०७

.

हरविजयम्

सप्तमः सर्गः।

क्रूरक्रुधामथ कराभिहतांसकूट-
मुल्लासितब्रुकुटि दन्तविघट्टितौष्ठम्।
तेषामनेकविधघोरविकारचेष्ट-
माताम्रदृष्टि सदसि स्फुरितं तदासीत् ॥ 7.1 ॥
विन्यस्तपादभरकम्पितकुट्टिमाग्र-
माघट्टनाविघटितामलमौलिबन्धम्।
क्रोधः सभां न्यविशताङ्गदकोटिलग्न-
विस्रस्तकोमलदुकूलदशं स्मरारेः ॥ 7.2 ॥
वक्षः स्थले गणपतेः कुपितस्य हार-
च्छेदोच्चलद्बहलमौक्तिकपङ्क्तिराधात्।
प्राग्विद्रुताङ्कशरणागतशत्रुलक्ष्मी-
स्वेदोदबिन्दुबिसरच्छुरितेव शोभाम् ॥ 7.3 ॥
छायां किरन्मलिनिताम्बरदिग्विभागा-
माविर्भवद्भ्रुकुटिभङ्गभयानकेन।
वक्त्रेण कालमुसलः सकलारिलोक-
संहाररात्रिघटनामिव कर्तुमैच्छत् ॥ 7.4 ॥
संरम्भगर्भगुरुमन्युमनाश्चकार
हुंकारभैरवरवं युधि वीरभद्रः।
भागान्तरालकुहारप्रतिशब्ददीर्घम् ॥ 7.5 ॥
उद्धामरोषभरनिर्भरभैरवीय-
भीयन्त्रणारहितहुंकृतनादसान्द्राः।
अंसस्थलाभिहतिताररवा भटानां
संधिं कथंचिदभिदन्न दिवस्प्टथिव्योः ॥ 7.6 ॥
चिक्षेप पाणिकमलेन रुषा विलूय
विष्यन्दिसान्द्रमकरन्दविलीनभृङ्गाम्।
कण्ठस्रजं रतरसागतशत्रुलक्ष्मी-
लीलाविघातरभसादिव मेघनीलः ॥ 7.7॥
क्रूरक्रुघ- करतलेन ललाटपट्ट-
मापाटलं मलयतः सदसि त्रिमूर्तेः।
आलक्ष्यतोपरि तृतीयविलोचनस्य
भ्रूमञ्जरीव नवधूमशिखोत्पतन्ती ॥ 7.8 ॥
जिह्मीभवद्भ्रुकुटिपाटलरागदृष्टि-
तिर्यग्विवृत्तवदनं हसितांशुगौरः।
शौर्योष्मणा प्रथितसारनिरर्गलेन
भस्मीभवन्निव भुजः शिखिनालुलोके ॥ 7.9 ॥
वक्रं दधद्दशनदंशभयादिवाशु
कम्पाकुलाधरदलस्थिति वज्रमुष्टिः।
दोर्दण्डमाहत करेण सुरारिभङ्ग-
संरम्भरागविकसत्पुलकप्रबन्धः ॥ 7.10 ॥
श्वासानिला नतमुखस्य कराभिघात-
भिन्नावनिप्रकटरन्ध्रपथप्रविष्टाः।
पातालगर्भनलिनीमनलस्य चक्रु-
रुद्धूतशेषफणपाण्डुरपुण्डरीकाम् ॥ 7.11 ॥
उत्तंसपुष्पनवेकेसरसान्द्रधूलि-
पिङ्गीकृतो मधुमदेन पपात भृङ्गः।
निर्मथ्नतः सपदि भृङ्गिरिटेर्ललाट-
मूर्ध्वाक्षितारक इवाग्निशिखापिशङ्गः ॥ 7.12 ॥
रोषारुणीकृतदृशो नडकूबरस्य
हुंकारधूमपटलीं मुखरन्ध्रभागात्।
दैत्याधिराजकवलीकरणादरेण
कृत्यामिवैक्षत जनः सहसोत्पतन्तीम् ॥ 7.13 ॥
कण्ठावलम्बिमकरन्दरसातिपान-
विस्रम्भमन्थरविलीनशिलीमुखौघा।
दृप्तारिसंगरजलाशयकुञ्जरस्य
भाति स्म शृङ्खलमिवोत्पलदाम जिष्णोः ॥ 7.14 ॥
निर्यन्नखांशुसलिलौघकृताभिषेक-
मेकं सहाचमनघं युधि मन्यमानः।
बाहुद्रुमं करतलेन पराममर्श
दुर्दर्शमूर्तिरथ कर्शितसर्वलोकः ॥ 7.15 ॥
प्रेङ्खल्ललाटकषणोत्थितसान्द्रधूम-
लेखानुषह्गकृतलग्नकबन्धमोहम्।
तिग्मांशुबिम्बमसुदर्शदकर्शितश्रीः ॥ 7.16 ॥
अन्योन्यगाढमलनेन रराज धूम-
वर्तिच्छटा करपुटाद्वियदुत्पतन्ती।
ईषद्विनिद्रदलमण्डलपुण्डरीक-
कोषोदराद्भ्रमरपङ्क्तिरिवाग्निकस्य ॥ 7.17 ॥
क्रोधेश्वरस्य च किरीटकपालपङ्कि-
रूर्ध्वेक्षणानलशिखापटलावमर्शात्।
संहारभानुकरतापितशैलकूट-
टांकारताररवमस्फुटदुत्तमाङ्गे ॥ 7.18 ॥
निःशेषमाकुलितशेषशरीरनाल-
माघूर्णमानविकटाभ्रपलाशखण्टम्।
चण्डेश्वरस्य सरुषो भुवनारविन्द-
मुष्णोष्णनिःश्वसिततापवशेन मम्लौ ॥ 7.19 ॥
सस्वेदशीकरमकम्पत तालकेतु-
राताम्रतालुतलभीषणजृम्भवक्त्रः।
संकल्पनिर्जितपरःस्थितवैरिलक्ष्मी-
गाढोपगूहनवशादुत तीव्रमन्योः ॥ 7.20 ॥
तिर्यग्विवर्तितमुखस्य लुलायकेतो-
र्हासच्छटाधवलभास्मनभक्तिचित्रः।
बाहुर्जयद्विरदहस्त इवारराज
पीनांसकूटविकटोन्नतकुम्भपीठः ॥ 7.21 ॥
सस्यन्दिरे सदसि घर्मजलानि सान्द्र-
सिन्दूरताम्रमुखरागरुचः प्रकोपात्।
संदेहितेन्दुकिरमाङ्कुरगौरतार-
हाराच्छबिन्धुपटलानि सुनन्दकस्य ॥ 7.22 ॥
चण्डे च चुक्रुधिषि तच्चरणातिभार-
खेदाकुलोन्नमितपीवरदीर्घदोष्णा।
शेषेण कुञ्चितकरालफणासहस्र-
विस्रंसिनी क्षितिरभारितरां कथंचित् ॥ 7.23 ॥
क्रुद्धं मूरपतिकेतनमंशुजालै-
र्न द्वादशापि ककुभः परिदीपयन्तः।
संहारवासरमिवातनुदुर्निरीक्ष्य-
रूपं विलोचनसहस्ररुचो न चक्रुः ॥ 7.24 ॥
क्षुण्णाङ्गदारुणशिलाशकलोत्थसान्द्र-
धूलिच्छटापटलकुङ्कुमपङ्कचर्चा।
पञ्चाक्षकोपविकृतिः कृतमण्डनेव
सस्वेदशीकरकणोत्करमौक्तिकासीत् ॥ 7.25 ॥
दिण्डेः स्फुलिङ्गकणिकाः सरुषः किरद्भि-
रन्योन्यपाणिमलनोत्थितधूमदिग्धैः।
नाप्लोषि धूर्जटिसदः कथमप्यथौर्व-
संवादितां विदधतः परूषाक्षिपातैः ॥ 7.26 ॥
विष्यन्दमानघनघर्मकणावकीर्ण-
मुच्छ्वासिकुङ्कुमविलेपनमग्निधाम्नः।
विभ्रान्ततारकविशङ्कटशातकौम्भ-
शैलाधिराजकटकश्रियमाप वक्षः ॥ 7.27 ॥
निष्पिष्टहारविधुतोद्धतधूलिपुञ्ज-
भस्मच्छटाभिररुणच्छविलोचनश्रीः।
क्ष्मामण्डलं ज्वर इवाकुलयांचकार
दुर्वारकोपविकृतिः सदसि त्रिमूर्धा ॥ 7.28 ॥
भास्वत्फणामणिकणोल्बणवह्निचूर्णा-
कल्माषिताम्बरतलान्मुखरन्ध्रभागात्।
वल्मीककूटकुहरादुरगा इवाग्रि-
केतोर्निरीयुरथ हुंकृतधूमदण्डाः ॥ 7.29 ॥
आमर्दकस्य सुरवैरिविमर्दिनोऽपि
दिक्कामिनीमुखनवाकगुरुपत्त्रलेखा।
हुंकारधूमपटली भुवनारविन्द-
कोषोदरभ्रमरपङ्क्तिरधत्त शोभाम् ॥ 7.30 ॥
क्रोधावपिष्टशशभृत्किरणच्छटाच्छ-
हारावलीविवलिताग्निशिखस्य धूलिः।
संरम्भविभ्रमदिशामुखजृम्भमाण-
लक्ष्मीकपोलतलरोध्ररजश्छटासीत् ॥ 7.31 ॥
ज्योतिष्मतः शिखिशिखानिकुरुम्बपिङ्ग-
जिह्मोत्कटभ्रुकुटिभङ्गभयंकरत्विट्।
साम्भोभरस्थिरतडिद्गुणमेघशोभि
वक्त्रं विलोक्य सभया बिभयांबुभूवे ॥ 7.32 ॥
तारस्य तारतरहुंकृतिरोषगर्भां
विन्यस्यतोऽग्रिकपिशां दृशमाशु तिर्यक्।
तत्तापयोगगलितातनुपत्त्रभङ्ग-
हमाङ्गदांसशिखरो भुजदठण्ड आसीत् ॥ 7.33 ॥
निःशेषमेककवलग्रहसौष्ठवेन
मृत्योरिव त्रिभुवनं-सरुषो जिघत्सोः।
जृम्भाविकासि वदनं विकरालजिह्व-
मालोक्य संसदि विजह्वलुरस्य लोकाः ॥ 7.34 ॥
निःशङ्कहुंकृतकृशानुकणावकीर्ण-
विस्तीर्णताम्रतलतालुविजृम्भमाणम्।
संध्यापिशङ्गमरूणांशुशिखावमर्श-
शोणग्रहं नभ इवोर्जितवक्त्रमासीत् ॥ 7.35 ॥
जृम्भाविकासि मुखमग्निमुखस्य ताम्र-
जिह्वाकरालविकटस्फुटदन्तमालम्।
रेजेऽम्बरीषमिंव निर्गतवह्निहेति-
पङ्क्तिप्रतिष्ठधवलोदरलाजगर्भम् ॥ 7.36 ॥
दीर्घं विनिःश्वसति तिन्दुकिनीप्रसून-
विस्पष्टपाटलदृशि त्रिशिखे समन्यौ।
आसन्नमेव भुवनप्रलयावतार-
माबद्धवेपथुरमन्यत राजलोकः ॥ 7.37 ॥
केयूरचक्रदलनोच्छलदिन्द्रनील-
खण्डावली करतलाभिहतांसभित्तेः।
कालस्य कुट्टिमतलाम्बुरुहोपहार-
गन्धाकुलभ्रमरसंहतिविभ्रमाभूत् ॥ 7.38 ॥
संचूर्णिताङ्गदकरालकराहतांस-
कूटोत्थनिष्ठुरविरावविपूरिताशम्।
अक्रोधि बोधितसुरासुरचक्रवाल-
संहारदुर्धरपराक्रममन्तकेन ॥ 7.39 ॥
चण्डाननस्य करताडनखण्ड्यमान-
केयूररत्नकणकोणकणत्कृतिश्रुत।
दैत्यक्षयाधिकसरोषकृतान्तदन्त-
संघट्टभैरवरवानुकृतिं चकार ॥ 7.40 ॥
आघातभग्रविकटव्रणकंघरांस-
कूटोच्छलच्चितिलिताङ्गददोः प्रचण्डः।
मृत्योरिव प्रतिकृतिः स चुकोप कोप-
कम्पाकुलोत्पुलकपीनकपोलभित्तिः ॥ 7.41 ॥
चक्रायुधं सपदि चुक्रुधिवांसमंस-
कूटावमर्दमृदितोर्मिकपाणियुग्मम्।
संहारभास्करदुरीक्ष्यमुखं निरीक्ष्य
नो सस्मरुः स्वमपि जातभियः सुरौघाः ॥ 7.42 ॥
चक्रे दिशो दितिसुताहवसावहेल-
हासोल्लसद्दशनदीधितिचक्रवालः।
व्यङ्ग्याहितप्रलयपैशुनजृम्भमाणा-
काण्डे (?) तरूत्थकुसुमा इव नीलवज्रः ॥ 7.43 ॥
संरम्भिणः शिखितमस्य पुरः प्रकीर्णां
हुंकारवह्निकणसंततिमत्तुमैच्छत्।
क्रीडाशुकः शिखिभुवः परिपाकताम्र-
पिण्डीरपिङ्गकणशङ्कि विमुग्धचेताः ॥ 7.44 ॥
पिङ्गेक्षणस्फुरदकल्पमरीचिवल्ग-
दुल्काग्निदाहभयविक्लवतामिवाप्तम्।
भ्रूभङ्गपुञ्जितमधत्त ललाटपट्ट-
माघट्य कुट्टिमतलं चरणेन नन्दी ॥ 7. 45 ॥
उत्तानवक्त्रकुहरोत्थितयाट्टहास-
हासत्विषा कलुषया बिभरांबुभूवे।
प्रेङ्खत्यनर्गलरसातलगर्भनिर्य-
दिन्दुप्रभाधवलशेषशरीरलक्ष्मीः ॥ 7.46 ॥
रोमाञ्चपूरितविकम्पिकपोलभाग-
मुद्वर्तमानपुटतारविपाटलाक्षम्।
वक्त्रं विदष्टविकटौष्ठविकृष्टनास-
मुद्भ्रूविभङ्गमभृतारुणमभ्रकेतुः ॥ 7.47 ॥
संप्राप्य संनहनमाहवगाढराग-
मुज्जृम्भितः सपदि रोष इवैष साक्षात्।
पातालगह्वरगभीररवावमर्द-
पार्ष्णिप्रहारविधुरामचकम्पदुर्वीम् ॥ 7.48 ॥
पर्यन्तभागविलसत्पुलकं बभार
हेतिव्रणं सघनघर्मजलं जयन्तः।
स्तोकावशिष्टजलतीरविरूढबाल-
शष्पाङ्कुरह्रदसरूपमुरः स्थलेन ॥ 7.49 ॥
व्यावृत्तिवेगविशरारुकरालहार-
तारावकीर्णमणिकुट्टिमप्टष्टभागः।
विस्रंसितोडुगणशारितभूमिपीठ-
संहारमारुतविलासमंसावलासीत् ॥ 7. 50 ॥
सामर्षहर्षभरपार्षदपार्ष्णिपाणि-
लीलाभिघातविधुरा धरणी रराण।
पातालतालुनि ससंभ्रमनागभीरु-
गर्भप्रगल्भविनिपातनघोरघोषम् ॥ 7.51 ॥
केयूरचक्रनिकरैस्त्रिदशाधिपाना-
मंसावमर्दपतितैर्मणिकुट्टिमोर्वी।
रेजे पुरंदरकरेरितवज्रपात-
विच्छिन्नपक्षतिपुटैरिव भूधराणाम् ॥ 7.52 ॥
दैत्यप्रतापशिखिशान्तिमिव क्षणेन
कर्तुं विशङ्कटललाटतटस्थलीम्यः।
ते धर्मशीकरकणप्रकरान्सलील-
माकृष्य कर्कशरुषश्चकरुः कराग्रैः ॥ 7. 53 ॥
जृम्भाविकासघटनाविकटैरपाङ्ग-
पर्यन्तनिर्यदतनुज्वलनस्फुलिङ्गैः।
वक्त्रैर्गणाधिपतयः सरुषः क्षणेन
दिक्चक्रमग्रसिषतेव करालदंष्ट्रैः ॥ 7. 54 ॥
तेषां विवर्तनभरेण परस्परांस-
कूटावघट्टघटनादलिताङ्गदानाम्।
सस्रंसिरे विकटकुट्टिमसीम्नि रुग्ण-
बन्धाः सरोषकरपेषभियेव हाराः ॥ 7.55 ॥
लीलावलोकितकरालकृपाणपट्ट-
पर्याकुलोत्पुलककञ्चुकलोकपालम्।
निष्प्रक्रमं प्रचुकुपे कपिलैः कपोल-
भागैः कपालिसदसीति गणाधिनाथैः ॥ 7.56 ॥
प्रत्यासीदत्पार्षदश्वासहेलाक्षिप्तक्ष्माभृत्कूटटांकारघोरा।
गौरीभर्तुः क्लिष्टसत्त्वा सबा सा दध्रे कल्पापायवेलानुकारम् ॥ 7.57 ॥
विस्पष्टमुष्टिकरसंकरपिष्टहार-
मुक्ताफलोद्धतपरागविपाण्डुराग्रैः।
मेघावसानसमयैरिव नाकसद्भि-
रस्तोककोपरचितस्थितिभिर्बुभूवे ॥ 7. 58 ॥
अन्योन्यपाणिमलनक्षतपद्मराग-
रत्नोर्मिकोद्धतपरागकणैश्चकार।
ब्राह्मी जगत्कपिशिताखिलदिक्प्रभात-
वेलेव फुल्लकमला करधूलिपुञ्जैः ॥ 7. 59 ॥
क्रोधोद्गताकृशकृशानुशिखासहस्र-
निर्यासभास्वरितरूक्षकटाक्षमोक्षैः।
त्र्यक्षाकृतिः क्षममदीपि जगत्त्रयोल्का-
दण्डैरिव त्रिदशसंभ्रममाक्षिपद्भिः ॥ 7. 60 ॥
चक्रं सुरहितचमूगलचक्रवाल-
च्छेदाभिलाषरभसाद्भ्रमयांचकार।
चण्डी करालसरलाङ्गुलिकोटिभाग-
लग्नं करे श्रवणपूरमिवाजिलक्ष्म्याः ॥ 7. 61 ॥
दलितमसुरचक्रक्रोधसंरम्भगर्भं
करकमलविदर्भं वैष्णवी तत्र दध्रे।
विगलितमकरन्दं पद्मरागोर्मिकाग्र-
क्षतिविधुतपिशङ्गच्छायधूलिच्छलेन ॥ 7. 62 ॥
भ्रुकुटिकुटिलितभ्रूविभ्रमव्याजचञ्च-
च्चटुलमधुपवेणीबन्धमाधत्त ताम्रम्।
मुखमखिलविपक्षक्षोदसंरम्भलक्ष्मी-
करकिसलयलीलापङ्गजं भद्रकाली ॥ 7.63 ॥
इत्थं हारोद्दलनविगलत्तारमुक्ताफलौघ-
ज्योतिस्चक्राक्रमणशबलान्कुर्वती दिग्विभागान्।
सा वेलेव क्षुभितविषमा रत्नराशेस्तदानीं
स्ताणोर्गर्जद्गणपतिशतोल्लोलजाला सभासीत् ॥ 7. 64 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानक श्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये सभाक्षोभवर्णनो नाम सप्तमः सर्गः।