०१

राजानकरत्नाकरविरचितम्
राजानकालकविरचितया टीकया समेतम्
पण्डितव्रजलालसूनुना पण्डितदुर्गाप्रसादेन
पारबोपाह्वपाण्डुरङ्गात्मजकाशिनार्थशर्मणा च
संसोधितम्

हरविजयकाव्यस्य सूचीपत्रम्

सर्गः विषयक्रमः श्लोकसंख्या
1 पुरारिपुरीवर्णन् 64
2 ताण्डववर्णन् 64
3 ऋतुवर्णनम् 94
4 मन्दरवर्णनम् 41
5 पर्वतर्तुवर्मनम् 151
6 भगवत्स्तुतिवर्णनम् 197
7 सभाक्षोभवर्णनम् 64
8 कालमुसलदण्डवर्णनम् 52
9 प्रभामयनयप्रकाशनम् 73
10 वह्निगर्भनीतिसंदर्भ 52
11 अग्निदंष्ट्रारभटीवर्णनम् 76
12 अट्टहासनयोपन्यासः 81
13 चण्डेश्वरदण्डोपन्यासः 83
14 पुष्पहासनयोपन्यासः 60
15 नन्दिषेणनयाभिषेणनवर्णनम् 68
16 दूतसंप्रेषणनिरूपणम् 82
17 कुसुमावचयवर्णनम् 114
18 जलक्रीडावर्णनम् 109
19 दिवसावसानवर्णनम् 68
20 चन्द्रोदयवर्णनम् 86
21 गौरीश्वरदेहार्धवर्णनम् 58
22 समुद्रोल्लासवर्णनम् 65

23 प्रसाधनवर्णनम् 65
24 विरहवर्णनम् 50
25 दूतीसंकल्पवर्णनम् 71
26 पानगोष्ठीवर्णनम् 93
27 संभोगवर्णनम् 116
28 प्रत्यूषवर्णनम् 119
29 भगवत्प्रबोधनम् 63
30 मार्गविभागवर्णनम् 94
31 स्वर्गाभोगवर्णनम् 62
32 दूतव्याहारः 118
33 भार्गवनिर्भर्त्सनम् 47
34 अन्धकासुरसभाक्षोभः 67
35 अन्धकासुरव्याहारः 62
36 कनकाक्षनयोपक्षेपः 61
37 वज्रबाहुविस्फूर्जितम् 68
38 दूतप्रतिगर्जितम् 91
39 सैन्यसंभारः 54
40 सैन्यसंरम्भः 65
41 सैन्यप्रस्थानम् 65
42 समरोद्धातवर्णनम् 51
43 चित्रयुद्धवर्णनम् 385
44 गजाश्वसंमर्दवर्णनम् 70
45 सुभटसंदीपनम् 58
46 चण्डिकासमराक्षेपवर्णनम् 81
47 चण्डीस्तोत्रम् 170
48 चित्रयुद्धवर्णनम् 178
49 सुरासुरविमर्दवर्णनम् 58
50 देवदेवप्रतिष्ठनम् 95
* ग्रन्थकर्तुः प्रशस्तिः 7
——–
4351
——–

महाकविराजाकश्रीरत्नाकरप्ररणीतं
हरविजयम्
राजानकश्रीमदलककृतेन विषमपदोद्द्योताभिवेन टिप्पणेन समेतम्।
—***—

प्रथमः सर्गः।

कण्ठश्रियं कुवलयस्तबकाभिराम-
दामानुकारिविकटच्छविसकालकूटाम्।
बिभ्रत्सुखानि दिशतादुपहारपीत-
धूपोत्थधूममलिनामिव धूर्जटिर्वः ॥ 1.1 ॥
जृम्भाविकासितमुखं नखदर्पणान्त-
राविष्कृतप्रतिमुखं गुरुरोषगर्भम्।
रुपं पुनातु जनितारिचमूविमर्श-
मुद्वृत्तदैत्यवधनिर्वहणं हरेर्वः ॥ 1.2 ॥
पर्यन्तवर्तिपरिपाण्डुरपत्त्रपङ्क्ति-
पद्मासनासनकुशेशयकोषचक्रम्।
युष्मान्पुनातु दधदुद्धतदुग्धसिन्धु-
वीचिच्छटावलयितामरशैललीलाम् ॥ 1.3 ॥
अस्त्युन्नते सुरसरिज्जलधाव्यमान-
भागे नवार्करुचि मन्दरशैलशृङ्गे।
ज्योत्स्नावतीति नगरी भुवनत्रयैक-
भूषा वृषाङ्गशिरसीव शशाङ्कलेखा ॥ 1.4 ॥
यस्यां निशामु गगनं नवपद्मराग-
सद्मप्रभारुणित्ध्यगतेन्दुलेखम्।
वक्षो नृसिंहनखरैरसुराधिपस्य
सासृक्छटं विषमभिन्नमिवाचकास्ति ॥ 1.5 ॥
ज्योतीरसाश्मभवनाजिरदुग्धसिन्धु-
रत्युन्मिषत्प्रचुरतुङ्गमरीचिवीचिः।
वातायनस्थितवधूवदनेन्दुबिम्ब-
संदर्शनादनिशमुल्लसतीव यसयाम् ॥ 1.6 ॥
गण्डस्थलीः सघनघर्मजला रतेषु
लग्नावतंसकुसुमच्युतकेसराग्राः।
अभ्यापतन्मदनमार्गणपुङ्खपक्ष-
पक्ष्माकुला इव दघुः प्रमदाश्व यस्याम् ॥ 1.7 ॥
सीमन्तिनीजनमनः सु समाधिभङ्ग-
कोपानलेन चिरदग्धमपीन्दुमौलेः।
उत्थापयन्मदनमाशु करैर्विभाति
यस्यां हिमांशुरवलम्बितजालमार्गः ॥ 1.8 ॥
यस्यां रतेषु पृथुपीननिम्बबिम्ब-
शोभा स्फुरद्दशनपङ्क्तिकृशाङ्गयष्टिः।
कूर्मीव पुष्पधनुषः प्रियपाणिजाग्र-
कोणावमर्शमधुरक्वणिताङ्गनासीत् ॥ 1.9 ॥
यत्रेन्द्रनीलभवनं पृथुपद्मराग-
वातायनैरुभयपार्श्वगतैर्विभाति।
बाणासुरस्य हरिचक्रविलूनबाहु-
मूलव्रणैरिव वपुः क्षतजच्छटार्द्रैः ॥ 1.10 ॥
क्लान्ति रतान्तजनितां श्लथयन्ति यत्र
माणिक्यमन्दिरगवाक्षपथप्रविष्टाः
अभ्यर्णवर्तिसुरनिर्झरिणीतरङ्ग-
भङ्गानुसारशिशिरा मरुतोऽङ्गनानाम् ॥ 1.11 ॥
गण्डस्थलप्रतिमितं सुदृशां सचिह्न-
मश्वेततेन्दुशकलं रजनीषु यस्याम्।
ज्याघातपातकिणशारितमीनकेतु-
न्यासीकृताच्छमणिखण्डतलायमानम् ॥ 1. 12 ॥
यस्यामशङ्किषत शंकरशेखरेन्दु-
संदर्शनोत्सुकतयोपगतं सुरौघाः।
ज्योतीरसेष्टकचिताम्बरचुम्बिदीप्र-
वप्रप्रभाभरनिभेन च दुग्धसिन्धुः ॥ 1.13 ॥
लक्ष्मीर्न यां भवनमानससंनिवेश-
हंसीभिरुज्जवलविलासगतिक्रमाभिः।
सत्त्रीभिर्युतां समणिनूपुरझांकृताभि-
रुज्झांचकार झषकेतनझल्लरीभिः ॥ 1.14 ॥
यस्यां निशासु रुचिरागुरुधूपधूम
कल्माषितं शशभृतः करचक्रवालम्।
श्लिष्यद्गवाक्षकलधौतकवाटपट्ट-
संदंशलग्नकिणलेखमिवैति लक्ष्मीम् ॥ 1.15 ॥
शय्यागृहं सुरतकेलिविमर्दशीर्ण-
कर्णावतंसविकचोत्पलपत्त्रखण्डैः।
यत्राङ्गना दलयतः कुसुमायुधस्य
भग्नैः कृपाणशकलैरिव कीर्णमासीत् ॥ 1.16 ॥
यस्यां सलीलमसितागुरुधूपधूम-
दण्डा गवाक्षविवरोदरतः प्रसस्रुः।
आसन्नचन्द्रकरभङ्गभियान्धकार-
हस्ता इव स्फुरितदीर्घशिखाङ्गुलीकाः ॥ 1.17 ॥
रागानुबन्धिपरिणामदशावमर्श-
शून्याभिरामनवयौवनपल्लवाभिः।
कल्पद्रुमव्रततिभिः कनकादिकुञ्ज-
वीथीव या पुरपुरंध्रिभिराबभासे ॥ 1.18 ॥
वैदूर्यपट्टघटिताररिभिर्निशासु
दूरादपावृतमुखैरिव द्दस्यमानैः।
द्वारैर्बिभर्ति पिरितैरपि यत्र लक्ष्मी-
मभ्रंकषा प्रतिदिशं मणिहर्म्थपङ्क्तिः ॥ 1.19 ॥
यस्यां स्मरः सततसंनिहितेऽपि चन्द्र-
चूडामणौ वसति पौरपुरंध्रिदेहे।
निर्मुक्तभीतिरधिरूढकटाक्षबाण-
तद्धूशरामनसहस्रकृतात्मरक्षः ॥ 1.20 ॥
क्रीडाब्जिनीषु न दरिद्रति सान्द्रचन्द्र-
रश्मिच्छटापटलपाटलितानि कान्त्या।
बिभ्रन्ति मन्मथमतङ्गजदन्तकोष-
संवादितां कुवलयानि निशासु यस्याम् ॥ 1.21 ॥
माणिक्यतोरणमदूरविलम्बमान-
तिग्मांशुकूबपरितुरङ्गशरीरभाभिः।
यत्र श्रणं हरितपल्लवनिर्मिताभि-
राभात्यशून्यमिव वन्दनमालिकाभिः ॥ 1.22 ॥
यस्यां भरेण गलतस्तरुणीमुखेन्द्र-
लावण्यकान्तिबिसरामृतनिर्झरस्य।
अट्टालसालवलयं विकटालवाल-
लीलां विडम्बयति तुम्बितभानुबिम्बंम् ॥ 1.23 ॥
व्यक्तीकृतावयवचन्द्रकलाभिरम-
रूपा हरन्ति हृदयं हरिणायताक्ष्यः।
यत्रोन्मिषन्मधुरमुग्धविद्‌ग्धहाव-
भावानुबन्धिकुसुमायुधसौधहासाः ॥ 1.24 ॥
यस्यां निकेतनलिनीषु च लौहितीक-
सोपानपट्टरुचिविच्छुरितान्तरालाः।
लक्ष्मीमतानिषुरमन्दरुचः प्रियाय
बन्धीकृतेन्दुकिरणा इव पद्मखण्डाः ॥ 1.25 ॥
माणिक्यखण्डखचिताः सुरमन्दिरेषु
यस्यां चकासति विपाटलतत्प्रभाभिः।
आलिङ्गिताः खिखरकोटिविपाटिताभ्र-
सौदामिनीमिरिव काञ्चनकेतुदण्डाः ॥ 1.26 ॥
यस्यां व्रजत्यधिनिशीथिनि कान्तवेश्म
लीलागृहीतविकंचोत्पलपाणिपद्मः।
वैभांवरेण रभसात्तिमिरेण दत्त-
हस्तावलम्बन इवास्त पुरांध्रिलोकः ॥ 1.27 ॥
आक्रीडतामरसिनीजलयन्त्रमञ्जु-
नादः क्रमानुगतकैशिकमध्यमश्रीः।
उत्कंधरस्तिमितपादविधूतपक्ष-
माकर्ण्यते भवनहंसगणेन यस्याम् ॥ 1.28 ॥
यत्राश्मगर्भकमयूखशिखाप्रकाश-
श्यामीकृता भवनपुष्करिणीतटेषु।
चेतो हरन्ति परिणामि चिरोपभुक्त-
शेवालसंहतिरसा इव हंसयूथाः ॥ 1.29 ॥
यस्यां हरिन्मणिविनिर्मितहर्म्यरश्मि-
लीढोदराः प्रतिदिशं निशि तारकौघाः।
उद्भिन्नकोमलकुशाङ्कुरकोटिलग्न-
नैशोदबिन्दुपटलश्रियमालिलिङ्गुः ॥ 1.30 ॥
लाबण्यनिर्भरपुरंध्रिमुखावधूत-
च्छायो दधत्कलुषतां हृदयेन यस्याम्।
इन्दुर्निशासु मणिकुट्टिमबिम्ब्यमान-
मूर्तिच्छलेन विशतीव रसातलान्तः ॥ 1.31 ॥
प्रातश्वकासति गृहोदरकुट्टिमाग्र-
विक्षिप्तरत्नकुसुमप्रकरावकीर्णाः।
अभ्युद्गतारुणकराहतिपात्यमान-
नक्षत्रराशिशबला इव यत्रं रथ्याः ॥ 1.32 ॥
आलिङ्गनादरचितस्थितिराबभौ या
पत्युर्विकासिपरिखावलिनीविबन्धम्।
विस्तारिसालजघनं परिवर्तमान-
नक्षत्ररत्नरशनागुणमुदूहन्ती ॥ 1.33 ॥ (इति पुरीवर्णणम्)
तामध्युवास भुवनानुजिघृक्षयात्त-
निर्माणदेहघटनः क्षपितारिचक्रः।
चक्रीव सौधधवलां भुजगाधिराज-
मूर्त्ति विभुः शिशिररश्मिकलाकिरीटः ॥ 1.34 ॥
यस्य प्रपन्नजनताश्वरणारविन्द-
पीठप्रणामकिणशारितमुद्वहन्ति।
दूर्ध्वाक्षितारकमिव स्म ललाटपट्टम् ॥ 1.35 ॥
प्लुष्यत्पुरत्रयमविश्लथजूटबन्ध-
खेदाकुलेन फणिना स्फुरदुद्धतार्चिः।
साहायकार्थमिव फूत्कृतमारुतेन
संधुक्षितः सपदि यस्य पृष्त्कवह्निः ॥ 1.36 ॥
आकर्णताण्कडवितमन्दरचापदण्ड-
मौर्वीकृतोरगफणागयणफूत्कृतोत्थः।
अस्यादिदीपदनलः प्रथमं ततोऽग्रि-
ज्वालाकलापजटिलस्त्रिपुरं पृष्टकः ॥ 1.37 ॥
मन्दाकिनी शिरसि मौलिक्पालपट्ट-
संघट्टजर्जरतरङ्गघटा विभाति।
यस्योर्ध्वनेत्रशिखिविप्लुतचंन्द्रखण्ड-
विष्यन्दमानशिशिरामृतनिर्झरश्रीः ॥ 1.38 ॥
यस्यानुरागवशतः स्फुटकालकूट-
च्छायाछलेन कृतकेलिकचावमर्दाम्।
ईर्ष्यानुबन्धकलुषं प्रसमीक्ष्य गङ्गा-
मालिङ्गितो यमुनयेव विभाति कण्ठः ॥ 1.39 ॥
आभाति यस्य हिमशैलसुताभ्यसूया-
रोषानुबन्धवशतोऽम्बरमारुरुक्षुः।
उष्णीषपन्नगनिपीडितजूटरत्न-
भागोत्थिता प्रतिपथाभिमुखीव गङ्गा ॥ 1.40 ॥
निष्पेषभीति शरणागतपूषवक्त्र-
शेषापरेव हसता विधुतोत्तमाङ्गम्।
येन व्यलोक्यात पुराणकपालमौलि-
बन्धच्युता धशनपङ्क्तिरधः पतन्ती ॥ 1.41 ॥
यस्याद्रिराजतनयावदनारविन्द-
लावण्यकान्तिविजितस्य सलीलमिन्दोः।
बन्दीकृतोऽर्भक इव श्लथजूटकोटि-
बन्धच्युतश्विरमभारि करेण खण्डः ॥ 1.42 ॥
मन्दाकिनीसलिलनिर्भरपूर्यमाण-
गम्भीरकुक्षिकुहरोद्गततारनादम्।
अद्यापि यस्य शिरसि श्रियमेत्यशान्त-
वेदेध्वनीव परमेष्ठिशिरःकपालम् ॥ 1.43 ॥
संहाररात्रिमुखताण्डव़डम्बरेषु
दोर्दण्डखण्डपवनाभिहताः पुरस्तात्।
यस्य क्रमादपसरन्ति परिक्रमैक-
लीलावकाशघटनार्थमिवाद्रिनाथाः ॥ 1.44 ॥
यस्यानुकाररभसोत्थितदण्डपाद-
गुल्फाग्रसंघटितमण्डलपूर्वरेखः।
पर्यस्तपर्वतशिताश्रिविशीर्यमाण-
माणिक्यपादकटकश्रियमेति चन्द्रः ॥ 1.45 ॥
दोर्दण्डखण्डपवनोच्छलिता विचित्र-
चारीविलासदलितक्षितिपीठबन्धाः।
यस्य भ्रमन्ति गिरयोऽम्बरमार्ग एव
पातालपातचकिता इव ताण्डवेषु ॥ 1.46 ॥
संहारमेघमलिनातनुकालकूट-
च्छाया सलीलमधिकंधरमुल्लसन्ती।
यस्य प्रदक्षिणयतीव किरीटधाम-
बद्धास्पदं दयितमिन्दुमुपेत्य शत्रिः ॥ 1.47 ॥
गङ्गातरङ्गतरलाननरन्ध्रलग्र-
चूडाशशाङ्ककलिकं स्फुदुत्तमाङ्गे।
अस्पष्टचञ्चुपुटदष्टमृणालकोटि-
हंसश्रियं वहति यस्य सितं कपालम् ॥ 1.48 ॥
संध्यासमाधिविनिमीलितलोचनस्य
यस्यानुकारमिव हारफणी चकार।
उद्धूलनोन्मृदितभस्मपरागपूर-
पर्याप्तभीतिभरकूणितकातराक्षः ॥ 1.49 ॥
प्रेमामृतेन गिरिराजसुताश्रयेण
न प्लावितेऽत्र हृदयेऽस्ति ममावकाशः।
यस्याधिकंधरमितीव पदं बबन्ध
संधुक्षितत्रिभुवनाग्निशिखो विषौघः ॥ 1.50 ॥
आकर्णकृष्टकुसुमच्युतरेणुपिङ्ग-
चूर्णाकृतातनुशरासनंमध्यसंस्थः।
प्राक्चित्तवृत्तिविकृतेरपि रोषवह्नि-
ज्वालापरीत इव यस्य नमोभवोऽभूत् ॥ 1.51 ॥
पुष्पायुधेन कृततीव्रसमाधिभेद-
मास्फलिते धनुषि सभ्रुकुटीविभङ्गम्।
तत्क्षोभजेन रभसेन विलङ्घ्यामान-
मूर्ध्वाक्षि यस्य सरुषो मुकुलीबभूव ॥ 1.52 ॥
भोतैः पुरः कुसुममार्गणदेहदाह-
संरम्भघोरविकृतिर्ददृशे सुरैर्यः।
कण्ठोदरास्पदमनर्गलहुंकृताग्नि-
धूमच्छलेन विकिरन्निव कालकूटम् ॥ 1.53 ॥
ऊर्ध्वेक्षणानलशिखापटलेन्धनत्व-
मासाद्य यस्य कुपितस्य समाधिभङ्गात्।
चक्रे पदं मकरकेतुरपाङ्ग एव
सभ्रूविलासलडिते लटभाङ्गनानाम् ॥ 1.54 ॥
यस्य व्यलोकि सरुषो मुकमर्जुनेन
मायाकिरातवपुषः परिपाटलत्विट्।
भास्वल्ललाटविनिरूढविलोचनाग्नि-
ज्वालाकलापपरिणामवशादिवारात् ॥ 1.55 ॥
कर्णावतंसितशिखण्डिपतत्त्रशण्डां
गुञ्जाफलस्रगुपगूढपयोधराग्राम।
यस्येक्षितुं गिरिसुतामधिकाभिराम-
रूपां निगूढमुदकण्ठत साग्नि चक्षुः ॥ 1.56 ॥
यस्य व्यभिद्यत णनः सुतरां किरात-
रूपस्य शैलसुतया शबरीभवन्त्या।
कर्णावतंसितमनोहरकेकिपिच्छ-
सच्छायदीर्घतरलोचनशङ्कुपातैः ॥ 1.57 ॥
यस्यावलम्बितकिराततनोर्निगूढ-
नेत्रोष्मकारण इवाशु किरीटिकोपात्।
स्वेदोदबिन्दुनिकरश्चकरे करेण
निर्मृज्य सीकरकरालिकदिग्ललाटात् ॥ 1.58 ॥
लीलानताननतया प्रतिबिम्बवर्ति-
चूडाशशाङ्कशकलं कुचमर्धभागे।
कल्लोललङ्घितसुधाकलशस्य लीलाम् ॥ 1.59 ॥
येनाद्रिराजतनयाकुचमण्डचलाग्र-
विन्यस्तहस्तकमलं बिभरांबभूवे।
वक्षो हिमाचलशिलाविकटं सतुम्ब-
वीणानिवेशमिव धूलनविभ्रमेषु ॥ 1.60 ॥
संध्याजलाञ्जलिमपोज्झति यश्चिरेण
सस्वेदसीकरकणोत्पुलकाङ्गयष्टः।
देहार्घभागगतशैलसुताननेन्दु-
बिम्बावलोकनसुखस्तिमितेक्षणश्रीः ॥ 1.61 ॥
श्लिष्टोऽनयोः किमु भवेदुत नैव संधि-
र्देहार्घयोर्घटितयोरिति तत्परीक्षाम्।
आरिप्सु यस्य रभसादिव चक्षुरर्ध-
नारीश्वरस्य निरियाय ललाटपट्टात् ॥ 1.62 ॥
यस्यानतिप्रवणरूद्रदृशोऽङ्घ्रियुग्म-
शाखानखांशुविशदीकृतपूर्वभागाः।
आपाण्डुमूलपरिपाटलपुण्डरीक-
पत्त्रशियं दधति वह्निशिखापिशङ्ग्यः ॥ 1.63 ॥
स्तुतिमुंखरमुखास्तं स्वस्तरत्नावतंसाः
स्थिरचरणसपर्याबन्धुरावन्ध्यसंध्याः।
प्रतिदिनमुपचेरुः सिद्धसाध्यामरौघाः
स्फुटकरपुटकोटिश्लिष्टभाश्वत्किरीटाः ॥ 1.64 ॥

इति श्रीबालबृहस्पत्यनुजीविने वागीश्वराङ्कस्य विद्याधिपत्यपरनाम्नो महाकवे राज्ञनकश्रीरत्नाकरस्य कृतौ रत्नाङ्के हरविजये महाकाव्ये पुरारिपुरीवर्णनो नाम प्रथमः सर्गः।
——–***——–

1.1
घूर्जटिः शंकरो युष्मभ्यं सुखानि श्रेयांसि दिशताद्वितरतु। कीदृशः। कुवलयस्तबकैर्निलोत्पसगुच्छैरभिरामं चारु यद्दाम स्रग्धाम तत्तुल्यो विकटच्छवलिर्बहलकान्तिः कालकूटो विषं यस्याः, तथाविधां कण्ठश्रियं धारयन्। अतश्चोपहारेषु पूजासमयेषु भक्तजनदयया पीतो यो धूपधूमस्तेनेव मलिनामित्युत्प्रेक्षा ॥ अथ द्वितीयोऽर्थः–धूर्जटिः शुखानि शोभनानिस्वकार्यक्षमाण्यविषयापवपर्तीनि खानीन्द्रियाणि दिशतात्संपादयतु। कीदृशः। कुबलये भूमण्डले ये स्तवरकाः स्तोतारस्तेषामभिरामस्याभिलषितस्त दामा दाता। स्तवका इत्यत्र स्तौतीति स्तवोऽजन्तः। स्तव एव स्तवक। स्वार्थे कः इति व्युत्पत्तिर्द्रष्टव्या। कीदूशीं कण्ठश्रियम्। अनुकाः श्रृङ्गारिणस्तेषामरिः कामः, तथा विकटच्छविर्भीषणकान्तिर्यः कालः, तयोः कृटां दाहिकाम्। उपहारं हारसमिपे यः पीतः कपिशो घूपः संतापोऽर्थाच्च हारोरगफूत्कृताग्निसंबन्धी तदुत्थेन धूमेनेव मलिनाम्। एतेन वक्ष्यमाणशब्दभङ्गादि कटाक्षितम् ।

1.2
जनितोऽरिचमूनां विमर्शो विविधप्रकारविचारो नरसिंहो भयरुपत्वेनाकाराद्यनिर्धारणाद्येन। वृत्तंमानो यो दैतेयो हिरण्यकशिपुस्तस्य वधनिर्वाहकम् ॥ 1.2 ॥

1.3
पद्मासनस्य ब्रह्मणो यदासनकुशेशयं विष्टरपद्मं तस्य यत्कोषचक्रं कार्णिका तदूः पुनातु। छटा छुरणचर्चा तया वलयितो वेष्टितो यो मेरुस्तेन लीला साम्यम्। वीचिस्थानीयानि पत्त्राणि। शैलस्थानीया कर्णिका ॥ 1.3 ॥

1.4
मन्दराद्रिश्रृङ्गेज्योत्स्नावती नाम नगर्यस्ति। `आलिङ्गनाद–’ (1133) इत्यादि श्लोकं यावद्यास्तीति नित्यत्वाद्वर्तमाननिर्देशः। `वहन्ति वनीताः’ (ईश्वरोऽस्ति) इत्यादिवत्। सुरसरिद्गङ्ग। नवार्करुचीति सौवर्णत्वात्। यद्वा नवैर्लोकोत्तरैरर्काख्यैस्तरुभिः स्फुटिकैर्वा रुक्कान्तिर्यत्र। शर्वेत्तमाङ्ग इव चन्द्रलेखा। वृषध्वजशिरोऽपि गङ्गाजलघाव्यमानम्। तत्रोद्गतस्यार्कस्येव रुक्। जटानां कपिशत्वात्। शशाङ्कलेखापि ज्योत्स्रावती सकौमुदीका। अन्यत्समानम् ॥ 1.4 ॥

1.5
पद्मरागमयसद्मप्रभारुणितं च मध्यगतेन्दुलेखं च। लेखाशब्दोऽत्रार्थचन्द्रोएलक्षणम्। निशि नभोमध्ये कलामात्रस्यासंभाव्त। नरसिंहरनखैस्तिर्यग्विदारितं सरक्तच्छटं हिरण्यकशिपोर्वक्ष इव। नृसिंहनखभिन्नं सरुधिरचर्चं वक्ष इव गगनमिति भिन्नक्रमोऽयमिवशब्दः। `इवेनं समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च’ इति समासस्य नित्यं विधानाद्भिन्नक्रमता न युज्यत इति चेत्, मैवम्। सामर्थ्ये सति समासेन भवितव्यम्। भिन्नशब्दात्परं चेवशब्दः श्रुतो न। तेनास्य सामर्थ्यम्। अन्वयाभावात्। यद्येवं वक्षःशब्दादनन्तरमस्य प्रयोगस्तेन च सह समासः प्राप्नोति। तेनैवास्य संसर्गात्। नित्याधिकारे च (वचनेन) विग्रहस्य निरासात्। एवं तर्हि च्छन्दोविषयत्वादस्य वाक्यस्य न दोषः। असति तत्र च्छन्दोग्रहणे कथं तद्विषयत्वं निश्चिनुम इति चेत्, अस्त्येव तन्निश्चयनिबन्धनं तत्रभवतो भाष्यकारस्य व्यवहारः। यदसौ छन्दोविषयमेव तत्रोदाजहार–`कन्ये इव, वाससी इव’ इति। अन्यत्र लौकिकप्रयोगे भिन्नक्रममिवशब्दं प्रयुयुजे। (यथा–) `सिहिरुपमिव’ इत्यत्रसिंहीव रूपमित्यर्थो विवक्षितः। न तु रूपमिव सिहीति। यस्तु ब्रूयात्–`छान्दस इ (ए) वायं पयोगः, छन्दस्यपि तथा दर्शनात्’ इति तन्मते छन्दसि नित्यं समासवेदनं पूर्वपदप्रकृतिस्वरत्वमुपलभ्यतामिति कथं भिन्नक्रमत्वमिवशब्दस्य युक्तियुक्तं स्यात्। लौकिके तु प्रयोगे न कश्चिद्दोषः। इत्यलं वाचलतया ॥ 1.5 ॥

1.6
ज्योतीरसाश्मानः स्फटिकमणयस्तदश्मनां गृहाङ्गणं दुग्धसिन्धुरिव यत्र स्फुरत्करोर्मितयोल्लसति भ्राजते। अत्रोत्पेक्षा–वधूवदनेन्दुबिम्बसंदर्शनादिवेति। यो हि योषितो वदनमिन्दुसमं पश्यति स चेतनाचमत्कृतिरूपमुल्लासमासादयति। इन्दुबिम्बसंदर्शनं च दुग्धोदधेरुल्लासहेतुः ॥ 1.6 ॥

1.7
केसरः किंजल्कः ॥ 1.7 ॥

1.8
जालमार्गो गवाक्षमार्गः। येन न करैर्जालमार्गेऽवलम्बितः स ऐन्द्रजालिकत्वाद्दग्धमपि किंचिदुत्थापयन्नवभासते। अत्र च कराः पाणयः। जालं व्याजः। मार्गः सरणिः स्रोति (प्रपञ्चो) वा। उत्थापनं प्रत्युज्जीवनम् ॥ 1.8 ॥

1.9
नितम्बःकटिभागः, प्रस्थिकापि। दशना दन्ताः, कोलम्बा अपि। कूर्मी त्रिसरिका, सैरन्ध्रीति प्रसिद्धो वीणाविशेषः। प्रियस्य पपत्युर्नखानामग्रकोणैः प्रान्तभागैरवमर्शो विदारणम्, प्रियश्चातिरुचितो नखानामग्रे स्थितो यः कोणो वादनकाष्ठिका तेनावमर्शो निघर्षणम् ॥ 1.9 ॥

1.10
उभे एव पार्श्वे उभयपार्श्वे। उभशब्दसमानार्थ उभयशब्दो वृत्तावेव। क्षतजमस्रम् ॥ 1.10
1.11
अभ्यर्णं समीपम् ॥ 1.11 ॥

1.12
यत्र वधूनां गण्डभुवि प्रतिविम्बितं शशिशकलमश्चेतत व्यरुचत्। सचिह्रं लाञ्छनसहितम्। अत एव गुणकिणशबलं यत्तलं प्रकोष्ठाग्रं तत्सदृशम्। अच्छमणिः स्फटिकः। न्यासो निक्षेपः ॥ 1.12 ॥

1.13
ज्योतीरसमयीभिरिष्टकाभिश्चतुरस्रघटितैर्लोष्टकौश्चितो द्दब्धः। `इष्टकेषीकामालानां चिततूलभारिषु’ इति ह्रस्वः। वप्रः प्राकारः। निभो व्याजः ॥ 1.13 ॥
1.14
झषकेतनस्य मकरध्वजस्य झल्लर्यो वाद्यभाण्डविशेषाः। ता अपि नूपुरसदृशझांकारिण्यः ॥ 1.14 ॥
1.15
अगुरुधूपयोर्धूमेन मिलितत्वादिन्दुकरचक्रं चन्द्रस्य किरणचक्रम्, यत्र श्लिष्यतोर्गवाक्षपिधानभूतयोर्युज्यमानयोः पिधानफलकयोर्निष्पेषेण किणयुक्तमिव शोभां वहति। किण्स्य कृष्णत्वात् ॥ 1.15 ॥
1.16
अङ्गना इति शसन्तम् ॥ 1.16 ॥
1.17
आसन्नो यः शशिकरेभ्यो भङ्गः क्षयस्तस्य भयेन हस्ता इव तिमिरस्य धूमदण्डाः। स्फुरिता दीर्घाः शिखा एवाङ्गुल्यो येषाम्। दीर्घा शिखा कोटिर्यासां तथाविदा अङ्गुल्य इति च ॥ 1.17 ॥
1.18
रागस्याभिषङ्गस्यानुबन्धो यासां तथाविधाश्च ताः परिमामस्य वार्घकस्य दशाया अवमर्शो बाधस्तेन शून्याश्च ताः। अभिरामं नवं यद्यैवनं तस्य पल्लवः प्रसरो यासां ताः। पक्षे रागस्य लौहित्यस्यानुबन्धो विद्यते येषां तानि च परिणामदशायाः परिपाकदशाया अवमर्शेन स्पर्शेन शून्यानि नवयौवननि चाजरठानि पत्त्राणि यासां ताभिः। कुञ्जवीथी तरुगहनो मार्गः। पुरंध्रयो मुख्ययोषितः ॥ 1.18 ॥
1.19
घटितान्यरराणि कपाटानि विद्यन्ते येषाम्। वद्धमुकैरिव दृश्यमानैः। निशायामपि दृश्यत्वमागतैः। अभ्रंकषा गगनव्यापिनी ॥ 1.19 ॥
1.20
चन्द्रचूडामणौ स्मररौ। देह इति जातावेकवचनम्। देहेष्वित्यर्थः। कटाक्षा एव वाणाः। भ्रुव एव धनुंषि शरासनानि ॥ 1.20 ॥
1.21
मन्मथ एव मतङ्गजः करी तस्य दन्तप्रतिमासाम्यं विभ्राणानि यत्रोत्पलानि मुकुलितान्यपि रुचा न दरिद्रति न हीयन्ते। अत्र च देशसौभाग्यं हेतुः। बिभ्रन्तीति `वा नपुंसकस्य’ िति मुम ॥ 1.21 ॥
1.22
कूवरी रथः। `कूवरंस्तु युगंधरः’ वन्दनमाला पत्त्रपुष्पमयी स्रक् ॥ 1.22 ॥
1.23
लावणअयसहिता कान्तिरेवामृतप्रवाहः भट्टालमुपरि युद्धस्थानम्। तत्प्रधानः सालः पुरीप्राकारः। तस्य वलयरूपत्वाशल वालानुकरणम् ॥ 1.23 ॥
1.24
व्यक्तीकृतावयवाः प्रकटिकृताङ्ग्यश्चन्द्रकलावच्च रुचिररूपा मृगीदृशो यत्र हृदयमावर्जयन्ति। हावभावाननु ब्रध्नातीतीदृशो यः कुसुमायुदोऽनह्गस्तस्य सौधं धवलहर्म्य विश्रान्तिविषयतया हासो यासाम्। हावो रत्यङ्गसंभवश्चेष्टाविशेषः। उक्तं च–`यत्राक्षिभ्रूविकाराद्याः श्रृङऱ्गाराकारसूचकाः। स ग्रीवारेचको ज्ञेयो हावो रत्यङ्गसंभवः॥’ इति। भावोऽभिलाषः ॥ 1.24 ॥
1.25
निकेतो गृहम्। लोहित एवाश्रयवशाल्लौहितीकः स्फटिकः। `कर्कलोहितादीकक्’। अमन्दरुचः सूर्यस्य प्रियाय। त्वदनुग्रहाद्रृहीतमाहात्म्यैरस्माभिररातयोऽवष्टभ्यानीता इतीष्टं निवेदयितुम्। क्वचित् `अशीतरुचा’ इति पाठः। तत्र प्रियाय तेषामेव हितमाधातुं रविणा बन्दीकृताः शशिकरा येष्विति योज्यम्॥ 1.25 ॥
1.26
माणिक्यखण्डैः खचिताश्छुरिताः। दीप्तिसहिता इत्यर्थः। काञ्चनकेतूनां सौवर्णपताकानाम् ॥ 1.26 ॥
1.27
अधिनिशीथिनि रात्रौ। विभक्त्यर्थेऽव्ययीभावः। विभावर्या विकारो वैभावरम्। नैशमित्यण् विकारेऽर्थे विधेयः। भावादौ तु `कालाट्वञ्’ इति ठञेव स्यात् ॥ 1.27 ॥
1.28
आक्रीड उद्यानम्। तामरसिनी कमलिनी। क्रमानुगता सततमाकलिता कैशिकमध्यमस्य कगीतविशेषस्य श्रीर्येन। मध्यमं सततमाकर्णितवन्तः। देशान्तरेऽपि तत्सदृशं नादं तमेवाध्यवस्यन्ति। उत्कंधरस्तिमितपादं च विधूतपक्षं च। जातिक्रियाविशेषता स्वभावोक्तिरुक्ता ॥ 1.28 ॥
1.29
अश्मगर्भं मरकतम्। इरिन्मणिरित्यर्थान्तरम्। परिणमी परिणतः अङ्गेषूपसंक्रान्तः। चिरं बहुकालमुपभुक्तो निपीतः ॥ 1.29 ॥
1.30
हर्म्यमुत्तमागारम्। प्रतिदिशं दिशि दिशि। `अव्ययीभावे शरत्प्रभृतिभ्यः’ इति टच्। उदबिन्दवो जलकणाः। `मन्थौदन–’ इत्यादिनोदकशब्दस्योदभावः ॥ 1.30 ॥
1.31
यत्र शशी तिरस्कृतरुचित्वात्पातालान्तामिव प्रविशति। वैलक्ष्यदिति भावः। कलुषता कलङ्ककृतं मालिन्यं निर्वेदश्च। हृदयं मध्यं मनश्च ॥ 1.31 ॥
1.32
कुटिटमाग्राद्विक्षिप्तोऽनुपयोगान्निरस्तः। करा रश्मयः, करश्च पाणिः। तदाहनने पतनस्य योग्यत्वात् ॥ 1.32 ॥
1.33
पत्युरीश्वरस्य संबन्धिनामालिङ्गनानां मुरजविशेषाणां नादेन रचिता स्थितिर्यत्र तादृशी या व्यरुचत्। `नानाप्रकारेऽप्यवनद्धजातेस्त्रिपुष्करं वाद्यमिहाद्यमाहुः। तत्राङ्ककालिङ्ग्यकसंज्ञको द्वावन्यस्तथा चोर्ध्वकनामधेयः ॥’ तस्याश्च नायिकात्वप्रतीतेः पत्यु प्रियस्यालिङ्गनविषयेणादरेण चिता व्याप्ता स्तितिर्यस्या इत्यपि योजना ॥ 1.33 ॥
1.34
निर्माणदेहो देशकालाद्यवच्छिन्नमिच्छानिर्मितं शरीरं तद्धटनागृहीता येन सः। क्षपितमरोणां चक्रं समूहो येन। क्षपितारिचक्रं सुदर्शनो यस्य स च। तत्पक्षे अरस्तीक्ष्णकीलं तद्युक्तमरि। सौधेः सौधवच्च धवला श्वेता। `कलावचूलः’ इति पाठे अवचूलं चिह्रम् ॥ 1.34 ॥
1.35
प्रपन्ना वशेनागताः। रुद्रीभविष्यतीति सप्तम्यन्तं वपषो विशेषणम् ॥ 1.35 ॥
1.36
साहायकं त्रिपुरदाहे सहायता। `योपधात्–’ इति वुञ्। पृषत्कः शरः ॥ 1.36 ॥
1.37, 1.38
ताण्डवितमाकृष्टम्। चापो… ॥ 1.37 ॥ 1.38 ॥
1.39
ईर्ष्यानुबन्धकलुषमिति प्रसमीक्षणक्रियाविशेषणम् ॥ 1.39 ॥
1.40
अभ्यसूया गुणसहनम्। रोषानुबन्ध ईर्ष्याहेवाकः। उष्णीषः शिरोवेष्टनम्। प्रतिपथः स्वर्गो…। अभिमुखीव क्रोधावेशात् ॥ 1.40 ॥
1.41
पूषा सूर्यः। तद्वक्त्रशेषा या ह्यपरावशिष्टा सा शरणागता दृश्यते। कपालेभ्यो निपतितो माणिबन्धः (?) ॥ 1.41 ॥
1.42
बन्धपरिभ्रष्टः शशी यस्य करेण क्षणं (चिरं) विदद्ये क्षितितले मा लोठिष्टेति। इन्दोःखण्डोऽर्भक इव सलीलं बन्दीकृतोऽवष्टब्धः। तथाविधस्य च शिशोः करेण धारणमुचितं वात्सल्यात्पलायनभयाद्वा ॥ 1.42 ॥
1.43
एति गच्छति। अशान्तेति च्छेदः। परमेष्ठी ब्रह्मा तस्य ॥ 1.43 ॥
1.44
ताण्डवमुद्धतं नृत्तम्। डम्बरः प्रपञ्चः। परिक्रमःक पादसंचारः ॥ 1.44 ॥
1.45
यस्या गुल्फे घटिता मण्डलपूर्वलेखा परिवर्तुलप्रधाना मण्डलस्य वा बिम्बस्य पूर्वा प्रथमा लेखा कला यस्य तादृशः शशी शिरसि धारापर्यसनेन विशीर्यमाणमाणिक्यमणेः पादकटकस्य योभां व्रजति। अनुकारो नृत्तम्। दण्डपादो दण्डाकारतयोर्ध्वंगतश्चरणः ॥ 1.45 ॥
1.46
उच्छलिताः पर्यस्ताः। चारी एकपादप्रचाररूपा। नृत्तविच्छित्तयश्च समपादातिपादाद्याः। `एकपादप्रचारो यः स चारीत्यभिधीयते। पादाभ्यां क्रमणं यत्तु करणं नाम तद्भवेत्॥‘अम्बरमाकाशः ॥ 1.46 ॥
1.47
कालकूटच्छयिव रात्रिरिति वाक्योक्तं रूपकम्। किरीटस्य मौलेर्घाम ऊर्ध्वस्तानं यद्देशे किरीटं क्रियते ॥ 1.47 ॥
1.48
कलिका कलैव ॥ 1.48 ॥
1.49
उद्धूलनं भस्मना विलेपनम्। कूणितं संकोचितम् ॥ 1.49 ॥
1.50
प्रेमामृतेन पूरितत्वादत्र हृदये ममावकाशः स्थानं न विद्यते। अमृ*संनिधौ च विषस्यावकाशः प्रसरो न भवति। संधुक्षितं दीपितम् ॥ 1.50 ॥
1.51
चित्तवृत्तिविकृतेरपि प्रागित्यन्वयः। परीतो व्याप्तः। ॥ 1.51 ॥
1.52
यस्यसरोषतया तृतीयमक्षि मुकुलीबभूव। वह्निमानेतुं संकुचितम्। भ्रुकुट्या विभङ्गो विच्छित्तिः। तस्य धनुषः क्षोभो विमर्दः ॥ 1.52 ॥
1.53
विकिरन्विस्तृतं कुर्वन्। नेदं कालकूटं किं तु हुंकृताग्निधूम इत्यपह्नुतिः ॥ 1.53 ॥
1.54
लडितमुल्लसितम्। लटभा मनोहराः ॥ 1.54 ॥
1.55
ज्वालाकलापो ज्वालासमूहस्तस्य परिणामः परिपाकः। आरान्निकटात् ॥ 1.55 ॥
1.56
पतत्त्रखण्डं पक्षच्छेदः। गुञ्जा रक्तिका। उदकण्ठत ऐच्छत्॥ 1.56 ॥
1.57
व्यभिद्यत व्यहन्यत। केकी मयूरः। लोचने एव शङ्कू मयूरपिच्छाचितौ शरौ ॥ 1.57 ॥
1.58
किरिटी अर्जुनः। सौकरेर्व्याप्ता दिशो येन ईदृशो ललाटात्करेण कृत्वा यस्यार्जुनकोपप्रभवो घर्माम्भःकणनिचयश्च करे क्षिप्तः। `कॄ विक्षेपे’ । `ऋच्छत्यॄताम्’ इति गुणः ॥ 1.58 ॥
1.59
अर्धभागे कुचं प्रतिविम्बितचूडाशशाङ्कशकलम् ॥ 1.59 ॥
1.60
……वीणावादनसमये पुरो देशे गौर्याः स्तितत्वात्। `काण्कडवीणा’ इत्यपि पाठेऽयमेवार्थः ॥ 1.60 ॥
1.61
शैलसुताया मुखेन्दुबिन्बस्य दर्शनंजलाञ्जलौ प्रतिबिम्बितत्वात् ॥ 1.61 ॥
1.62
तस्य संधेः परीक्षामिवारब्धुकामं नयनं यस्य वेगान्निरियाय ॥ 1.62 ॥
1.63
यस्य संबन्धिनोऽह्ग्रियुगलस्याङ्गुलीनां नखांशुभिर्विशदीकृतपुरोधेशा वहिशिखाभिश्च कपिशाः प्रणतिपराणां रूद्राणां दृशः पाण्डुरमूलस्य कमलस्य शोभां धारयन्ति ॥ 1.63 ॥
1.64
सिद्धसाध्यनाम्राममराणां समूहास्तं देवमुपचेरुरसेवन्त। चरणयोः सपर्या पूजा तया बन्धुरा मनोहारिण्यः, अत एवावन्ध्याः सफलाः संध्या येषां ते ॥ 1.64 ॥
`पर्यन्ते प्रतिसर्गं रत्नपदं यत्नतः प्रयुक्तवता। निजनामाङ्कं कविना विरचितमेतन्महाकाव्यम् ॥’ इति राजानकजयानकसूनोरलकस्य कृतौ हरविजयविषमपदोद्योते प्रथमः सर्गः ॥