१०

.

हरविजयम्।

दशमः सर्गः।

तिग्मप्रतापतपनातप एव यस्य
संकोचितारिकुलकीर्तिकुमुद्वतीकः।
रूढंक जगत्त्रयसरस्यनयद्विकास-
लक्ष्मीं विपाण्डुरयशः शतपत्त्रखण्डम् ॥ 10.1 ॥
उच्छ्वासिशेशषफणपाण्डुरपुण्डरीक-
खण्डोपसेवनधियेव रसातलान्तः।
क्रोञ्चाद्रिकुञ्जविवरोत्थितहंसयूथ-
मार्गानुसाररभसादिव दिङ्भुखेषु ॥ 10.2 ॥
विस्पष्टगौरकरसूत्रसुधामयूख-
रेखामृणालशकलस्पृहयेव नाके।
यस्यानिशं धवलपक्षबलेन कीर्ति-
हंसी सविभ्रममिति भ्रमति त्रिलोक्याम् ॥ 10.3 ॥(युगलकम्)
गण्डस्थलं समिति यस्य विपक्षभङ्ग-
रागोत्थपीनपुलकाभरणं बभासे।
लक्ष्म्या विचुम्बितमिवाधिशयानयांस-
कूटोपधानविकटोन्नतबाहुशय्याम् ॥ 10.4 ॥
पर्यन्तभागविशरारुतरङ्गभङ्ग-
सिन्धुप्लवा भुजगराजफणास्वमन्दम्।
प्रेङ्खत्तरा वसुमती बलभारभूरि-
खेदाकुला चलति दिग्विजयाय यस्मिन् ॥ 10.5 ॥
येन प्रकीर्णकगणाः सुरकुञ्जरेण
भग्ना मृगाङ्कधवलाः प्रतिपक्षलक्ष्म्याः।
निष्कृष्टकोटिमुखनिर्गतसूक्ष्मसूत्र-
जाला मृणालवलया इव पङ्कजिन्याः ॥ 10.6 ॥
यस्योन्मदद्विरदकुम्भविबेदमुक्त-
संसक्तमौक्तिकशिखानिकरावकीर्णः।
क्षीराहुतीरिव मुमोच युधि प्रताप-
वह्नावरीन्धवसमेधितधाम्नि खङ्गः ॥ 10.7 ॥
यस्मिन्समुच्चलति वोढुमिवान्तरिक्ष-
निर्धूतधूलिधरणीवलयं द्वितीयम्।
भात्युत्थितं क्षितिभृतां धवलातपत्त्र-
खण्डच्छलेन पृथुशेषफणासहस्रम् ॥ 10.8 ॥
सुश्लिष्टमध्यघटितास्पदपद्मराग-
पीठोज्ज्वलाममलहारलतां दधानः।
आन्दोलनाय रचितां स्थगितान्तरिक्ष-
विस्तारिबाहुवनदेवतयेव दोलाम् ॥ 10.9 ॥
बिभ्राद्विकासिपुटतारकदृष्टिपूर्ण-
गण्डस्थलं शशिसितास्मितशोभिवक्त्रम्।
आधूय कोपशिथिलीकृतभोगिबद्ध-
जूटं शिरोलुलितपिङ्गजटाकलापम् ॥ 10.10 ॥
दन्तप्रभाधवलभासमनेकमार्ग-
वृत्तिं मनोहरपदोज्ज्वलवर्णहंसाम्।
गाम्भीर्यसिन्धुघटितां गिरमुज्जगार
जह्नुर्भगीरथसुतामिव वह्निगर्भः ॥ 10.11 ॥ (एकादशभिः कुलकम्)
वाक्यं प्रभामय यदित्थमुदात्तमात्थ
तेनाभिधातुमधुनाहमपि प्रवृत्तः।
सर्वेऽनुभावगरिमा स मुखानिलस्य
शब्दायते श्रुतिसुखं यदतीव वेणुः ॥ 10.12 ॥
वाक्यं वचस्विजनदुर्वचमित्थमेत-
दद्यामलं त्वदपरः क इवाभिदध्यात्।
स्यात्कश्चिदेव स मणिर्ननु शातकुम्भ-
निष्ठीविता जगति यस्य गता प्रसूतिम् ॥ 10.13 ॥
येषां निसर्गविमलत्वमुपादधाना
नार्थान्प्रकाशयति दीपशिखेव बुद्धिः।
क्रोधान्धकारगहने प्रविजृम्भमाणे
तेऽन्धीभवन्ति ननु सत्स्वपि लोचनेषु ॥ 10.14 ॥
बिभ्राणया विमलतामधिकं धियैव
मोहं व्यपोहति विशारदिमानमाप्तः।
दिक्चक्रवालविनिरोधि विजृम्भमाण-
मन्धं तमस्तिरयति प्रभयैव भानुः ॥ 10.15 ॥
चन्द्रोदयेऽपि जलधिः स्तिमित्त्वमेति
विद्युल्लतापि परिमुञ्चति चञ्चलत्वम्।
तिग्मांशुमण्कडलमपि ग्रसते न राहुः
प्रज्ञावता नय इह प्रवितन्यमाने ॥ 10.16 ॥
त्रैविद्यवृद्धरचितं नयवर्त्म शश्व-
दातस्थुषः स्तिरविपक्षजितो विजेतुः।
लक्ष्मीर्न मुञ्चति कदाचन चञ्चलापि
दीप्रा रुचिर्दिनपतेरिव मण्डलाग्रम् ॥ 10.17 ॥
शङ्के समाप्य महतां हृदयेषु पूर्व-
मीषत्तदंशपरमाणुलवावशेषाम्।
गम्भीरतां जलधिषु स्तिरतां नगेषु
विस्तीर्णतां च नभसि व्यधिताथ वेधाः ॥ 10.18 ॥
प्रेक्षावतोऽप्यविहितौपयिकप्रयोग-
सून्यानभीक्षणमधिकुर्वत एव तीक्ष्णाः।
चक्षुष्मतोऽपि चरणेष्ववधानवन्ध्या-
न्विध्यन्ति कण्टकशिखा निशिता अवश्यम् ॥ 10.19 ॥
कालादिसाधनमवेक्षितमर्थसिद्धि-
मभ्यर्णतां नयति निष्प्रतिघं जिगीषोः।
तन्निर्व्यपेक्षमनसां नयसासनेषु
दोर्दण्डदर्परभसो विनिपातहेतुः ॥ 10.20 ॥
पातालमन्दिरनिवासदृढान्धकार-
संसर्गजिह्मितदृशो दितिजाधिनाथाः।
धाराकृशानुजटिलं युधि यस्य चक्र-
मुष्णांशुमण्डलमिवेक्षितुमप्यशक्ताः ॥ 10.21 ॥
सङ्ग्राममूर्धनि विपूरयितुं न येन
यत्नादपि स्फुटमपार्यत पाञ्चजन्यः।
निःश्वासनुन्नहृदयास्पदसप्तलोक-
संस्थानरुद्धविकटाननरन्ध्रमार्गः ॥ 10.22 ॥
वक्त्रामृतांशुविनिवेशितपाञ्चजन्य-
शङ्खर्पितां कुटिलतामिव यस्य बिभ्रत्।
चेतो निसर्गसरलं रिपुवञ्चनैक-
कार्यप्रपञ्चरचनाचतुरत्वमेति ॥ 10.23 ॥
यस्य व्यलोक्यत सुधाहरणाभियोगे
लीलापुरंध्रिवपुषः कुचकुम्भयुग्मम्।
वक्षःस्थलीसरभसोत्थितगूढनाभि-
रूढारविन्दमुकुलद्वयशोभि दैत्यैः ॥ 10.24 ॥
यत्तीक्ष्णकोटिकरजक्षतिजृम्भमाण-
लज्जाकुला कुलवधूरिव दृष्टमार्गे।
भर्तुः पुनर्न दितिजाधिपतेरतिष्ठ-
दाबद्धहाससुरचक्रविलोकिता श्रीः ॥ 10.25 ॥
दंष्ट्‌राशशाङ्ककलिकाशकलैकदेश-
कोणोद्धृतामभिसमीक्ष्य बभूव यः क्षमाम्।
घोणादरीविवरघधूर्णितसप्तलोक-
लीलावराहरचनादरसंभृतश्रीः ॥ 10.26 ॥
यस्यातिमन्थरगतेर्वलिवञ्चनार्थ-
मागच्छतस्तनुरदृश्यत सश्रमाम्भाः।
संकोचितावयवसंकटसंधिरोम-
कूपान्तरोच्छलितसिन्दुजलेव दैत्यैः ॥ 10.27 ॥
आक्रामतस्त्रिभुवनं वलिराजलक्ष्मी-
निर्वासनाय नवविभ्रममण्डनश्रीः।
आधायि यस्य सुरसिद्धवधूकपोल-
भागेषु पादनखदीधितिमञ्जरीभिः ॥ 10.28 ॥
उत्ख्या नन्दनवनादुपनीत एव
येन द्रुमे भवनकाननभूमिभागम्।
आलोक्यताप्यनवतंसिततद्विनिद्र-
पुष्ये विकासितदृसा दयितानने श्रीः ॥ 10.29 ॥
यः प्राप्य बल्लवकुलस्तितिमभ्रनील-
मन्तर्निगूढमपरं बिभरांचकार।
तत्कालबद्धहृदयास्पदसिन्धुकन्या-
गाढोपगूहनरसादिव बाहुयुग्मम् ॥ 10.30 ॥
अद्यापि शैशवभृता दमितस्य येन
शल्यायते शिरसि कालियपन्नगस्य।
विन्यस्तपादभरभग्नमुदंशुमाल-
मन्तःस्फुरत्पृथुफणामणिचक्रवालम् ॥ 10.31 ॥
अश्रूयतानुरहसं प्रतिपन्नगोप-
वेषस्य यस्य रभसाद्व्रजसुन्दरीभिः।
गीतध्वनिः श्वसितकम्पितगूदनाभि-
रूढाव्जकेसरपरागकषायकण्ठः ॥ 10.32 ॥
वक्षःश्थले घटितसंनिधिरूढगूढ-
रागावतंसहृदयाद्रिशिलाविशाले।
सा यस्य षोडशानितम्बनतीसहस्र-
गाढोपगूहनवशेन निपीडिता श्रीः ॥ 10.33 ॥
सोऽनेकनाकिनिकुरम्बपुरंध्रिलोक-
वक्त्राब्जहासघटनारविबिम्बचक्रः।
कालक्रमेण हरिरप्यरिभङ्गशौण्ड-
दोर्दण्डदृप्तमनसो दितिजाञ्जघान ॥ 10.34 ॥ (चतुर्दशभिः कुलकम्)
कार्येषु कालमुसलानुगुणव्यवस्थ-
मभ्येत्य तिष्ठति चिरं तरलापि लक्ष्मीः।
सालक्तकं चरणमम्बुजखण्डगर्भ-
संचारलग्नमकरन्दमिवोद्वहन्ती ॥ 10.35 ॥
न्याय्यं तदेतदिह तावदुपप्लवेऽपि
कुर्वन्ति यन्न जगति स्तितिभङ्गमार्याः।
मर्यादया विरहिताः प्रलयागमेऽपि
किं वाच्यतां जलधयो भुवने न याताः ॥ 10.36 ॥
विस्तीर्णतावयवलेशलवोऽपि ताव-
दस्यान्वकारि न मया हृदयस्य कष्टम्।
श्यामायतेऽम्बरमितीव गृहीतचिन्त-
मेतत्तवोच्छ्वसितधूमशिखावलीढम् ॥ 10.37 ॥
उद्दामदर्पनिकषान्करिणो विहाय
विष्यन्दिदानजलनिर्झरधौतगण्डान्।
प्टष्ठे कुरङ्गकशिशोः करकालचक्र-
मुत्प्लुत्य पातयितुमिच्छसि नासि सिंहः ॥ 10.38 ॥
तेनोज्झ्यतां गणपते रभसोऽयमस्त-
नीतिप्रपञ्चलघुको विजिगीषुबाह्यः।
कार्यान्तरेष्वनुगमव्यतिरेकदृष्ट-
सारेषु सारगुरवो नहि विप्लवन्ते ॥ 10.39 ॥
उल्लास्यमानकुटिलब्रुकुटिप्रबन्ध-
बद्धान्धकारगहनेऽपि मुखेन्दुबिम्बे।
व्यक्तिं दधत्तव गणाधिप रोष एष
कस्यास्पदं विमलशास्त्रदृशो न कुर्यात् ॥ 10.40 ॥
आबद्धसंभ्रमसुरासुरचक्रवाल-
दृष्टास्य यद्यपि तमः पटलासितश्रीः।
अव्याहता तव गणाधिपखङ्गयष्टि-
रेषा रणेषु भुवनक्षयकालरात्रिः ॥ 10.41 ॥
संरम्भमोहरभसप्रतिपत्तिशून्य-
मिच्छामि संप्रति तथापि नयानुसारम्।
कार्येऽपि कर्तुमधुनार्य विपर्ययेऽपि
सिद्धेर्भवेत्क्वचन येन न वाच्यता वः ॥ 10.42 ॥
अब्.युत्पतञ्जलभृतः स्तनतो निहन्तुं
किं विक्रमेण विनिपातफलेन कुर्यात्।
पर्यस्तदानजलकुञ्जरकुम्भपीठ-
कुट्टाककोटिकरजक्रकचोऽपि सिंहः ॥ 10.43 ॥
संहारकालशिखिनो जलधारयाभ्र-
खण्डः शिखाहतिमिव ज्वलितस्य कर्तुम्।
कः संप्रहाररभसप्रतिषेधरौक्ष्य-
मीशस्तव प्रमथनाथ गिराथवा स्यात् ॥ 10.44 ॥
निः संख्यसंख्यकुशलप्रतिपक्षपक्ष-
मघ्नन्मवानिव न निर्वतिमेति शुष्मी।
और्वाग्निरेकमपि तिष्ठति किं मुहूर्त-
मुद्वीचिमण्डलमभस्ममयन्पयोधिम् ॥ 10.45 ॥
शूली विकीर्णशिखि शूलमिदं विकृष्य
शार्ङ्ग च संगरमुखेषु रथाङ्गपाणिः।
चक्रीकृतातनुधनुस्तरसा भवांश्च
दोर्दण्डदृप्तमनसो दलयन्तु दैत्यान् ॥ 10.46 ॥
पीनोन्नतांसशिखरस्य रणाम्बुराशि-
हेलाविलोडननिरर्गलमन्दराद्रेः।
दोष्णाः परिभ्रमणमण्डलितः कृपाण-
पट्टो बिभर्ति तव वासुकिबोगलीलाम् ॥ 10.47 ॥
त्वामन्तरेण रणकाननसीम्नि कस्य
पीनोन्नतद्विरदकुम्भकुचाभिघातैः।
श्यामा निनाय करवाललता विकास-
लक्ष्मीं यशः कुरबकुद्रुमचक्रवालम् ॥ 10.48 ॥
गम्भीरतां दधति तावक एव धैर्य-
मास्थां बबन्ध हृदयेऽत्र विशालसत्त्वे।
पातालरन्ध्रमपहाय कृतप्रतिष्ठ-
मन्यत्र किं जलनिधेरवधार्यतेऽम्भः ॥ 10.49 ॥
किं तु ब्रवीमि परलोकजिगीषयेत्थ-
मभ्युज्झतः प्रथममौपयिकं विमोहात्।
दण्डे गणाधिप तव क्रमयोगभाजि
नैवाश्रमान्तर इव ध्रुवमस्ति सिद्धिः ॥ 10.50 ॥
लोकानुसारसरलं नयवर्त्म ताव-
देतन्मयेदृशमिति व्यपदिश्यते वः।
देवः शुभाशुबमतः परमेष वेत्ति
गौरीपतिर्जगदुपप्लवसिन्धुसेतुः ॥ 10.51 ॥
इति तरलितरत्नस्रग्विवृत्त्यान्धकार-
च्छिदमनुगतनीतिं भारतिं तस्य वक्त्रात्।
शशभृत इव बिम्बाच्चन्द्रिकां निष्पतन्ती-
मविहति कुमुदौघो राजलोकोऽभ्यनन्दत् ॥ 10.52 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानक श्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये वह्निगर्भनीतिसंदर्भो नाम दशमः सर्गः।