.
हरविजयम्।
नवमः सर्गः।
इति स्थिते वाक्यमुदीर्य दैत्यसङ्ग्रामकार्यैकरसे गणेन्द्रे।
स्फुरद्विवक्षावलितांसकूटः प्रभामयः शान्तमिदं बभाषे ॥ 9.1 ॥
यस्योद्धतान्विद्विषतः समूलघातं घ्नती योधजनेन नीतिः।
अलब्धयुद्धोत्सवसंमदेन प्रज्ञापरिस्फन्दगुरुर्जगाहे ॥ 9.2 ॥
सविभ्रमोल्लासितखड्गवल्लीघनान्धकारवृतदिङ्भुखेषु।
एकाकिनैव भ्रमता सलीलं न येन भीतिर्ददृशे रणेषु ॥ 9.3 ॥
अगाधसत्त्वास्पदतां गतेन शून्यत्वदोषाद्धृदयेन यस्य।
विस्तीर्णतदालेशलवान्वयेऽपि न साम्यमाकाशमुपाजगाम ॥ 9.4 ॥
अवेक्ष्य लक्ष्मीं विकचारविन्दे रसस्वती यस्य कृतप्रतिष्ठाम्।
तत्स्पर्धयेवातनुसौकुमार्यं पर्याप्तशोभं मुखमध्युवास ॥ 9.5 ॥
यस्याभियोगेषु रजंस्यनीकविमर्दजातानि दिशः प्रसस्रुः।
निम्नावकाशेष्वपपूर्य कीर्तिसंचारयोग्यामिव कर्तुमुर्वीम् ॥ 9.6 ॥
यो बाहुमत्यूर्जितवैरिवृन्दविमर्दरागोद्दुरमाहवेषु।
सदैव बद्धास्पदराजलक्ष्मीस्पर्शादिवोत्कण्डकितं बभार ॥ 9.7 ॥
येनाभयं निर्जयनम्रमूर्तेर्विद्वेषिणःसंयुगमूर्ध्नि दत्त्वा।
हराट्टहासच्छविदिक्पुरंध्रीपट्टांशुकं चारु यशो गृहीतम् ॥ 9.8 ॥
आकर्णकृष्टातनुचापमुक्ता निपेतिवांसो युधि यस्य बाणाः।
विच्छिन्नजीवानि शरासनानि वपूंषि चारातिजनस्य चक्रुः ॥ 9.9 ॥
प्रकाशिताशेषदिशेक्षणेषु कालाञ्जनं मत्सरिकामिनीनाम्।
चिरं यशश्चन्द्रिकयान्धकारमारोप्य रोषादिव यस्य भग्नम् ॥ 9.10 ॥
आभाषमाणस्य गभीरघोषं दन्तप्रभा तस्य मुखं तदानीम्।
विभूषयामास विनिष्पतन्ती ज्योत्स्नेव बिम्बं परिपूर्णमिन्दोः ॥ 9.11 ॥ (दशभिः कुलकम्)
अलं तवाभ्युन्नतधैर्यवृत्तेः संरम्भितामेत्य कृशेऽपि कार्ये।
संभाव्यते किं कलविङ्कपक्षरवाभिघातेन कुलाद्रिकम्पः ॥ 9. 12 ॥
ज्याकृष्टिचक्रीकृतकार्मुकस्य समाधिभङ्गे मदनस्य दीप्ता।
तारेव संरम्भवतस्तृतीया विपत्करी यस्य बभूव दृष्टिः ॥ 9.13 ॥
बिभर्ति गुर्वीं जगतो धुरं यः सर्गस्थितिप्रत्यवहारकार्ये।
अस्मिञ्शरण्येऽपि सुरासुराणां स्थितेऽत्र वो ब्रूत किमाकुलत्वम् ॥ 9.14 ॥ (युग्मम्)
मन्ये निमीलन्नयनारविन्दमेतद्विभोः पञ्चममस्य वक्त्रम्।
जगद्धितादेव न किंचिदन्यद्ध्येयात्मनश्चिन्तयतीन्दुमौलेः ॥ 9.15 ॥
विभाति हारोरगरत्नखण्डैरेष क्षयग्रस्तसुरासुरौघः।
सर्गावतारप्रतिमुच्यमानैर्जीवलैरिवाद्याप्यविमुक्तण्ठः ॥ 9.16 ॥
बिभर्ति नारायणमूर्तिरेष सर्वाङ्गसंधिप्रसृताः स्रवन्तीः।
इतीव बद्धभ्रुकुटिस्तरङ्गैश्चकार केशग्रहमस्य गङ्गा ॥ 9.17 ॥
तनोति भागान्तरकेशलग्नजीमूतनिर्मुक्तजलौघलक्ष्मीम्।
कपालमालाकुहरोदरेषु सुरापगा नाकतलात्पतन्ती ॥ 9.18 ॥
अम्बोदरश्यामलमर्धभागनिषण्णनारायणवक्त्रबिम्बम्।
ललाटवेदीशिखिसान्द्रधूमच्छायापरामृष्ट इवैति लक्ष्मीम् ॥ 9.19 ॥
सान्द्रीभवत्युत्कटकालकूटच्छायानुविद्धाञ्जनमेचकश्रीः।
अव्यञ्जितानुल्बणभागसंधिः कण्ठान्तरस्य च्छविरुल्लसन्ती ॥ 9.20 ॥
शिरः स्थलभ्रंशिसुरस्रवन्तीनिषेवणाभ्यागतहंसलीलाम्।
शरीरभागान्तरपाणिपद्मबद्धप्रतिष्ठोऽञ्चति पाञ्चजन्यः ॥ 9.21 ॥
स्थितिं विधत्ते सभया कथांचिद्वक्षः स्थलार्धे विनिमीलिताक्षी।
विलम्बिहारेरगफूत्कृताग्निज्वालातडिद्विस्फुरणेषु लक्ष्मीः ॥ 9.22 ॥
संप्रेरितार्धस्य च वक्षसोऽन्तः शरीरभागेण जगत्ससम्पम्।
संपादयद्दीधितिचक्रवालं तुच्छत्वमागच्छति कौस्तुभस्य ॥ 9.23 ॥
टङ्काहतोष्णद्युतिमण्डलोतद्थस्फुलिङ्गसंतान इवाभिरामः।
हारोरगाणां फणरत्नखण्डस्तस्यैव धत्ते परिवारलीलाम् ॥ 9.24 ॥
प्रक्षाल्यतेऽन्तर्विनिगूढनाभिह्रदप्रतिष्ठाम्बुजबीजकोषः।
पीठः ससत्कारमिवाब्जयोनेः कुक्षिप्रविष्टोदधिवीचिभङ्गैः ॥ 9.25 ॥
त्रयोऽपि लोकाः प्रतिपत्तुमैक्यमर्हान्ति मूर्त्योरनयोरितीव।
विवक्षयोदेति निगूढसंधिभागा वलीनां त्रितयस्य लक्ष्मीः ॥ 9.26 ॥
इत्येष मिश्रीकृतकैटभारिशरीरभागो विभुताविशेषम्।
व्यनक्ति लोकत्रितयेऽप्यशेषमनन्यसाधारणतामुपेतम् ॥ 9.27 ॥ (दशभिः कुलकम्)
ग्रासीकृतानन्तफणाप्रकाण्डैर्ज्वालाकलापैः स्फुरितं कृशानोः।
विस्रब्धमारव्धसितारविन्दसहस्रहोमैरिव वाडवस्य ॥ 9.28 ॥
ज्वालावलीभिः कलधौतशैलशिलोन्नताभिः कृततापयोच्चैः।
गभीररन्ध्रोदरसंप्रविष्टकुलाद्रिकूटं स्फुटितं धरित्र्या ॥ 9.29 ॥
विलीयमानासु हिमस्थलीषु तुषारशैलस्य वनानि दग्धुम्।
टांकारतारारवरौद्रहेतिर्भवत्यवाप्तप्रसरः कथंचित् ॥ 9.30 ॥
निर्वापणं रत्नलतांशुतोयैर्ज्वालावलीनामिव संविधित्सून्।
दहत्यमन्दं सुरशाखिनोऽपि धूमच्छटासंशयितद्विरेफान् ॥ 9.31 ॥
जटानिकुञ्जास्पदमिन्दुमौलेस्तच्छाययेव च्छुरितं कपालम्।
ज्वालाकलापान्तरसंनिरुद्धं विनिर्दहत्युष्णमरीचिबिम्बम् ॥ 9.32 ॥
शशाङ्कबिम्बं प्रथमावलग्नधूमच्छटाविभ्रमलक्ष्मलेखम्।
विष्यन्दिसान्द्रामृतबद्धदुग्धधाराहुतिः प्लुष्यति विप्लुतार्चिः ॥ 9.33 ॥
ताराकुलं सान्द्रशिखासहस्रताम्रातपापादितपिङ्गिमारात्।
दहत्यलं शारितदिग्विभागस्फुलिह्गसंदोहविनिह्नुतं सत् ॥ 9.34 ॥
माञ्जिष्ठरागारुणचामरौघविडम्बिभिर्भीतमरूद्विधूतैः।
शिखाशतैस्तत्क्षणपार्श्वलग्नैर्दहत्यमन्दप्रसरः सुरेन्द्रम् ॥ 9.35 ॥
चतुर्मुखस्यातनुकर्णिकाग्रकरालपर्यन्तविधूर्णितार्चिः।
भस्मीकरोति क्षणदीप्ररूपपक्ष्मच्छदं विष्टरपुण्डरीकम् ॥ 9.36 ॥
इति क्रमाद्भस्ममयंस्त्रिलोकीमनेकशोऽमुं प्रलयागमेषु।
उद्धूलनाविभ्रमभूतिचर्चासंपादनेनोपचचार वह्निः ॥ 9.37 ॥ (दशभिः कुलकम्)
रसातले गाढनिवेशिताङ्घ्रिः किंचिद्भराबन्धुरकंधराग्रः।
ससौष्ठवं प्टष्ठपुटं बिभर्ति कूर्मः समारोपितमन्दराद्रिः ॥ 9.38 ॥
अन्योन्यविद्धाङ्गुलिचक्रवालदोर्दण्कडमध्ये भ्रमतो मुरारेः।
शैलस्य तत्पार्श्वविघट्टनेन प्रकोष्ठरत्नाभरणैर्विशीर्णम् ॥ 9.39 ॥
विभान्ति संदानितदन्दशूकविकृष्यमाणस्य गिरेः सुधार्द्राः।
विघूर्ममानप्रतिमाछलेन तरङ्गभङ्गा इव मथ्यमानाः ॥ 9.40 ॥
आशीविषाकर्षणगाढकाषकृशीभवन्मध्यपरिच्युताभिः।
शैलस्य निम्नान्तरवर्तिनीभिर्नितम्ब एवोपचितः शिलाभिः ॥ 9.41 ॥
दैत्येन्द्रनिष्पीडितकण्ठपीठफुल्लत्फणामण्डलफूल्कृतोत्यैः।
क्षयार्कबिम्बैरिव वीचचक्रमापीयते भोगिपतेः स्फुलिङ्गैः ॥ 9.42 ॥
सुरासुराकर्षणघूर्णमानमन्थाचलाघातविशीर्यमाणा।
तरङ्गपङ्क्तिः शरणार्थिनीव गृह्णाति वेगेन दिशश्चतस्रः ॥ 9.43 ॥
उत्तस्थुषीं तोयनिधेश्च लक्ष्मीं चेतोविकल्पैः परिरिप्सुनारात्।
आलिङ्ग्यते मन्दर एव गाढभुजोपपीडं गरुडध्वजेन ॥ 9.44 ॥
वैकुण्ठदोर्दण्डदृढोपगूढा विवेपते मन्दरसैलमूर्तिः।
कौशेयसंकासनितम्बभित्तिवस्रंसमानामलनिर्झराम्भाः ॥ 9.45 ॥
क्षणं दधानामृतलाभगर्भविस्रम्भसंभावनविप्रलम्भम्।
संवादितद्वल्गुगुणाभ्युदेति सुराधिपानां दयिता सरिस्रुत् ॥ 9.46 ॥
उत्तिष्ठति प्रांशुनवप्रवालवल्लीनिवुञ्जग्रथिता मुहूर्तम्।
लेखामला धूर्जटिजूटकोटिनिवासयोग्यामिव कुर्वतीन्दोः ॥ 9.47 ॥
माणिक्यपुष्पोच्चयलग्ननारीकचाग्रसंक्रान्तमिवारुणत्वम्।
प्रवालवल्लीललयेषु बिभ्रत्सलीलमुत्तिष्ठतिक पारिजातः ॥ 9.48 ॥
क्षोदोच्छ्वसद्विद्रुमरेणुभङ्गो मुहूर्तलग्नः सुरवारणस्य।
आलानलीनोन्नतशातकौम्भस्तम्भत्वमागच्छति मन्दराद्रिः ॥ 9.49 ॥
निर्दह्यमानो भिषजेव किंचित्स्थानान्तरेष्वौर्वहुताशनेन।
उच्चैः श्रवा दूतसटासहस्रः सवेगमुत्तिष्ठति वीचिमध्यात् ॥ 9.50 ॥
शशाङ्गगौरादपि दुग्धसिन्दोरभ्युद्गतः श्यामरुचिर्विषौघः।
ग्रासीकृतः कण्ठगतोऽस्य धत्ते प्रभाभिरिन्दीवरदामलीलाम् ॥ 9.51 ॥ (चतुर्दशभिः कुलकम्)
चक्रीभवन्मण्डलमुष्णरश्मेरिन्दोश्च धत्ते पृथुरन्द्रमध्यम्।
आसन्नदैत्येन्द्रविनाशवल्गदुत्पातशंसीव भयंकरत्वम् ॥ 9.52 ॥
रथप्रतिष्ठोष्णमरीचितापपरिप्लुता वेदमयास्तुरंगाः।
मुहुर्वलद्गीववीवृत्तलोलपार्श्वक्रमात्कूवरिणं वहन्ति ॥ 9.53 ॥
चक्रीकृतोष्णां शुशिखाकृशानुहेतिप्रतानाहितपाककाष्ठा।
सशैलकीला वसुधा रथत्वमापादिता गाढमुपैति दार्ढ्यम् ॥ 9.54 ॥
व्रजन्नगस्त्येन पुरार्कमार्गरुरुत्सया वृद्धिमलं निरुद्धः।
रूपान्तरेणाम्बरवर्त्म भूयो रुणद्धि विन्ध्याचलवंशकेतुः ॥ 9.55 ॥
मध्यं समुष्टिग्रहसौष्ठवं च कृशीकृतं वासुकिभोगकाषैः।
दधन्नतान्तोभयकूटकतोटिः कोदण्डदण्डत्वमुपैति शैलः ॥ 9.56 ॥
गिरीन्द्रचापाटनगाढबन्धनिपीडनाद्बन्धुरकण्ठपीठः।
करोति नागः श्वसितानलेन दाहक्रियाया इव पूर्वङ्गम् ॥ 9.57॥
क्रमेण दैत्येन्द्रविपत्तिहेतोः संक्षिप्तदेहो निजमाययैव।
जनार्दनो मार्गणतामुपैति पुरेव लोकेषु निरर्गलौजाः ॥ 9.58 ॥
शशीकृतस्याग्रत एव शैरेः शल्यीभवत्याहिततीव्रदाहः।
दिधक्ष्यमाणासुरचक्रवालबालाजनस्यानु कृशानुराशिः ॥ 9.59 ॥
आकृष्टनिः शेषकुलाद्रिकूटनिष्पेषदक्षक्षयकालरंहाः।
महासुरीणां हृदयैः करोति कम्पं मरुत्पुङ्खपतत्त्रपङ्क्तेः ॥ 9.60 ॥
इत्येष एव प्रणवप्रतोदविरञ्चिसारथ्यसनाथमेकः।
रथाग्रमास्थाय सुमेरुकेतुं पुरत्रयीं भस्ममयीं चकार ॥ 9.61 ॥(दशभिः कुलकम्)
अभ्युद्धतामर्षदुरीक्ष्यमूर्तेर्ज्वलत्करालानलहेतिपिङ्गम्।
समुल्लसन्ती भ्रुकुटिस्तृतीयं दाहाय तिव्रं नुदतीव चक्षुः ॥ 9.62 ॥
प्लोषावलग्नस्य वपुष्युदग्रज्वालाजटालस्य विलोचनाग्नेः।
प्रशान्तिहेतोरिव संभ्रमेण निर्यान्ति घर्मोदकशीकररौघाः ॥ 9.63 ॥
ललाटपट्टेक्षणतारकौघात्संध्याघनाद्विद्युदिवलोत्पतन्ती।
संबाविता दृष्टिनिमिलनेन न वीक्षितुं पिङ्गरुचोज्ज्वलार्चिः ॥ 9.64 ॥
दग्धेऽस्य कामे नयनाग्निनेत्थं क्रोधः प्रसादश्च तथा जजृम्भे।
अङ्गेषु लावण्यसुधाह्रदेषु यथा स लेभे पदमङ्गनानाम् ॥ 9.65 ॥ (कलापकम्)
संभ्रान्तदेवासुरसप्तकोकदाहोपशान्त्यर्थमिवाम्बुनाथाः।
वीचिच्छटाघट्टनघोरघोरमन्योन्यमुद्दामरया घटन्ते ॥ 9.66 ॥
ऊर्ध्वेक्षणाग्निग्लपितोष्णिमारान्मन्दीभवत्युष्णमरीचिबिम्बम्।
अन्योन्यसंप्टक्तसमुद्रवारितरङ्गभङ्गैरिव लङ्घ्यमानम् ॥ 9.67 ॥
किमेतदित्याकुलताविवर्तनिष्पीडितस्यैव चतुर्मुखेन।
रक्तच्छटाभासनपङ्कजस्य गलत्यमन्दं मकरन्दवृष्टिः ॥ 9.68 ॥
इत्यस्य कालोऽपि विलङ्गिताज्ञः संधुक्षितः कोपहुताशनेन।
बभार दावानलदह्यमानपरिज्वलन्मेकलशैललीलाम् ॥ 9.69 ॥ (कलापकम्)
संवर्तमेघमलिनच्छविकालकूट-
च्छायाछलेन भुवनप्रलयागमेषु।
आभात्ययं कवलिताखिलसप्तलोक-
पातालरन्ध्रतमसेव निरुद्धकण्ठः ॥ 9.70 ॥
भास्वत्किरीटमकरीमणिपत्त्रभङ्ग-
च्छायापिशङ्गिततलाङ्गुलिपादयुग्मम्।
अस्य स्फुरन्नखमयूखशिखाछलेन
प्रज्ञाप्रकाशमिव भाति दिशत्सुरेभ्यः ॥ 9.71 ॥
संदेहमोहविरतिर्गहनेषु कृत्य-
वस्तुष्वपोढतमसामपि नो मतीनाम्।
अस्यामलाः किल धियो विचरन्ति येन
तासामुपर्युपरि चित्रविशेषनिष्ठाः ॥ 9.72 ॥
प्रज्ञातिरेकवशतो विशदावभास-
मालोच्यमानमखिलं खलु कार्यतत्त्वम्।
पुष्णाति निष्प्रतिघमर्थविशेषजात-
मुद्धृष्यमाणमिव वर्णकदारु गन्धम् ॥ 9.73 ॥
मन्त्रेण पञ्चविधतामुपजग्मुषा च
नीतिप्रपञ्चरचना विजिगीषुपुंसाम्।
आ संसृति क्रमजुषा भुवनत्रयेऽपि
निर्वर्त्यते हि मरुतेव शरीरयात्रा ॥ 9.74 ॥
संरम्भमित्थमपहाय निरूपयन्तु
संप्रत्यनेन कृतनीतिपथप्रकाशाः।
कार्यं भवन्त इदमुज्झितमोहमार्याः
प्रेक्षावतां जगति तन्न यदस्त्यसाध्यम् ॥ 9.75 ॥
आकर्ण्य वाचमिति तस्य गणाधिनाथा-
स्तस्थुः परस्परनिवेशितदृष्टयस्ते।
लीलाविवृत्तिशिथिलीभवदद्रिकूट-
पीनांसपीठलुठितामलरत्नहाराः ॥ 9.76 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये प्रभामयनयप्रकाशनं नाम नवमः सर्गः।