.
हरविजयम्।
द्वितीयः सर्गः।
विश्वास-प्रस्तुतिः - 2.1
क्रीडारसेन स कदाचिदथाधिसानु
लीलावलम्बितहिमाद्रिसुताकराग्रः।
प्रत्यग्रकाञ्चनलताञ्चितसंनिवेश-
माक्रीडमण्डपममण्डदश्मधाम्नः ॥ 2.1 ॥
मूलम् - 2.1
क्रीडारसेन स कदाचिदथाधिसानु
लीलावलम्बितहिमाद्रिसुताकराग्रः।
प्रत्यग्रकाञ्चनलताञ्चितसंनिवेश-
माक्रीडमण्डपममण्डदश्मधाम्नः ॥ 2.1 ॥
विश्वास-प्रस्तुतिः - 2.2
तस्मिन्कृतासनपरिग्रहमद्रिराज-
कन्यानुकूलरसदिग्धकथाविदग्धम्।
अन्योन्यघट्टनविचूर्णितरत्नबन्ध-
हेमाङ्गदास्तममराधिभूवोऽधिजग्मुः ॥ 2.2 ॥
मूलम् - 2.2
तस्मिन्कृतासनपरिग्रहमद्रिराज-
कन्यानुकूलरसदिग्धकथाविदग्धम्।
अन्योन्यघट्टनविचूर्णितरत्नबन्ध-
हेमाङ्गदास्तममराधिभूवोऽधिजग्मुः ॥ 2.2 ॥
विश्वास-प्रस्तुतिः - 2.3
वेल्लज्जटापटलशेवलवल्लरीकां
चूडेन्दुखण्डकुटिलोरुमृणालदण्डाम्।
आकाशसिन्धुमवतंसकपालहंस-
हासाममी दधतमैक्षिष्तैनमारात् ॥ 2.3 ॥
मूलम् - 2.3
वेल्लज्जटापटलशेवलवल्लरीकां
चूडेन्दुखण्डकुटिलोरुमृणालदण्डाम्।
आकाशसिन्धुमवतंसकपालहंस-
हासाममी दधतमैक्षिष्तैनमारात् ॥ 2.3 ॥
विश्वास-प्रस्तुतिः - 2.4
कर्णावतंसघटितोत्फणदन्दशृक-
फूत्कारमारुतपराहतलोचनोत्थैः।
रिक्तीकृतां शिखिकणप्रकरैः सतोष-
गौरीक्षितां सुरनदीं शिरस वहन्तम् ॥ 2.4 ॥
मूलम् - 2.4
कर्णावतंसघटितोत्फणदन्दशृक-
फूत्कारमारुतपराहतलोचनोत्थैः।
रिक्तीकृतां शिखिकणप्रकरैः सतोष-
गौरीक्षितां सुरनदीं शिरस वहन्तम् ॥ 2.4 ॥
विश्वास-प्रस्तुतिः - 2.5
चूडागतेन जडदीघितिना तनुत्व-
मासेदुषा सरभसं प्रविविक्षुणारात्।
भास्वल्ललाटतटनाकतलार्कबिम्ब-
मधअयास्यमानमिव बिभ्रतमूर्ध्वचक्षुः ॥ 2.5 ॥
मूलम् - 2.5
चूडागतेन जडदीघितिना तनुत्व-
मासेदुषा सरभसं प्रविविक्षुणारात्।
भास्वल्ललाटतटनाकतलार्कबिम्ब-
मधअयास्यमानमिव बिभ्रतमूर्ध्वचक्षुः ॥ 2.5 ॥
विश्वास-प्रस्तुतिः - 2.6
शैलात्मजावदनचन्द्रमसः कथं नु
लेखापि मे न सदृशी शशिना सशोकम्।
ऊर्ध्वेक्षणोत्थशिखिनीव निपित्सुनेत्थ-
मध्यासितेन्नतललाटतटोपकण्ठम् ॥ 2.6 ॥
मूलम् - 2.6
शैलात्मजावदनचन्द्रमसः कथं नु
लेखापि मे न सदृशी शशिना सशोकम्।
ऊर्ध्वेक्षणोत्थशिखिनीव निपित्सुनेत्थ-
मध्यासितेन्नतललाटतटोपकण्ठम् ॥ 2.6 ॥
विश्वास-प्रस्तुतिः - 2.7
स्तम्बेरमाजिनगलरत्क्षतजावसेक-
संपादितारुणरुचा क्वचिदुत्तमाङ्गे।
ताम्बूलरागपरिपाटलयेव दन्त-
पङ्क्त्या विराजितकिरीटकपालखण्डम् ॥ 2.7 ॥
मूलम् - 2.7
स्तम्बेरमाजिनगलरत्क्षतजावसेक-
संपादितारुणरुचा क्वचिदुत्तमाङ्गे।
ताम्बूलरागपरिपाटलयेव दन्त-
पङ्क्त्या विराजितकिरीटकपालखण्डम् ॥ 2.7 ॥
विश्वास-प्रस्तुतिः - 2.8
ज्योत्स्नारुचाम्बरमलं विमलं दिशन्त-
मिन्दुं निधाय मुकुटे दयीतायमानम्।
तल्लाञ्छनच्छविमिवातनुकालकूट-
च्छायाछलेन दधतं पृथुकण्ठलग्राम् ॥ 2.8 ॥
मूलम् - 2.8
ज्योत्स्नारुचाम्बरमलं विमलं दिशन्त-
मिन्दुं निधाय मुकुटे दयीतायमानम्।
तल्लाञ्छनच्छविमिवातनुकालकूट-
च्छायाछलेन दधतं पृथुकण्ठलग्राम् ॥ 2.8 ॥
विश्वास-प्रस्तुतिः - 2.9
संहारकालकवलीकृतसप्तलोका-
मम्भोधिभारभरमन्थरमेघनीलाम्।
कण्ठान्तरालपरिवर्तिनिपीतधूप-
वर्तित्विषं विषमयीं दधतं च लेखाम् ॥ 2.9 ॥
मूलम् - 2.9
संहारकालकवलीकृतसप्तलोका-
मम्भोधिभारभरमन्थरमेघनीलाम्।
कण्ठान्तरालपरिवर्तिनिपीतधूप-
वर्तित्विषं विषमयीं दधतं च लेखाम् ॥ 2.9 ॥
विश्वास-प्रस्तुतिः - 2.10
प्रेङ्खत्करालमणिशङ्खसहस्रशार-
हारोरगेन्द्रफरणभङ्गुरवीचिचक्रम्।
कण्ठस्तितोत्कटविशङ्कटकालंकूट-
कूटप्रभाप्रकरकूर्मगृहं वहन्तम् ॥ 2.10 ॥
मूलम् - 2.10
प्रेङ्खत्करालमणिशङ्खसहस्रशार-
हारोरगेन्द्रफरणभङ्गुरवीचिचक्रम्।
कण्ठस्तितोत्कटविशङ्कटकालंकूट-
कूटप्रभाप्रकरकूर्मगृहं वहन्तम् ॥ 2.10 ॥
विश्वास-प्रस्तुतिः - 2.11
भस्माङ्गरागधवलं परपुष्टपिच्छ-
च्छायाङ्गदोरगफणाकुलितांसक्टम्।
और्वाग्निधूममलिनीकृतवीचिभङ्ग-
दुग्धोर्मिमालिसदृशीं श्रियमाश्रयन्तम् ॥ 2.11 ॥
मूलम् - 2.11
भस्माङ्गरागधवलं परपुष्टपिच्छ-
च्छायाङ्गदोरगफणाकुलितांसक्टम्।
और्वाग्निधूममलिनीकृतवीचिभङ्ग-
दुग्धोर्मिमालिसदृशीं श्रियमाश्रयन्तम् ॥ 2.11 ॥
विश्वास-प्रस्तुतिः - 2.12
केयूरपन्नगविनिः श्विसिताहतांस-
कूटोत्थितेन नवधूलनभसर्मनोच्चैः।
सावर्तचक्रमुपरि भ्रमतेन्दुबिम्ब-
संवादितामुपगतेन विराजमानम् ॥ 2.12 ॥
मूलम् - 2.12
केयूरपन्नगविनिः श्विसिताहतांस-
कूटोत्थितेन नवधूलनभसर्मनोच्चैः।
सावर्तचक्रमुपरि भ्रमतेन्दुबिम्ब-
संवादितामुपगतेन विराजमानम् ॥ 2.12 ॥
विश्वास-प्रस्तुतिः - 2.13
गम्भीरकण्ठकुहरास्पदकालकूट-
निर्यत्प्रभाधिकमलीमसभोगिहारम्।
वक्षःस्थलं तुहिनशैलशिलाविशाल-
मालम्बिनीलनलिनस्रगिवोद्वहन्तम् ॥ 2.13 ॥
मूलम् - 2.13
गम्भीरकण्ठकुहरास्पदकालकूट-
निर्यत्प्रभाधिकमलीमसभोगिहारम्।
वक्षःस्थलं तुहिनशैलशिलाविशाल-
मालम्बिनीलनलिनस्रगिवोद्वहन्तम् ॥ 2.13 ॥
विश्वास-प्रस्तुतिः - 2.14
अङ्काश्रयां रुचिचिरकाञ्चनभङ्गपिङ्ग-
च्छायाभिरामवपुषं हिमशैलकन्याम्।
कुर्वन्तमञ्जनमलीमसकालकूट-
कण्ठप्रभाभिरभितः पुनरेव कालीम् ॥ 2.14 ॥
मूलम् - 2.14
अङ्काश्रयां रुचिचिरकाञ्चनभङ्गपिङ्ग-
च्छायाभिरामवपुषं हिमशैलकन्याम्।
कुर्वन्तमञ्जनमलीमसकालकूट-
कण्ठप्रभाभिरभितः पुनरेव कालीम् ॥ 2.14 ॥
विश्वास-प्रस्तुतिः - 2.15
संवीज्यमानमसकृत्ककुदोपधान-
बद्धास्पदं द्विगुणितोन्नबाहुदण्डम्।
लाङ्गूलचामरकरालशिखामरुद्भि-
रुद्भिन्नभक्तिमनसेव ककुद्मतारात् ॥ 2.15 ॥
मूलम् - 2.15
संवीज्यमानमसकृत्ककुदोपधान-
बद्धास्पदं द्विगुणितोन्नबाहुदण्डम्।
लाङ्गूलचामरकरालशिखामरुद्भि-
रुद्भिन्नभक्तिमनसेव ककुद्मतारात् ॥ 2.15 ॥
विश्वास-प्रस्तुतिः - 2.16
सेवागतामरगणाधिपपारिजात-
कर्मवतंससुरभीकृतमङ्घ्रियुग्मम्।
गनधानुबन्धिमधुपप्रतिबिम्बलक्ष्म-
शारोदरैर्नखशशिप्रकरैर्दधानम् ॥ 2.16 ॥
मूलम् - 2.16
सेवागतामरगणाधिपपारिजात-
कर्मवतंससुरभीकृतमङ्घ्रियुग्मम्।
गनधानुबन्धिमधुपप्रतिबिम्बलक्ष्म-
शारोदरैर्नखशशिप्रकरैर्दधानम् ॥ 2.16 ॥
विश्वास-प्रस्तुतिः - 2.17 ॥ (कुलकम्)
दन्तप्रभादलितकण्ठविषान्धकार-
च्छायस्य संनिधिजुषः करिवक्त्रमूर्तेः।
ऊर्ध्वेक्षणानलरुचो घनचीनपिष्ट-
धूलिच्छटा इव मुखे विनिवेशयन्तम् ॥ 2.17 ॥ (कुलकम्)
मूलम् - 2.17 ॥ (कुलकम्)
दन्तप्रभादलितकण्ठविषान्धकार-
च्छायस्य संनिधिजुषः करिवक्त्रमूर्तेः।
ऊर्ध्वेक्षणानलरुचो घनचीनपिष्ट-
धूलिच्छटा इव मुखे विनिवेशयन्तम् ॥ 2.17 ॥ (कुलकम्)
विश्वास-प्रस्तुतिः - 2.18
तस्मै प्रणम्य मणिमौलिविटह्ककोटि-
टङ्काहतिक्वणितकाञ्चनपादपीठम्
शैलादिना नतशिरःसु निवेदितेषु
तेषूचितासनपरिग्रहनिर्वृतेषु ॥ 2.18 ॥
मूलम् - 2.18
तस्मै प्रणम्य मणिमौलिविटह्ककोटि-
टङ्काहतिक्वणितकाञ्चनपादपीठम्
शैलादिना नतशिरःसु निवेदितेषु
तेषूचितासनपरिग्रहनिर्वृतेषु ॥ 2.18 ॥
विश्वास-प्रस्तुतिः - 2.19 ॥ (युगलकम्)
आजघ्रिरे स्वरविशेषकृतास्थमार्ग-
चित्रप्रचारयतिपाणिलयाभिरामाः।
विस्पष्टवाद्यविधयः करणानुबन्द-
भाजः क्रमेण मुरजाः स्फुटमार्जनाङ्काः ॥ 2.19 ॥ (युगलकम्)
मूलम् - 2.19 ॥ (युगलकम्)
आजघ्रिरे स्वरविशेषकृतास्थमार्ग-
चित्रप्रचारयतिपाणिलयाभिरामाः।
विस्पष्टवाद्यविधयः करणानुबन्द-
भाजः क्रमेण मुरजाः स्फुटमार्जनाङ्काः ॥ 2.19 ॥ (युगलकम्)
अत्र पाठान्तरम्।
विश्वास-प्रस्तुतिः
आजघ्निरेऽथ मुरजाः प्रविभक्तमार्गचित्रप्रचारयतिपाणिलयप्रपञ्चः।
संमार्जनाकरणयोगविभक्तमार्गचेतोहराभिमतवाद्यविधिव्यवस्थाः ॥
मूलम्
आजघ्निरेऽथ मुरजाः प्रविभक्तमार्गचित्रप्रचारयतिपाणिलयप्रपञ्चः।
संमार्जनाकरणयोगविभक्तमार्गचेतोहराभिमतवाद्यविधिव्यवस्थाः ॥
विश्वास-प्रस्तुतिः - 2.20
नन्दीश-निर्दय-कराहत-पुष्करेषु
मन्द्रं ध्वनत्सु मुरजेषु विभज्य तण्डुः +++(शिव-गणः)+++।
आसारितेषु परिकल्पित-सप्त-भेद-
पर्याप्त-शोभम् अथ ताण्डवम् अम्य् अगायत् ॥ 2.20 ॥
मूलम् - 2.20
नन्दीशनिर्दयकराहतपुष्करेषु
मन्द्रं ध्वनत्सु मुरजेषु विभज्य तण्डुः।
आसारितेषु परिकल्पितसप्तभेद-
पर्याप्तशोभमथ ताण्डवमम्यगायत् ॥ 2.20 ॥
विश्वास-प्रस्तुतिः - 2.21
क्रोडी-कृत+अद्रि-तनयाः शशि-खण्ड-मौलि-
मौल+++(←मूल)++++अपदान+++(=महा)+++-रचित-स्तुति मातरस् तत् ।
लीला-ललाम-ललित+अभिनय-प्रपञ्च-
संचार-चारु रस-भाव-दृषो ऽभिनिन्युः ॥ 2.21 ॥
मानसतरङ्गिणीकृत्
Making an embrace around the daughter of mountain those Mātṛ-s
performed the laudations composed on the principle great deeds of him crowned with the lunar crescent
as playfully charming, graceful dramatic acts, expansive with the beauty of movements and expressions full of aesthetic emotions and feelings.
मूलम् - 2.21
क्रोडीकृताद्रितनयाः शशिखण्डमौलि-
मौलापदानरचितस्तुति मातरस्तत्।
लीलाललामललिताभिनयप्रपञ्च-
संचारचारु रसभावदृशोऽभिनिन्युः ॥ 2.21 ॥
विश्वास-प्रस्तुतिः - 2.22
आपीतपाटलसितेतरकुन्दगौर-
देहत्विषो ललितनर्तनविभ्रमस्थाः।
भ्रेमुर्गणाधिपतयोऽभिनयक्रियासु
मूर्ता रसा इव परिष्कृतरङ्गपीठाः ॥ 2.22 ॥
मूलम् - 2.22
आपीतपाटलसितेतरकुन्दगौर-
देहत्विषो ललितनर्तनविभ्रमस्थाः।
भ्रेमुर्गणाधिपतयोऽभिनयक्रियासु
मूर्ता रसा इव परिष्कृतरङ्गपीठाः ॥ 2.22 ॥
विश्वास-प्रस्तुतिः - 2.23
तेषां पुरः पुररिपौ विषमप्रयोग-
नृत्तोपदेशरभसात्स्वयमुज्जिहाने।
पातालरन्ध्रमभवन्नतभूमिपीठ-
निष्पिष्टशेपफणरत्नकणावकीर्णम् ॥ 2.23 ॥
मूलम् - 2.23
तेषां पुरः पुररिपौ विषमप्रयोग-
नृत्तोपदेशरभसात्स्वयमुज्जिहाने।
पातालरन्ध्रमभवन्नतभूमिपीठ-
निष्पिष्टशेपफणरत्नकणावकीर्णम् ॥ 2.23 ॥
विश्वास-प्रस्तुतिः - 2.24
सो ऽभ्युत्थितो भुवनम् आकुलयां-चकार
विस्पष्ट-दृष्ट-तिमिर-व्यपलीन-हंसम् ।
लीला-वराह इव धूम-जटा-सटाग्र-
विष्पन्दि-सिन्धु-जल-सीकर-दुर्दिन+आर्द्रम् ॥ 2.24 ॥
मानसतरङ्गिणीकृत्
He stood up. He made the world disorderly.
The goose +++(=He)+++ was concealed by the clearly visible darkness, like by the sporting Varāhā. From the bristle-tips of his smoky, matted locks’ agitation, all became drenched with rain from the spray of his river’s water.
मानसतरङ्गिणीकृत् - टिप्पनी
I too suspect the subliminal signaling of liNgodbhava: the opening so .abhyutthitaH – he stood up also suggests the standing forth/blazing forth of the liNga. ratnAkara is both difficult to understand and the master of multilayered embeddings; hence, this is indeed plausible.
मूलम् - 2.24
सोऽभ्युत्थितो भुवनमाकुलयांचकार
विस्पष्टदृष्टतिमिरव्यपलीनहंसम्।
लीलावराह इव धूमजटासटाग्र-
विष्पन्दिसिन्धुजलसीकरदुर्दिनार्द्रम् ॥ 2.24 ॥
विश्वास-प्रस्तुतिः - 2.25
भस्माङ्गरागधवलेषु भुजेषु तस्य
कल्माषयत्सु भुजेषु तस्य
कल्माषयत्सु गगनं करवर्तनाभिः।
शुभ्राभ्रराजिचकिताः परिपुञ्ज्यमान-
पिच्छावचूलवपुषः शिखिनो विदद्रुः ॥ 2.25 ॥
मूलम् - 2.25
भस्माङ्गरागधवलेषु भुजेषु तस्य
कल्माषयत्सु भुजेषु तस्य
कल्माषयत्सु गगनं करवर्तनाभिः।
शुभ्राभ्रराजिचकिताः परिपुञ्ज्यमान-
पिच्छावचूलवपुषः शिखिनो विदद्रुः ॥ 2.25 ॥
विश्वास-प्रस्तुतिः - 2.26
गाढाङ्गदोरगफणाफणिरश्मिराग-
रुग्णान्धकारनिकरापरपार्श्वभूमेः।
शैलस्य भास्कररुचामवधेस्तदीय-
बाहुद्रुमैः सपदि चुक्षुदिरेऽश्मकूटाः ॥ 2.26 ॥
मूलम् - 2.26
गाढाङ्गदोरगफणाफणिरश्मिराग-
रुग्णान्धकारनिकरापरपार्श्वभूमेः।
शैलस्य भास्कररुचामवधेस्तदीय-
बाहुद्रुमैः सपदि चुक्षुदिरेऽश्मकूटाः ॥ 2.26 ॥
विश्वास-प्रस्तुतिः - 2.27
विक्षिप्तबाहुनिवहस्य विहस्य दिक्षु
तस्याङ्गहारकरणक्रमकम्पिमूर्ध्नः।
अग्रातिपातिसलिला सुरसिन्धुराप-
च्चीनांशुकोज्ज्वलतिरस्करणीविलासम् ॥ 2.27 ॥
मूलम् - 2.27
विक्षिप्तबाहुनिवहस्य विहस्य दिक्षु
तस्याङ्गहारकरणक्रमकम्पिमूर्ध्नः।
अग्रातिपातिसलिला सुरसिन्धुराप-
च्चीनांशुकोज्ज्वलतिरस्करणीविलासम् ॥ 2.27 ॥
विश्वास-प्रस्तुतिः - 2.28
अग्ने निनर्तिषत एव विलोचनाग्नि-
रस्याशु पिञ्चरितदिङ्भुखचक्रबालैः।
तिग्मांशुबिम्बकटकप्रतिबद्धवृत्ति-
रर्चिर्भिरातपतिरस्करिणीं निरास्थत् ॥ 2.28 ॥
मूलम् - 2.28
अग्ने निनर्तिषत एव विलोचनाग्नि-
रस्याशु पिञ्चरितदिङ्भुखचक्रबालैः।
तिग्मांशुबिम्बकटकप्रतिबद्धवृत्ति-
रर्चिर्भिरातपतिरस्करिणीं निरास्थत् ॥ 2.28 ॥
विश्वास-प्रस्तुतिः - 2.29
आक्षिप्यमाणविविधाभिनयप्रबन्ध-
संदर्शनार्थमिव सर्वदिशां पुरस्तात्।
विस्पष्टरेचकरयाकुलबाहुदण्ड-
पिष्टाद्रिकूटनिकरानकरोत्स मार्गान् ॥ 2.29 ॥
मूलम् - 2.29
आक्षिप्यमाणविविधाभिनयप्रबन्ध-
संदर्शनार्थमिव सर्वदिशां पुरस्तात्।
विस्पष्टरेचकरयाकुलबाहुदण्ड-
पिष्टाद्रिकूटनिकरानकरोत्स मार्गान् ॥ 2.29 ॥
विश्वास-प्रस्तुतिः - 2.30
तस्याङ्गहारवलितातनुनृत्तहस्त-
भस्माङ्गरागवलोन्नतपीनबाह्वोः।
सावर्तचक्रविकटोर्मिघटासहस्र-
संकीर्णदुग्धजलधिप्रतिरूपतासीत् ॥ 2.30 ॥
मूलम् - 2.30
तस्याङ्गहारवलितातनुनृत्तहस्त-
भस्माङ्गरागवलोन्नतपीनबाह्वोः।
सावर्तचक्रविकटोर्मिघटासहस्र-
संकीर्णदुग्धजलधिप्रतिरूपतासीत् ॥ 2.30 ॥
विश्वास-प्रस्तुतिः - 2.31
विस्तारशालिकनकाचलबीजकोष-
चक्रस्य नृत्तवलनासु सहस्रसंख्यैः।
फुल्लज्जपारुणतलैर्भुवनारविन्द-
कोषस्य पत्त्रपटलायितमस्य हस्तैः ॥ 2.31 ॥
मूलम् - 2.31
विस्तारशालिकनकाचलबीजकोष-
चक्रस्य नृत्तवलनासु सहस्रसंख्यैः।
फुल्लज्जपारुणतलैर्भुवनारविन्द-
कोषस्य पत्त्रपटलायितमस्य हस्तैः ॥ 2.31 ॥
विश्वास-प्रस्तुतिः - 2.32
पीनांसकूटघटितं गलकालकूट-
च्छायानिशानुसरणार्थमिवाभ्युपेतम्।
तेनोत्तमाङ्गविधुतिश्लथमौलिबन्ध-
विस्रस्तमिन्दुशकलं बिभरांबभूवे ॥ 2.32 ॥
मूलम् - 2.32
पीनांसकूटघटितं गलकालकूट-
च्छायानिशानुसरणार्थमिवाभ्युपेतम्।
तेनोत्तमाङ्गविधुतिश्लथमौलिबन्ध-
विस्रस्तमिन्दुशकलं बिभरांबभूवे ॥ 2.32 ॥
विश्वास-प्रस्तुतिः - 2.33
तस्योर्ध्वलोचनमरीचिमतो विशीर्ण-
पिङ्गत्विषश्चिरमभावितारां पुरस्तात्।
आबद्धवर्तनतया विकसत्कराल-
रक्ताङ्गुलीदलकुलैः करपद्मखण्डैः ॥ 2.33 ॥
मूलम् - 2.33
तस्योर्ध्वलोचनमरीचिमतो विशीर्ण-
पिङ्गत्विषश्चिरमभावितारां पुरस्तात्।
आबद्धवर्तनतया विकसत्कराल-
रक्ताङ्गुलीदलकुलैः करपद्मखण्डैः ॥ 2.33 ॥
विश्वास-प्रस्तुतिः - 2.34
संदेहिता धवलभास्मनधूलिदिग्ध-
तद्दोर्द्रुमानिलरयोद्धतवीचिभङ्गाः।
दुग्धोदधेर्नभसि पप्रथिरे मुहूर्त-
मालिङ्गितातनुतरोत्कलिकाभ्रगङ्गाः ॥ 2.34 ॥
मूलम् - 2.34
संदेहिता धवलभास्मनधूलिदिग्ध-
तद्दोर्द्रुमानिलरयोद्धतवीचिभङ्गाः।
दुग्धोदधेर्नभसि पप्रथिरे मुहूर्त-
मालिङ्गितातनुतरोत्कलिकाभ्रगङ्गाः ॥ 2.34 ॥
विश्वास-प्रस्तुतिः - 2.35
पातालवेश्मगतबन्धुदिदृक्षयेव
विक्षिप्यमाणमणिबनधनबद्धसंस्थाः।
तस्य व्यधुः फणभृतः फणचक्रमुक्त-
फूत्कारमारुतविशीर्णजलान्पयोधीन् ॥ 2.35 ॥
मूलम् - 2.35
पातालवेश्मगतबन्धुदिदृक्षयेव
विक्षिप्यमाणमणिबनधनबद्धसंस्थाः।
तस्य व्यधुः फणभृतः फणचक्रमुक्त-
फूत्कारमारुतविशीर्णजलान्पयोधीन् ॥ 2.35 ॥
विश्वास-प्रस्तुतिः - 2.36
व्यक्ताङ्गहारकरणक्रमकीर्यमाण-
दोर्दणअडमण्डलतया बिभरांचकार।
संहारमारुतविकम्पितकल्पवृक्ष-
कैलासशैलसदृशीं श्रियमिन्द्रमौलिः ॥ 2.36 ॥
मूलम् - 2.36
व्यक्ताङ्गहारकरणक्रमकीर्यमाण-
दोर्दणअडमण्डलतया बिभरांचकार।
संहारमारुतविकम्पितकल्पवृक्ष-
कैलासशैलसदृशीं श्रियमिन्द्रमौलिः ॥ 2.36 ॥
विश्वास-प्रस्तुतिः - 2.37
तेन व्यधीयततरामिव वेल्लिताग्र-
दोर्दण्डभस्मकणराजिभिरुज्जवलाभिः।
निर्मित्स्यमाननिजनृत्तभराभियोग-
योग्यान्तरालभुवनान्तरसूत्रपातः ॥ 2.37 ॥
मूलम् - 2.37
तेन व्यधीयततरामिव वेल्लिताग्र-
दोर्दण्डभस्मकणराजिभिरुज्जवलाभिः।
निर्मित्स्यमाननिजनृत्तभराभियोग-
योग्यान्तरालभुवनान्तरसूत्रपातः ॥ 2.37 ॥
विश्वास-प्रस्तुतिः - 2.38
आरब्दनर्तनकराङ्गुलिकोटिभाग-
निष्ठ्यूतदीघितिशिखालिखिताच्छलेखम्।
तस्याभवत्स्फुरदनेकलसहस्रसंख्य-
जिह्मामृतांशुकलिकाङ्कमिवान्तरिक्षम् ॥ 2.38 ॥
मूलम् - 2.38
आरब्दनर्तनकराङ्गुलिकोटिभाग-
निष्ठ्यूतदीघितिशिखालिखिताच्छलेखम्।
तस्याभवत्स्फुरदनेकलसहस्रसंख्य-
जिह्मामृतांशुकलिकाङ्कमिवान्तरिक्षम् ॥ 2.38 ॥
विश्वास-प्रस्तुतिः - 2.39
उद्दामरेचकरयभ्रमणानुबन्ध-
संबद्धबुद्बुदकणाकुलसिद्धसिन्धुः।
लक्ष्मीमनुज्झितकिरातदशावनद्ध-
नागेन्द्रकञ्चुक इवास्य बभार जूटः ॥ 2.39 ॥
मूलम् - 2.39
उद्दामरेचकरयभ्रमणानुबन्ध-
संबद्धबुद्बुदकणाकुलसिद्धसिन्धुः।
लक्ष्मीमनुज्झितकिरातदशावनद्ध-
नागेन्द्रकञ्चुक इवास्य बभार जूटः ॥ 2.39 ॥
विश्वास-प्रस्तुतिः - 2.40
तद्बाहुघूर्णनवलन्मृगराजकृत्ति-
वज्राश्रिशातनखकोटिनिपातभीतैः।
दिन्दन्तिभिस्त्वरितकुञ्चितजानुपर्व-
खर्वीभवद्विकटकुम्भतटैर्विषेदे ॥ 2.40 ॥
मूलम् - 2.40
तद्बाहुघूर्णनवलन्मृगराजकृत्ति-
वज्राश्रिशातनखकोटिनिपातभीतैः।
दिन्दन्तिभिस्त्वरितकुञ्चितजानुपर्व-
खर्वीभवद्विकटकुम्भतटैर्विषेदे ॥ 2.40 ॥
विश्वास-प्रस्तुतिः - 2.41
तस्याङ्गहारकरणाकुलबाहुदण्ड-
खण्डास्पादा सपदि केसरिराजकृत्तिः।
ताराश्चकर्ष करजैश्चटुलीकडार-
चूडाजुषः प्रियमिवोडुपतेश्चिकीर्षुः ॥ 2.41 ॥
मूलम् - 2.41
तस्याङ्गहारकरणाकुलबाहुदण्ड-
खण्डास्पादा सपदि केसरिराजकृत्तिः।
ताराश्चकर्ष करजैश्चटुलीकडार-
चूडाजुषः प्रियमिवोडुपतेश्चिकीर्षुः ॥ 2.41 ॥
विश्वास-प्रस्तुतिः - 2.42
दोर्दण्कडमारुतविघट्टितशैलकूट-
धूलिच्छटापटलघूसरमुष्णधाम्नः।
उद्धूलनोन्मृदीतभस्मरजोभिरैच्छ-
दीशः प्रमार्ष्टुमिव बिम्बतलात्मदर्शम् ॥ 2.42 ॥
मूलम् - 2.42
दोर्दण्कडमारुतविघट्टितशैलकूट-
धूलिच्छटापटलघूसरमुष्णधाम्नः।
उद्धूलनोन्मृदीतभस्मरजोभिरैच्छ-
दीशः प्रमार्ष्टुमिव बिम्बतलात्मदर्शम् ॥ 2.42 ॥
विश्वास-प्रस्तुतिः - 2.43
लक्ष्मीपतेरिव निरर्गलदण्डपाद-
शाखाग्रकोटिघटितः क्षणमुष्णरश्मिः।
तस्याबभावधिनभोऽर्घजलावसक्त-
पद्मासनानमितरत्नकमण्डलुश्रीः ॥ 2.43 ॥
मूलम् - 2.43
लक्ष्मीपतेरिव निरर्गलदण्डपाद-
शाखाग्रकोटिघटितः क्षणमुष्णरश्मिः।
तस्याबभावधिनभोऽर्घजलावसक्त-
पद्मासनानमितरत्नकमण्डलुश्रीः ॥ 2.43 ॥
विश्वास-प्रस्तुतिः - 2.44
तस्यास्तरीषत नवाभिनयक्रियासु
दिक्चक्रवालमभितः स्थगितान्तरिक्षाः।
अम्भोधिमार्गगमनाभिमुखाः शिरस्थ-
सिन्धुप्रवाहनिवहा इव बाहुदण्डाः ॥ 2.44 ॥
मूलम् - 2.44
तस्यास्तरीषत नवाभिनयक्रियासु
दिक्चक्रवालमभितः स्थगितान्तरिक्षाः।
अम्भोधिमार्गगमनाभिमुखाः शिरस्थ-
सिन्धुप्रवाहनिवहा इव बाहुदण्डाः ॥ 2.44 ॥
विश्वास-प्रस्तुतिः - 2.45
तेन व्यलोक्यत वलद्रुजदण्डरखण्ड-
चण्डानिलाहतिविघट्टनविप्रकीर्णम्।
प्रभ्रष्टमम्बरतलाद्विधुतोत्तमाङ्ग-
विस्रस्तशेखरकपालधियेन्दुबिम्बम् ॥ 2.45 ॥
मूलम् - 2.45
तेन व्यलोक्यत वलद्रुजदण्डरखण्ड-
चण्डानिलाहतिविघट्टनविप्रकीर्णम्।
प्रभ्रष्टमम्बरतलाद्विधुतोत्तमाङ्ग-
विस्रस्तशेखरकपालधियेन्दुबिम्बम् ॥ 2.45 ॥
विश्वास-प्रस्तुतिः - 2.46
ब्रह्मासनाम्बुरुहमाहितसर्वलोक-
कम्पे विभोः शिशिरकाल इवानुकारे।
पर्यन्तबाहुवनधूलनभस्मधूलि-
नीहारपातदलितच्छदशोभमासीत् ॥ 2.46 ॥
मूलम् - 2.46
ब्रह्मासनाम्बुरुहमाहितसर्वलोक-
कम्पे विभोः शिशिरकाल इवानुकारे।
पर्यन्तबाहुवनधूलनभस्मधूलि-
नीहारपातदलितच्छदशोभमासीत् ॥ 2.46 ॥
विश्वास-प्रस्तुतिः - 2.47
ग्रैवेयकोरगफणामणिचक्रवाल-
संध्यारुणोडुशबलं स्थगयांचकार।
दिङ्भण्डलं प्रलयकालनिशेव तस्य
कण्ठप्रभा तिमिरनीलरुचिः स्फुरन्ती ॥ 2.47 ॥
मूलम् - 2.47
ग्रैवेयकोरगफणामणिचक्रवाल-
संध्यारुणोडुशबलं स्थगयांचकार।
दिङ्भण्डलं प्रलयकालनिशेव तस्य
कण्ठप्रभा तिमिरनीलरुचिः स्फुरन्ती ॥ 2.47 ॥
विश्वास-प्रस्तुतिः - 2.48
चूडाजडांशुरपि जूटजटानिकुञ्ज-
बद्धास्पदः प्रतिदिशं सुचिरादवाप।
आरब्धनर्तनकरानिलघट्यमान-
तारापुरंध्रिपरिरम्भसुखानि शंभोः ॥ 2.48 ॥
मूलम् - 2.48
चूडाजडांशुरपि जूटजटानिकुञ्ज-
बद्धास्पदः प्रतिदिशं सुचिरादवाप।
आरब्धनर्तनकरानिलघट्यमान-
तारापुरंध्रिपरिरम्भसुखानि शंभोः ॥ 2.48 ॥
विश्वास-प्रस्तुतिः - 2.49
लीलावधूतशिरसोऽस्य वलटज्जाग्र-
निष्पन्दिसान्द्रसालिलोक्षितकोटिभागात्।
उच्चण्डताण्डवरसस्य विनिर्जगाम
मन्दकिनी मधुरिपोरिव दण्डपादात् ॥ 2.49 ॥
मूलम् - 2.49
लीलावधूतशिरसोऽस्य वलटज्जाग्र-
निष्पन्दिसान्द्रसालिलोक्षितकोटिभागात्।
उच्चण्डताण्डवरसस्य विनिर्जगाम
मन्दकिनी मधुरिपोरिव दण्डपादात् ॥ 2.49 ॥
विश्वास-प्रस्तुतिः - 2.50
तस्याशुशोणितमिवोज्जगरुर्गरिष्ठ-
दोर्दण्डघातविधुरा गिरयस्तदानीम्।
उद्वर्तनानिलरयोत्थितधातवीय-
धूलिच्छटारुणितनिर्झरवीचिभङ्गाः ॥ 2.50 ॥
मूलम् - 2.50
तस्याशुशोणितमिवोज्जगरुर्गरिष्ठ-
दोर्दण्डघातविधुरा गिरयस्तदानीम्।
उद्वर्तनानिलरयोत्थितधातवीय-
धूलिच्छटारुणितनिर्झरवीचिभङ्गाः ॥ 2.50 ॥
विश्वास-प्रस्तुतिः - 2.51
तेन व्यधायिषत बाहुवनप्रकोष्ठ-
बद्धासितोरगफणामणिरागपिङ्गः।
संहारकालरभसोत्थितधूमदण्ड-
कल्माषितानलशिखा इव दिग्विभागाः ॥ 2.51 ॥
मूलम् - 2.51
तेन व्यधायिषत बाहुवनप्रकोष्ठ-
बद्धासितोरगफणामणिरागपिङ्गः।
संहारकालरभसोत्थितधूमदण्ड-
कल्माषितानलशिखा इव दिग्विभागाः ॥ 2.51 ॥
विश्वास-प्रस्तुतिः - 2.52
तस्याधिनृत्तमनोलोल्बणदृष्टिपात-
लक्ष्यीकृतेषु फणिनो मणिबन्धनेषु।
तत्तापखेदपरिवर्तनलक्ष्यमाण-
पीतोदराः कनककम्बुविलासमापुः ॥ 2.52 ॥
मूलम् - 2.52
तस्याधिनृत्तमनोलोल्बणदृष्टिपात-
लक्ष्यीकृतेषु फणिनो मणिबन्धनेषु।
तत्तापखेदपरिवर्तनलक्ष्यमाण-
पीतोदराः कनककम्बुविलासमापुः ॥ 2.52 ॥
विश्वास-प्रस्तुतिः - 2.53
सानन्दनन्दिकरताडितपुष्कराग्र-
चेतोहराङ्किकपयोधरनादहृष्टः।
आरब्धरेचकलयः कलयांचकरा
लीलां स मेचकगलः स्फुटचन्द्रकश्रीः ॥ 2.53 ॥
मूलम् - 2.53
सानन्दनन्दिकरताडितपुष्कराग्र-
चेतोहराङ्किकपयोधरनादहृष्टः।
आरब्धरेचकलयः कलयांचकरा
लीलां स मेचकगलः स्फुटचन्द्रकश्रीः ॥ 2.53 ॥
विश्वास-प्रस्तुतिः - 2.54
सावर्तनाभिरभितो ललिताङ्गहार-
शोभा मनोर्मपरिक्रमतां वहन्ती
चेतो जहार जयिता रसभावहृद्य-
रूपा क्रिया पुररिपोः शुभहस्तदृष्टिः ॥ 2.54 ॥
मूलम् - 2.54
सावर्तनाभिरभितो ललिताङ्गहार-
शोभा मनोर्मपरिक्रमतां वहन्ती
चेतो जहार जयिता रसभावहृद्य-
रूपा क्रिया पुररिपोः शुभहस्तदृष्टिः ॥ 2.54 ॥
विश्वास-प्रस्तुतिः - 2.55
दोर्दण्डखण्डवलनान्यतिसंकटत्व-
मुत्प्रेक्ष्य नो विदधिरे ककुभां पुरस्तात्।
विन्यस्तमन्दचरणं परिचक्रमे च
भूमण्डलं विदलतीति दयानुबन्धात् ॥ 2.55 ॥
मूलम् - 2.55
दोर्दण्डखण्डवलनान्यतिसंकटत्व-
मुत्प्रेक्ष्य नो विदधिरे ककुभां पुरस्तात्।
विन्यस्तमन्दचरणं परिचक्रमे च
भूमण्डलं विदलतीति दयानुबन्धात् ॥ 2.55 ॥
विश्वास-प्रस्तुतिः - 2.56 ॥ (तरङ्ग) युगलकम्।
ब्रह्माणडकर्परपरिस्फुटनाभिसंधे-
रूर्ध्वं विरच्यत तथा न च दण्डपादः।
इत्थं न शीतकिरणाभरणस्य नृत्त-
माधारदुर्बलतया सविलासमासीत् ॥ 2.56 ॥ (तरङ्ग) युगलकम्।
मूलम् - 2.56 ॥ (तरङ्ग) युगलकम्।
ब्रह्माणडकर्परपरिस्फुटनाभिसंधे-
रूर्ध्वं विरच्यत तथा न च दण्डपादः।
इत्थं न शीतकिरणाभरणस्य नृत्त-
माधारदुर्बलतया सविलासमासीत् ॥ 2.56 ॥ (तरङ्ग) युगलकम्।
विश्वास-प्रस्तुतिः - 2.57
कुक्षि-प्रविष्ट-सुर-निर्झरिणी-तरङ्ग- झङ्कर-तार-निनदैर् नृ-कपाल-पङ्क्तिः । नृत्त-क्रियासु विदधाव् इव साधु-वादं
यस्योत्तमाङ्ग-भुवि सातिशयास्व् अ-मन्दम् ॥
2.57 ॥
मानसतरङ्गिणीकृत्
The waves of the heavenly torrent (heavenly Gangā Milky Way), having entered the cavities of the row of human skulls, resounded with a high-toned jingle on his head as if taking the [form] of a loud cry of approbation for his excellent dance moves.
मानसतरङ्गिणीकृत् - टिप्पनी
An interesting metaphor of the “dead skulls” uttering an approbation to shiva’s tANDava as the heavenly ga~Nga resounds in their cavities. One may again ponder if a philosophical layer is implied below the overt imagery. We see an implication in this regard, but feel a bit coy to voice it explicitly. As a clue: matter and consciousness
मूलम् - 2.57
कुक्षिप्रविषअटसुरनिर्झरिणीतरङ्ग-
झांकारतारनिनदैर्नृकपालपङ्क्तिः।
नृत्तीक्रियासु विदधाविव साधुवादं
यस्योत्तमाङ्गभुवि सातिशयास्वमन्दम् ॥ 2.57 ॥
विश्वास-प्रस्तुतिः - 2.58
आलोकितस् तुहिन-शैल-भुवा स-हासम्
आकृष्य शेखर-शशाङ्क-कलां स्मरारेः ।
नृत्यन् विदूषक-भुवम् भुजग+अरि-केतुर्
अग्रे +++(शशाङ्क-कलां)+++ चकार कुटिलोन्नत-दण्ड-काष्ठम् ॥ 2.58 ॥
मानसतरङ्गिणीकृत्
With laughter, the daughter of the snowy mountain (Pār- vati) saw the one whose banner is the enemy of the snake (Skanda) grab the crescent moon digit from the enemy of Smara (Śiva), becoming the dancing clown, having made it (the lunar digit) his long curved staff.
मूलम् - 2.58
आलोकितस्तुहिनशैलभुवा सहास-
माकृष्य शेखरशशाङ्ककलां स्मरारेः।
नृत्यन्विदूषकभुवं भुजगारिकेतु–
रग्रे चकार कुटिलोन्नतदण्डकष्ठम् ॥ 2.58 ॥
विश्वास-प्रस्तुतिः - 2.59
एतनि तानि तलपुष्पपुटादिकानि
चेतोहराणि करणानि गणाधिनाथाः।
इत्यङ्गहारविधयः स्फुटतत्प्रपञ्च-
योगाञअचितस्तितिभृतः स्थिरहस्तमुख्याः ॥ 2.59 ॥
मूलम् - 2.59
एतनि तानि तलपुष्पपुटादिकानि
चेतोहराणि करणानि गणाधिनाथाः।
इत्यङ्गहारविधयः स्फुटतत्प्रपञ्च-
योगाञअचितस्तितिभृतः स्थिरहस्तमुख्याः ॥ 2.59 ॥
विश्वास-प्रस्तुतिः - 2.60
इत्थं त्रिधात्मकरणं गणमण्कडलीषु
संक्रान्तिमस्य नयतो सदसि स्थितासु।
पर्याप्तदर्शनसुखं विनिमेषपक्ष्म-
चक्षुः सहस्रमभवत्स्पृहणीयमैन्द्र्याः ॥ 2.60 ॥
मूलम् - 2.60
इत्थं त्रिधात्मकरणं गणमण्कडलीषु
संक्रान्तिमस्य नयतो सदसि स्थितासु।
पर्याप्तदर्शनसुखं विनिमेषपक्ष्म-
चक्षुः सहस्रमभवत्स्पृहणीयमैन्द्र्याः ॥ 2.60 ॥
विश्वास-प्रस्तुतिः - 2.61
आविष्कृतानुकृतिविब्रमनागवक्त्र-
लीलाभ्युदस्तकरकोटिविपाट्यमानाः।
अभ्योभृतः शिशिरसीकरबिन्दुवृन्द-
विष्यन्दिनोऽभिनयजं क्लममस्य जह्रुः ॥ 2.61 ॥
मूलम् - 2.61
आविष्कृतानुकृतिविब्रमनागवक्त्र-
लीलाभ्युदस्तकरकोटिविपाट्यमानाः।
अभ्योभृतः शिशिरसीकरबिन्दुवृन्द-
विष्यन्दिनोऽभिनयजं क्लममस्य जह्रुः ॥ 2.61 ॥
विश्वास-प्रस्तुतिः - 2.62
इत्थं सलीलमभिनेयविजृम्भमाण-
विस्पष्टभावरसवृत्ति निषेव्य नृत्तम्।
सार्धं न्यवर्तत गणैर्वेभुरुत्तमाङ्ग-
गङ्गातरङ्गकणसंभृतिभिन्नखेदः ॥ 2.62 ॥
मूलम् - 2.62
इत्थं सलीलमभिनेयविजृम्भमाण-
विस्पष्टभावरसवृत्ति निषेव्य नृत्तम्।
सार्धं न्यवर्तत गणैर्वेभुरुत्तमाङ्ग-
गङ्गातरङ्गकणसंभृतिभिन्नखेदः ॥ 2.62 ॥
विश्वास-प्रस्तुतिः - 2.63
शैलात्मजाविजिततद्गणकृष्यमाण-
वृद्धोक्षनिष्ठुरखुराहतमन्दराद्रिः।
तस्य ग्लहीकृतविमुग्धकिरीटचन्द्र-
खण्डः कदाचन दुरोदरविभ्रमोऽभूत् ॥ 2.63 ॥
मूलम् - 2.63
शैलात्मजाविजिततद्गणकृष्यमाण-
वृद्धोक्षनिष्ठुरखुराहतमन्दराद्रिः।
तस्य ग्लहीकृतविमुग्धकिरीटचन्द्र-
खण्डः कदाचन दुरोदरविभ्रमोऽभूत् ॥ 2.63 ॥
विश्वास-प्रस्तुतिः - 2.64
इति समयमनैषीत्तत्र तास्ताः स चेष्टा
विदधदचलकन्याविप्रयोगानभिज्ञः।
सुरपतिभिरभीक्ष्णं रत्नपट्टाङ्घ्रिपीठा-
लुठितमणिकिरीटाष्टापदैः सेव्यमानः ॥ 2.64 ॥
मूलम् - 2.64
इति समयमनैषीत्तत्र तास्ताः स चेष्टा
विदधदचलकन्याविप्रयोगानभिज्ञः।
सुरपतिभिरभीक्ष्णं रत्नपट्टाङ्घ्रिपीठा-
लुठितमणिकिरीटाष्टापदैः सेव्यमानः ॥ 2.64 ॥
इति श्रीबालवृहस्पत्यनुजीविनो वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राजानव श्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकावेये ताण्डचववर्णनो नाम द्वितीयः सर्गः