस्फुरति स्फुटं श्रीः।
दीपोऽपि मुञ्चति खिखां भवनान्धकार-
निर्वासनाय किमुतावसरे प्रवीरः ॥ 11.59 ॥
अन्येषु सत्स्वपि निसर्गविनिर्मलेषु
मन्ये महाजनधूरां कतिचिद्वहन्ति।
एकः स कम्बुरुदभूद्विमलोऽम्बुराशे-
र्यः पूर्यते मधुरिपोर्मखमारुतेन ॥ 11.60 ॥
तिग्मत्विषः परिमिताखिलमानमेव
तेजः प्रकाशितजगत्स्थितमत्र बिम्बे।
तेजस्विनः पुनरपर्यवसानमेव
मन्ये तदत्र हृदये निवसत्यसह्यम् । 11.61 ॥
भ्रूभह्गमाशु दिशतोल्बणरोषऱूक्ष-
मक्ष्णोश्च रागमुपपादयतासहिष्णोः।
वामभ्रुवामतनुमानपरिग्रहेण
चेतो दुनोत्यभिमुखं स्फुरितोऽधरोऽपि ॥ 11.62 ॥
विस्तारशालिनि हृदि प्रथिमानमाप्य
लोकास्त्रयः किल वसन्ति रथाङ्गपाणेः।
सप्तापि धीरहृदये सविकासमेव
तिष्ठन्ति ते स्फुटमिति स्म ममैष तर्कः ॥ 11.63 ॥
आजन्मनोऽप्यकृतपूर्वतया परेषां
साधारणत्वरहितां पुरुषप्रकाण्डः
प्रत्यग्रतारकगुणां निजपौरुषस्य
च्छायां विमुञ्चति निशामिव शीतराश्मिः ॥ 11.64 ॥
कार्यं भवेत्क्वचन किंचिदणीयसापि
स्थूलैरलं तनुभृतामुपयोगवन्ध्यैः ।
क्ष्माभृत्तटेषु वरमस्तु तृणोलपादि
किं गण्डशैलनिकरैः पृथुगण्डकल्पैः ॥ 11.65 ॥
निष्ठ्यूतदीधितिशिखादलितान्धकार-
राशिर्वरं मणिरसौ तनुरप्यनर्घः।
क्षोणीभृतां कटकवर्तमानि किं नु कृत्य-
मंशुश्रिया विरहितैर्ननु गण्डशैलैः ॥ 11.66 ॥
लूताकृतो वरमसौ जगतीह तन्तु-
रारुह्य नाकमधिरोहति कीटको यम्।
अस्ताचलस्य शिरसोन्नतिशालिना कि-
मालम्बनं न तरणेः पततो दिवो यत् ॥ 11.67 ॥
तुङ्गात्मतास्तशिखरस्य मुधैव भानो-
र्नालम्बनं भवति यत्समये प्रपित्सोः।
श्लाघ्यः स तामरसनालगुअमोऽपि दैत्य-
भीत्या यमेत्य मरुतां पतिराललम्बे ॥ 11.68 ॥
आप्लावितक्षितितला वडवाग्निनैव
सा दह्यतां जलनिधेर्वरमम्भसा श्रीः।
शक्ता न योन्नतिकृतो वपुषः प्रमार्ष्टु-
मङ्कोत्थितस्य शशिनोऽपि कलङ्कलेखाम् ॥ 11.69 ॥
ऊर्ध्वं गताभिरवटास्पदपादपस्य
साखाशिखाभिरलमुन्नतिशालिनीभिः।
श्लाघ्यामधोगतिमपि स्खलतां कदाचि-
दालम्बकारणमवैमि जटावलीनाम् ॥ 11.70 ॥
भ्रूभङ्गमारचय निष्ठुररोषरूक्ष-
मुद्वर्तयेक्षणपुटौ दश दन्तवासः।
हारांल्लुनीहि परिपिण्ड्ढि मिथः कराग्र-
युग्मं जहि क्षितितलं पटुपार्ष्णिघातैः ॥ 11.71 ॥
आस्फालयांसशिखरं शिखरानुकारि
गर्जाभ्रनादमुखरस्थिति भिन्द्धि धैर्यम्।
इत्थं वृथा विफलमत्सरमीहमान-
मेतन्न संप्रति विभाति सदः स्मरारेः ॥ 11.72 ॥ (युगलकम्)
न भ्रूविभङ्गरचना वदने न चांस-
देशाहतिर्न दशनच्छददंशयोगः।
क्रोधानुभावघटनेन विना क्षयेऽग्नि-
र्भस्मीकरोति भुवनानि च दुःसहार्चिः ॥ 11.73 ॥
हेलावरोपितकुलाचलचक्रवाल-
लोकापवर्तनसमर्थभुजाः क्व यूयम्।
संरम्भ एष च विसंवददाननेन्दु-
बिम्बद्युतिः क्व भवतां दितिजाहवेषु ॥ 11.74 ॥
संक्षेप एष गदितो वचनप्रपञ्च-
संचोदनेन किमिवोर्जिततेजसां वः।
दैत्येन्द्रडामरसमीकनियोगमेव
वाक्यार्थमत्र मम किं विबुधा मनुध्वे ॥ 11.75 ॥
विघटितगुरुपर्वोत्सेधमभ्युन्मिषन्मे
दहतु दितिजवंसं क्रोधहुंकारवह्निः।
पुनरपि पुरुहूतः स्वां पुरीं रत्नसाना-
वधिवसतु पुरेव स्तूयमानः मुरौघैः ॥ 11.76 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्येऽग्निदंष्ट्ररभटी वर्णनं नामैकादशः सर्गः।