.
हरविजयम्।
पञ्चमः सर्गः।
तं प्रीतिविस्तारितलोचनोऽथ सैलेश्वरं सादरमीक्षमाणः।
शैलादिना विस्मितमानसेन शशाङ्कचूडामणिरित्थमूचे ॥ 5.1 ॥
एष ससारससारस्तुलितश्रीः पीतवाससारस सारः।
अनलससारससारः प्रकर्षमाद्रिः परं ससार ससारः ॥ 5.2 ॥
आबद्धताण्डवशिखण्डिशिखण्डशार-
चामीकरव्रततिमण्डमण्डनोऽद्रिः।
पस्यैष भाति कृतमेघरवानुकार-
झांकारताररवनिर्झल्लरीकः ॥ 5.3 ॥
अस्य क्षितिर्नूतनकानना सा न काननासादितभङ्गुरश्रीः।
हरत्यहो बन्धुरतालतालीरता लतालीभृति यत्र भृङ्गाः ॥ 5.4 ॥
स्फुटमीश परैरलङ्घ्यधाम्नो दधतो दुस्तरवारितामजस्रम्।
हरिसैन्चसहस्रमर्दभाजः सुभटस्येव न दृश्यतेऽस्य प्टष्ठम् ॥ 5.5 ॥
आबात्यसौ गजतया समरेष्ववाप्य
सारं भयानकतमेषु सदानयागः.
श्च्योतन्मदार्द्रकटया कटकान्तरेषु
सारम्भया न कतमेषु सदानयागः ॥ 5.6 ॥
स्फुरदनिमेषमण्डलरुचा शनकै-
रसिकतिलोत्तमावनियैष गिरिः।
कटकसरः श्रिया रुचिरया सुमत-
स्त्रिदिवभुवेव नाक्षिपति कस्य मनः ॥ 5.7 ॥
भवति नास्य मरुत्प्रलयागमेऽसकलभङ्गुरवेगतयासकृत्।
किमिव न प्रमदाय वनश्रिया सकलभं गुरवेऽगतयासकृत् ॥ 5.8 ॥
प्रेयांसमर्कमुपकण्ठगतं विकासि-
पद्माननाः कटकवर्त्मनि पङ्कजिन्य।
रागादिवालिविरुतैः स्मरकेलिगर्भ-
मत्रानिशं किमपि कोमलमालपन्ति ॥ 5.9 ॥
अत्र स्निग्धं नलदविदलनप्राप्ताभिख्येऽतिबलफलवति।
अक्ष्णां चक्रे नवनलिनवनच्छायां धत्ते विभुरमरभूवि ॥ 5.10 ॥ (समप्रतिलोमानुलोमार्धपादः)
इह विबुधगजस्य कर्णतालस्खलनसमीरविधूतकुम्भधातोः।
वहति मदनदी परागरक्ता रतगृहभित्तिरिव श्रियं परार्ध्याम् ॥ 5.11 ॥
अभ्येत्य काननमिदं हरति द्विरेफः
सज्जातपक्षतितयानतमांसि चेतः।
शक्तो निकुञ्जगहनेष्वमिहर्तुमर्कः
सज्जातपक्षतितया न तमांसि चेतः ॥ 5.12 ॥
स्फुरिताहिराजकटकं विकटस्फुटकुञ्जराजिनममुं रभसात्।
अभिवीक्ष्य को न रमतेऽभिमतं जगतां भवन्तमिव शैलपतिम् ॥ 5.13 ॥
तालीलतालीललितावतंसः सारवसारवहिताण्डजोऽसौ।
मत्तालिमत्तालि तटं विबर्ति सान्पसानूपहितोपशोभः ॥ 5.14 ॥
गण्डोपलस्खलनजर्जरिताच्छवीचि-
चक्राणि ताररवपूरितदिंशि दूरात्।
अस्यैष निर्झरजलानि पिबत्यमन्द-
मध्वश्रमार्त इव तिग्मकरः कराग्रैः ॥ 5.15 ॥
विटपिततिरमुष्य नानाफलैरतिशयनमितासकृच्छ्रीमतः।
इह रमयति यं न सीमन्तिनी रतिशयनमिता स कृच्छ्री मतः ॥ 5.16 ॥
सविशेषकान्तमलिकालसच्छवि स्फुटपाटलाघरमुदारदर्शनम्।
तटवर्त्म चारुचिबुकोपशोभितं श्रियमेत्यमुत्र वदनं न सुभ्रुवः ॥ 5.17 ॥
प्रीतिं न कस्य कुरुते कटके विनिद्र-
तापिञ्छमेचकतमानघनागतारात्।
ध्यानावनिर्दततां शुचितामराति-
तापिञ्च्छमे च कतमा न घना गतारात् ॥ 5.18 ॥
अभिमतजनसंगमेऽङ्गनानामनुकृतकोमलसीरिपाणिपद्माः।
इह मनसिजविभ्रमा विभान्ति स्फुटतरलाङ्गलताभिरामरूपाः ॥ 5.19 ॥
पश्य नाथ सुरसद्मसंपदां कुं जराजितममुं जपावनैः।
शैलराजमभितो न संकुलं कुञ्जराजितममुञ्जपावनैः ॥ 5.20 ॥
क्षिप्तःप्रियापहृतपीननितम्बबिम्ब-
वासोह्गनाकरतलेन विरुग्णनालः।
रत्नप्रदीप इव नीलसरोजकर्ण-
पूरोऽत्र भाति मधुकृन्नवचम्पकाग्रे ॥ 5.21 ॥
उत्कयन्ती श्रिया मानसारं जनं कुर्वती रागिणआं मानसारञ्जनम्।
अत्र रौत्युन्मुखी हे मता लीलया संहतिः पत्त्रिणां हेमतालीलया ॥ 5.22 ॥
स्तननाभिमुखश्रियं दधत्यः सततं सज्जघनावकलम्बिशम्पाः।
अवधूतनिशाकरप्रकाशा इह वर्षा इव योषितो विभान्ति ॥ 5.23 ॥
बिभ्रत्यमूस्तटभुवो मणिचक्रमुच्चै-
रत्रस्नु तास्तव करेणुकरालिताभ्यः।
वल्लीभ्य एव पुरतो मकरन्दवृष्टि-
रत्र स्नुता स्तबकरेणुकरालिताभ्यः ॥ 5.24 ॥
मा भूत्सत्रासत्वममीषामिति शङ्कमङ्कस्तानां वत्सलताया दधवद्रिः।
नानारत्नभीषुवितानव्यपदेशाद्रक्षासूत्राणीव दिशत्येष मणीनाम् ॥ 5.25 ॥
वृत्तिः सरोर्जैर्न विनोदकानां शिलीमुकौघस्य विनोदकानाम्।
अत्राश्रितानल्पकुरङ्गनाभिर्दिवौकसां भाति कुरङ्गनाबिः ॥ 5.26 ॥
अस्यानिशं कटकभूमिरनर्गलर्क्ष-
चक्राकुलस्थितिरघःकृततिग्मरश्मिः।
आबद्धकेलिकिलकिञ्चितकामिनीका
धत्तेऽक्षपाकरचितां रजनीव लक्ष्मीम् ॥ 5.27 ॥
व्याधश्रेणी नागकुम्बाग्रभङ्गस्थामास्क्ता मुग्धमुक्तासमास्था।
आभात्यत्र स्त्रीषु चाटुप्रपञअचे काली व्यक्तारम्भरक्ताव्यलीका ॥ 5.28 ॥ (प्रतिलेमविलोमपादः)
इह चटुलतया विलोचनौघैः स्फुटशितितारकविभ्रमैस्तरुण्यः।
दधति मधुकरैश्चकोरकान्तस्थितिरमणीयतरैः श्रियं नलिन्यः ॥ 5.29 ॥
धत्ते विषाणगणमेणकुलं कृतास्थ-
मत्रासमानसमदभ्रमरालताभिः।
प्राप्ता स्थितिश्च मकरन्दभरस्य नून-
मत्रासमान समदभ्रमरा लताभिः ॥ 5.30 ॥
इह दृष्टिपथादिवाक्षमास्तरवस्त्यक्तुमधोगतान्निधीन्।
विदघत्युपरि स्थिताः क्षमातलविस्फारितनेत्रचक्रताम् ॥ 5.31 ॥
राजत्युर्वी मणिनिकरैः शुभ्रान्ता भ्रान्तानेकत्रिदशगणा वाणीनाम्।
पीनां लक्ष्मीमिह दधतीसाध्यानां ध्यानाम्भोबिः क्षतरजसां सेव्यासौ ॥ 5.32 ॥
अस्योल्लसत्कसुमवासनभृङ्गपङ्क्ति-
वेणीलतं मणितटेषु रतिं वितन्वन्।
वल्लीपुरंध्रिपटलं घटिताभिराम-
वृक्षाधिरूढकमुपैति परामभिख्याम् ॥ 5.33 ॥
रजोभिरस्मिञ्जनता हरन्ती वधूसरागा नवधूसरागा।
बिभर्ति नो पुष्पततीर्द्विरेफैरसावनालीढरसा वनाली ॥ 5.34 ॥
कुंतालीभिर्युधमिव गहनामेतामासाद्योच्चैः शितशरशतसंकीर्णाम्।
अस्मिन्नानाफलकवलनसंसक्ता वल्गन्त्येते दिशि दिशि हरिसैन्यौघाः ॥ 5.35 ॥
धत्तेऽब्जिनीमयमलेः शिखरैर्विभिन्द-
न्नाकर्षयोगमधुरभ्रमणावनिं द्याम्।
अभ्येत्य चामुमिह पाटलचन्दनार्चां
नाकर्षयोऽगमधुरभ्रमणावनिन्द्याम् ॥ 5.36 ॥
स्फुटकनकावदातरुचयः सहेमताली-
व्यतिकरगण्डकाः प्रतिदिशं हन्ति नास्मिन्।
न खलु मनः स्तनद्वयसिता नतभ्रूवोऽमूः
शुचिमयणिमण्डलीस्तटभुवश्च संदधानाः ॥ 5.37 ॥
स्थितिं लभन्तेऽस्य न दूरमुज्झिता निरुद्वतापायतयोपरि ग्परहाः।
भजन्ति दिव्याश्च नितम्बकाननं निरुद्धतापा यतयोऽपरिग्रहाः ॥ 5.38 ॥
अस्योदभार्भरमन्थरमेघचक्र-
गम्भीरताररवनर्तितबर्हिणायाम्।
साम्यं कला कटकवर्त्मविदूरभूमा-
वुद्भिन्नया व्रजति रत्नशलाकयेन्दोः ॥ 5.39 ॥
इह कान्तिरुन्मिषति कामली लासकृ-
न्मृगचक्षुषां रचितकामलीलासकृत्।
क्रियतेतरां रतिरनुत्तरा गायता
मधुपेन चानिशमनुत्तरागायता ॥ 5.40 ॥
विकटकटकमित्तभागनुन्नाः क्षितिभृदसाववकाशलाभशून्याः।
दिश इव शरणागता बिभर्ति त्रिदशवधूर्मणिकंदरोदरस्था ॥ 5.41 ॥
मन्दाकिनीजलरयैर्हरिताभिराम-
रम्भोऽजरागम स कृत्स्नपितः सहेऽलम्।
पश्यैष सानुवनवर्त्मनि बिभ्रदद्रि-
रम्भोजरागमसकृत्स्नपितः सहेलम् ॥ 5.42 ॥
घटितार्जुनबाणचक्रवालां जनताश्चर्यचकरीं तवेव मायाम्।
कटकक्षितिमेष नाथ धत्ते घनसच्छायकिरातताभिरामाम् ॥ 5.43 ॥
रमणीयतया वियोगिनां प्रथमानङ्गविकारतापदम्।
अमुमाप्य न कामिनी श्रियां प्रथमानं गवि का रता पदम् ॥ 5.44 ॥
उत्तस्थुषः प्रविगलन्मकरन्ददान-
बिन्दोर्मनोभवजयचाद्विरदस्य पङ्कात्।
पद्माकरस्य नवकुङ्भलदन्तकोष-
लग्रं द्विरेफवलयं तनुतेऽत्र लक्ष्मीम् ॥ 5.45 ॥
इहाङ्गना का प्रमदं प्रियस्य नाधादसंरम्भरसं दधाना।
चेतः स्थिता कल्पलतानिकुञ्जे हेलामतारब्धरतामलाहे ॥ 5.46 ॥(प्रतिलोमानुलोमपादः)
इह नितम्बभुवो भुवनातिगां स्थितिमुपेयुषि तारघनत्विषः।
कुमुदिनीहृदयंगमविभ्रमा दधति चन्द्रमसारचितां श्रियम् ॥ 5.47 ॥
गीतैः प्रनृत्यति पुरस्तव पश्य मिश्र-
केशी करालवलया बलितालसाद्भिः।
दन्तीन्द्रदानपयसः पवनैस्तटेऽस्य
के शीकरा लवलयावलिता लसद्भिः ॥ 5.48 ॥
व्याप्तवतोऽस्यदीर्शविकटैर्मणिशिखरशतै-
रूर्ध्वमशेषमण्डशकलं सरसिरुहभुवः।
अस्तमितावकाशघटना कटकभुवमसा-
वम्बरदेवतेव शबरी भजति शिखरिणः ॥ 5.49 ॥
एति सिद्धमिथुनं रसवत्तामत्र सन्मणितमोहनमारात्।
शृङ्गमस्य निकरं च कराणामत्रसन्मणि तमोहनमारात् ॥ 5.50 ॥
निर्धूतदीर्घतरवालधिचामरौघ-
लक्ष्मीभृतोऽनुकृतराजगृहाः सलीलम्।
क्रीडन्ति निर्झरजलैः सकरेणवोऽत्र
नागा नगो सकलधौतकरालकुम्भाः ॥ 5.51 ॥
भ्रमणाकुलाः स्फुरददभ्रमणाविह ता नभोयुवतयोऽविहताः।
न लसन्ति संप्रति महानलसं सकलाःक प्रियैर्ललितहासकलाः ॥ 5.52 ॥
घटितविकटसप्तपत्त्रचक्रे घनपदवीरुधि नाथ सिद्धसाध्याः।
स्थितिमिह विदधुर्युयुक्षमाणा मणिशिखरे कटके च सिद्धसाध्याः ॥ 5.53 ॥
नृत्यन्गिरा सुरवधूजन एति तृप्तिं
न ग्रामरागमतया सविकारहस्तः।
श्लाघ्ये चलन्ति न जनाश्च सजानयोऽस्मि-
न्नग्रामरागमतयासविका रहस्तः ॥ 5.54 ॥
एतत्पश्याम्यद्रिपतेः शृङ्गमुदूढप्रेमोद्रेकैः किंपुरुषैः सेवितमारात्।
शोभोत्कर्षं धातुभिरव्याहररूपैर्धत्ते वीणावाद्यमिवानेकविधैर्यत् ॥ 5.55 ॥
सरागमयुतायुताप्रतिसमास्माप्तमदपादपाश्रितखगा।
स्फुरन्मणिविभा विभाति सकलाकलापिरहिता हितास्य च तटी ॥ 5.57 ॥
बिभ्राणमर्धविनिमीलिततारकत्व-
मुत्सारिततानुतमःक स्फुटदृष्टतत्त्वम्।
अस्य प्रभातमिव संयमशालि पश्य
सानरूधाम मुनिमण्डलमेतदद्रेः ॥ 5.57 ॥
वार्घकक्षीणशक्तिर्गतौ तापसस्तापसीदत्तमालम्बनं यायते।
अत्र पश्य क्षितिं समततानाग्रतस्तापसीदत्तमालं वनं या च ते ॥ 5.58 ॥
स्थायित्वं क्वचन भजत्यसौ नगेऽस्मिन्संचारी भवति पुनः क्वचित्सरागः।
अरोही क्वचिदवरोद्यपि क्वचिच्च श्रद्धेयो मृग इव चित्रवर्णशोभः ॥ 5.59 ॥
सिंहः कराहतिभिरत्र न दन्तिनां स्म
हेलालसाभिरपिनड् बलतोऽधिपं कम्।
नोत्तीर्यते महीषसंहतिभिर्दिवापि
हेलालसाभिरपि नड्वलतोऽधिपङ्कम् ॥ 5.60 ॥
गजदर्शमुपाश्रितक्रुदोऽभी दधते हस्ततलस्थमेव सिंहाः।
स्फुटमत्र यशस्तदीयकुम्भक्षितिलग्नामलमौक्तिकापदेशात् ॥ 5.61 ॥
मधुलिहामिह पुष्परसैर्लता नवसुधामधुरा शुशुबेतराम्।
विवलिधरत्नचितास्तटसानवो न वसुधामधुराशु शुभेतराम् ॥ 5.62 ॥
गण्डूषशीधुसमकालनिपीतनारी-
निःश्वाससौर्भविशेषकृताधिवासान्।
आमोदसौरभमिवोद्गिरतोऽभिभूत-
पुष्पान्त्रानिह विलोकय केसरौगान् ॥ 5.63 ॥
मदच्छटामोदसुगन्धिताशमहानिशान्ताविह सन्ति नागाः।
मिथश्च पुष्पैर्न मनोज्ञलक्ष्मीमहानिशान्ता विहसन्ति नागाः ॥ 5.64 ॥
मधुमदविवशा वधूर्गिरोच्चैरसकलशीभरतान्ततां वहन्ताया।
इह कपटपुरंध्रिवेषलक्ष्मीपतिकरपद्मभुवेव भाति भर्तः ॥ 5.65 ॥
व्याप्य स्थितः कनककूटभुवान्तरिक्ष-
माभाति कर्कशशिलाच्छितया सदृक्षः।
माभाति कर्कशशिलाञ्छितयासदृक्षः ॥ 5.66 ॥
मदविपाटलकान्तिरसावितः कलकलाकुलिताखिलदिह्भुखाम्।
अलिततिं यमुनाजलवेणिकामिव रसादिह कर्षति लाङ्गली ॥ 5.67 ॥
अत्र विभाति जलग्रहहेतोः काञ्चनवप्रसरो नमदभ्रे।
प्रेम्णि वधूं रमयत्यपि कान्तः कां च नवप्रसरोनमदभ्रे ॥ 5.68 ॥
बिम्बागतामलरुचिग्रहचक्रवाल-
कल्माषितस्फुरितनीलशिलानितम्बः।
आलक्ष्यचपाण्डुरप्टषट्कचमूरुचर्म्-
संवीतमध्यइव नक्तमयं विभाति ॥ 5.69 ॥
असौ घनततीर्न दीर्घनमिता नदीर्घनमिता जहाति नभसः।
स्थितिर्जलरुहामहासरसिका महासरसि का विभाव्यत इतः ॥ 5.70 ॥
अदृष्टपूर्वा अपि खेचरौघैरलंकृताः काञ्चनमेखलाभिः।
धत्तेऽवरोधप्रमदा इवासावधिष्ठिताः कञ्चुकिभिर्गुहोर्वीः ॥ 5.71 ॥
लक्ष्मीरमुष्य सकलातिशयं सुरेश
सारा ससार सरसासुरसौरसंसत्।
धत्तेऽब्जिनीषु च विराजितमग्रवर्त्म
साराससारसरसासु रसौरसं सत् ॥ 5.72 ॥
कुसुमैः कृतवासनः समन्तादपनिद्रत्वमुपेयिवद्भिरस्मिन्।
श्रुतिमन्त्रगणाभिरामरूपैर्नववौषट्पदशोभिभिः समीरः ॥ 5.73 ॥
गतिक्रमोऽमुत्र बिभर्ति सुभ्रुवामनुत्तरो मन्थरताभिरामताम्।
श्रियं मृगीभिः प्रतनोति यः परामनुत्तरोमन्थरताभिरामताम् ॥ 5.74 ॥
क्ष्माभर्तुरस्य कटको विकटः सपीलु-
पाल्याकुलः सहरिसैन्यशतावमर्दः।
लक्ष्मीं विकासघटनां नयति व्युदस्त-
नानाधिकमचरमागधराजितश्रीः ॥ 5.75 ॥
इह रूढमदोज्झति न ब्रमरी नवगुच्छलतां सरसा मधुना।
स्तितिभन्धमिवैव रवैश्च सुरानवगुच्छलतां सरसामधुना ॥ 5.76 ॥
अविरलवनमाल एष बिभ्रत्प्रकटमदारचितां सुरेश लक्ष्मीम्।
हलधर इव तुङ्गताललक्ष्मा हरति मनः स्फुटलाङ्गलीयशोभः ॥ 5.77 ॥
व्याप्य स्थितेऽत्र शिखरैर्नवरत्नभाभि-
रभ्रंशरस न सहायतयाग्रहस्तैः।
घ्रद्भिर्मृगान्गजतया विजहे किरातै-
रभ्रं शरासनसहायतयाग्रहस्तैः ॥ 5.78 ॥
अविपन्नरागमुपपन्नसौष्ठवं स्फुटवर्णपाटवमनेरकमार्गगम्।
श्रुतिपेशलस्वरमिहालिमण्डलं श्रियमेति गेयमिव जातिसंश्रयम् ॥ 5.80 ॥
अस्यातितुङ्गशिखरोन्नमितं विदूर-
पाताकुलत्वमिव बिभ्रदधित्यकायाम्।
प्रेङ्खद्विदूररजमणिप्रकरप्रकाश-
व्याजान्नितम्बतटडमम्बरमाललम्बे ॥ 5.81 ॥
समदः कटकारविन्दिनीनां नवमं केसररेणुना सनादः।
रचितं दधदङ्गरागमेको नवमङ्के सर रेऽणुनासनादः ॥ 5.82 ॥
कथयतीत्थमिवात्र मधुव्रतं श्रुतिमनोरममञ्जुलशिञ्जिता।
मधुकरी मकरन्दरसासवप्रमुदितानुवनं रचितस्थितिः ॥ 5.83 ॥ (युगलकम्)
नाक्षिप्यते कुसुमिताभिरधित्यकाभिः
कोऽशातकीरसहितामलकीचकाभिः।
मुक्ता गिराबिह शिलीमुखमणअडलीभिः
कोशातकी रसाहितामलकी च काभिः ॥ 5.84 ॥
भ्रमतः कमलाकरेषु लग्नो मधुपङ्कार्द्रतया हृदि प्रगाढम्।
श्रियमेति शिलीमुखस्य सूक्ष्मः स्मरनाराच इवैष पक्ष्मखण्डः ॥ 5.85 ॥
तट इह निचिते रजोभिरद्रिः कपिशकुनि स्तबकेन हन्तरीतिम्।
न हरति दयितो दधत्सुचेतःकपिशकुनिस्तव केन हन्त रीतिम् ॥ 5.86 ॥
अस्याधिसानु परभागमवाप्नुवन्ति
श्यामत्विषोऽर्करथमुद्रभुजःक सटाभिः।
वातावधूतसुरपादपलम्बमान-
लम्बीपरागनिकुरुम्बपिशङ्गिताभिः ॥ 5.87 ॥
सिद्धद्वन्द्वं भातितरां मोहनलीलासव्यापारं चारुतमग्रावदरीषु।
पश्यास्योच्चैः पत्त्रिततिर्नाथ विधत्ते सव्यापारं चारुतमग्रा बदरीषु ॥ 5.88 ॥
हरति कटककाननेषु चेतो घनरुचिचित्रशिखण्कडिमण्डलाङ्काम्।
मधुकरकुलनीलदृष्टिहारिव्रततिमिरां रजनीमिवैष बिभ्रत् ॥ 5.89 ॥
प्राप्तेऽत्र काननभुवा क्षितिभृत्यभिख्यां
कासारतामरसभासितया न दध्रे।
लक्ष्म्या सुरेश रचितास्पदया वनेषु
का सारतामरसभासितया नदध्रे ॥ 5.90 ॥
लक्ष्येष्वन्तर्बाह्यरूपष्वभीक्ष्णं कुर्वाणानां संयमं तेषु तेषु।
व्यक्तं ते ते योगिनामङ्गभाजामुत्पद्यन्तेऽमुष्य सिद्देर्विशेषाः ॥ 5.91 ॥
येऽध्यवात्सुरपि काञ्चनाचलं तेऽहितीव्रकटक व्रतीहिते।
प्रेम बब्रुरिह सुभ्रुवां स्तिता हे मतार्य चटुचर्यतामहे ॥ 5.92 ॥(प्रतिलोमानुलोमपादः)
न्यासां शताविरचिताञ्चितमध्यमाल्प-
गान्धारबन्धुरतरस्थितिमश्ववक्त्रः।
वैकारमध्यममदूरगतस्तवैष
नो शुद्धशाडवमिह क्लममेति गायन् ॥ 5.93 ॥
अपेतसंभावनयाचितानां रतिक्रियाभावनया चितानाम्।
इहेष्टकान्तासमयोजनानां सर्वर्तुरूपः समयो जनानाम् ॥ 5.94 ॥
मधु पिबत्यसितच्छविशारितस्तबकरोचिरसौ रभसं गतः।
कलरवैर्भ्रमरः सुरभेरिव स्तवकरोऽचिरसौरभसंगतः ॥ 5.95 ॥
सीमन्तिनी विकचचम्पकभाभिरत्र
हेऽमाय मानपरशुभ्रमरावलीकम्।
नापेक्षते प्रियतमस्य सरोऽवलोक्य
हेमायमानपरशुभ्रहमरावलरीकम् ॥ 5.96 ॥
न श्रीरनेन कथमपि दलितापायासहा समुद्रागारात्।
उदिताब्जं दधती गलदलितापायासहासमुद्रागारात् ॥ 5.97 ॥
खेदमेति कुसुमान्मधुव्रतः स्वादुनोऽतिरमणीयतो न वा।
दूरगा च पथिकस्य मानसं सावा दुनोति रमणी यतो नवा ॥ 5.98 ॥
कामिना तिलकमत्र नताङ्ग्या नालिके रचयतासकलापे।
प्रीतिरुत्सुकयतीह च फुल्लन्नालिकेरचयता सकलापे ॥ 5.99 ॥
इह मेराविव सुखदा मही न कामानवास नाकीशानाम्।
चलति च रसैः फलानामहीनकामा न वासना कीशानाम् ॥ 5.100 ॥
सौहित्यमत्र कुरुते मकरन्दवपर्षै-
रुच्चा पलाशकलिका रणतामलीनाम्।
क्रीडत्यसौ हरिचमूश्च जलैर्दधद्भि-
रुच्चापला शकलिकारणतामलीनाम् ॥ 5.101 ॥
पुष्पामोदैस्तरुततिरत्र घ्राणं नानाकान्तैरलिपत नव्यापारैः।
आभात्याराद्विनमितशाका श्रीमन्नानाकान्तैरलिपतनव्यापारैः ॥ 5.102 ॥
अध्यासतेऽमुं कुसुमाग्रलग्रद्विरेफसालं विषहेतयोऽगम्।
का विप्रयुक्तात्र मधुश्रियाराद्विरेफसालं विषहेत योगम् ॥ 5.103 ॥
वपल्लीभिरस्य कुसुमैर्न दधे वसन्त-
मासे वितानतलतासुसमानताभिः।
स्त्रीभिस्तटावनिषु नाथ जहे च नून-
मासेविता नतलतासु समानताभिः ॥ 5.104 ॥
श्रियमिह काननमेत च रूद्धतरणितापयोगतामसमेकाम्।
त्यजति कमलालिमलिततिरुद्धतरणिता पयोगतामसमे काम् ॥ 5.105 ॥
कृतास्पदा न शकुनसंहतिर्गिराविहारवान्वितरतिरङ्कुरेषवः।
स्फुरन्त्यमी स्मरणभुवो मनः प्रियं विहारवान्वितरति रङ्कुरेष वः ॥ 5.106 ॥
प्रेम्णालिभिर्द्रुमलतागहनेभ्य इत्थ-
मध्यासितेन नवसंतमसावनिभ्यः।
पुष्पोत्करेण पतता दधदाचकास्ति
मध्यासितेन न वसन्तमसावनिभ्यः ॥ 5.107 ॥(इति वसन्तः)
विपिनेषु पीतकमलोदरस्रवन्मधुराशिरीषदलसं गतोषिता।
भ्रमरावली कमिह नाम नाक्षिपेन्मधुरा शिरीषदलसङ्गतोषिता ॥ 5.108 ॥
दिशति नात्र रतिं प्रति मल्लिका विशदमानसदा मदनाय कम्।
रतिगृहं च विबाति सचन्दनं विशदमानसदामदनायकम् ॥ 5.109 ॥
इह रमणी कलकोमलरासा मदनातुरा तु नादमसारा।
का रतिविब्रममविरति याता रसहावभावहासरता या ॥ 5.110 ॥(प्रतिलोमानुलोमपादः)
मन्दारकाननतलेष्विह का न मान-
हीना मता रमणयोगमिता महेलाः।
लक्ष्म्या तटाश्च कमिवातिशयं न दार्ढ्यं
हीनाम तारमणयो गमिता महेलाः ॥ 5.111 ॥
तरङ्गिणी ग्रावशतेषु यान्ती रसज्जला भङ्गमिता चकास्ति।
वयस्ययेष्टं भवने नतब्रूरसज्जलाभं गमिता च कास्ति ॥ 5.112 ॥
स्थितमेत्तय नितम्बभूवः सस्नेहं सैरिभैर्नवारसदृश्ये।
इह सरसीषु न मुदितैः सस्ने हंसेरिभैर्न वा रसदृश्ये ॥ 5.113 ॥(इति ग्रीष्मः)
स्तबकान्न जहात्यलिर्विनिद्रानभितस्तानसमांस लाङ्गलीनाम्।
तडितं दधदम्बुदोऽप्यमुष्मिन्नभितस्तान स मांसलाङ्गलीनाम् ॥ 5.114 ॥
रत्नांशुभिः सकलयन्वपुषोऽर्धमिन्दो-
रभ्यर्णवर्ति समयू रतया श्रितोऽयम्।
नाकाङ्गनाजनतया दधदाहितश्री-
रब्यर्मवर्ति समयूरतयाश्रितोयम् ॥ 5.115 ॥
अमुना हृतमनसाद्रुतमधिकैलासं च येन सुरसहितेन।
देवेन न कृतमास्पदमधिकैलासंचयेन सुरसहितेन ॥ 5.116 ॥
मन्मथं विरहिभूरुहां दिशन्प्रावृषीष्टमकरं दवानलम्।
लाङ्गलीनवरजोम्बरं भवान्प्रावृषीष्ट मकरन्दवानलम् ॥ 5.117 ॥
इति दधदिव नालिमाह घोषैरसकृदनुत्तरतां विशह्कटं कः।
स्त्रियमिह सुखयन्घनोऽवियोगे रसकृदनुत्तरतां विशङ्कटङ्कः ॥ 5.118 ॥(युगलकम्)
बिभ्रत्तटीः श्रियमसावुपयाति पुष्पै-
रामोदशालिभिरपां सुलभावताराः।
रत्नत्विषश्च ककुभः स्थगयन्सरग-
रामो दशालिभिरपांसुलभावताराः ॥ 5.119 ॥
मुभ्रूरत्र प्रियतमलाभे नूनं स्थानादानानघघननादानास्था।
अस्योर्वी मे जनयति तोषं नानासाध्यापाता पिककपितापाध्यासा ॥ 5.120 ॥(प्रतिलोमानुलोमपादः)
वियोगतोऽनुक्रियतेऽश्रुशीकरैरनुत्तमानस्तनितम्बभारया।
स्त्रियात्र सा मेघघटा नता जलैरनुत्तमान स्तनितं बभार या ॥ 5.121 ॥
संदर्शनं व्यथयतीह जनं पविमुक्त-
मब्रान्तरागमलिपन्नगमण्डलीनाम्।
रत्नांशुसंहतिरमुं दधतं च मूर्ति-
मभारान्त्राग मलिपन्नगमण्डलीनाम् ॥ 5.122 ॥
प्रावृषा क इह बृंहितमूर्मिमतीपयः
संततार सिकतोपलसज्जनतापदम्।
केतकीविपिनमुत्कलिकास्तनुतेतरां
संतता रसिकतोपलसज्जनतापदम् ॥ 5.123 ॥
क्ष्माभृदसौ बिभर्ति कटकश्रियममृतमुचा
हेममसारसारवसुधामधिकमलिनिताम्।
श्रोत्रपथं नयन्ति मधुरां मुदमिह दधतो
हेऽमम सारसा रवसुधामधिकमलिनि ताम् ॥ 5.124 ॥(इति प्रावृट्)
वीक्ष्य प्रसीदति वधूर्दयितेऽपि माना-
न्नानाविला सरसि कौमुदमत्र सन्तौ।
कान्तौ कुलं कलयतश्च रतावमन्दं
नानाविलासरसिकौ मुदमत्रसन्तौ ॥ 5.125 ॥
यदपि रहयितुं मयूरकेकारवशमनी यतते न बन्धुरागम्।
शरदिह कुसुमैर्वनं नतभ्रूरवशमनीयत तेन बन्धुरागम् ॥ 5.126 ॥
स्तितमलियोषिता स्मररसं जनस्य विदधानया मधुलिहा
नवततमालतीरसिकतामदभ्रमितया सहारवपुषा।
सशिशिरमारुतात्र च सरिन्निषेव्यत इयं रतौ न सुदृशा
न बत तमालतीरसिकतामदभ्रमितया सहारवपुषा ॥ 5.127 ॥
ख्यातीरमुष्य सरसी तटवर्त्म पीन-
मीना तितंसति सतीरवनावृतस्य।
न्यूनं न कश्चिदधिको मुनिकानने च
मीनाति तं सति स तीरवनावृतस्य ॥ 5.128 ॥ (इति शरत्)
क इह न रतिकेलिसंपदामरमतनुतरागमोहितः।
स्तितिमधिकमवाप्य हैमनीमरमत नुत रागमोहितः ॥ 5.129 ॥
श्रियमेति काननतलं विदलत्कलिकान्तरागमलवङ्गतया।
इह सेवितं मृगदृशा विदलत्कलि कान्तरागमलवं गतया ॥ 5.130 ॥
लक्ष्मीः सुरेश कलधौतगिरेस्तटानि
सानुनितानि हसति स्म रसादवद्बिः।
प्रेमामरैर्युवतिषु श्रितधाम्नि वीक्ष्य
सानुनितानिह सति स्मरसादवद्भिः ॥ 5.131 ॥(इइति हेमन्तः)
घ्राणालेपं विदधति कुन्दस्यास्मिन्नामोदास्ते धवलयतः कान्तारम्।
बद्धौत्सुक्या नवसुरते हृष्टा का नामोदास्ते धवलयतः कान्तारम् ॥ 5.132 ॥
कुन्दं दघत्यवनिरस्य हरत्यपीश
रुद्दामरा शिशिरसारमणीयसीतः।
बिभ्रद्विभाति मणिमण्डलमेष चाद्रि-
रुद्धामराशि शिरसा रमणीयसीतः ॥ 5.133 ॥(समुद्रकम्)
अविस्रसारे समदक्षयज्ञ नाशिञ्जपादानघनाकरामे।
अविस्रसारेऽसमदक्षयज्ञनाशिञ्जपादानघनाकरा मे ॥ 5.134 ॥
शिशिररससरा राविविर्मर्मराराददममततरा राजिजित्सत्सररा।
ससववसुसुराराममद्वध्वरारा ततललददराराससत्वत्वरारा ॥ 5.135 ॥ (आवलिः)
आत्मानमीश दधती वनभूः प्रियत्व-
मायाति कुन्दमकरन्दवती व्रतापे।
प्राप्तं च सौष्ठवमिहात्मवतां विधूत-
मायातिकुं दमकरं दवतीव्रतापे ॥ 5.136 ॥ (तिलकम्)
राजति तटीयमभिहतदानवरासातिपातिसारावनदा।
गजता च यूथमविरतदानवरा सातिपाति सारा वनदा ॥ 5.137 ॥(प्रतिलोमानुलोमपादः पादयमकं च)
न तरुततिरवत्यसावमुष्मिन्न वशफलाघवतः सदाननागो।
भ्रमति च पुलिनेषु हंसपाली नवशफलाघवतः सदाननागे ॥ 5.138 ॥
भर्तुर्विसारि शिखरं त्रिदिवान्न किंचि-
दूना परागकपिशाखिलतापि कालीः।
चूतद्रुमैर्मदयति क्षितिरस्य भङ्ग-
दूनापरागकपिशाकिलता पिकालीः ॥ 5.139 ॥
वारिशालिनासवातिवासनालिशारिवा
सारभाविनीलिमाब्रमालिनी विभा रसा।
सालतालकाननामुना न का लतालसा
राजिता श्रिया परा दुरापया श्रिताजिरा ॥ 5.140 ॥(प्रतिलोमानुलोमचतुष्पादः)
सवपुषमुत्करहाटकमक्षततिनिशासनागतालीसवनम्।
समदनवशकलितातनुरसधवनागोत्करं जराजितसत्त्वम् ॥ 5.141 ॥
सवपुषमुत्करहाटकमक्षततिनिशसनागतालीसवनम्।
समदनवशकलितातनुरसधवनागोत्करञ्जराजितसत्त्वम् ॥ 5.142 ॥ (महायमकम्)
आत्मानमीश स बिभर्ति विवर्धमान-
दामोदराजितमयन्त्रितयानवद्यम्।
गीर्वाणचक्रमधितिष्ठति सादरं स-
दामोदरादितमयं त्रितयानवद्यम् ॥ 5.143 ॥ (विशेषकम्)
मधुकरशबलानां दूरमुत्कण्ठमाना
स्तबकितबकुलेभ्यः साधुना काननानाम्।
स्ष्टहयति हतचेता विप्रयोगे नतभ्रू-
स्तव कितव कुलेभ्यः साधु नाकाननानाम् ॥ 5.144 ॥
इति वदति सखी नतैत्य कान्तं सकलभराशिरसाक्षतालसालम्।
गिरिममुमवलोक्य पीवरोर्वाः सकलभरा शिरसा क्षतालसालम् ॥ 5.145 ॥ (युगलकम्)
एते निमज्ज्य सलिले करिणः कराग्रा-
नुत्तम्भयन्ति रयतो हर इस्तवेष्टान्।
वीक्ष्य प्रसीदति मनोऽत्र समाधिभाजो-
ऽनुत्तं भयं तिरयतोऽहरहस्तवेष्टान् ॥ 5.146 ॥
तटभुवि सकृदियमपजरजनता
विहरति मदविशदनवरतरसा।
किमिव हि न हृदयमतिरुचिरमणा-
विह रतिमदविशदनवर तरसा ॥ 5.147 ॥
स्थितिमिह बिभ्रतीश जनता दुरन्तदुरितापहारिणि गिरौ
विगतजरामयातनुरसातिसारनुत यामराजत गवि।
त्रिदिवतलेऽपि सा न सुलभा मनोरथशतैश्चिरादधिगते
रिपुवनदाहिसाहस मयात्रियाम सहासाहिदानवपुरि ॥ 5.148 ॥ (प्रतिलोमानुलोमपादः)
लक्ष्मीरिहामरगिरेः कलधौतहर्म्यैः
सा धूनितानवर तारमणीष्टकान्तैः।
लीला रहस्यधिगता च गुणानखेदैः
साधूनिता नवरता रमणीष्टकान्तैः ॥ 5.149 ॥
सरति मलयवात्या मानदैर्थं वधूनां
विधुतपनसमालं सादरं सज्जयन्ती।
इह मुनिजनतासौ तेजसा भाति मुक्तिं
विधुतपनसमालं सादरं सज्जयन्ती ॥ 5.150 ॥
स्वेदाम्भःशीकरर्द्रं स्फुरदमलतरच्चायरत्नोपलेऽस्मि-
न्नुस्रैः कर्ता ललाटं रविरलकलतालाञ्छितं किंनरीणाम्।
गीतं चासां विधत्ते विरहितवनितामण्डलीदेहयष्टिं
चेतोहारीदमुच्चैरविरलकलतालाञ्छितं किं न रीणाम् ॥ 5.151 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये वर्वतर्तुवर्णनो नाम पञ्चमः सर्गः।