निग्रहाष्टकम् (अप्पय्यदीक्ष्हितविरचितम्)

निग्रहाष्टकम्
श्रीमदप्पय्यदीक्षितविरचितम् ।

विश्वास-प्रस्तुतिः - १

मार्गे सहायं भगवन्तम् एव
विश्वस्य विश्वाधिक निर्गतोऽस्मि
शास्त्रं प्रमाणं यदि, सा +++(→कृत्या)+++ विपत्स्यात्
तस्यैव मन्दो मयि यां चिकीर्षेत् ॥ १॥

मूलम् - १

मार्गे सहायं भगवन्तमेव
विश्वस्य विश्वाधिक निर्गतोऽस्मि ।
शास्त्रं प्रमाणं यदि सा विपत्स्या-
त्तस्यैव मन्दो मयि यां चिकीर्षेत् ॥ १॥

विश्वास-प्रस्तुतिः - २

कान्तारे प्रान्तरे वा मद्-अ-कुशल-कृतौ सान्तरं सान्तरङ्गं
मह्यं द्रुह्यन्तम् अन्तं गमयतु भगवान् अन्तकस्यान्तकारी ।
क्षिप्रं विप्राधमस्य क्षिपतु तद्-उदरस्येव मायाविवर्तान्
आर्तान् बन्धून् अबन्धून् इव मम शिशिराभ्यन्तरान् सन्तनोतु ॥ २॥

मूलम् - २

कान्तारे प्रान्तरे वा मदकुशलकृतौ सान्तरं सान्तरङ्गं
मह्यं द्रुह्यन्तमन्तं गमयतु भगवानन्तकस्यान्तकारी ।
क्षिप्रं विप्राधमस्य क्षिपतु तदुदरस्येव मायाविवर्ता
नार्तान्बन्धूनबन्धूनिव मम शिशिराभ्यन्तरान्सन्तनोतु ॥ २॥

विश्वास-प्रस्तुतिः - ३

सहस्रं वर्तन्तां पथिपथि परे साहस-कृतं
प्रवर्तन्तां बाधं मयि विविधम् अप्यारचयितुम्
न लक्षीकुर्वेऽहं नलिन-ज-लिपि-प्राप्तम् अपि तन्
मम स्वामी चामीकर–शिखर-चापोऽस्ति पुरतः ॥ ३॥

मूलम् - ३

सहस्रं वर्तन्तां पथिपथि परे साहसकृतं
प्रवर्तन्तां बाधं मयि विविधमप्यारचयितुम् ।
न लक्षीकुर्वेऽहं नलिनजलिपि प्राप्तमपि तन-
मम स्वामी चामीकरशिखरचापोऽस्ति पुरतः ॥ ३॥

विश्वास-प्रस्तुतिः - ४

सङ्कल्प्य स्थाणु-शास्त्र-प्रचरण-विहतिः स्वेन कार्या भुवीति
श्मश्रूणि स्वैरमश्रूण्यपि खलु महतां स्पर्धया वर्धयन्तम् ।
क्षुद्रं विद्रावयेयुर्झटिति वृषपतिक्रोधनिःश्वासलेशाः
शास्त्रं शैलादिभृत्यास्तनुयुरखिलभूमण्डलव्याप्तमेतत् ॥ ४॥

मूलम् - ४

सङ्कल्प्य स्थाणुशास्त्रप्रचरणविहतिः स्वेन कार्या भुवीति
श्मश्रूणि स्वैरमश्रूण्यपि खलु महतां स्पर्धया वर्धयन्तम् ।
क्षुद्रं विद्रावयेयुर्झटिति वृषपतिक्रोधनिःश्वासलेशाः
शास्त्रं शैलादिभृत्यास्तनुयुरखिलभूमण्डलव्याप्तमेतत् ॥ ४॥

विश्वास-प्रस्तुतिः - ५

क्वचिद् अवयवे दग्धुं कश्चिद् बलाद् अनुचिन्तयन्
निरसनम् इतो देशात् कर्तुं महेश्वरम् आश्रितान् ।
प्रमथ-परिषद्-रोशैर् दग्धाऽखिलावयवः स्वयं
निरसनम् इतो लोकाद् एव क्षणेन समश्नुताम् ॥ ५॥

मूलम् - ५

क्वचिदवयवे दग्धुं कश्चिद्बलादनुचिन्तयन्
निरसनमितो देशात्कर्तुं महेश्वरमाश्रितान् ।
प्रमथपरिषद्रोशैर्दग्धाऽखिलावयवः स्वयं
निरसनमितो लोकादेव क्षणेन समश्नुताम् ॥ ५॥

विश्वास-प्रस्तुतिः - ६

काल-प्रतीक्षा नहि तस्य कार्या
पुलस्त्य-पुत्राऽऽदिवद् अन्तकारे ।
त्वद्-आश्रित-द्रोह-कृतोद्यमानां
सद्यः पतेद् एव हि मूर्ध्नि दण्डः ॥ ६॥

मूलम् - ६

कालप्रतीक्षा नहि तस्य कार्या
पुलस्त्यपुत्राऽऽदिवदन्तकारे ।
त्वदाश्रितद्रोहकृतोद्यमानां
सद्यः पतेदेव हि मूर्ध्नि दण्डः ॥ ६॥

विश्वास-प्रस्तुतिः - ७

कण्ठे रुद्राक्ष-मालां भसितम् अतिसितं भाल-देशे च पश्यन्
नश्यन्न् एव क्रुधं यस् तद्-अपहृत-मतिः सत्सु कुर्वीत गुर्वीम् ।
तत्-फालात् तूर्णम् आयुर् लिखितम् असु-गणं चापि तत्-कण्ठ-देशात्
क्रुद्धास् ते ह्य् उद्धरेयुर् निज-पद-कमलाङ्गुष्ठ-लीला-विलासात् ॥ ७॥

मूलम् - ७

कण्ठे रुद्राक्षमालां भसितमतिसितं भालदेशे च पश्यन्
नश्यन्नेव क्रुधं यस्तदपहृतमतिः सत्सु कुर्वीत गुर्वीम् ।
तत्फालात्तूर्णमायुर्लिखितमसुगणं चापि तत्कण्ठदेशात्
क्रुद्धास्ते ह्युद्धरेयुर्निजपदकमलाङ्गुष्ठलीलाविलासात् ॥ ७॥

विश्वास-प्रस्तुतिः - ८

स-कल-भुवन-कर्ता साम्ब-मूर्तिः शिवश् चेत्
स-कलम् अपि पुराणं सागमं चेत् प्रमाणम् ।
यदि भवति महत्त्वं भस्म-रुद्राक्ष-भाजां
किम् इति न मृतिर् अस्मद्-द्रोहिणः स्याद् अकाण्डे ॥ ८॥

मूलम् - ८

सकलभुवनकर्ता साम्बमूर्तिः शिवश्चेत्
सकलमपि पुराणं सागमं चेत्प्रमाणम् ।
यदि भवति महत्वं भस्मरुद्राक्षभाजां
किमिति न मृतिरस्मद्रोहिणः स्यादकाण्डे ॥ ८॥

इति श्रीभारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्य
श्रीमदप्पय्यदीक्षितकृतं चक्राङ्कितनिग्रहाष्टकं सम्पूर्णम् ॥

श्रीरस्तु । शुभमस्तु ।