.
हरविजयम्।
अष्टमः सर्गः।
इत्थं गणाधिपतिकोपकृशानुसान्ति-
हेतोरिवेन्दुमणिहारलतागुणेषु।
मुञ्चत्सु शंकरकिरीटकरालचन्द्र-
खण्डांशुपातवशतः शुचिवारिवर्षम् ॥ 8.1 ॥
प्रालम्बमौक्तिकपरीस्फुरदंशुजाल-
ज्योत्स्नातपच्छुरणपाण्डुरितान्तरासु।
पीतारिपक्षशशिशुभ्रयशःक स्विवासि-
यष्टिष्वनेकभटपाणितलस्थितासु ॥ 8.2 ॥
माणिक्यकन्दुकममन्दरवीन्दुबिम्ब-
शोभाधरं करतलाग्रविवर्तनाभिः।
आलानितस्य भुजकल्पतरौ विधान-
पिण्डं दिशन्निव पराक्रमकुञ्जरस्य ॥ 8.3 ॥
पर्यङ्कबन्धघटनाविकटेन काल-
कायाश्रिया विषधरेण परीतमूर्तिः।
पर्यन्तवर्ति दलिताञ्जनधूलिपुञ्ज-
सच्छायसिन्धुपरिखक्षितिमण्कडलश्रीः ॥ 8.4 ॥
आकृष्य कालमुसलो मुसलं सलील-
मामांसलांसशिखरस्खलदुत्तरीयः।
वाक्यं निरर्गलमुदाहरदभ्रनाद-
साशङ्कताण्डवितषण्मुखनीलकण्ठम् ॥ 8.5 ॥ (पञ्चभिः कुलकम्)
येषामवस्तुविषयः प्रथितः किलात्म-
लाभ परस्परकृतः प्लवमानवृत्तिः।
दूरं व्यतीत्य निखिलान्खलु तान्विकल्पा-
ञ्शब्दांश्च यः स्थितिमसंकरमूर्तिरापत् ॥ 8.6 ॥
येनासकृत्प्रलयकालनिशावतार-
प्रारब्धताण्डवनिरर्गलडम्बरेण।
उत्क्षिप्तमम्बरमिवापरमूढसांध्य-
रागं विनिर्गलदसृग्द्विपचर्म बभ्रे ॥ 8.7 ॥
यस्याभ्रसिन्धुसलिलोर्मिघटासमीर-
पर्यस्तमूलपरिवर्तिकिरीटचन्द्रम्।
छेदाभियुक्तकरजाग्रमिवैति लक्ष्मी-
मद्यापि मूर्ध्रि परमेष्टिशिरः कपालम् ॥ 8.8 ॥
यस्याद्रिराजसुतया रतिमण्डलेषु
विन्यस्तयावकरसः करजः सलीलम्।
हेलाविलूननालिनासनवक्त्रनाल-
विष्यन्दिसान्द्ररुधिरार्द्र इवालुलोके ॥ 8.9 ॥
संध्यासु यस्य नयनाग्निशिखासहस्र-
सीमन्त्यमानतिमिरं सुरवर्त्म धत्ते।
पर्यन्तवर्तिसलिलस्फुरदौर्ववाह्नि-
हेतिप्रकाशकपिशोदरसिन्धुलीलाम् ॥ 8.10 ॥
यस्योर्ध्वलोचनमनिन्धनधूमराशि-
रध्यास्त एतदनपेक्षिरेणुलक्ष्मा।
अक्षुण्ण एव दहनः स्खलदुत्तमाङ्ग-
गङ्गाजलोक्षणशमानुगुणएतरार्चिः ॥ 8.11 ॥
यस्य व्यलोक्यत सूरैः पुरदाहकाले
हेलोर्ध्वकृष्टमभिसंहितसाग्निबाणम्।
बाणासनं सरलसङ्गभुजंगघोण-
भास्वत्तृतीयनयनभ्रुकुटीकरालम् ॥ 8.12 ॥
लीलाकिरातवपुषो ददृशे शरीर-
च्छाया च यस्य रभसेन वनेचरौधैः।
अन्तर्निगूढगलगोचरकालकूट-
कूटप्रभापरिणतेरिव मेचकश्रीः ॥ 8.13 ॥
मुक्तेऽपि कारणकिरातवपुष्युदग्नि-
नेत्रप्रभारुणितमौक्तिकहारलेखम्।
यस्याद्रिराजदुहिताभिमुखी बभार
गुञ्जाफलस्रगुपगूढमिव स्तनाग्रम् ॥ 8.14 ॥
माधुर्यमक्षतगुणं दधतं रसस्य
संक्षोभिताखिलसुरासुरचक्रवालम्।
अक्षुण्णमेव मकरध्वजमूर्ध्वचक्षु-
रौर्वानलः सपदि यस्य विभोरधाक्षीत् ॥ 8.15 ॥
न श्पृश्यतेऽपि कमलप्रभवो यदीय-
मायाकवाटपुटपाटनपादवेन।
अस्मिन्प्रभौ त्रिभुवनस्य निकारलेश-
संभावनापि कुरुते परतोऽनुतापम् ॥ 8.16 ॥ (एकादशभिः कुलकम्)
अस्याहवे क इव शूलमिदं सहेत
शाखानलक्वथनदुःस्थितसागराम्भः।
बिभ्रज्जगत्कवलनोत्थितकालरात्रि-
कोपोत्कटभ्रुकुटिभङ्गभयंकरत्वम् ॥ 8.17 ॥
एतत्करास्पदमरालशिखाकराल-
शाखान्तरालतरलानलविस्फुलिङ्गाः।
एतस्य मुञ्चति जगत्क्षयकालवह्नि-
बीजच्छटा इव दिशो दश शारयन्तीः ॥ 8.18 ॥
पश्यत्सु भीतिविधूरं विबुधाधिपेषु
तीक्ष्णाग्रकोटिकरजक्रकचेन कोपात्।
अस्योत्तमाङ्गमरविन्दसदोऽप्यमन्द-
मुच्छिन्दतः सदसि कः प्रतिबन्धकोऽभूत् ॥ 8.19 ॥
दंष्ट्राकरालमुखकंदरकोटिभाग-
हेलाविदारितगजासुरघोरमूर्तिः।
पञ्चाननत्वमनघं सुरसिंह एष
चूडाशशाङ्ककलिकासटया बिभर्ति ॥ 8.20 ॥
अस्य स्थिता शिरसि शेखरचन्द्रखण्ड-
संपर्कशीततरतुङ्गतरङ्गभङ्गा।
उद्दामधामरविशोषितसप्तसिन्धौ
संशोषमेति न जगत्प्रलयेऽपि गङ्गा ॥ 8.21 ॥
अस्य क्षयेष्वलिकलोचनतीव्रवह्नि-
तापस्फुटत्कनककर्परदर्पणाग्रे।
विस्पष्टमद्रितनया वदनं विलोक्य
पद्मासनाण्डमखिलं सफलीचकार ॥ 8.22 ॥
संवर्तकालरजनीषु विजृम्भमाण-
मस्यालिमेचकरुचि स्फुरदेतदास्यम्।
विश्वं विशत्प्रलयमेति तदन्धकार-
बीजायमानमभितो दिशि दक्षिणस्याम् ॥ 8.23 ॥
दूरेऽथवैष विषयीकृतसप्तलोक-
दुःखानलप्रभवभावविकारशून्यः।
आस्तामशेषमहदादिविशेषनिष्ठ-
विश्वोदयस्थितिविनाशदशैकहेतुः ॥ 8.24 ॥
लक्ष्मीमपूरितपदत्रय एव दैत्य-
नाथस्य संप्रति बलेरिव शार्ङ्गपाणिः।
पश्यत्सु दानवभटेष्वहमाक्षिपामि
चक्रांशुपिञ्जरितपीवरबाहुदण्डः ॥ 8.25 ॥ (युगलकम्)
क्षुन्दन्रिपोर्विघटमानदृढास्थिसंधि-
बन्धांश्चमूपरिवृढानहमूढरीढः।
कालस्य किं मुसलतामधुना विधाय
नाम्नो बिभर्मि युधि तत्पुरुषार्थतत्त्वम् ॥ 8.26 ॥
पर्यन्तवर्तिजलराशितरङ्गभङ्ग-
चीनांशुकारचितचञ्चलचीरचिह्नम्।
क्ष्मामण्डलं करगृहीतसुमेरुदण्डो
लीलातपत्रमिव किं सहसोद्धरामि ॥ 8.27 ॥
दिक्सुन्दरीरुपदिहानमहानिभाग्भि-
रच्छाच्छचन्दनरसैरिव मां यशोभिः।
पश्यन्तु संप्रति भटा दृढपार्ष्णिघात-
पर्यस्तहेमगिरिभग्नसुरारिसंस्थम् ॥ 8.28 ॥
एको भुजः सरसचन्दनपङ्कदिग्धः
कर्तुं क्षमो विरहिणीर्मम दक्षिणोऽयम्।
कम्पाकुला मलयवायुपरिवाततायि-
नारीलता गलितबाष्पकणौघपुष्पाः ॥ 8.29 ॥
दिक्चक्रवालरभसग्रहणप्रगल्भ-
दैत्यान्धकारनिकरव्यवधानमग्नाम्।
भास्वानिवाशु दिवसच्छविमुद्धरामि
जिष्णोः श्रियं रुधिरपाटलमण्डलाग्रः ॥ 8.30 ॥
स्वेदच्छटार्द्रकरपिष्टकरालहार-
धूलिच्छटारुधिरचन्दनपङ्कचर्चाः।
नेष्यन्ति शोषमचिरान्मरुतो ममारि-
बन्दीकरावधुतचामरमण्डलोत्थाः ॥ 8. 31 ॥
कम्पाकुलीभवदनेकपलोकपाल-
पालीकपालदलनोत्पुलकं कपोलम्।
एकोऽपि कोपकपिलं दधदुत्कृपाण-
पाणिः कृणोमि करुणाकृपणोऽरिचक्रम् ॥ 8.32 ॥
गाम्भीर्यशालिषु रणाम्भुरुहाकरेषु
मुक्त्वा गुणान्भवति किं करलग्नमन्यत्।
पङ्कविला बिसलता इव दैत्यराज-
सेना वृषाङ्क मम खण्डयतो विशङ्कम् ॥ 8.33 ॥
संरम्भिणो मम विधूततमालखण्ड-
च्छायासु दानववरूथवतीषु संख्ये।
निस्त्रिंशयष्टिषु निदाघरुचेरिवासु
तेजोऽधुना स्फुरतु तिग्मतरप्रतापम् ॥ 8.34 ॥
बिभ्रत्यभीक्ष्णमतिशायि हि सौकुमार्यं
शक्ता न कण्टककृतां क्षतिमेव सोढुम्।
विस्मापिनी विनिदधातु निशतखङ्ग-
धारापथेन पदमस्खलितं न लक्ष्मीः ॥ 8.35 ॥
द्वारि श्रियो मम भुजार्गलदण्ड एष
निःस्यन्दतां नयतु संप्रति संप्रहारे।
अन्योन्यमात्तघटनावतनू कवाट-
पट्टाविवोभयवरूथवतीनिवेशौ ॥ 8.36 ॥
लीलावराह इव निर्वरपीवरांस-
कूटस्फुरत्प्रविकटाङ्गद एव बाहुः।
पर्यस्तकाञ्चनगिरिः क्षपयन्विपक्षा-
नुज्जृम्भतां मम नवाम्बुदमेचकश्रीः ॥ 8.37 ॥
अन्योन्यमत्सरदुरुत्सहबाहुदण्ड-
दर्पोदयोद्धुरसुरासुरकृष्यमाणाम्।
लक्ष्मीमुपेन्द्र इव मन्दरशैलमूर्ति-
मेकः करोमि भुजपञ्जरसंनिबद्वम् ॥ 8.38 ॥
स्वच्छं यशोनिवहमावहतु त्रिलोकी-
लीलात्मदर्शमचिरेण विशेषतो मे।
सङ्ग्रामधामनिहतातनुबाहुदण्ड-
दर्पोद्धताहितचितारजसैव हस्तः ॥ 8.39 ॥
शक्नोत्यनुग्रहमभीक्ष्णमपग्रहं च
कर्तुं महान्हि महतः समये महस्वी।
भानुः क्षये विपरिपूरयतीन्दुमाशु
विच्छायतां च नयति प्रसभं प्रभाते ॥ 8.40 ॥
अम्भोदराजिमलिनातनुकालकूट-
लेखेन मन्मथरिपोः समवर्तिसीमा।
कण्ठग्रहं समरवर्त्मनि पूर्वदेव-
नाथस्य संप्रति करोतु ममासियष्टिः ॥ 8.41 ॥
ते कूटशल्मलिविशङ्गटकण्टकौघ-
तीक्ष्णाग्रनिष्ठुरनिकर्तुनिकृत्तकण्ठाः।
नालोकिता प्रभुविपत्तिरितीव नाथ
नृत्यन्तु संभृतमुदः समरे कबन्धाः ॥ 8.42 ॥
आयोधने श्रवणतामविधूतकुम्भ-
सिन्दूरधूलिपरिपाटलितं मदाम्भः।
मुञ्चन्तु शोणितमिव प्रतिपक्षचक्र-
सेनाविनाशपिशुनं गजगण्डमेघाः ॥ 8.43 ॥
तस्याधुनैव पिशिताशनलोभलग्न-
हेलोल्लसद्विकटकङ्कमुखैः शरीरात्।
आकृष्टशक्तशकलौघशलाक्मस्तु
सानाथ्यलग्नमिव नाथ शकुन्तचक्रम् ॥ 8.44 ॥
किं वा मया भुवनकाननसीमदाह-
दावाग्नयो रिपुचमूचमरीमृगेन्द्राः।
तिष्ठन्त्यमी दितिजराजसमिज्जयश्री-
केशग्रहोत्सुककरास्तव देव योधाः ॥ 8.45 ॥
सर्वाकृताद्रिजलनिर्भरवारिगर्भ-
गम्भीरभैरवरवोल्बणवारणासु।
निर्वर्ण्यतां समरनिर्वरवीरभद्र-
दुर्वारता वरद वैरिवरूथिनीषु ॥ 8.46 ॥
शत्रूत्तमाङ्गशकलीकृतिमुच्यमान-
रक्ताम्बुसेकसुकुमारतरादभीक्ष्णम्।
खड्गालवलवलयात्सशिलीमुखौघ-
सङ्ग्रामकाननतले चिरमुल्लसन्ती ॥ 8.47 ॥
आश्रित्य शूरभुजपादपमिन्दुगौर-
च्छायं यशःकुसुमराशिमुपादधाना।
विस्तारिणी फलभरप्रसवैकहेतु-
र्लक्ष्मीलता सपदि वृद्दिमुपैतु नूनम् ॥ 8.48 ॥ (युग्मम्)
तेजस्विनः समुदिताः स्फुटमेकमेव
धुर्यावलम्बनमिहोज्ज्वलयन्ति कार्यम्।
संहारकालसविशेषरुचोऽतितीव्र-
मुष्णत्विषो दिनमिवोदयदुर्निरीक्ष्याः ॥ 8.49 ॥
आकर्णनाकुलघनध्वनिमोहमन्द-
मन्दाकिनीपुलिनमन्दिरराजहंसम्।
आकोपकम्पितसुरासुरचक्रवाल-
मुक्त्वेति कालमुसलो वचनं व्यलंसीत् ॥ 8.50 ॥
स वचनकुरुविन्दव्यञ्जितोद्दामधाम-
व्यतिकरगुरुभास्वच्चित्तरत्नस्तदासीत्।
सदसि गणपतीनां सूचितान्तर्विवक्षा-
स्फुरदधरपुटानां वक्त्रविन्यस्तदृष्टिः ॥ 8.51 ॥
अथ सकलतदीयोर्जस्विवास्यप्रपञ्च-
श्रवणपुलकिताङ्गो वीरलोकश्चचाल।
उपनतरणलीलानिश्चयास्फालितांस-
स्फुटितरुचिररत्नच्छायकेयूरबाहुः ॥ 8.52 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानक श्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये कालमुसलदण्ड व्याहृतिवर्णनो नामाष्टमः सर्गः।