०६

.

हरविजयम्।

षष्ठः सर्गः।

तमथान्धकासुरनिकारविप्लुताः कृतपूर्वसेवमभिराद्धमानसम्।
ऋतवोऽभिलक्ष्यनिजलक्ष्मविग्रहाः शरणं ययुः शतमखेन चोदिताः ॥ 6.1 ॥
घनसौरभानुगतभृङ्गसंहतीरुपदीकृता विविधपुष्पमञ्जरीः।
दधतः करौः क्षितिनिविष्टदजानवे विनिवेदिताऋः सविनयोन नन्दिना ॥ 6.2 ॥ (युग्मम्)
प्रणिपत्य चैनमथ काञ्चनावनिस्खलितोत्पतन्मधुपमुक्तशेखराः।
अविदूरदेशनिहितानि भेजरे तदनुज्ञया मणिशिलासनानि ते ॥ 6.3 ॥
अथ तानुवाच दशनांशुनिर्झरस्नपितोष्ठपल्लवमिदं जगत्पतिः।
नवनीरभारभरमन्थराम्बुदस्तनितातिडम्बरगभीरया गिरा ॥ 6.4 ॥
कीमकाण्ड एव जगतां विपर्ययादिव शून्यतामुपगताः स्थ शुष्मिणः।
कथयन्ति वो हृदयशल्यदुःखितामधुना मुखच्चवय एव धूसराः ॥ 6.5 ॥
भुजगेन्द्रभोगपरिपीवरस्फुरत्कुलिशातिभासुरभुजे मरुत्पतौ।
स्थित एव केन जगतामुपप्लवं प्रविदित्सुना दितिसुतेन जृम्भितम् ॥ 6.6 ॥
उदितं विकासि बिसकन्दकोमलात्कमलासनादनघपक्षशालिनः।
भुवनाब्जकोषमकृशं शिलीमुखा इवयूयमेव ननु पातुमीश्वराः ॥ 6.7 ॥
द्रुहिणस्य काव्यमिव सर्गगोचरं स्फुटचित्रवृत्तिकमवद्भिरद्भतम्।
विशदं भवद्भिरभितन्यतेतरामभितः पुराणकविना कृतं यशः ॥ 6.8 ॥
स्थितवत्यथाम्बुधरदीरनिः स्वनामिति किंचिदादिपुरुषेऽभ्युदीर्य गाम।
शुचिमुख्यशेषसकलर्तुमण्कडलक्षणदृष्टिपातपरिबोधितः शनैः ॥ 6.9 ॥
क्वणइतानुबन्धमुखराननभ्रमद्भ्रमरोपयुक्तमुखसौरभश्रियम्।
दशनांशुकेसरकरालितां पुरो निजपुष्पसंपदमिवोद्गिरन्गिरम् ॥ 6.10 ॥
स्मरबान्धवक्षयकरे तदुत्थितज्वलनाभिघातविनिकूणितेक्षणः।
शशलक्ष्मशेखरतृतीयचक्षुषि क्षणमाश्रिताश्य इवाभ्यसूयया ॥ 6.11 ॥
श्रवणाग्रलग्ननवचूतमञ्जरीमकरन्द्शीकरकणस्पृहागतैः।
मधुरित्यभाषत मधुव्रतैः पुरो ह्रियमाणवाक्य इवम मञ्जुशिञ्जितैः ॥ 6.12 ॥ (चक्कलकम्)
अधितिष्ठतो हृदयपद्मविष्टरं भुवनत्रयव्यवहृदेकसाक्षिणः।
प्रतिघव्यपायपरिशून्यसंविदः किमिवास्ति यन्न विदितं तवेशितुः ॥ 6.13 ॥
तव संविदादिसहजं चतुष्टयं जगति प्रतीतमनघं तथा यथा।
स्थितिमापुषोऽस्य सकलातिशायिनीमपरं न किंचिदपि तारतम्यभाक ॥ 6.14 ॥
सह सिद्धिनिष्प्रतिघसंविदर्चिषो न घटामुपैति परपारदृश्वनः।
तव नाथ शब्दसमयागता क्वचित्सकलार्थमण्डलसतत्त्ववेदिता ॥ 6.15 ॥
अविशेषवृत्तिरहिमत्विषो यथा सकलेषु वस्तुषु विभा विजृम्भते।
तव नाथ निष्प्रतिघनिर्मलीमसस्थितिरस्तमोहतिमिरा मतिस्तथा ॥ 6.16 ॥
प्रतिपन्नसर्वगतवस्तुविस्तरस्तदपीश पृच्छसि यदद्य तेन नः।
कुरुतेऽधुना कुशलसंग्रहं परं मधुरो मिथस्त्वदभिभाषणाक्षणः ॥ 6.17 ॥
प्रकृतेः पृथग्विकृतिशून्यतां गतः प्रतिषिद्धवस्तुगतधर्मानिष्क्रियः।
पुरुषस्त्वमेव किल पञ्चविंशकगः स्फुटचूलिकार्थवचनौर्निगद्यसे ॥ 6.18 ॥
प्रथितप्रपञ्चरसभाववपर्जितः क्वचिदेव किंचिदपि कर्तुमक्षमः।
अवपुर्गतः करणवृत्तिशून्यतां प्रकृतेरहो नु सदृशोऽसिकामुकः ॥ 6.19 ॥
कथयन्ति नाथ दशहेतुसंश्रयव्यवधूतविप्लवविशुद्दचेतसः।
तव सांख्यवृद्धमतभेदवर्तिनः कृतिनोऽनिवृत्ति किल तत्परं पदम् ॥ 6.20 ॥
दधतीह कर्मफलभोगवर्जिते सकलार्थतत्त्वविदिं पुंविशेषताम्।
त्वयि शब्दमीस्वर इति व्यवस्थितं कथयन्त्यनन्यविषयं मनीषिणः ॥ 6.21 ॥
दृढबन्धकोटिपरिमर्षकर्षितं न कदाचिदन्यशमिनामिव क्वचित्।
विदुरीश्वरत्वमन्घं तवान्वयव्यतिरेकशून्यमवदातदृष्टयः ॥ 6.22 ॥
भुवनानि पङ्कजभूवःक सिसृक्षतस्तपसेद्दतां किल गतस्य यः पुरा।
उदभून्मखादिषु च पञ्चलक्षणः सकलक्रियासु विनियोगभाग्मवन् ॥ 6.23 ॥
श्रुतयः पदं परममामनन्ति यं बहुवक्त्रपादपि च योऽभिधीयते।
अधिगम्य यं पुनरुदेति नो जनः प्रणवस्तवैव भगवन्स वाचकः ॥ 6.24 ॥ (युग्मम्)
दधतोऽव्ययानुदयधर्मशून्यतां सुरनायकैकगुरुतामुपेयुषः।
उपवर्तते य इह न व्यवच्छिदे तव शर्व चर्वितचराचरः क्वचित् ॥ 6.25 ॥
क्रियया क्रमादवयवैश्च संख्याया निजलक्ष्मणा च य इहोपपलक्ष्यते।
शमनादिमध्यनिधनं स्वमायया स्मरकाल कालयति कालमेव तत् ॥ 26 ॥ (युगलकम्)
अवितर्कमस्थितविचारगोचरं सुखवेदनोज्झितमनस्मितान्वयम्।
अभिगम्य शंकरसमाधिमिच्छया तव जातु नैव भजते भ्रमं पुमान् ॥ 6.27 ॥
चितिशक्तिरूपविपरीतभावशात्प्रकृतौ पुरस्कृतविरागभावनम्।
विरुणद्धि तामपि विवेकदर्शनस्थितिमीश संयमिमनस्तवेच्छया ॥ 6.28 ॥
तपनादिके विविधलक्ष्यमण्कडले कृतसंयमास्त्रिदशनाथ योगिनः।
भुवनादिधामसु भवन्त्यविप्लुतप्रतिभातचित्रभवदात्मसंविदः ॥ 6.29 ॥
व्यतिपेतुषां त्रयमसंविदात्मकं स्तितिसंमुखीकृतनिरोधवर्त्मनाम्।
भव योगिनामुदयते तवेच्छया नहि कोटिभूमिधिषणा न सप्तधा ॥ 6.30 ॥
मनसो निरर्गलपरिप्लवात्मनो निरुपप्लवस्थितिनिबन्धना नृणाम्।
रसनादिधामसु रसादिगोचरा भवदात्मिकास्त्रिदशनाथ संविदः ॥ 6.31 ॥
कलधौतलक्षण इति प्रतीतिमान्पुरुषस्त्वमा नखशिखं सुवर्णकः।
कथितः किलौपनिषदैश्च पञ्चधा सुखवेदनादिमयतामुपेयितः ॥ 6.32 ॥
स्फुटहिंक्रियादिनिधनावसानताप्रतिपन्नपञ्चविधभक्तिसौष्ठवम्।
द्रुहिणेन साम बहुवर्त्म गायता जगति त्वमेव गुणगौर गीयसे ॥ 6.33 ॥
स्थितिमीयिवत्सु नियतश्रुतिक्रमस्वरमण्कडलानुगमसुस्तितां ध्रुवम्।
अपरान्तकादिषु विविक्तवस्तुषु ध्वनसि त्वमेव दशशब्दलक्षणः ॥ 6.34 ॥
सकलाधिकारविनिवृत्तिहेतुतां गतवन्ति वाङ्भयपराङ्भुखस्तितिः।
हर मद्रकाणि गहनानि गायति प्रकृतिं बुभुत्सुरणुरेष तावकीम् ॥ 6.35 ॥
गतमीश शाश्वतीकतृप्तिहेतुताममृतं भवन्तमिव सोमपायिनः।
हर संस्तरव्रतनिमित्तमुत्तमं दुहते गुहानिहितमाहितादराः ॥ 6.36 ॥
बहुभेदसांख्यगुरुयोगधारणक्षमतान्वितस्थिरसुखासनस्थिते।
भवति प्रसन्न्मनासि प्रवर्तते कृतिनः किलाष्टविधमैश्वरं बलम् ॥ 6.37 ॥
द्विविधैश्चतुष्प्रकृतिभिः श्रुतिक्रमादुपपन्नसौष्ठवगुणा किल स्वरैः।
भवदात्मिकैव महातीमुपस्थिता स्फुटसामघोषमधुरा सरस्वती ॥ 6.38 ॥
प्रथिताः परापरदृशः पुराविदः कथयन्ति विश्वनुत नेति नेति यत्।
सकलैर्विनाकृतमुपाधिसाधनैः परमं तदेव तव तत्त्वमद्भुतम् ॥ 6.39 ॥
अविपन्नवेदनविवर्तमुच्चकैर्वसुधानिलानलजलादिकं नृणाम्।
पुरुषं तदात्मकमथाचचक्षिरे भगवन्भवन्तमवदातदर्शनाः ॥ 6.40 ॥
प्रणवादिरप्यथ विरामतां दधत्फणिना निरूपितपदार्थसप्तकः।
भगवन्नधीत इह यैः किलागमः पदमाप्नुवन्ति ननु तेऽपि तावकम् ॥ 6.41 ॥
व्रजसीश पादरहितो ग्रहीतृतां प्रतिपद्यसे करविनाकृतोऽपि सन्।
अवलोकयस्यनयनोऽप्यकर्णकः सकलं शृणोषि न च वेत्सि वेत्सि च ॥ 6.42 ॥
इति नाथ सर्वजगतां विलक्षणं वपुरद्भुतातिशयशालि बिभ्रतम्।
अभिपश्यतः किल भवन्तमव्ययं कुशलस्य संविदखिला विवर्तते ॥ 6.43 ॥(युगलकम्)
शशिमण्डलं जलतरङ्गसंहतिप्रतिबिम्बितं हर जलाशये यथा।
द्रुमपल्लवोदवसितान्तराश्रयस्तपनातयो निपतितः क्षितौ तथा ॥ 6.44 ॥
गगनं यथा स्थितमुलूखलादिषु स्फुटमेकमेव सकलाद्भुतस्थिति।
प्रतिपद्यते बहुविधत्वमाश्रयप्रतिसंक्रमादविकृतस्तथा भवान् ॥ 6.45 ॥ (युगलकम्)
हरिरेकचेष्ट इति यत्तदंशकास्त्रिचतुर्बहुक्रियतया व्यवस्थिताः।
सकलात्मनस्तव महाविभूतितां दधतो विवर्त इविसंस्थितोऽपरः ॥ 6.46 ॥
अपि नाथ विद्यति मणिं निरीक्षणस्तमनङ्गुलिर्वयति बेधितस्त्वाया।
प्रतिमुञ्चति स्म तमकंधरोऽपि सन्परिपूजयत्यरसनस्तदद्भुतम् ॥ 6.47 ॥
बहुरूप एव दधदेकरूपतां स्थिरधर्मतामुपगतोऽपि गत्वरः।
नभसि स्थितोऽप्यनतिवृत्तभूमिकः सविधास्पदोऽपि भजसे विदूरताम् ॥ 6.48 ॥
चिदचित्परोऽप्यचिदचित्परो भवन्नतदाभ एव हि तदात्मतां दधत्।
सदसत्परोऽप्यसदसत्परस्थितिर्बहुवक्त्रपादवयवैर्विनाकृतः ॥ 6.49 ॥
शिशिरः सहस्रकरमण्डलोदरे शशिनि स्थितोऽपि दधदूष्मसंपदम्।
उभयात्मको निरुभयात्मकोऽथवा गहनस्त्वमित्थमलमद्भुतायसे ॥ 6.50 ॥ (तिलकम्)
भगवन्नहो बत किलासि दुर्गहः प्रथितेन रूपविभवेन केनाचित्।
अधिरोपितेन तथतात्मनापि वा क्वचनापि यन्न कृतिनाभ्युपेयसे ॥ 6.51 ॥
न गतिस्तवास्ति सुरनाथ नागतिर्न बहिर्न चान्तरवभाससे क्वचित्।
द्व्यवभासशून्यतथतावलम्बनः प्रतिभासि नाननुगृहीतचेतसाम् ॥ 6.52 ॥
अविभाग एव सकलार्थसंहतेर्जगति प्रकाशकतया व्यवस्थितः।
पदवाक्ययोस्तवमुपकारकारितामभिधेयवस्तुनि सविस्तरे गतः ॥ 6.53 ॥
परिकल्पितेन दधदेकरूपतामपि कर्तृकर्मकरणादिवर्त्मना।
त्वमनादिकालकृतया ह्यविद्यया बहुधा विभज्य परिगृह्यसे जनैः ॥ 6.54 ॥
सकलार्थविग्रहतया विवर्तते यदनादिमध्यनिधनं किलाक्षरम्।
प्रथयन्ति तत्तव जगन्निबन्धनं शिवशब्दतत्तवमविनश्वरं वपुः ॥ 6.55 ॥
असमाप्तदविप्लवविकल्पगोचरौ व्यवहारपद्धतिपरस्पराश्रयौ।
परतः स्तितत्वमवदेरवाप्नुतो विनिवृत्तिमीश जगतोऽस्य धीद्वनी ॥ 6.56 ॥
जगतोऽवलम्बितपरावरोभयव्यतिवृत्तरूपगहनो विसंस्थुलाम्।
विसभागतामुपनिषत्पराश्रितः प्रतिभासते भव भवान्न कस्यचित् ॥ 6.57 ॥
व्यतिरिक्तवृत्तिरगुणो गुणस्तितिः सुरनाथ तत्प्रकृतितां च संश्रितः।
स्फुटमध्वनः षडवधिस्थितेर्भवान्विसभागतामथ सभागतां गतः ॥ 6.58 ॥
अपि बुद्धिगोचरमतीत्य संस्थितःक प्रणवारवान्तरनिविष्टदृष्टिभिः।
किमपि प्रतीपितविपर्ययग्रहैरनुपाधिरूपकरणो निरूप्यसे ॥ 6.59 ॥
दधतो विलङ्घिततुरीयवृत्तितां कृतजीवजीवननिरामयस्थितेः।
भवतोऽपवर्गदमनाहतात्मनः पदमाप्तुवन्ति कृतिनः सुषुम्णया ॥ 6.60 ॥
व्यवधूतकल्पनगभीरमूर्तितां दधतं दुरन्तमनपायमद्भुतम्।
प्रतिभिद्य मण्डलचतुष्टयं जवात्कृतिनो भवन्तमविशन्ननावृतम् ॥ 6.61 ॥
भवदीरितेन मनसाभिहन्यते सुरनाथ विग्रहशिखी शिखाकुलः।
स समीरमीरयति पञ्चलक्षणं स्तितिहेतुमीश वपुषः शरीरिणाम् ॥ 6.62 ॥
अधिरुद्य निष्प्रतिघचित्तसारथिं दशभेदबाह्यकरणाश्रयं रथम्।
विषयेषु नीलगल बम्भ्रमीत्यणुर्भवदिच्छया च विनिवर्तते पुनः ॥ 6.63 ॥
सकलाधिदैवतगणस्य तस्थुषः श्रवणादिधामसु गुरुः शरीरिणाम्।
हृदयाम्बरे निरवलम्बनस्थितिः कृतिभिस्त्वमेव भगवन्नुपास्यसे ॥ 6.64 ॥
निचिते रजः प्रभृतिभिर्घटान्तरे सलिलानि योगमुपबयान्ति नो यथा।
अणुमण्डलानि भगवंस्तवेच्छया निरुपप्लवस्य भवतः सुखादिभिः ॥ 6.65 ॥
हृदयारविन्ददलकोटरोदरस्फुटजृम्भमाणपरिवर्तविभ्रमः।
जगतो गतः प्रततमन्तरात्मतां कुरुषे गतीस्त्वमयनद्वयाश्रयाः ॥ 6.66 ॥
श्रियमृङ्भये दधति सामदीधितौ तरणेस्त्रयीमयनिरामयान्मनः।
प्रतिभासभेदगहनोऽवभाससे त्वमणुर्यर्जूषि पुरुषोऽत्र मण्डले ॥ 6.67 ॥
स्फटमेक एव विविधाख्यतां दघद्धरिमूर्तिराश्रितप्टथग्विधक्रियः।
जगतीं दिनर्त्वयनहायनादिकं विदधत्त्वमेव वितपस्यभीशुमान् ॥ 6.68 ॥
सकलाणुतत्त्ववपुषां परस्परप्रतिबन्धिनीं तनुभृतां त्रिदण्डवत्।
उपलभ्यते त्रिदशनाथ योगते निरुपप्लवा भवदुपाधिका स्थितिः ॥ 6.69 ॥
प्रणिनीषतामनुजिघृक्षया कृतीर्जगतः परस्परविवादविप्लुताः।
धिषणादयः किल मनः पुराविदां भवदात्मिका विविसुरीश देवताः ॥ 6.70 ॥
प्रविवेश या क्षपितमोहविप्लवा विविशुश्च यां सकलवेद्यवेदिकाः।
अपवर्गमार्गनिबिडार्गलच्छिदा तव विद्ययैति शिवतामणुस्तया ॥ 6.71 ॥
जगतामनादिनिघनस्य तस्थुषो जनकत्व एव जननोज्झितस्थितेः।
तव नाथ सत्यपि गुणादिसंभवे नहि संभवत्यभिजनाश्रया स्तुतिः ॥ 6.72 ॥
जनतेन्द्रियातिगविशुद्धगोचरद्व्यणुकादिबन्धगतकार्यदर्शनात्।
घटकुम्भकारवदकारकात्मनस्तव कारणत्वमनुमीयते बुधैः ॥ 6.73 ॥
निजयैव निष्प्रतिघरूपयेच्छया व्यवहारिणोऽतिनिरवग्रहात्मनः।
कृतिनः प्रयोजकविनाकृतां विभोस्तव कर्तृतां समगिरन्त सुरयः ॥ 6.74 ॥
दधतोऽधिकाविकलशक्तिमण्डलस्तितिरूपतां प्रथितभावविक्रियम्।
तव शक्तिलेश इदमुच्चकैर्जगत्क्षुभिते गुणत्रयमयं किलोदभूत ॥ 6.75 ॥
अनघस्वशक्तिविभवव्यवस्थितेः पशुपाशमण्डलविलक्षणात्मनः।
भुवनाधिनाथ भवतः प्रवर्तते चिदचित्स्वभावमिह भावमण्डलम् ॥ 6.76 ॥
अवरुग्मगाढतिमिरान्मरीचिभिर्युगपद्विचेतनचितः पृथग्विधाः।
ज्वलतः कणा इव विभो विभावसोर्भवतः पदार्थनिवहा विनिर्ययुः ॥ 6.77 ॥
तव साद्भुतातिशयवैभवस्थितेरपि नाथ शाश्वतिकतामुपेयुषः।
क्रमयौगपद्यघटनाविरोधितां सकलार्थसंपदि न बिभ्रति क्रियाः ॥ 6.78 ॥
त्वमधिष्ठिताविकलशक्तिमण्डलः सकलं जगत्सृजसि पासि हंसि च।
स्तिरपञअचमन्त्रमयविग्रहस्तितिर्जननद्वयेन भगवन्विनाकृतः ॥ 6.79 ॥
क्षुभिते भवत्यवनितां गुहागता प्रकृतिश्च बल्वजवदुत्थिता ततः।
जगदुद्भवार्थमितरेतराश्रयस्तिमिताश्च रज्जुगुणवद्गुणाः स्तिताः ॥ 6.80 ॥
द्व्यणुकादियुक्तिमदशेषगोचरं कृतवान्विचित्रमिह कार्यमण्कडलम्।
अतिसूक्ष्मदृक्त्वसकलार्थवेदिता विभुतान्वितस्त्वमनुमीयसे बुधैः ॥ 6.81 ॥
विभुरूपया विकलवस्तुसंनिधिःक प्रभूरूपया च सकलार्थकारकः।
त्वमधीरा शक्तिकलया द्विधात्मतां गतया विभावितचराचरस्थितिः ॥ 6.82 ॥
अविपन्नशक्तिगुणगुम्फितस्फुरत्स्फुटविग्रहाक्षभुवनप्रसूनया।
न कदाचन क्वचिदवाप्यत प्रभो प्रसरोपघातघटना तवेच्छया ॥ 6.83 ॥
मधुकोषसंपुटवदाहितस्थितिर्गहना गुहा गुहपितस्त्वया कृता।
स्थितिबेदमेति न कदाचिदुच्चकैः सकलामलाणुगणबन्धमन्दिरा । 6.84 ॥
वसुधा विभावयति बीजमुच्चकैरनघं यथाविभवमङ्कुरात्मना।
सकलस्वभावकरणं तथेहितं तव नाथ सर्वमिह भावमण्डलम् ॥ 6.85 ॥
अपरे पुनः प्रथितशक्तिसंग्रहग्रथितात्मनः प्रकृतितत्त्वतोऽव्ययात्।
धिषणादिकार्यपटलं प्रवर्तते तदभिन्नरूपमिति संप्रचक्षते ॥ 6.86 ॥
निजकार्यचक्रघटने ह्यचेतनं प्रतिपद्यते किमिव वस्तु कर्तृताम्।
कथयन्त्यतः प्रभवहेतुमीश्वरं भविनां भवन्तमिह चित्क्रियात्मकम् ॥ 6.87 ॥
प्रलयेऽपि सर्वजगतामविप्लुतस्फुटसंविदर्चिरविलुप्तवैभवः।
स्फुटमूर्णनाभ इव रश्मिसंहतेरणुसंपदस्त्वमसि नाथ कारणम् ॥ 6.88 ॥
जगदेककारणमकारणात्मकं विभुमव्ययं गुणदशाविनाकृतम्।
कथयन्ति नाथ पुरुषं सधर्मतां गतमीश्वरस्य भवतः किलापरे ॥ 6.89 ॥
प्रकृतीश्वरोभयचिदादिचेष्टितप्रथितप्रपञ्चरहितानुपाधिकम्।
अपरे प्रमाद्वितयनिश्चितं पुनस्त्रितयात्मकं समुदयं प्रचक्षते ॥ 6.90 ॥
अनपेक्षिताविकलकारणान्तरं भविनामुशन्ति भव जन्म केवलम्।
अपरेऽपवर्गद निसर्गवादिनः शिखिपिच्छसंस्थितिवदात्तविप्लवाः ॥ 6.91 ॥
प्रलयोदयव्यतिकरानुपप्लुतं शुचिशब्दतत्त्वमपरे पुनर्विदुः।
परिणामरूपमिह यस्य दृश्यते भव भावमण्डलमिदं चराचरम् ॥ 6.92 ॥
समयान्तरेऽप्यघटमानकल्पनात्रयबाह्यवस्तुविषयावमर्दिनः।
अपरे विशारदधियो जगत्स्थितिं सुरनाथ संविदमुशन्ति केवलम् ॥ 6.93 ॥
उभयात्मकग्रहविविक्तचेतसो व्यवलम्ब्य माध्यमिकदर्शनसक्तितिम्।
स्थिरतत्त्वनिश्चयधियोऽभिमन्वते कृतकृत्यतां तव गुणेन रञ्जिताः ॥ 6.94 ॥
अणुमाहुरैन्द्रियकमेव केचन त्वदनुग्रहोन्मिषितसंविदर्चिषः।
अपरे त्वनैन्द्रियकमेव विप्लवादभिमानमीश्वर तदात्मकं विदुः ॥ 6.95 ॥
न बहिः शरीरपरिमाणतोऽण्वपि क्वचनापि चित्त्वमिह जातु लक्ष्यते।
इति निश्चिताः कृतधियः परे व्यधुस्तव शास्वतत्वविभूताविपर्ययम् ॥ 6.96 ॥
व्यवलुप्तमोहगहनास्त्वदिच्छया भगवन्बवन्तमवदातदर्शनाः।
बहुधात्मतत्त्वमपरे प्रचक्षते कणभक्षजैमिनिदिगम्बरादयः ॥ 6.97 ॥
अपरे सलक्षणविलक्षणात्मताग्रथितानवस्थमनुजोहवृत्तयः।
भवतोऽस्तितामनुदयादिहेतुभिर्भगवन्नपाह्नुवत नास्तिकाशयाः ॥ 6.98 ॥
प्रतिपन्नभिन्नपरिकल्पकारणप्परतिभाजवञ्जवविरामभावनाः।
शिवमार्गमध्यवससुर्न केचन प्लुतचेतसो भवदनुग्रहोज्झिताः ॥ 6.99 ॥
भगवत्यनुग्रहपराङ्भुखे सति प्रतिपद्य मार्गमपि तं दुरासदम्।
अधिग्च्छति क्वचिदणुर्न किंचन स्तिरपञ्चपर्वणि विपर्यये स्थितः ॥ 6.100 ॥
अपि यत्नतोऽधिगततत्त्वमण्डलप्रकृतिप्रतानगहनादिको नृणाम्।
भवदागमामृतबहिष्कृतः पुमान्परमेति पाशवमतानुसारिताम् ॥ 6.101 ॥
अविरुग्णमोहगहनाः किलेतरा मलिनात्मभिः पशुमतप्रदीपकैः।
भवदागमानधिगमादसंशयं तमसैव संपप्टचिरेऽणुसंपदः ॥ 6.102 ॥
प्रकृतिर्न चेतयत एव किंचन त्रिदशाधिनाथ पुरुषोऽप्युदासिता।
तदनुग्रहं प्रथितचेतनाक्रियः कुरुषे त्वमे किल भुक्तिमुक्तिदः ॥ 6.103॥

अपि धर्मलेशसमताविडम्बनादप्टथक्त्व एव पुरुषेशयोः स्थिताः।
भवदागमामृतबहिष्कृताः परे कृतिनो भवन्ति न विवेक्तुमन्तरम् ॥ 6.104 ॥
द्विविधो हि शब्दनिकुरुम्ब उच्चकैः शिवशासनेतरमतप्रकाशकः।
जगतः परापरफलैकहेतुतां प्रतिपद्यते भव भवत्प्रणेतृकः ॥ 6.105 ॥
हरिगोपकग्रहहिमांशुभास्करप्रकृतप्रकाशसदृशी चतुष्टयी।
मुरनाथ संविदिह संप्रवर्तते त्वदनुग्रहोपहिततारतम्यभाक् ॥ 6.106 ॥
अकथंकथत्वमविपर्ययागमात्स्फुटमारिवांस इह योगवर्त्मना।
न भवन्ति केचन भवद्रुणाञ्जिताः पुनराजवञ्जवजुषो विवेकिनः ॥ 6.107 ॥
गगनासने क्षततमाः कृतस्थितिः सकलं दिदर्शयिषुरात्मवैभवम्।
विमलैः स्वशक्तिकिरणैः प्रसेदिवानुदमीमिलस्त्वमणुसंहतेर्ज्ञताम् ॥ 6.108 ॥
चितिशक्तितामविकलार्थवित्तया सकलार्थकारकतया च कर्तृताम्।
अणुमण्डलस्य भवतानुगृह्णता क्रियते सुरेश सदृशत्वमात्मनः ॥ 6.109 ॥
भवतोऽव्ययात्सदसतात्मनःक पुरा निरियाय यत्किल निनादरूपभाक्।
दधदीश शास्त्रमनघं सदाशिवो बुबुधेऽर्थतत्त्वमखिलं ददाश्रयम् ॥ 6.110 ॥
क्रमशोऽप्यनन्तमुखरुद्रमण्डलस्थिरसंप्रदायगतवस्तुविस्तरम्।
गिरिशोऽभ्यभाषत चतुर्भिराननैर्बहुबेदमन्त्रगहनं तदद्रुतम् ॥ 6.111 ॥
सदलं विकासि गुमकेसरोत्करं स्फुटधर्मनालममलात्मतां दधत्।
मधुवर्षि नाथ भदाननादभूत्स्फुटषट्पदार्थमिह शास्त्रपङ्कजम् ॥ 6.112 ॥
सकलार्थवादनिजशक्तितां गतैः सहकारिसंहितविशेषवृत्तिभिः ।
ग्रथिताक्षरैर्जगति विस्वरूपतामिव गर्बिताविकलवाङ्भयं गतैः ॥ 6.113 ॥
कृतसाधकाभ्युदयमन्त्रमण्डलप्रकृतिस्फुटाष्टविधवर्गविग्रहा।
त्रिविभेदततत्वपरिनिष्ठितस्थितिस्तव शक्तिराननभवा हि मातृका ॥ 6.114 ॥(युग्मम्)
भवदाननाभ्युदितमातृकाक्षरग्रथिता भवन्ति भव मन्त्रविग्रहाः।
निरपेक्षतामुपगता विमुक्तये भवभोगदास्तु विपरीतवृत्तयः ॥ 6.115 ॥
ध्रुवमूर्ध्ववर्ति पदमारुरुक्षतामधिरोहिणी निखिलवस्तुपद्धतिः।
भगवन्व्यधायि भवतैव योगिनां निजशक्तिभित्तिघटितावलम्बना ॥ 6.116 ॥
अपि वालकोटिशतभागविग्रहः षडुपाधिकामपि विधाय पद्धतिम्।
स्थित एक एव भगवन्नहो भवान्विधधाति चेतसि न कस्य विस्मयम् ॥ 6.117 ॥
भवदीरितः स्फुटमनन्त एव हि प्रथमं गुहां गुणमयीमचुक्षश्रुभत्।
असृजत्तदादि स सितासितं जगद्वसुधावसानमिति नाथ शुश्रुमः ॥ 6.118 ॥
सुरनाथ या जगति तत्तदात्मिकाः शिवशक्तयो विदधति क्रियाः क्रमात्।
भव ताभिरेव जगदेतदिच्छया निरवीवृतत्सकलमन्त्रनायकः ॥ 6.119 ॥
भवदिच्छयैव विनिरोधवर्तितां परतन्त्रातां च जगतामुपेयुषाम्।
स्थितिरक्षणादिकविधायिनः क्वचिन्न चलन्ति नाथ किल मन्त्रनायकाः ॥ 6.120 ॥
कमलासनप्रभृतयः सुराधिपा भवदीरितास्त्रिदशनाथ साञ्जनाः।
त्रिविधस्थितेर्भुवनसंततेः क्रमादुदयस्थितिप्रलयहेतुतां गताः ॥ 6.121 ॥
तव मूर्तितामुपगताः सुरेश ये प्रथिताः कृशानुप्टषदश्वभानवः।
उदपादि तेभ्य इह पावनीक्रमात्सकलाङ्गसौष्ठवयुता किल त्रयी ॥ 6.122 ॥
करणात्मतामुपगतेन सर्वतः श्रुतिवर्त्मनाय इह नाथ साध्यते।
सहसिद्धमेवप तमुशन्ति सूरयस्तव धर्ममीश निरुपप्लवस्थितिम् ॥ 6.123 ॥
भवदिच्छया करणभेदवर्तिनः सुखमासते वरद चक्रवर्तिनः।
स्फुटसार्वकामिकगुहाबिलान्तरप्रतिबद्धचित्रभुवनव्यपाश्रयाः ॥ 6.124 ॥
भवता कदाचिदनधिष्ठितात्मनां प्रकृतिस्वभावपरमाणुकर्मणाम्।
घटते विचेतनतयोदितापरैः शपथैरपि क्वचन नैव कर्तृता ॥ 6.125 ॥
कलया किलोद्वलितचेतनस्थितिः प्रतिपद्यमानविषयश्च विद्यया।
दृढरागरञ्जिमना भवत्ययं भवदिच्छया प्रकृतिभोगभागणुः ॥ 6.126 ॥
त्रिविधेन कञ्चुकमलेन रूषितान्गहनोपभोगकुहराभिपातिनः।
अपकृष्य पुद्गलगणान्गुहाबिलादवदाततां नयसि दूरमिच्छया ॥ 6.127 ॥
अवशान्मनोविशयशष्पमण्डलीमभिलाषुकांश्चिरमधोमुखस्थितीन्।
त्वमनुग्रहोन्मथितपाशसंचयान्न पशून्प्रमोचयसि पञ्चधर्मणः ॥ 6.128 ॥
प्रतिबुध्यते विषयवर्ति वस्तु सच्चितिशक्तिरस्खलितवृत्तिराणवी।
द्वितयात्मतामुपगताद्रुतस्थितिः सकलां प्रबोधयति तां तु तावकी ॥ 6.129 ॥
अपि पद्धतेरभिवेधौ व्यवस्थितः पुरुषोऽणुरेष दृढपाशरूपया।
परतो नु भोक्तुमलमात्मगोचरात्तव नाथ शक्तिकलया नियोजितः ॥ 6.130 ॥
विवृणोत्यपोढपरमार्थसत्स्तितिं स्थगयत्यपि स्फुरितरूपमेव या।
न स मायया तव तया विडम्ब्यते त्वयि यस्य भावविनिबन्धनं मनः ॥ 6.131 ॥
सुखवेदनामृततरङ्गिणीजलैरभिषिच्यमानवपुषस्तवेच्छया।
विनिवृत्तिमश्नुवत एव सर्वतो भव चेतनत्वसमवायिनो मलाः ॥ 6.132 ॥
प्रतिपन्नशाक्तविभवाः प्रसादिना भवता चिरादनुगृहीतचिद्दृशः।
उपपत्तिधामसु न तेषु तेष्वमी भगवन्भवन्ति फलबोगिनोऽणवः ॥ 6.133 ॥
त्वयि नाथ धर्मजलदत्वमीयुषि स्रवति प्रकामममृतं गुहाशये।
स्फुटशक्तिशुक्तिकृतसंस्कृतिः क्रमादणुबिन्दुरेतिशुचिमौक्तिकात्मताम् ॥ 6.134 ॥
उपसंहृतान्यविषयानुपप्लुतस्तिमितान्तरात्मकरणोदितस्तितिः।
मतिमान्भवन्तमवलोक्य केवलं सकलार्थदृग्भवति यत्तदद्रुतम् ॥ 6.135 ॥
स्मृतिलेशतोऽपि भवबनधनच्छिदः स्फुटकताप्रवृत्तिमिव नाथ कालिकाम्।
व्यपनेतुमात्मपरमाणुसंश्रयां तव शक्तिरेव मलवासनां क्षमा ॥ 6. 136 ॥
परिमृष्टकालिकमवाप्य हेमतां न ययैति ताम्रमिह ताम्तां पुनः।
विमलीकृतं सदणुतत्त्वमिच्छया तव नाथ नर्च्छति तथा स्ववासनाम् ॥ 6.137 ॥
प्रकृतिः पुमान्प्रणव हत्यमी त्रयः सुरनाथ कूपघटरज्जुवत्स्थिताः।
अपकर्षसि त्वमुपरि स्थितो दृढं करणप्रपञ्चरहितोऽणुमद्रुतम् ॥ 6.138 ॥
इयमन्तरङ्गबहिरङ्गरूपतां दधती कलापरिणतिर्द्विधा स्थिता।
अणुबन्धवृत्तिरनुलोमवर्तिनी प्रतिलोमतः पुनरपोह्यते त्वया ॥ 6.139 ॥
अपदत्रयस्य गुणलिङ्गशून्यतामुपजग्मुषः कृतहृदम्बरस्थितेः।
व्यपलीनसांप्रतभविष्यदर्थताविषयोऽणुरीश भवति त्वदाश्रयात् ॥ 6.140 ॥
रविदीधितिव्यतिकरादिमे यथा प्रकटीभवन्ति भव चाक्षुषा गुणाः।
तव संनिधेरनघवृत्तयस्तथा विशदीभवन्ति पुरुषव्यपाश्रयाः ॥ 6.141 ॥
विकलोऽपि सन्सकलशक्तिसंक्षयादसहाय एव पुरुषोऽतिदुर्गमम्।
अपवर्गमार्गमुपगच्चतीश यद्भवति प्रसेदुषि न तत्किलाद्भुतम् ॥ 6.142 ॥
अमनस्कयोगगतिसंशितव्रतैर्यदवाप्यते किल निरञ्जनं पदम्।
निरुपप्लवां च दधदात्मनि स्थितिं भव नान्तरीयकमनुग्रहस्य तत् ॥ 6.143 ॥
स्फुटयोगधर्मजनितादनुग्रहात्कुशलो निजे परगते तथात्मनि।
अणुचेतसो व्यतिकरात्तवेच्छया विषयान्तरेषु च तनोति संविदम् ॥ 6.144 ॥
अभिमानकार्यमिति यन्न कथ्यते न बिभर्त्ति शब्दगुणातां यदव्ययम्।
न च यत्र विस्फुरति तारकागणो गतिरस्ति यत्र न नभस्वतः क्वचित् ॥ 6.145 ॥
यदनावृतत्रिदशकार्मुकाङ्कितं विचरन्ति यत्र न पयोदपङ्क्तयः।
अवलोक्य तत्र नभसि व्यवस्थितं कृतिनो भवन्तमपवर्गमध्यगुः ॥ 6.146 ॥(युग्मम्)
उपसंहितात्मविभवस्त्वया पुमान्कृतकृत्यतोज्झितभवाभवक्रमः।
स्थितिमान्निरूपितपदार्थपञ्चकः सदृशत्वमेति तव पत्युरद्भुतम् ॥ 6.147 ॥
अणुमण्डलीमनुजिघृक्षतो विभोस्तरणेरिवाकलुषतां प्रभा गता।
शिवशक्तिरीश भवतः प्रवर्तते द्विविधा परापरविभेदवर्तिनी ॥ 6.148 ॥
भवतो भवोद्भव भवाभवस्थितेः प्रतिपन्नपुद्गलविभक्तवैभवात् ।
अधिगम्य शक्तयुपकृतैकचित्ततां चतुरर्थगोचरगतिर्भवत्यणुः ॥ 6.149 ॥
अविभेद एव किल धर्मधर्मिणोः पृथगस्ति वृत्तिरिह नापि वृत्तिमान्।
तदभावमेव भव चेतसोऽपरे कथयन्ति योगमविरुद्धवर्तिनः ॥ 6.150 ॥
सति चैवमभ्युपगते विमुक्तिभाङ् ननु सर्व एव विनिरुद्धचेतनः।
स्फुटमप्रयचत्नमिह स प्रसज्यते भवदिच्छया तु विमलः स मुक्तिभाक् ॥ 6.151॥
द्विविधात्मना भवदनुग्रहेण ये विषयीकृता वृषगते किलाकलाः।
तव तुल्यतां दधति ते गुहाञ्जनव्यतिरिक्तजन्मगतितां तथाणवः ॥ 6.152 ॥
वसुधादिषु त्रिदशयोनिवर्तिनां परमेष्ठिनिष्ठमजितोत्तरोत्तरम्।
स्थितमीश्वरत्वमणिमादि यद्विभो भवदिच्छयात्र तदहो विजृम्भितम् ॥ 6.153॥
उपजग्मुषा सकलधर्मरूपतां भवता समर्थितचिदात्मवैभवम्।
सकलक्रियासु सुरनाथ चेष्टते निरुपप्लवं भुवनपाशमण्डलम् ॥ 6.154 ॥
तव शक्तिरप्रतिहतात्मवैभवप्रभुतान्विता च समधिष्ठिता यया।
विचलन्ति नात्मपरमाणवः क्वचिद्भव कृत्यवस्तुषु परापरात्मसु ॥ 6.155 ॥
भवदजात्मकं सकलमन्त्रमण्डलं सुरसंहतिश्च भगवंस्त्वदात्मिका।
त्रिविधे गुणत्रयमये जगत्यहो न तदस्ति यत्किल विनाकृतं त्वया ॥ 6.156 ॥
परिपूरिताखिलपरापरात्मकप्रतिबन्धशून्यफलसंविदोऽव्ययाः।
अनिवारितामृतामृतपयश्च्युतो विभोस्तव शक्तयो भुवनकामधेनवः ॥ 6.157 ॥
भवदिच्छया ह्यनुगृहीतचेतसः शतरुद्रवीरमुखरूद्रनायकाः ।
कमलासनादिगुणभोगयोगिनः प्रविशन्ति धाम किल शैवमद्भुतम् ॥ 6.158 ॥
पटलादिभिः सकलदृक्क्रियात्मकं पिहितं न पश्यति यथा विलोचनम्।
स्थगितं मलैर्भवदनुग्रहादृते न तथेश किंचिदणुतत्त्वमीक्षते ॥ 6.159 ॥
अनुरञ्जिताखिलगुणो भवद्गुणैर्भवपञ्जरं दृढमनञ्जनाञ्जसा।
परिमृष्टगाढमलपञ्चकस्थितिः पुरुषो भनक्ति भगवंस्त्वदाश्रयात् ॥ 6.160 ॥
अपहाय यद्वदिह नाथ नीलतां वटपादपच्छद उपैति पीतताम्।
पशुतामपोज्झ्य तव शासने स्थितः शिवतां सुरेश किल तद्वदेत्यणुः ॥ 6.161॥
हृदि संविदंशुभिरधीश तावकैरवरुग्णसंतमसबन्धविप्लवे।
सकलं कलापुरुषयोः किलान्तरं कुशलोऽधिगम्य नियमाद्विमुच्यते ॥ 6.162 ॥
मलिनत्वमीयुषि यथा न दर्पणए प्रतिबिम्बमस्फुटतया विभाव्यते।
सुरनाथ चेतसि मलौघविप्लुते नियमान्निसर्गविमलस्तथा भवान् ॥ 6.163 ॥
सकलाधिकारनिजशक्तिमण्डलस्फुटविग्रहाक्षभुवनाधिको नृणाम्।
भवबन्धमन्धतमसस्य तन्वतः प्रणिहंसि हंस निबिरीससंपदः ॥ 6.164 ॥
प्रतिभागताष्टविधसंविदर्चिषः प्रतिलङ्घ्य वर्त्म सुरनाथ षड्विधम्।
समये स्थितास्तव निरञ्कजनं पदं प्रविशन्ति शान्तमनसो मनस्विनः ॥ 6.165 ॥
दधतं निरावरणचित्स्वरूपतां ध्रुवमप्रतर्क्यममृतं गुहाशयम्।
स्थिरगौणगाहनिकगौहमौलताप्रतिपन्नभिन्ननिजशक्तिविग्रहम् ॥ 6.166 ॥
सकलं कलाविरहितं प्लवोज्झितं निरुपप्लवं बहिरुपप्लवस्थितम्।
स्थितमध्वनः षडवधेरुपर्यतो व्यतिवृत्तशान्तमनघं शिवं परम् ॥ 6.167 ॥
प्रतिभाद्वयातिगममेयतादिकस्फुटधर्मयोगमनुपाख्यतां गतम्।
अणुमादिदेवमनुणुं च सर्वतोमुखमूर्धपाणिचरणेक्षणं विभुम् ॥ 6.168 ॥
निरुपप्लवस्तितिनिजाङ्गदीपितस्थिरपञ्चवक्त्रमयविग्रहग्रहम्।
सकलप्रमाणविषयातिगस्थितिप्रतिपत्तिशून्यगहनात्मतां गतम् ॥ 6.169 ॥
प्रतिपद्य शंकर भवन्तमव्ययं सुखदुःखमोहपरिहीमचेतनः।
व्यतिवृत्ततन्तुमयबन्धनाष्टको भगवन्भवानिव भवत्यणुः स्फुटम् ॥ 6.170 ॥ (पञ्चभिः कुलकम्)
विवृतं जगत्कवलनैकतृष्णया तव ताभ्रतालु मुखमण्डलं क्षये।
श्रियमेति लग्रशतपत्त्रपाटलं स्फुरदर्कबिम्बमिव दक्षिणास्पदम् ॥ 6.171 ॥
प्टथुजूटबनधभुजगाधिपस्फुरत्फणचक्रवालमणिरश्मिरञ्जितः।
शिरसि स्थितःश्रियमसौ तनोति ते धृतसांध्यराग इव बालचन्द्रमाः ॥ 6.172 ॥
भवतोऽवतंसशशिरश्मिमण्डलच्छुरितं विराजति ललाटलोचनम्।
स्मरभस्मशेषरचितामिव श्रियं दधता कृतास्पदमयुग्मरोचिषा ॥ 6.173 ॥
ज्वलितानलेन घटिताच्युतत्विषा प्टथुहेतिशोषितसुरापगाम्भसा।
विशिशेन देहिथ पुरा पुरत्रयं नयनेन मन्मथमथोर्ध्ववर्तिना ॥ 6.174 ॥
तव नाथ नूतन घनासितोरगग्रथिता विभाति विकटा जटावली।
परिवर्तनाकुलललाटलोचनज्वलदग्रिधूमवलयेव पिङ्गला ॥ 6.175 ॥
प्रतिपद्य कृष्णरजनीमयं वपुर्गिरिकन्यकेव तव नोज्झति क्षणम्।
स्फुटकालकूटविषधूसरप्रभापटलच्छलेन प्टथुकण्ठमण्डलम् ॥ 6.176 ॥
दहने पुरां क्षितिरथस्य चक्रतां गमितं त्वया शिशिररश्मिमण्डलम् ।
प्रतिबद्धलक्ष्ममलिनोदरच्छविस्फुटनाभिरन्ध्रमिव नाथ लक्ष्यते ॥ 6.177 ॥
बहुशो व्यचतीतगणनेषु विष्टपप्रलयागमेषु सुरनाथ संभृतम्।
ग्रहचक्रवालममलं करोति ते स्फटिकाक्षसूत्रवलयप्रयोजनम् ॥ 6.178 ॥
स्फुटकालकूटविषकूटकंधराकृतनीरभारगुरुवारिदभ्रमः।
उपदेशलाभरभसादिवाग्रतस्तव नाथ नृत्यति कुमारचन्द्रकी ॥ 6.179 ॥
करणाङ्गहारविधिभिः सविस्तरैः सकलासु शंकर निशासु नृत्यता।
क्रियते त्वयानुकृतिरात्मनो विभो सचराचरं जगदवाप्य तस्थुषः ॥ 6.180 ॥
प्रतिपन्नगोत्रघटनः कृतस्थितिः पितृसद्मनि त्वमनिशं समातृके।
भगवन्ननादिरज इत्यपि स्फुटं पुरुषः पुरातन इति प्रगीयसे ॥ 6.181 ॥
तव पादपद्मनखदर्पणोदरप्रतिबिम्बितैरपि लघूकृतात्मभिः।
अधिगम्यते हर महत्त्वमानतैः सकलातिशायिसुरदैत्यमण्डलैः ॥ 6.182 ॥
ससुरासुरस्य जगतः शरण्यतां भवतो गतस्य चरणाम्बुजद्वयम्।
जनता नमत्यवनतापि कुत्रचिद्ध्रुवमाशुशुक्षणिशिखेव नैत्यधः ॥ 6.183 ॥
क्षितितोयमारुतकृशानुभानुमद्गनामृतांशुयजमानमूर्तये।
भवते मतिध्वनिविकल्पगोचरव्यतिवृत्तरूप परमात्मने नमः ॥ 6.184 ॥
सुधियोऽपि नाथ मतिशब्दगोचरास्त्वयि न स्तितिं विदधतीह कल्पनाः।
गुणलेशसुक्तिषु यतः स्तुतो मया सतृषापि तद्व्यवसिताद्विरम्यते ॥ 6.185 ॥
अतिदूरवृत्तिरपि येन दृश्यसे नहि रूप्यसेऽन्तिकगतोऽपि येन वा।
प्रतिजृम्भते सुरगुरोरगुग्रहः स विपर्ययश्च तव केन हेतुना ॥ 6.186 ॥
अथवास्तु तावदिदमद्भुतास्पदं तव चेष्टितं प्रतिघशून्यसंविदः।
शृणु यन्निधाय मनसि व्यपाश्रिताः शरणं भवन्तमजमव्ययं वयम् ॥ 6.187 ॥
सुखमेकदा स्थितवतो हिमाचले स्मितभिन्नवक्त्रपरिहासपेशलम्।
गिरिकन्यया निभृतवतो प्टष्ठतः करपङ्कजस्थगितमुक्तचक्षुषः ॥ 6.188 ॥
सहसा विलोचनविनाकृतं पुरा पुरुषं पुराणपुरुषाच्वदुत्थित्म् ।
क्षयकालकालरजनीमुखोच्छ्वसत्तिमिरौघबीजमिव नाथ शुश्रुम ॥ 6.189 ॥ (युग्मम्)
कृतया तदान्धक इति स्फुटार्थया स जगत्त्रयप्रथियताथ संज्ञया।
तनयार्थिने दितिसुताय दुश्चरं चरते तपोऽत्र समये ददे त्वया ॥ 6.190 ॥
अभिगम्य वृद्धिमथ तस्य मन्दिरे स मनोरमाङ्कपरिवृत्तिलालितः।
उपचक्रमेऽन्धतमसच्चिदोन्मुखश्चरितुं सुदुश्चरमनर्गलं तपः ॥ 6.191 ॥
चिरकालसंभृतिमता प्रसेदुषस्तपसा स लब्धनयनः स्वयंभुवः।
प्रतिमल्लतारहितदेवदानवं जगतां प्रभुत्वमनपायमासदत् ॥ 6.192 ॥
दलितान्धकारनिकरं मरीचिभिस्तदुरः स्थले स्तितिमवाप्य वैष्णवम्।
स्फुरदर्कमण्डलमिवास्तसानुनि व्रजति स्म चक्रमपि निष्प्रतापताम् ॥ 6.193 ॥
तेनोर्जितेन विजितस्य हरेरमर्ष-
घर्माम्बुशीकरकणावलिराहवेषु।
वक्त्रं ममार्ज विकटभ्रुकुटीविभङ्ग-
च्छायामलीमसमिवाविरलं गलन्ती ॥ 6.194 ॥
सोऽस्माकमीश करदीकृतलोकपाल-
लक्ष्मीसमाकुलितशेखरशासनश्रीः।
बन्दिग्रहं व्यधित केतनकाननाग्र-
नित्यानुबन्धयुगपत्स्थितिबन्धहेतोः ॥ 6.195 ॥
तत्प्राप्तकालमिह यत्कुरु तत्त्वमन्व-
गायात एव हरिरेष सलोकपालः।
संसारसागरमपि स्फुटमुत्तितीर्षी-
रेकः प्लवस्त्वमनघः किमुतार्तिदुःखम् ॥ 6.196 ॥
इति वचनमुदीर्यावाङ्युखे तत्र तूष्णीं
स्थितवति कृतपूर्वाभ्यागमानां तदानीम्।
सपदि गणपतीनां क्रोधलीलाप्रवृत्तिः
करतलमलनेन क्षुण्णरत्नोर्मिकासीत् ॥ 6.197 ॥

इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये भगवत्स्तुतिवर्णनो नाम षष्ठः सर्गः