श्रीदुर्गदत्तनिजवंशहिमाद्रिसानु-
गङ्गाह्रदाश्रयसुतामृतभानुसूनुः।
रत्नाकरो ललितबन्धमिदं व्यथधत्त
चन्द्रार्धचूलचरिताश्रयचारु काव्यम् ॥ 1 ॥
स किल कविरेवमुक्तवान्—
ललितमधुराः सालंकाराः प्रसादमनोरमा
विकटयमकस्लेषोद्धारप्रबन्धनिरर्गलाः।
असदृशगतीश्चित्रे मार्गे ममोद्गिरतो गिरो
न खलु नृपते चेतो वाचस्पतेरपि शङ्कते ॥ 2 ॥
सन्द्रानन्दामृतरसपरिस्पन्दनिः स्यन्दिनीना-
मस्मद्वाचामतिशयजुषां वस्तुतत्त्वाभिधाने।
प्रैढज्योत्स्नाधवलविकसाद्दिग्वधूकर्णपूर-
ब्रह्मस्तम्भस्तबकयशसां कोऽपि टाङ्कारटङ्कः ॥ 3 ॥
धाराकाव्यप्रबन्धप्रणिहितपरमः श्रोत्रपेया कवीनां
भाषापट्केऽपि यस्य क्वचिदपि न गता भारती भारवत्त्वम्।
प्राप्तेज्ञेयावसानस्फुरदमलतरप्रातिभज्ञानसंप-
त्योऽहं रत्नाकरस्ते सदसि कृतपदः क्ष्माप वागीश्वराङ्कः ॥ 4 ॥
यस्योदयेऽन्धतमसं दधतो (दहतो) विसुद्धि-
राविर्भवत्यनिशमेव जलाशयानाम्।
तद्ग्रस्तवाङ्भयसमुद्रमवेहि राज-
न्रत्नाकरं रविमथैनमगस्त्यमौर्वम् ॥ 5 ॥
दृब्धं सत्प्रज्ञकैर्यन्न जगति कविभिर्वस्तु तन्नास्ति किंचि-
त्क्षुण्णे क्षुण्णत्वचिन्ता गहनविषयता तस्य दूरास्तु तावत्।
तन्मन्दाभिप्रगल्भप्रसरगुरुगिरामग्रणीर्बाण एको
राजन्रत्नाकरश्च ज्वलनवदवनौ जाज्वलीति द्वितीयः ॥ 6 ॥
हरविजयमहाकवेः प्रतिज्ञां श्रृणुत कृतप्रणयो मम प्रबन्धे।
अपि शिशुरकविः कविः प्रभावाद्भवति कविश्च महाकविः क्रमेम ॥ 7 ॥