.
हरविजयम्।
चतुर्थः सर्गः।
निर्याय खेचरपुरंध्रिरतोपभोग-
योग्यान्तरोपवनकल्पलतानिकुञ्जम्।
रोचिष्णुरत्ननिकुरम्बनितम्बभाग-
विश्रान्तभास्कररथं स तमालुलोके ॥ 4.1 ॥
अभ्याहताहिमकरः स्फुरदच्छतारा
प्रस्तारतारकिरणोत्करदन्तुरश्रीः।
मूलेन यस्य मथितः सकलोऽम्बुराशि-
रत्युन्नतेन शिखरेण च नाकमार्गः ॥ 4.2 ॥
आलोडनाय सुरदैत्यगणेन सिन्धो-
रारोपिते सपदि यत्र कवाटप्टष्ठम्।
सस्मार कूर्मपतिरादिवराहपाद-
पीठीकृतस्तदतिभूरिभरस्य नूनम्॥ 4.3 ॥
यस्यातिवेलपरिवर्तविवर्तमान-
तोयेन्धनानलशिखावलयेन दध्रे।
दुग्धाम्बुधौ निरवलम्बननाकमार्ग-
विस्रस्तसूर्यपरिवेषविडम्बकत्वम् ॥ 4.4 ॥
बद्धास्पदा गलितनिर्झरघर्मवारि-
विर्घौतगण्डवदना कमठस्य प्टष्ठे।
यस्याकुलं सपुरुषायितविभ्रमेव
मूर्तिर्नितम्बवलेलनेन जहार चेतः ॥ 4.5 ॥
यस्याम्बुराशिपयसा सममेव मन्थ-
पीडामिवाभिपतनेन विशङ्क्य गाढम्।
उद्गीवकूर्मविषमश्वसितव्युदस्त-
वीचीनि निर्झरजलानि ययुः प्रतीपम् ॥ 4.6 ॥
आकृष्टिवेगविगलद्धुजगेन्द्रभोग-
निर्मोकपट्टपरिवेष्टतयाम्बुराशेः।
मन्थव्यथाव्युपशमार्थमिवाशु यस्य
मन्दकिनी चिरमवेष्टत पादमूले ॥ 4.7 ॥
कल्माषयन्सपदि यः पृथुमध्यभाग-
माराददृश्यत भश्चरचक्रवालैः।
लीलाविवृत्तिपरिमण्डलदुग्धसिन्धु-
शीतांशुबिम्बपरिणाहमृगावचूलः ॥ 4.8 ॥
आभोगिनेत्रपरिवर्तनविभ्रमेण
मूर्त्या नितम्बवननाकुलतां वहन्त्या।
यस्याशनैरविरलोत्कलिकाकलाप-
पर्याकुलं हृदयमम्बुनिधिर्ममन्थ ॥ 4.9 ॥
यस्योर्मिभिर्मथनकालविजृम्भिताम्भाः
क्षीरोदसिन्धुरपहस्तितकौस्तुभानि
न्यासीचकार सुरदैत्यहठापहार-
भीत्येव रत्नपटलानि गुहागृहेषु ॥ 4.10 ॥
रोलम्बसंकुलकरालदलारविन्द्र-
संबद्धहंसवलयामलसिन्धुतोयम्।
सिद्धावरुद्धमणिकंदरगाढरास-
संरम्भघोरहरिणारिघनाभिरामम् ॥ 4.11 ॥ (भाषासमावेशः)
कल्लोलभङ्गघटितप्रतिबिम्बचक्र-
मैक्षिष्ट यं पृथुनि कूर्मकवाटप्टष्ठे।
तुङ्गं विभज्य बहुधेव वपुर्भ्रमन्त-
मालोडनाय जलधेः सुरदैत्यलोकः ॥ 4.12 ॥ (युगलकम्)
यस्मिन्भ्रमत्यनुविवर्तनविप्लिवार्त-
कूर्माधिराजकरजोद्धृतरत्नखण्डैः।
विच्छायता भुजगराजफणैररुग्ण-
पातालतालुतिमिरैस्तरसाधिजग्मे ॥ 4.13 ॥
यस्योन्मिषत्प्रलयमेघघटासहस्र-
विद्युत्करालरसनेन तटीजलार्द्राः।
व्यात्ताननेन फणिनोदधिमन्थगाढ-
खेदादपायिषत कंदररन्ध्रवाताः ॥ 4.14 ॥
यस्याचकासति तटीभुवि नीलगण्ड-
शैला निजच्छविविलुप्तरविप्रकाशाः।
क्षीराम्बुधेर्मथनसंभृतकालकूट-
पिण्डा इवोद्धततरङ्गशतव्युदस्ताः ॥ 4.15 ॥
श्च्योतत्सु कंदरदरीनिकरान्प्रविश्य
दुग्धार्णवोत्थितसुधारससीकरेषु।
अम्बोभृतः प्रकटपत्त्रपुटालवाल-
लीलां दधुः कृतपदा यदुपत्यकासु ॥ 4.16 ॥
कुर्वन्ति यस्य कटकेष्वमलेन्द्रनील-
रत्नस्थलान्युदधिमन्थविघूर्णित्स्य।
व्यावृत्तिलोलशिखराग्रविपाट्यमान-
तारापथस्खलितखण्डशतानुकारम् ॥ 4.17 ॥
दंष्ट्रागृहीतगुरुसंभ्रमभूतधात्री-
पर्यस्तकातरतरेक्षणपातपीतम्।
यच्छृङ्गनिर्झरजलस्रुतिभिर्दुधाव
पातालपङ्ककलुषं वपुरादिकोलः ॥ 4.18 ॥
स्थूलेन्द्रनीलकटकप्रतिबिम्ब्यमान-
माभाति यस्य शशलक्ष्मनिरुद्धमध्यम्।
क्षीरोदकूर्मपतिप्टष्ठमिवादिकोल-
विन्यस्तपादशबलीकृतमिन्दुबिम्बम् ॥ 4.19 ॥
यस्यान्धकारनिकुरम्बभिदो नितम्ब-
सीम्नि प्रभाप्रकरशारितदिग्विभागान्।
दृष्टा मणीन्ग्रहविमुग्धमना निशासु
संचार एव दृशमाशु करोति बाह्यः ॥ 4.20 ॥
यो बीजयन्निव निषण्णरथं तटेषु
शून्याम्बरब्रमणखिन्नमशीतरश्मिम्।
आभाति दूरगतकंदररन्ध्रवात्-
पातभ्रमीवलितवारिदतालवृन्तैः ॥ 4.21 ॥
प्रेङ्खत्करालकुरुविन्दशिलानितम्ब-
बद्धास्पदं क्षणमशीतमरीचिबिम्बम्।
यस्य त्विषानुमिमते सदृशत्वमाप्त-
मूष्मायमाणमधिसानु कृतप्रतिष्ठाः ॥ 4.22 ॥
स्पष्टभिलक्ष्यरमणीयकुशप्रसूति-
रव्याहता मुनिनिकेतकृतास्पदश्रीः।
सानुस्थितिर्जनकराजसुतेव भास्व-
दङ्कोल्लपल्लवतया श्रियमेति यस्य ॥ 4.23 ॥
नक्तं विलग्नधवलग्रहचक्रवाल-
दुंर्लक्ष्यसौरभभरानुमितात्मरूपैः।
अभ्यानताः कुसुमराशिभिरुच्छ्वसद्भि-
राभान्ति रस्य कटके कलधौतवल्ल्यः ॥ 4.24 ॥
संक्रीडतो विकटरत्नशिलासु चक्र-
चीत्कारताररवपूरितदिक्पुरस्तात्।
यस्याधिसानु रविकूबरिणो भवन्ति
मोघीकृतस्तव गिरः खलु वालखिल्याः ॥ 4.25 ॥
आसन्नभानुमसितोपलजालनद्ध-
सोपानतीरनलिनीनतनागयूथम्।
नाकाधिरूढनवनीलतमालवल्ली-
बद्धान्धकारगहनातनुसानुकुञ्चम् ॥ 4.26 ॥(पिशाचभाषासमावेशः)
आबद्धवासुकिफणागणफूत्कृताग्नि-
तापस्फुटद्विकटकोटिशिखश्मकूटम्।
कोदण्डमिन्दुमुकुटः स्वभरक्षमं य-
मादाय दानवपुरीः किल निर्बिभेग ॥ 4.27 ॥ (युगलकम्)
भेत्तुं पुरासुरपुरीःक परमेश्वरेण
बाणासनीकृततनुः प्रतनोत्यभिख्याम्।
योऽद्याप्यमुक्तभुजगाधिपदीर्घभोग-
ज्याबन्धबन्धूर इव स्रुतनिर्झराम्भाः ॥ 4.28 ॥
चापात्मनः शशिकलाभरणार्धभाग-
लग्नाद्रिजाकरसरोजनिविष्टमुष्टेः।
यस्योरगाधिपगुणेन घनाभ्यघानि
तत्कम्बुपङ्क्तिरवनद्धतलायमाना ॥ 4.29 ॥
भर्तुः स्थितार्धवपुषि स्फुटगाढबन्ध-
ताम्यत्फणीन्द्रफणफूत्कृतकातरापि।
मुष्टिग्रहं गिरिसुता श्लथयन्न यस्य
भावानुरक्तहृदयः कुरुते न किं वा ॥ 4.30 ॥
उत्तापितः प्रललयकालविजृम्भमाण-
संरम्भकर्कशकृशानुशिखासहस्रैः।
निर्वापयन्निव नितम्बभुवो विभाति
योऽद्यापि कंदरमुखस्खलितैर्मरुद्भिः ॥ 4.31 ॥
विस्पष्टदन्तरूचयः पृथुगण्डशैल-
शोभा नितान्तविकटोन्नतवंशकुञ्जाः।
यस्याभिरामगुणतां दधति प्रदेशाः
सज्जटवीरणहिता गजयूथपाश्च ॥ 4.32 ॥
यस्योत्पतन्प्रतिदिनं सविशेषमेव
नालं विलङ्घयितुमुन्नतिशालि शृङ्गम्।
आयासितारुणकरोर्घ्वविकृष्यमाण-
प्रेङ्खत्खलीनमुखवाजिरथो विवस्वान् ॥ 4.33 ॥
यस्याचकासति निरर्गलनीरभार-
भूरिभ्रमद्भ्रमरमेचेकमेघचक्राः।
अद्यापि लोकपरिवर्तदशाकृशानु-
धूमाकुला इव गुहागृहरन्ध्रभागाः ॥ 4.34 ॥
लीलाविलोलकलकण्ठविहंगकेलि-
कक्कोलकन्दकदलीलवलीलवङ्ग-
मालाललामजलमञ्जुलकूलकच्छे ॥ 4.35 ॥ (भाषाषट्कसमावेशः)
यस्मिन्सलीलमसितोन्नतगण्डशैल-
नागः करोति विकरालकरावमर्षात्।
रक्तातपाभिनवपल्लवभङ्गमर्क-
विम्बालवालवलयस्य दिनद्रुमस्य ॥ 4.36 ॥ (युग्मम्)
योऽभ्रंकषं शिखरमुत्कटपद्मराग-
रत्नप्रभापटलपाटलितं बिर्भीत।
सौदामिनीकपिलकेसरमालभारि-
नीलाभ्रपत्रगगनोत्पलनालदण्डम् ॥ 4.37 ॥
यस्य प्रभाविपुलहारहितैः स्तनाग्रैः
श्लाघ्या त्रिभिर्वलिमुखैः कृतमध्यशोभाः।
लक्ष्मीं पुरंध्रिजनता मणिमण्डितैति
साधुस्थितिश्च मुनिभिः कटकान्तरेषु ॥ 4.38 ॥
पाश्चात्यभागमवलोकयतां शशाङ्क-
बिम्बस्य लक्ष्ममलशून्यतया परीतम्।
उत्सङ्गसङ्गिमृगतागमिकत्वमेति
तुङ्गेषु यस्य शिशरेषु कृतास्पदानाम् ॥ 4.39 ॥
आक्षिप्तचेतसमनुत्तरसानुतर्ष-
सच्चाषकान्तरचितस्थितिकेसरौघैः।
उत्तंसनीलनलिनैरिव यो बिभर्ति
लक्ष्मीं नितम्बवलयैः सपलाशचक्रैः ॥ 4.40 ॥
यस्यौपान्तगतं निशासु नयतः श्यामाश्मरश्मिच्छटा-
संतानैः शिशिरत्विषः पुटकिनीपत्त्रश्रियं मण्डलम्।
चक्रे रत्नतटेषु काननभुवश्चूडाशशाङ्कप्रभा-
संकोचप्रविलुप्तपङ्कजवनच्छाया भ्रमन्धूर्जटिः ॥ 4.41 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये मन्दरवर्णनो नाम चतुर्थः सर्गः।