.
हरविजयम्।
तृतीयः सर्गः।
अथ स मन्थगिरौ सकलर्तुभिर्निजनिजप्रसवोज्ज्वलया श्रिया।
सममसेवि कदाचिदुपाश्रितो गिरिजयारिजयानघदोर्द्रमः ॥ 3.1 ॥
मधुपराजिपराजितमानिनीजनमनः सुमनः सुरभिश्रियम्।
अभृत वारितवारिजविप्लवां स्फुटितताम्रतताम्रवणं जगत् ॥ 3.2 ॥
द्रुतमपास्य यमेन विषेवितामभिनवोत्कतयेव दिवाकरः।
धिशमशिश्रियदैडविडाश्रयामसुपतां सुमतां विदधत्स्थइतिम् ॥ 3.3 ॥
स्थितिमधुर्मधुरामवम्बितस्तबकदर्पणपल्लवलपाणयः।
सतिलकोज्ज्वलपत्त्रलता गिरेरवनयो वनयोगकृतश्रियः ॥ 3.4 ॥
कृतकुशेशयिनीरुचयो मधुव्यतिकरादभिमन्थरगामिनः।
मधुलिहो दिवसाश्च वधूर्व्यधुः परवतीरवतीर्णमनोभवाः ॥ 3.5 ॥
ध्रवमनेकरसाभ्यवहारतः कृतरसायनसंग्रहसुस्तिता।
मधुलिहामसुखायत संहतिर्वृतिमतीतिमतीत्य कृतस्थितिः ॥ 3.6 ॥
मधुरया परपुष्टगिरा शनैः सवयसेव समेत्य ममधुश्रिया।
मृगदृशो घटिताः सह वल्लभैर्मुदमधुर्दमधुर्यमनोहृतः ॥ 3.7 ॥
सुभितां दधति प्रमदान्वितो नवमधूपहितत्विषि चम्पके।
सुरतहर्म्य इवारचितस्थइतिर्नवरताम्बरतां मधुपोऽन्वभूत् ॥ 3.8 ॥
कुसुमिता गिरिकाननभूमयः किसलयाधरखण्डनलालसैः।
परभृतैः श्रदधायिषत प्रियाः सुमदना मदनादितषट्पदाः ॥ 3.9 ॥
मधुरजृम्भणविभ्रममाधवीमधुरसासवपानमदोत्कटाः।
मधुलिहो व्यथयन्तु मलीमसाः स्मारसहा रसहासवतीः स्त्रियः ॥ 3.10 ॥
दधुदुदञ्चितपक्ष्मकरालतां कुरबकस्तबको मधुबोधितः।
तदसमञ्जसमेष दुनोति यच्छुचितया चितयापि वियोगिनीः ॥ 3.11 ॥
तदभिधाय तमानय सत्वरं मधुरवादिनि तत्तदिति स्त्रियः।
रसनियुक्तससवीवचनागतप्रियतमायतमानमुचोऽभवन् ॥ 3.12 ॥ (तिलकम्)
जरठपङ्कजबीजसमत्विषो मधु निपातुमभिप्रजगल्भिरे।
मधुलिहो विरहे कृतदिङ्भुखव्यवधयो वधयोगकृतः स्त्रियः ॥ 3.13 ॥
सुरभिमासि पदाचिदनुज्झिता जडतयापि नवालिशतान्विताः।
शमवतामपि तामरसाकराः स्थिरतरा रतरागकृतोऽभवन् ॥ 3.14 ॥
सरसमन्थरतामरसादरभ्रमरसज्जलया नलिनी मधौ।
जलधिदेवतया सदृशीं श्रियं स्फुटतरागतरागरुचिर्दधौ ॥ 3.15 ॥
चरमपादविधूतरजःकणप्रकरधूसरपक्षतिसंपुटः।
न्यविशतानुगिरं कमलाकरान्रसमनाः समनादमलिव्रजः ॥ 3.16 ॥
मृगदृशो मलयानिलनिर्धुते सपदि मानरजस्यपि सागसः।
न दयितानभिचुक्रुधुरूर्जितस्मरतया रतयांनसमुत्सुकाः ॥ 3.17 ॥
तरलपल्लवताम्रकरा बभौ समधुमुल्लसितभ्रमरोत्पलम्।
कुसुमकोषमिवार्पयितुं लता विवलिता बलितापहृतस्तरोः ॥ 3.18 ॥
भ्रमरपङ्क्तिनिभेन मनस्विनीभ्रुकुटिबन्ध इवागलितोऽभवत्।
कमलभूमिषु मानहतिस्फुटप्रसरकेसरकेतुशते मधौ ॥ 3.19 ॥
शिशिरभासि चिरेण दिनश्रिया कृतसमागमविघ्न उपागते।
कलुषतापि मुखे मधुसंगमान्न निशयानिशयापितमानया ॥ 3.20 ॥
सरभसं शयनीय इवोत्तरच्छदकृतात्विषि पीतमधूत्कटैः।
मधुकरैर्विनिपत्य सजानिभिः सरसिजोरसि जोषमवस्थितम् ॥ 3.21 ॥
निधुवनावसरे कमितुर्वधूरहृत कुट्टमितेन भृशं मनः।
तरललोचननिर्जितविस्फुरत्कुवलया वलयावलिशोभिनी ॥ 3.22 ॥
स्मरसखस्य पदं सुरभेरिव स्तनवती दधती सममीमनत्।
अलकदेशनिवेशपरिस्फुरन्नवयवावयवाभरणश्रियम् ॥ 3.23 ॥
विदधतः पथिकक्षपणं प्रति स्मृतिभुवो निजशक्त्युपबृंहणम्।
दधुरहार्यतटाः सहकारितामनवमा नवमाधवसङ्गिनः ॥ 3.24 ॥
अलिभिरञ्जनबिन्दुमलीमसैः स्मरबलैरिव कङ्कटितैर्वृते।
मरुति सौरभशालिनि नाभवन्सरति के रतिकेलिरसाकुलाः ॥ 3.25 ॥
विकचपत्त्रपुटं सुरभिश्रियः सरसविभ्रमकाञ्चनपङ्कजम्।
व्यधित चम्पकमुन्मदना वधू रसकलासकलालिकुलारवैः ॥ 3.26 ॥
रभसयोपगताः पथिका गृहान्मधुकरञ्जनचूर्णवशीकृताः।
मुमुदिरे परिरम्भसुखोच्छ्वसन्निजवधूजवधूततनुक्लमाः ॥ 3.27 ॥
शिवपुरीमिव शैवलसच्छ्रियं निविशमानमनर्गलमब्जिनीम्
भ्रमरयुग्ममवेक्ष्यं न का प्रियैर्युवतयो बत योगमुपाययुः ॥ 3.28 ॥
मधुकराञ्जनबिन्दुमनोरमप्रकटपत्त्रलताभरणोज्ज्वलाः।
न सुरभावभवन्नतिमुक्तकव्रततयो ततयोगगउणश्रियः ॥ 3.29 ॥
मुखनिलीनशिलीमुखचूचुकं कमलिनीमुकुलाम्बुरुहस्तनम्।
अददरत्कमितेव न रागवान्दिनकरो न करोत्करकोटिभिः ॥ 3.30 ॥
स्मरमतङ्गजदानजलच्छटाविपिनवारिधिविद्रुमविभ्रमे।
भ्रमरसंहतिराविरवीभवत्प्रचपला च पलाशतरौ श्रियम् ॥ 3.31 ॥
अनिमिषाक्षिविलोकितविभ्रमां सुरभिमुन्मनसो नवमालिकाम्।
सुरवधूमिव वीक्ष्य मनोभुवोऽनवशमा वशमाशु मधौ ययुः ॥ 3.32 ॥
सुपरिमृष्टकपोलकलस्फुरन्मणिकरालितकाञ्चनकुण्कडलः।
न खलु भीरुजनोऽन्वभवन्मधौ न समदोऽसमदोलनविभ्रमम् ॥ 3.33 ॥
स्मरमदीदिपदूर्व्वविलोचनं पुररिपोरिव यच्छिखिपिङ्गलम्।
स्फुटदशोकमुदीक्ष्य तदुत्सुका न कमिता कमितारमलं वधूः ॥ 3.34 ॥
विधुतपक्ष्मरजः कपिशभ्रमद्भ्रमरसंतिमब्जमुखश्रियम्।
सचटुलातिलकामिव पद्मिनी घनरसा नरसार्थहृदा दधौ ॥ 3.35 ॥ (इति वसन्तः)
शुचिदिनागतिराप्लुतिशीतलाः सरसचन्दनपङ्कभृतोऽकरोत्।
प्रिसखीव वतंसितमल्लिकाः स्तनवतीर्नवतीव्रतनुक्लमाः ॥ 3.36 ॥
स्पृशति तिग्मरूचौ ककुभः करैर्दयितयेव विजृम्भिततापया।
अतनुमानपरिग्रया स्तितं रुचिरया चिरयायिदिनश्रिया ॥ 3.37 ॥
सरसचन्दनपङ्कविलेपना कृशतनुर्दधती सजलार्द्रताम्।
प्रियतमारहितापि वियेगिनीस्थितिमितातिमिताक्षरसत्कथा ॥ 3.38 ॥
दिनपतेः क्षितिमुत्तपतः पुनर्विकटटङ्कनिकृट्टनघट्टितम्।
गलति धाम किमेतदिति भ्रमं भृतवतीतवती जनता क्लमम् ॥ 3.39 ॥
रुचिरया गिरिकाननमण्डली श्रियमधत्ततरां स्मरदीपिका।
सपदि मल्लिकया रचितस्थितिर्न न घनानघनादविहंगमा ॥ 3.40 ॥
घटितषट्पदपेटकपाटलापटलसंपुटपाटनपाटवम्।
स्फुटयता नवबन्धुरसौरभप्रसरता सरता मरुता दधे ॥ 3.41 ॥
जितमहं सुकुमारतयानया प्रतिचिकीर्षु शिरीषमितीक्षितम्।
अतिरुषेव वियोगवतीं शुचं सरसहासदलं सदलम्भयत् ॥ 3.42 ॥ (इति ग्रीष्मः)
दधति यत्र पयोधरपङ्क्तयो गिरिशकण्ठरुचिं जलमन्थराः।
स कृतपान्थवधूजनवेपथू रसमयः समयः स्म विजृम्भते ॥ 3.43 ॥
अशमयच्चिरसंभृतमम्भसा मनसि मानकलङ्कमपि स्त्रियाः।
अधिधरित्रि पयोधरधोरणी किमु रजो मुरजोर्जितगर्जिता ॥ 3.44 ॥
भुवनसंवननातनुभस्मभिः कुटजकेसरधूलिकणैश्चताः।
सुरभयो मरुतः कृतकामिनीस्मरविकारविकासमवासिषुः ॥ 3.45 ॥
विदधता नवचन्द्रकलाञ्छितामनुकृतस्मरवैरितनुं श्रियम्।
फणिभुजा समये गुरुताण्कडवव्यसनिना सनिनादघने स्थित्म् ॥ 3.46 ॥
प्रकटजातिशरीररुचो चदुर्वनभुवोऽन्तरमार्गगतां श्रियम्।
भरगलन्मकरन्दकणच्छटाकवलनावलनाकुलषट्पदाः ॥ 3.47 ॥
विकटमेकलहेमलतास्फदां रुचिरतामचिरार्चिरचूचुरत्।
सजलमेघगताशु मनस्विनीजनतयानतयासकृदीक्षिता ॥ 3.48 ॥
स्मृतिभुवो निजकार्मुककर्षणक्लमविनिः श्वसितैरिव मारुतैः।
मृगदृशामुपवल्लभमुल्लसत्पुलकतालकताण्कडविकैर्दधे ॥ 3.49 ॥
स्फुरितशक्रशरासनहारिणा कलयता चतुरङ्गबलश्रियम्।
क इव तेऽनुकृतोर्जितभूभृता घनचयेन च ये न वशीकृताः ॥ 3.50 ॥
सहरिगोपकमैक्षत भूतलं व्रजमिवाञ्चितलाङ्गलिकं जनः।
क्षणरुचां समये समदध्वनद्धनवरेऽनवरेणुहृति क्षितेः ॥ 3.51 ॥
नभसि केतकचन्द्रदलोज्ज्वले कुटजपुष्पचयेन विकासिना।
हिमविपाण्डुरुचोडुगणायितं कलयतालयतामतनोः श्रियः ॥ 3.52 ॥
विकिर वारि विलोलय विद्युतो नभसि गर्ज तिरस्कुरु दिक्तटान्।
इति घनो वियुतामकृताचरन्न नवशां नवशान्तिपराङ्भुखीम् ॥ 3.53 ॥
अवसरे मलिनोऽप्युपकारकः क्वचिदितीव रवैंस्तरुणान्भ्रमन्।
स्तनितभीतपुरंध्रिनिगूहनीस्थितिमतोऽतिमतोऽभिदधौ घनः ॥ 3.54 ॥
नवदलद्वयशोभि घनागमश्रिय इवाभरणं श्रवणाश्रयम्।
व्यधित हारि कदम्बमपि स्त्रियः स्मरवशा रवशालिशिलीमुखम् ॥ 3.55 ॥
घनतमस्यबलाः समवर्तिना ददृशिरे विरहग्लपिता न याः ।
जगति ता इव दर्शयितुं तडित्प्रविरलाविरलातनिभाभावत् ॥ 3.56 ॥
स्फुटतरामलकन्दलसच्छ्रियः प्रतिदिशंकमलिन्य इवाबभुः।
मधुकरैर्विकसद्गिरिमल्लिकाशबलिता वलिता वनराजयः ॥ 3.57 ॥
कुटजकन्दलनीपशिलीन्ध्रजां सुरभितां दघदम्भुदमारुतः।
व्यधित रोषरजःप्रसरोज्झिता न न वधूर्नवधूर्गतमन्मथाः ॥ 3.58 ॥
स्मृतिभुवो विरहे नवमालतीमुकुलमुद्रर एव वधूर्व्यधात्।
स्फुटमपश्चिमघातविमूर्छिता मदरसादरसारवषट्पदाः ॥ 3.59 ॥
हरिरदाग्र इवोत्थितकालिके ग्लपितमानतमा नभसि स्थिते।
कमिव नाम न बाहुलतान्तरं प्रियतमायतमानयदीप्सितम् ॥ 3.60 ॥ (इति वर्षाः)
स्फुरितचारुतरापघनश्रिया हृदयनन्दंनशोभनवेषया।
दयितयेव जनः शरदाश्रितो मुदमलं दमलङ्घनमाचरत् ॥ 3.61 ॥
द्रुतगतिप्रवणास्तुरगा इव क्लमभृतो दिवसा धुतकंधराः।
शरदृतोर्दधतीं श्रियमूहिरे कमलकोमलकोरकहस्तताम् ॥ 3.62 ॥
पतति वृष्टिसौ मयि नाधुना दिनकरातपसेवनलालसम्।
इति विकासमगादिव चिन्तयच्चिरमुदारमुदा युतमम्बुजम् ॥ 3.63 ॥
जलदकालनिशापगमे स्फुरत्स्फुटतरामलचन्द्रकराजितैः।
क्वचिदवाप्यत चित्रशिखण्डिभिर्न रुचिरा रुचिराकलुषीकृतैः ॥ 3.64 ॥
गगनमीयिवदाप्लवनक्रियासमभिहारमिवाम्बुमुचां जलैः।
अभृत चन्द्रमसा सममुच्चकैरविकलं विकलङ्कतया श्रियम् ॥ 3.65 ॥
भुवनतापविघातविपर्ययस्थितिविलक्षतयेव विपाण्डवः।
शरदि नूनमयुक्छदकाननैरसमहासमहासिषताम्बुदाः ॥ 3.66 ॥
असलिलाहिमशीतमहाह्रदाः शशभृतो जनतादवथुच्छिदः।
कुमुदखण्डगतं मधुपायिनामदलयन्दलयन्त्रणमंशवः ॥ 3.67 ॥
स्थगयितुं प्रतिकूलविलोकनाः कुसुमिताः ककुभो नु वियोगिनाम्।
कमलधूलिमुदानयताधिकस्तवनतो वनतोऽनिलसंहतिः ॥ 3.68 ॥
रुचिरतन्यत निर्झरिणीतटैः शकुनिपादहतैर्गलिताम्बुभिः।
नखपदाङ्कनिरम्बरसुन्दरीजघनजा घनजालतिरस्कृतौ ॥ 3.69 ॥
कुसुममार्तवमुद्वहदुच्छ्वसन्मधुकरीरचितस्थिति काननम्।
न नवमात्तवतां मधुपायिनामलसता लसतामभवत्क्वचित् ॥ 3.70 ॥
न खलु बाणगणेन शरासनश्रियमृतोर्दधता वितथाख्यता।
प्रियवियुक्तपुरंध्रिमनोभिदा बलवतालवतापकृता दधे ॥ 3.71 ॥
स्तितिरवापि रसक्रिययेव च स्फुटतरागमशोधिततारया।
क्षपितकालिकचन्द्ररुचोल्लसत्कमलयामलया शरदः श्रिया ॥ 3.72 ॥
प्रसृतमन्दसमीरहतिक्वणत्कणिशराशिशरज्जयघोषणाम्।
चिरमिव व्यधितावनिमण्डलं सकलमं कलमन्द्ररवाकुलम् ॥ 3.73 ॥
शरदि हंसगणस्य कुटुम्बिनीरसवितीर्णबिसस्य रिरंसया।
समवगाढुमधौतविनिर्मलं नवसरोऽवसरोऽतिचिरादभूत् ॥ 3.74 ॥
सलिलतोन्मदहंसरवाकुलो भवनमार्ग इवातिमनोहरः।
अभृत निष्कुटजां श्रियमुच्चकैः स समयोऽसमयोगशशिप्रभः ॥ 3.75 ॥
मधुपशावमपाययदुच्चकैरविशदारवमङ्गविवर्तिनम्।
स्तनमिव स्तबकं व्रतातिः स्रवन्निजरसं जरसं व्यतिपेतुषी ॥ 3.76 ॥
सरभसात्मपुरः सरसारसीरसभराप्लुतसारसरासितम्।
सरसकेसरतामसरं सरः सरसतामलिनां रसतां व्यधात् ॥ 3.77 ॥
प्रकटताललयं शुकवारणे कलमगोपवधूनवगीतकम्।
मृगगणस्य मनः श्रुतमाक्षिपत्प्रचुरसस्यरसस्य जिघत्सतः ॥ 3.78 ॥
स्रुतमदो गिरिकाननवर्त्मनि प्रतिकरीति करीरकुलाकुले।
मरुदयुक्छदसौरभसंभृतः क्षुभितताभिततानकृत द्विपान् ॥ 3.79 ॥ (इति शरत्)
हिमऋतौ नलिनी नलिनाननश्रियमुदूढमनोरमकर्णिकाम्।
तुहिनरेणुजरागमविप्लवैर्विमालितामलितापकृतं दधौ ॥ 3.80 ॥
अतनुशीतपरिप्लवभीतितः सहिमारुतवेल्लितया बभौ ।
सपरिरम्भ इवोपवनद्रुमश्चतुरयातुरया लतया कृतः ॥ 3.81 ॥
मरुति वाति तुषारकणाकुले कमितुराहितसीत्कृतविभ्रमा।
अभिमुखं वलति स्म धुतस्फुरत्करतला रतलालसया वधूः ॥ 3.82॥ (इति हेमन्तः)
समय एव गुणोऽप्युपयुज्यते सपरिरम्भरुचिं दयितं स्त्रियाः।
स्तनयुगोष्मभरः शिशिरागमे यदकरोदकरोष्णिमगोपतौ ॥ 3.83 ॥
अविरलं घनसारचयैरिव स्फुटितपुष्पपरागकदम्बकैः।
छुरयति स्म मुखान्यभितो दिशामनवरो नवरोध्रमहीरुहः ॥ 3.84 ॥
स्थगितदिङ्भुखहैमरजः प्लुतं मधुकरः कमलाकरमत्यजत्।
त्यजति कः प्रकृतोपकृतिं जनः सपदि नापदि नाम मलीमसः ॥ 3.85 ॥
अपचितेषु परेषु विषण्णतामुपगतं कुसुमेष्वहमुत्थितम्।
तपसि कुन्दमितीव हसत्क्वणन्मधुकरालिकरालितमभ्यधात् ॥ 3.86 ॥
दयितकण्ठगता अपि विस्फुटन्नवलवङ्गसमीरहताः स्त्रियः।
हिमऋतोरुदकण्ठिषतोदयादरशनै रशनैर्जघनैश्चिताः ॥ 3.87 ॥
प्रियवियुक्तवधूहृदयैः समं शिशिरवायुभिरेत्य विकम्पिताः।
कुसुमिताः फलिनीततयो बभुर्मधुरसाधुरसार्थिमधुव्रताः ॥ 3.88 ॥
अगणितप्रसवान्तरविप्लवव्यतिकरः स्फुटसौरभमाश्रितः।
अलिरमंस्त महत्तपसः फलं नवलवङ्गलवं गहने गिरेः ॥ 3.89 ॥
धृतगुरूष्मपयोधरमण्डलीनिबिडपीडितवल्लभवक्षसाम्।
क्षणदया सुदृशां सुरतोत्सवक्षमतया मतया रतिरादधे ॥ 3.90 ॥
स्मृतिभुवा हृदि शल्य इवार्पिते दधति दार्ढ्यमतीव च खादिरे।
न रजनीरजनीचरयोषिता जगति का विरहेऽवचखादिरे ॥ 3.91 ॥
मृगदृशामभवत्सह वल्लभैरसमहासरतालवलीलता।
श्रियमधान्मधुना कृतषट्पदीरसमहा सरता लवलीलता ॥ 3.92 ॥
कोपः क एव दयिते तमिहानयेस्त्व-
मालिं गता नवममन्दरसानुनीति।
तेनागतेन ललना गमिता प्रसाद-
मालिङ्गता नवममन्दरसानुनीति ॥ 3.93 ॥
लक्ष्मीं वहनतमृतुभिर्नगमित्युदंशु-
रत्नस्थलीविकसितामलकेसरागम्।
द्रष्टुं प्रभुर्निरगमल्लुलिते सलील-
मीषत्स्पृशन्गिरिसुतामलके सरागम् ॥ 3.94 ॥
इति श्रीबालबृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विध्याधिपत्यपरनाम्नो महाकवे राजानकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये ऋतुवर्णनो नाम तृतीयः सर्गः।