[[कुमारसम्भवः (द्वितीयः सम्पुटः) Source: EB]]
[
[TABLE]
[TABLE]
॥श्रीः॥
महाकविश्रीकालिदासप्रणीतः
कुमारसम्भवः
श्रीमदरुणगिरिनाथविरचितया कुमारसम्भवप्रकाशिकया
श्रीनारायणविरचितेन कुमारसम्भवविवरणेन च
समेतः।
अथ तृतीयः सर्गः।
तस्मिन् मघोनस्त्रीदशान् विहाय
सहस्रमक्ष्णां युगपत् पपात।
प्रयोजनापेक्षितया प्रभूणां
प्रायश्चलंगौरवमाश्रिते1ऽपि॥१॥
(प्रकाशिका)
अथोपक्षिप्तमुपायानुष्ठानं प्रपञ्चयति—
तस्मिन्निति। तस्मिन् कामे। त्रिदशान् मन्त्राय समासीनान्।सहस्रमित्यादिना तस्या2त्रादरातिशयद्योतनात् स्वगौरवत्यागो दर्शितः। तदुपपादयति—प्रयोजनापे3क्षितयेति।चलंगत्वरम्। गौरवं सावष्टम्भा-
वस्थानादि। आश्रितेऽपि परिजनविषयेऽपि। कर्तरि निष्ठा अयमर्थः—यदा प्रभवः परिजनात् कार्यमपेक्षन्ते, तदा स्वगौरवमपि विहाय परिजनमपि संभावयन्तीतिः4। त्रिदशान् विहायेत्युक्त्या त्रिदशगतंगौरवमेकौधभूतं कामगतमिति दर्शितम्। न चायं दोषः, ‘अर्थाधिकारी धीरोद्धतः इति भोजोक्तेः। चलश्च कार्यापेक्षया धीरोद्धतः। अत एव प्रायश्शब्दः॥१॥
(विवरणम् )
अथोपक्षिप्तं पार्वतीपरमेश्वरसङ्गमोपायानुष्ठानं तदनुबद्धंकामदहनं॑ च तृतीयेनानेन सर्गेण वण्यते। तत्र कामदेवागमनानन्तरं5 मघोनस्तद्विषयां प्रतिपत्तिं6 दर्शयति—
तस्मिन्निति। मघोनः अक्ष्णां सहस्रं त्रिदशान् विहाय तस्मिन् युगपत् पपात। मघोनः इन्द्रस्य। ‘इन्द्रो मरुत्वान् मघवे’त्यमरः। अक्ष्णां नयनानां सहस्रं त्रिदशान् देवान् विदाय परित्यज्य तस्मिन् कामदेवे युगपत् सहैव7 पपात पतितमासीत्। तत्र सहस्रयुगपच्छब्दाभ्यां मघोनस्त्वरातिशयो द्योत्यते। तेन च कामदवेऽस्यादरातिशयः। त्रिदशान् विहायेति तेष्वनादर उक्तः। पूर्वं मन्त्राय समासीनानखिलानमराननादृत्याक्षिसहस्रेण सहस्राक्षस्तत्कालसमागतं कामदेवमेव सबहूमानमवलोकितवानित्यर्थः। ननु मन्त्राय पूर्वमारोपितगौरवेषु देवेषुकथं कामदेवागमनानन्तरमेव तस्यानादरः, कथं वा तत्कालसमागतकामदेवे चादरः , अत आह—प्रभूणाम् आश्रितेषु गौरवंप्रयोजनापेक्षितया प्रायः चलमिति। प्रभूणांराज्ञाम् अश्रितेषु सेवकेषु। कर्तरि निष्ठा। इयं तु विषयसप्तमी। प्रभूणामाश्रितजने विषये यद् गौरवमादरः, तत् प्रयोजनापेक्षितया प्रयोजनमपेक्षितुंशीलमेषामिति प्रयोजनापेक्षिणः, तेषांभावस्तत्ता, तया हेतुभूतया। प्रायः
प्रायेण चरं चञ्चलं भवति। यस्मात् प्रभवः प्रयोजनापेक्षिणः, तस्मादाश्रितविषयस्तेषामादरः प्रायेण तत्तदर्थसाधकेषु जनेषु चश्चलोभवतीत्यर्थः। धीरोद्धतानामयं स्वभावः। यदाह भोजः—अर्थधिकारी धीरोद्धत’ इति। धीरोद्धतानामर्थाधिकारित्वात् तेषामाद (रस्य? रः) स्वगौरवमपहायापिपरिजनमपि सम्भावयतीत्यर्थः8। अत्रार्थान्तरन्यासः। कार्यापेक्षितयैव चलत्वमिति9 प्रायश्शब्दः प्रयुक्तः।महेन्द्रस्य धीरोद्धतत्वंप्रतिनायकत्वकृतम्। आश्रितेऽपीति पाठेप्रभवः (?) ॥१॥
स वासवेनासनसन्निकृष्ट-
मितो निषीदेतिनिसृष्टभूमिः10।
भर्तुःप्रसादंप्रतिनन्द्य मूर्ध्ना
वक्तुं मिथः प्राक्रमतैवमेनम्॥२॥
(प्रकाशिका)
स इति।वासवेनेति तत्कृतस्य11 संभावनस्य दुर्लभतां द्योतयति। आसनसन्निकृष्टं सन्रिकृष्टासनम्। आहिताग्न्यादिषु12 पाठात् साधुत्वम्। षष्ठीसमासस्तु न भवति, ‘न लोका—’(२.३.६९) इति षष्ठीप्रतिषेधात्। इदं तु13 निसर्गक्रियाविशेषणं मिथोवचनाङ्गम्। निसृष्टभूमिर्दत्तावस्थानंभूमिष्ठ इत्यर्थः। प्रसादं माननम्14। मूर्ध्ना, साञ्जलिना नम्रेणेत्यर्थाल्लभ्यते।मिथो रहसि। एवमिति वक्ष्यमाणस्याप्युपसंहारः॥२॥
(विवरणम्)
अथ वाचिकसम्भावनाप्रदर्शनपुरस्सरं मन्मथस्य वचनावसरं दर्शयति—
स इति। वासवेन इतः निषीदेति आसनसन्निकृष्टं निसृष्टभूमिः सः
भर्तुःप्रसादं मूर्ध्ना प्रतिनन्द्यमिथः एनमेवं वक्तुं प्राक्रमत। वासवेन देवेन्द्रेण। अनेन तत्कृतस्य सम्भावनस्यात्यन्तदुर्लभत्वं द्योत्यते। इतः अस्मिन् प्रदेशे। सप्तम्यर्थे तसिः। निषीद स्थितिं कुरु। आसनसन्निकृष्टमिति निसर्गक्रियाविशेषणम्। आसनसन्निकृष्टं सन्निकृष्टासनम्। आहिताग्न्यादिषु पाठत् साधुत्वम्। सन्निकृष्टमासनं यथा भवति तथा निसृष्टभूमिरित्यर्थः। न पुनरत्रासनस्थ सन्निकृष्टामिति समासः। ‘न लोक’ (२,३,६९)इत्यादिना षष्ठीप्रतिषेधात्15। निसृष्टा दत्ता भूमिरवस्थानप्रदेशोयस्मै स तथा। पूर्वं कामदेवाधिष्ठितात् प्रदेशादारभ्यात्मसिंहासनपर्यन्तं स्वहस्तेनैवाहूय तत्र दत्तावस्थानप्रदेश इत्यर्थः। तत्रावस्थायेत्यर्थात् सिध्यति। एतच्च मिथोवचनाङ्गम्। सः कामदेवः भर्तुः स्वामिनः प्रसादंसगौरवावलोकनादिरूपं संमानं मूर्ध्ना, साञ्जलिना नम्रेण शिरसेत्यर्थः। प्रतिनद्य प्रसादमभिनन्द्य। मिथः रहसि। अनेन मन्त्रगुप्तिर्दर्शिता। एनं भर्तारम्। एवमिति वक्ष्यमाणप्रकारसङ्क्षेपः। वक्तुंप्राक्रमत उपक्रान्तवान्॥२॥
आज्ञापयज्ञातविशेष ! पुंसां
लोकेषु यत् ने करणीयमस्ति।
अनुग्रहं संस्मरणप्रवृत्त-
मिच्छामि संवर्धितमाज्ञया ते॥३॥
(प्रकाशिका)
आज्ञापयेति। मद्विशेषमधिगम्य मामस्मर इत्यामन्त्रणपदेन द्योत्यते। यत् करणीयं तदाज्ञापयेत्यर्थः। प्रथममेवाज्ञापयेति किमुक्तमित्याह—अनुग्रहमिति।संवर्धितमिति पाठः। मायि संस्मरणेनाङ्कुरितं तवानुग्रहमाज्ञया संवर्ध्यग्गनमिच्छामीत्यर्थः॥३॥
तृतीयः सर्गः।
(विवरणम्)
एवंशब्दोक्तमेव प्रपञ्चयत्याज्ञापयेत्यादिभिरष्टभिःश्लोकैः—
आज्ञापयेति। पुंसां ज्ञातविशेष! त्वामाज्ञापय। पुंसांपुरुषाणां ज्ञातो विशेषः सामर्थ्यभेदोयेन, ज्ञातसकलपुरुषसामर्थ्यभदेत्यर्थः। अनेनामन्त्रणेन मत्सामर्थ्यविशेषमवधार्यखलु भवताहं स्मृतः। तस्मान्मदुचिते कार्ये मामाज्ञापयेति ध्वन्यते। यो यस्मिन् कर्मणि कुशलः तं तस्मिन्नेव योजयेद्’ इति न्यायादिति भावः। आज्ञापनस्यविषयमपि सङ्क्षिप्य दर्शयति—ते लोकेषुयत् करणीयमस्तीति। ते (तव) लोकेषुलोकत्रये। अत्रबहुवचनेन सर्वलोकगतार्थसाधनसमर्थत्वमात्मनःसमर्थितम्। करणीयं कर्तव्यम्। मयेति शेषः। लोकत्रयेतवमया यत्कर्तव्यमस्ति, तदाज्ञापयेति पूर्वेणान्वयः। आज्ञापनमात्रस्यौवात्र कालविलम्ब इति भावः। ननु किमर्थमादावेवाज्ञापयेत्युक्तम्अत आह—अहंसंस्मणप्रवृत्तं तेऽनुग्रहमाज्ञया संवर्धितमिच्छामीति। संस्मरणप्रवृत्तं संस्मरणेत सम्यक् स्मरणेन। अत्र स्मरणस्य सम्यक्त्वं नाम सरभसागमनप्रयोजकत्वम्। प्रवृत्तमङ्कुरितम्। ते त्रैलोक्यनाथस्य तव।अनुग्रहम्। अनेनानुग्रहस्यात्यन्तदुर्लभत्वमुक्तम्। संवर्धितं सम्यग्वर्धितम्। वर्तमाने क्तः। वर्ध्यमानं सन्तमिच्छमि। सर्वलोकाधिपतेस्तव योऽनुग्रहः संस्मरणेनमय्यङ्कुरितोऽभूत् तमहमाज्ञया वर्ध्यमानमिच्छामीत्यर्थः॥३॥
केनाभ्यसूया पदकङ्क्षिणा ते
नितान्तदीर्घैर्जनिता तपोभिः।
यावद्भयत्याहितसायकस्य
मत्कार्मुकस्यास्य निदेशवर्ती॥४॥
____________________________________________________
१.‘र्ध्यमानम्।’ ङ, पाठः, २. ‘र्ध’क. ख. ग. घ.पाठः. ३. ‘र्ध’ क. ख, ग, घ. पाठः,
(प्रकाशिका)
धीरोद्धतद्वाद् दुस्साधेष्वर्थेषु स्वशक्तिं प्रकाशयंस्तानेवार्थानेकैकं पृच्छति षड्भिः श्लोकैः—
केनेति। पदकाङ्क्षिणा इन्द्रपदं प्रार्थयता। यावद् भवति भविष्यतीत्यर्थः।असौभवतीति पाठे वर्तमानसामीप्ये लट्॥४॥
( विवरणम् )
अत्र प्रतिनायको मारो धीरोद्धतत्वादत्यन्तदुस्साधेष्वप्यर्थेषुस्वशक्तिं प्रकाशयंस्तानेवार्थान् पृच्छति षड्भिः श्लोकैः। तत्र तदिच्छानुसारेण हि प्रश्नःकर्तव्यः। इच्छा च द्विविधा अनिष्टपरिहाररूपा इष्टप्राप्तिरूपा च। तत्रानिष्टपरिहारस्यैवप्राधान्यं ‘कृतकृत्यस्य कामेऽधिकारः’ इति वचनादिति आदावनिष्टपरिहारविषयःप्रश्नःक्रियते। तत्रानिष्टपरिहारोऽपि द्विविधः सर्वस्वनाशपरिहारस्तदे(के?कदेश)नाशपरिहारश्च। तत्र सर्वस्वनाशस्यैव हि प्राधान्यमिति आदौ तद्विषयं प्रश्नमवतारयति—
केनेति। केन ते पदकाङ्क्षिणा नितान्तदीर्घैःतपोभिः अभ्यसूया जनिता। अत्र केनेति सर्वनाम्नानिजशक्तेः सार्वत्रिकत्वं द्योत्यते। ते तवपदकाङ्क्षिणा पदं स्थानं काङ्क्षितं शीलमस्येति तथा। इन्द्रपदं प्रार्थयतेत्यर्थः। नितान्तदीर्घैःअत्यन्तदीर्घैः, बहुकालकृतैरित्यर्थः।अनेन तपसः16 पदाहरणसामर्थ्यं दर्शितम्। अभ्यसूया असूया जनिता उत्पादिता। त्रैलोक्ये कः पुमान् बहुकालकृतैस्तपोभिस्त्वां दूरतो निराकृत्य स्वयमेवामरावतीमधिष्ठाय माहेन्द्रं पदमहमेवानुभवामीति कृतोद्योगस्तवासूयां जनयतीत्यर्थः। त्वरितं वदेति शेषः। ननूक्त्वा किं फलमित्यत्राह—सः अस्य मत्कार्मुकस्य निदेशवर्ती यावद्भवतीति। कर्तृपदमत्राध्याहार्यम्। अस्य मत्पाणाविदानीं विद्यमानस्य। अनेनायुधादानहेतुकः कालविलम्बो निरस्तः। मत्कार्मुकस्य अनेन स्वातन्त्र्यमायुधस्योक्तम्। निदेशवर्ती निदेशे आज्ञायां वर्तितुं शीलमस्येति तथा। ताच्छील्ये णिनिः।
अनेनासौ पुनः कदाचिदपि तपश्चरितुं न यतिष्यत इत्यर्थो द्योत्यते। यावद्भवति, यावत्पुरानिपातयोर्लट् (३.३.४) इति भविष्यदर्थे लट्। स मत्कार्मुकाज्ञाकरएव भविष्यतीत्यर्थः। आहितसायकस्य आहितः कृतसन्धानः सायकः शरो यस्मिन्। अनेन विशेषणेन कार्मुकस्य शरसन्धानव्यतिरिक्तकारणान्तर- निरपेक्षत्वं ध्वनितम्॥४॥
असम्मतः कस्तव मुक्तिमार्गं
पुनर्भवक्लेशभयात् प्रपन्नः।
बद्धश्चिरं तिष्ठतु सुन्दरीणा-
मारेचितभ्रचतुरै17र्विलासैः॥५॥
(प्रकाशिका)
पुरुषार्थेषु मोक्षमधिकृत्याह
असम्मत इति। प्रभुणा लोकतन्त्रेऽधिकृतस्य कस्यचिन्मुमुक्षुत्वं प्रभोरसम्पतमिति भावः। तर्हि स कुतस्तत् प्रतिपद्यत इत्याह—पुनर्भवक्लेशभयादिति। सर्वो हि स्वार्थे वर्तते। आरेचनम् एकस्या भ्रुवो ललित18मीषदुत्क्षेपणम्। रेचितं पुनरेकस्या ललितोत्क्षे19पणं भ्रुव इत्याहः20। एतदेकं वाक्यम्। वाक्यभेदे तु स इत्युत्तरार्धोऽध्याहार्यः॥५॥
(विवरणम्)
अथ पुरुषार्थचतुष्टये धर्मस्यैव प्राधान्यात् तद्विषयः प्रश्नः क्रियते। स तु स्वराज्यैकदेशनाश परिहारविषयश्चेति मन्वानः पृच्छति—
** असम्मत** इति। तव असम्मतः पुनर्भवक्लेशभयाद् मुक्तिमार्गं प्रपन्नः कः सुन्दरीणाम् आरेचितभ्रूचतुरैः विलासैः बद्धः चिरं तिष्ठतु। तव असम्मतः
त्रैलोक्यरक्षाधिकृत्य तवानिष्टः। तव सम्मतिं विनैव मुक्तिमार्ग प्रपन्न इत्यर्थः नहि प्रभुणा लोकतन्त्रे नियुक्तस्य पुरुषस्य मुमुक्षुत्वं प्रभोः सम्मतं भवति तस्य मुमुक्षुत्वे तत्पदस्य रक्षाशैथिल्येन विनाशप्रसङ्गादित्यर्थः। मुक्तिमार्ग प्राप्तौ हेतुमाह—पुनर्भवक्लेशभयादिति। पुनर्भवेण जननमरणेन यः यः क्लेश पीडा तद्भयात्। स्वार्थमात्रपरो हि लोकः। अतः परा (र्थानां?र्थां) लोकरक्षा मुपेक्ष्य निजक्लेशहारिणीं मुक्तिपदवीमेव प्रपन्न इति भावः। मुक्तिमार्गं मोक्षमार्गम् इहामुत्रभोगाविरमादिरुपां पदवीं प्रपन्नः प्राप्तः कः पुमान् सुन्दरीणां सर्वावयवसुन्दरीणां स्त्रीणाम् आरेचिताभिः ईषद्रेचितयुक्ताभिः। रेचितमेकस्या भ्रुवो ललितोत्क्षेपणम्। यथोक्तं सङ्गीतशास्त्रे—रेचितं पुनरेकस्या ललितोत्क्षेपणं भ्रुवं इति। तादृशीभिर्भ्रूभिः चतुरैः सुन्दरैः। अत्र रेचितशब्देनैव भ्रूशब्दार्थे सिद्धेऽपि पुनर्वचनं करिकलभन्यायादिति मन्तव्यम्। अथवा आरेचिताभिः नर्तिताभिः। आरेचितं नर्तितं स्यादिति भोजः। अयं तु पक्षो माधवोक्तः। विलासैः कटाक्षविक्षेपादिरूपैः बद्धः वशीकृतः चितं चिरकालं तिष्ठतु त्वत्प्रसादपर्यन्तं स्त्रीजनपराधीन एव स्थितिं करोत्विति भावः। इत्थमेकवाक्यतापक्षे योजना। वाक्यभेदे पुनरुत्तरार्धेस इति कर्तृपदमध्याहृत्य पूर्वश्लोकवद् योजनीयम्॥५॥
अध्यापितस्योशनसापि नीतिं
प्रयुक्तरागप्रणिधिर्द्विपस्ते।
कस्यार्थधर्मौ वद पीडयानि21
सिन्धोस्तटावोध इव प्रवृद्धः॥६॥
(प्रकाशिका)
धर्मार्थावधिकृत्याह
अध्यापितस्येति। उशनसापीति। न कश्चिन्नापनयते पुमानन्यत्र भार्गवादिति दर्शनात्। अध्यापितस्यापीत्यन्वयेऽपि अप्यर्थ उशनसि विश्राम्यति, विशेषणे तात्पर्यात्। नीतिमिति, नीतेर्धर्मार्थयोरुभयोरपि पालने साधनत्वात्। प्रयुक्तो रागो विषयाभिषङ्ग एवचारो22यस्य। अस्मन्नीतिराौशनसीमपि नीतिं जेतुं क्षमेति भावः। एकेनोभयोरपि पीड्यत्वमुपमयोपपादयति—सिन्धोरिति॥६॥
(विवरणम्)
अथ धर्मार्थावधिकृत्य प्रश्नः क्रियते। स तु भविष्यदापत्परिहारविषयश्चेति तृतीयं प्रश्नमवतारयति—
अध्यापितस्येति। अहं ते द्विषः कस्य अर्थधर्मौ पीडयानि वद। ते द्विषस्तव शत्रुभूतस्य कस्य अर्थधर्मौ अर्थं च धर्मं च पीडयानि विनाशयेयम्। प्रश्ने लोट्। वद निर्दिश। अत्र कस्यार्थधर्मौ पीडयानीति प्रश्नेनैव वदेत्येतस्य कदार्थत्वेनानुपयोगात् तव वचनविलम्ब एवात्र विलम्ब इत्येतस्मिन्नर्थे शब्दोऽयं सङ्क्रमितः। औद्धत्यपरिहारो व्यङ्ग्य इत्यर्थान्तरसङ्क्रमितवाच्यध्वनिः। न मे प्रभावो नीतिशास्त्रवेदिषु विहन्यत इत्याह—उशनसा नीतिम् अध्यापितस्यापीति। उशनशा भार्गवेण। उशना भार्गवः कविरित्यमरः। नीतिं नीतिशास्त्रम् अध्यापितस्य अध्ययनं कारितस्यापि। उशनसा स्वयमेव शिक्षतनीतिशास्त्रस्यापीत्यर्थः)। उशनस एव नीतिशास्त्रप्रवीण्यमिति प्रसिद्धं न कश्चिन्नापनयते पुमानन्यत्र भार्गवत्। भार्गवेण समो नये इत्यादिषु। अर्थपालन इव धर्मपालनेऽपि नीतेरेव साधनत्वप्रसिद्धेरेवमुक्तम्। मम नीतिरौशनसीमपि नीतिं जेतुं क्षमेति भावः। आत्मनो नीतिविदां धर्मार्थविश्लेषे साधनसम्पत्तिं दर्शयति—प्रयुक्तरागप्रणिधिरिति।
प्रयुक्तः प्रेरितो रागो विषयाभिलाष एव प्राणधिश्चरो येन स तथा। अतिप्रवृद्धो हि विषयाभिलाषः सर्वानपि पुरुषार्थान् विघटयितुं क्षम इति भावः। परणीतिविश्लेषणस्य प्रणिधिसाध्यत्वाद् रागोऽत्र प्रणिधित्वेन रूपितः। प्रणिधिरपसर्पश्चरः स्पर्श इत्यमरः। ननु कथमेकस्यैवोभयविश्लेषणसामर्थ्यं युगपदेव सम्भवतीतीमामाशङ्कामुपमयापरिहरति—
प्रवृद्ध ओघःसिन्धोस्तटाविवेति।प्रवृद्ध प्रवृषि महतीं वृद्धिं प्राप्तःओघःनदीवेगः। ‘ओघो वृन्देऽम्भसां रये’ इति सिंहः। सिन्धोः नद्याः तटौ तरिप्रदेशाविव। यथा प्रवृद्धो जलप्रवाहः सिन्धोस्तटद्वयं विघटयति, तथाहं कस्यार्थधर्मौ विघटयेयमिति त्वरितमेव वदेत्यर्थः। त्रैलोक्ये कः पुरुषो धर्मार्थाभ्यामुपायाभ्यां त्वां जेतुमुद्योगं करोति, अहं तस्यार्थधर्मयोः काम एवोपयोगं विधास्यामीति भावः॥६॥
कामेकपत्नीव्रतदुःखशीलां
लोलं मनश्चारुतया प्रविष्टाम्।
नितम्बिनीमिच्छसि मुक्तलज्जां
कण्ठे स्वयंग्राहविषक्तबाहुम्॥७॥
(प्रकाशिका)
अथ कामस्य शृङ्गारात्मकस्य सम्भोगविप्रलम्भद्वैविध्यं सति सम्भोगस्यासता लब्धलाभात्मकत्वाभावात् तं विहाय तदात्मकं विप्रलम्भं प्रागसङ्गतवियुक्तविषयत्वेन द्विविधं समान्येन मन्वानस्तत्राद्यमधिकृत्याह—
कामिति। एकपत्नीं पतिव्रता, तस्या व्रतं परषुरुपादर्शनादि, तेन दृःखशीलां दुरुपक्रमस्वभावाम्। लोलं मनः, मनसः स्वभावलोल-
___________________________________________________
१.यं त्व ङ. पाठः. २.नि मुद्रितकोशपाठः. ३.क ङ. पाठः ४.म्भप्रसङ्गातङ. पाठः ५.पुरुषान्तराद् ङ. पाठः
त्वादित्यर्थः। चारुतया रूपसम्पदा। मुक्तलज्जादित्यष्टमींकामावस्थां दर्शयति23। तत एवस्वयङ्ग्राहलक्षणा चपलता॥७॥
( विवरणम् )
अनन्तरमिष्टप्राप्तिरूपःप्रश्नःक्रियते। स त्वत्र कामविषयः। इतरेषां कामदेवानधीनत्वात्। तत्र शृङ्गारात्मको हि कामः।शृङ्गारस्तु सम्भोगविप्रलम्भभेदेन द्विविधः। तत्र सम्भोगस्य अलब्धनायिकाविषयत्वाभावेन तत्सिद्ध्यध्यर्थंमात्मनःस्मरणानुपपत्तेस्तत्प्रश्नमपहाय विप्रलम्भविषयः प्रश्नःक्रियते। तत्र विप्रलम्भोऽपि द्विविधः। एकः प्रागसङ्गतनितम्बिनीविषयः, अन्यस्तु विप्रयुक्तनायिकाविषषः। तत्राद्यमधिकृत्याह—
कामिति। त्वम् एकपत्नीव्रतदुःखशीलांकां नितम्बिनीं कण्ठेस्वयंग्राहनिषक्तबाहुम् इच्छसि। एकस्य पत्नी एकपत्नी पतिव्रतेत्यर्थः, तस्या व्रतंपुरुषान्तरादर्शनादिरूपं, तेन दुःखशीलां दुर्धर्षस्वभावाम्।‘शीलंस्वभावे सद्वृत्ते’ इति सिंहः। नितम्बिनीं स्त्रियं कण्ठेस्वयंग्राहनिषक्तबाहुम् आलिङ्गनार्थं स्वयमेव ग्रहणं स्वयङ्ग्राहः। ग्रहणार्थे ग्राहशब्दप्रयोगो मृग्यः. जलचरे ग्राह इति नियमात्। स्वयङ्ग्रह इत्येव मुख्यः प्रयोगः।तथा च माघेन प्रयुक्तं ‘स्वयंग्रहाश्लेषसुखेन निष्क्रयम्’ (स. १. श्लो. ५०) इति। माधवस्तु णिजन्तत्वेन साधितवान्। नायिकायाः24 स्वयमेव स्ववाहुभ्यां यद् ग्रहणं25 स स्वयंग्राहः। ‘एरच्’ (३, ३. ५६) इत्यच्प्रत्ययइति। स्वयंग्रहणेन26 कण्ठे विषक्तौविशेषेण सक्तौबाहू यस्याम्तथाभूतां सतीम् इच्छसिअभिलषसि। वदेति शेषः। ननु महेन्द्रस्य कथं परस्त्रीसम्भोगलालसत्वमाशङ्क्यते , अत आह—चारुतया लोलंमनः प्रविष्टामिति। चारुतया चारुत्वेन सौन्दर्यातिशयेनेत्यर्थः। लोलंचञ्चलंमनः चित्तं प्रविष्टांप्राप्ताम्। रूपसौन्दर्याणां निरवधिकत्वाद् मनसः स्वभावलौल्याद् अहल्यावृत्तान्तस्य प्रसिद्धत्वाच्चन काचिदनुपपत्तिरिति भावः। अत्र मनः प्रविष्टामित्यनेन महेन्द्रस्य सङ्कल्पाभिधाना तृतीया कामावस्था दर्शिता। यथाह27—
“चक्षुःप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सङ्कल्पः।
निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः॥
उन्मादो मूर्छामृतिरित्येताः स्मरदशा दशैव स्युः।"
इति।ननु लज्जापरतन्त्रा हिस्वभावतो निताम्बिन्यः, विशेषतश्च पतिव्रताः। अतः कथं ताषांस्वयङ्ग्राहाश्लेषोपपत्तिः। अत आह—मुक्तलज्जजामिति। मुक्ता त्यक्ता लज्जायया तां, मद्वाणभिन्नहृदयत्वेन परित्यक्तलज्जाम्। अत वचपलतया28 स्वयङ्ग्रहणलक्षणालिङ्गनविशेषप्रवृत्तां चेत्यर्थः। अनेन नितम्बिन्यास्त्रपानाशरूपा सप्तमी कामावस्था दर्शिता, उन्मादरूपाष्टमी च॥७॥
कयासि कामिन्! सहसापराधात्29
पादाननः कोपनयावधूतः।
यस्याः30 कारिष्यामि दृढानुतापं
प्रवालशय्याशरणं शरीरम्॥८॥
(प्रकाशिका)
द्वितीयं विप्रलम्भमधिकृत्याह—
कयासि कामिन्निति। कामिन्निति नर्मसचिवोचितं नर्मगर्भमामन्त्रणम्। सहसापराधात् पादानतः कोपनात्वादवधूत31 इत्यर्थः। यस्या इति पाठोयुक्तः।दृढानुतापामिति नवस्यवस्था दर्शिता। प्रवालशय्याश्रयणं व्याधेरनुभावः। अत्रधर्मार्थमोक्षाणामात्मनः प्रतिबन्धकत्वेनोक्तिः, कामस्य तु साधकत्वेनेति विशेषः। कामस्य वक्तूस्तथास्वभावकत्वात्32॥८॥
(विवरणम्)
अथ द्वितीयं विप्रलम्भमधिकृत्योच्यते। स33 तु प्रावासनिमित्तो माननिमित्तश्चेति
द्विविधः! तदुक्तं—विप्रयोगस्तु विश्लेषोरूढविस्रम्भोयोद्विधा। मानप्रवासभेदनेति। तत्र प्रवासनिमित्तः पुरःस्थिते पुरन्दरे न सम्भावित इति माननिमित्तमधिकृत्याह
कयासीति। कामिन्! अपराधात् पादानतः34 त्वं कोपतया कया सहसा अवधूतः असि। कामिन्निति नर्मसचिवोचितं नर्मगर्भमामन्त्रणम्। अपराधपादप्रणामादेः35कामिनामेवोपपत्तेरेवमुक्तम्। अपराधात् सपत्नीजननामग्रहणादिरूपात्। पादानतः बध्वाः पादयोगनतः प्रणतः। कोपनया कोपशीलया सहसाअविचार्य त्वरितमेव अवधूतः निराकृतोऽसि। अथात्मनस्तद्विषयां प्रवृत्तिं दशयति—अहं यस्याः शरीरं प्रवालशय्याशरणं करिष्यामीति। यस्याः कामिन्याः शरीरं देहं प्रवालशय्याशरणं प्रवालैःपल्लवैःकृता शय्यैव शरणं रक्षिता यस्य तथाविधंकरिष्यामि। यस्याः शरीरं मया प्रवालशय्यामात्रशरणं विधातव्यं, तथाभूतया कया त्वमवधूतोऽसीति पूर्वेण योजना। प्रवालशय्याशरणत्वमनुतापस्यानुभावः। तमेवानुतापमाह—दृढानुतापमिति। दृढःस्थिरोऽनुतापः सन्तापोयस्य तत्तथा। अनेन तनुताख्या पञ्चमी कामावस्था दर्शिता। अत्र पुरुषार्थप्रकरणे धर्मार्थमोक्षाणां प्रतिबन्धकत्वेनोक्तिः, कामस्य तु साधकत्वेनेत्यात्मनःस्वभावो दर्शितः। अयं च स्वभावविशेषःपुंसां ज्ञातविशेषेत्यामन्त्रणेनैव प्रतिपादितोवेदितव्यः॥८॥
प्रसीद विश्राम्यतु वीर! वज्रं
शरैमदीयैःकतमः सुरारिः।
बिभेतु मोघीकृतबाहुवीर्यः
स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः॥९॥
(प्रकाशिका )
अथ शस्त्रसाध्यं शत्रुविजयमप्यहमेव करिष्यामीत्याह
प्रसीदेति। विश्राम्यतु भुवनकण्ठकप्रमथनेष्वपर्यायेणाविश्रमेण
____________________________________________________
३
.
ववे’ ङपाठ
च निदेशकारी ते वज्रो विश्रमं लभताम्, अत्र प्रसादं विधेहीत्यर्थः।अथ चतादृशोऽपिसाधने स्वयमेकवीरः सन् स्वविक्रमलेशेनापि36 सुकरेऽर्थे मामाज्ञापयितुं प्रसीदेत्यर्थः मोधीकृतबाहुवीर्यत्वं विषयाकृष्टत्वेन निरुद्यमत्वात्। स्त्रिभ्योऽपि बिभेत्विति, किमतः परं क्लीवत्वंसंपादयामीति37 भावः।अत्र —-पद्यान्यनन्यसाध्यविषयाणि। षष्ठंशस्रसाध्यविषयम्। पञ्चस्वप्यादं38 प्रत्युपस्थित- मूलहरापत्प्रतीकारविषयम्। द्वितीय॑ तथाहि वैक—वाधिकापन्प्रतीकारविषयम्, अधिकृतस्य मुमुक्षया तदधिकारवैकल्यात्। ततीयं त्वा–गतापत्प्रतीकारविषयं, स्वयमभियुञ्जानादपि विजिगीषुवृत्तात् स्वशक्त्युपचयकारिणः कस्याच्चिदात्माभिभवस्य शङ्कितत्वात्। तदनन्तरौतु स्वसुखविषयाविति विषयभेदः। सुखादप्यसुखपरिहारे गौरवं, तत्रापि प्रत्युपस्थिते विशेषः, तस्मिन्नपि मूलहर इति यथापूर्वंगौरवमिति क्रमोविवक्षितः॥९॥
(विवरणम्)
एवं तावदनन्यसाध्यस्यार्थस्य प्राधान्यात् प्रथमं तद्विषयःप्रश्नःकृतः। अथ शस्त्रसाध्यं शत्रुविजयमप्यहमेव करिष्यामीत्याह—
प्रसीदेति। वीरः! त्वं प्रसीद। अत्र वीरेति सम्बुद्ध्यात्वद्भृत्येन मया विजितेष्वपिशत्रुषुतव वीरत्वहानिर्नास्तीति द्योत्यते। प्रसीद मयि प्रसादं कुरु। शत्रुविजयाख्ये कार्ये मामाज्ञापयेत्यर्थः। नन्वहं वज्रपाणिः, ततो मतप्रतिपक्षनिग्रहार्थं किमर्थमेह त्वामाज्ञापयामीत्यत आह—वज्रंविश्राम्यतु इति।त्रिभुवनकण्टकोर्द्धरणार्थमनवरतप्रवृतिकं तव वज्रमात्मभारं मद्बाणेषु निधाय परिश्रमापनोदनार्थं कञ्चित् कालंविश्राम्यतु विश्रान्तिं लभताम्। ननु कुसुममात्रायुधस्त्वंकथं वज्रसाध्यं शत्रुविजयं करिष्यसीतीमामाशङ्कां शत्रुविजयप्रकारकथनेन परिहरति—कतमः सुरारिः मदीयैः
______________________________________________
४. र एवं वै ङ.पाठः. ७. ‘महमा ङ, पाठः, ६, द्धृतिकर क, ग. घ. पाठः
++ मोधीकृतबाहुवीर्यः स्त्रीभ्योऽपि विभत्विति। कतमः ‛वा बहूनां जातिरिप्रश्ने डतमच्’(५, ३. ९३)। दैत्यराक्षसादीनां वहूनां जातिपरिप्रश्नस्यात्र विवक्षितत्वात्। सुराणामरिः सुरारिः मदीयैःमत्सम्बन्धिभिः शरैःवाणैःअधीकृतवाहुवीर्यःमोघीकृतं निष्फलीकृतम्, अभूततद्भावे च्वि। बाहुवीर्यं वाह्वोर्वीर्य
यस्य तथाभूतः सन्विषयाकृष्टतया निरुद्यमत्वान्निष्फलदोष्ण–पोभूत्वास्त्रीभ्योऽपि विभेतु स्त्रीसकाशादपि भीतिमान् भवतु। किमतः —रं तव रिपूणांक्लीवत्वं सम्पादयिष्यामीति भावः । स्त्रीणां भयजनकत्वमाह—कोपस्फुरिताधराभ्य इति। कोपेन निजशासनोलङ्घनसम्भवेन रोषेणस्फुरितः चञ्चलोऽधरोयासां तास्तथोक्ताः।रोषकृतेनाधरस्फुरणमात्रेणापि बिभेतु, किं पुनर्वचनादिनेति भावः॥९॥
तव प्रमादात्कुसुमायुधोऽपि
सहायमेकं मधुमेव लब्ध्वा।
कुर्या हरस्यापि पिनाकपाण-
धैर्यच्युतिं के मम धन्विनोऽन्ये॥१०॥
(प्रकाशिका)
अध विकत्थनोदार्णदपैस्तेषा मन्त्रमजानन्नपि दैवात् तदभिमतै परमदुस्साधेऽपि कार्ये स्वशक्युपन्यासं कुर्वन्, सर्वातिशायितामा मनः प्रकटयति—
तव प्रसादादिति।तवप्रसादादित्यनौद्धत्यनप्र–कापपरिहारःसहायापेक्षापि नात्यस्तमस्तीस्याह—सहायमिति। कुर्यामिति संभावनायां लिङ्। हरस्य धैर्यच्युतिकारितामपि मयि संभावयामीत्यर्थः।पिना- कपाणेःतादृशसाधनसमग्रस्प।हरस्य स्वयंचतुर्दशभुबनसंहतेरित्यर्थः।प्रचुरतमस तत्संहत्रे हराय नमो नमः इति वचनात्।अन्यदा दण्डापूपिकया सिद्धमित्याह—के ममेति ; किं क्षेपे अन्येदुरनिरस्त इत्यर्थ। अत्र साधनसहायपौष्कसयलक्षणे कारणेअसमग्रऽपि साः
____________________________________________
१, करणम’ ङ, पाठः, २, “रपात्यङ, पाठः , ३, “या ङ, पाठः ४, णेङ, पाठः
ध्यभाव39लक्षणस्य कार्यस्य भाववचनाद् विशेषोक्तिरनुक्तनिमित्ता। निमित्तं च स्ववीर्यातिशयो ध्वन्यते। अनयोश्चेन्द्रकामयोः प्रतिनायकत्वाद्धीरो द्धतत्वमुपपन्नम्॥१०॥
(विवरणम्)
इत्थंविकत्थनोदीर्णदर्पःकन्दुर्पस्तेषांमन्त्रमजानन्नपि परमदुस्साधेऽपि देवकार्ये स्वसामर्थ्यप्रकटनं कुर्वन् गर्वोद्धतः सर्वातिशायितामात्मनःप्रदर्शयति
तवेति। अहं कुसुमायुधोऽपि तव प्रसादाद् मधुम् एकमेव सहायं लब्ध्वा पिनाकपाणेः हरस्यापि धैर्यच्युतिंकुर्याम्। कुसुमायुधः कुसुममेवायुधं यस्य तथाभूतः सन्नपि। अनेनात्यन्तदुर्बलसाधनत्वमात्मनो दर्शितम्। ननु तथाविधस्य तव कथं तादृशो कार्येसामर्थ्यमित्यत्राह—तव प्रसादादिति। तत्तादृशोहि प्रभूणां प्रभावः, यदेते नितान्तहीनबलमपि भृत्यंनिजाज्ञया बलवत्तरं कुर्वन्ति। यथोक्तं शाकुन्तले—
“सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
सम्भावनागुणमवेहि तमीश्वराणाम्।
किं वाभविष्यदरुणस्तमसां निहन्ता
तंचेत् सहस्रकिरणो धुरि नाकरिष्यत्॥”
इति। अनेन वचनेनात्मप्रशंसानिमित्तकोपपरिहारार्थमौद्धत्यपरिहारः कृत इत्यवसेयम्40। अस्मिन् कर्मणि सहायापेक्षापि नात्यन्तमस्तीत्याह—मधुमेकं सहायं लब्ध्वा इति। मधुं वसन्तम् एकं निस्सहायम्। एवशब्दः सहायान्तरनैरपेक्ष्यमेव द्रढयति। लब्ध्वा सम्प्राप्य पिनाकपाणेः, पिनाक इति हरचापस्य नाम। पिनाकः शूलिनो धनुरि’ति भोजः। पिनाकः पाणौ यस्यतस्य। अनेन हरस्य प्रबलसाधनत्वमुक्तम्। हरस्य, हरतीति हरः, चतु-
शभुवनसंहर्तुरपीत्यर्थ। ‘प्रचुरतमसे तत्संहर्त्रेहराय नमो नमः’इति वव–त्। अपिशब्देन हरस्य लोकोत्तरत्वमुक्तम्। धैर्यस्य च्युतिंविश्लेषम्।—-र्यामिति सम्भावनायां लिङ्। इदानीमत्यन्तदुश्चरेऽपि तपसि वर्तमानस्य हरस्य धैर्यच्युतिमपि मयि सम्भावयामीत्यर्थः। धृतपिनाकप्य हरस्यजयेऽपि समर्थस्य ममान्येषां धन्विनां जयः पुनरीषत्कर एवेत्याद्—ममा–न्ये धन्विनः के इति। अन्ये हरव्यतिरित्ताःधन्विनः धनुष्मन्तः। ‘धन्वी धनुष्मान् धानुष्क’ इत्यमरः। के, किंशब्दः क्षेपे। न केऽपीत्यर्थः। अन्ये तृणसमाना एवेति भावः। अनेनान्यजयस्य दण्डापूषिकया सिद्धत्वमुक्तमित्यर्थापत्तिरलङ्कारः। दण्डापूषिकयार्थान्तरापातनमर्थापत्तिरिति। जयकारणानामायुधपौष्कल्यादीनामभावेऽपि जयोत्पत्तिवचनाद् विभावना च। कारणाभावे कार्योत्पत्तिर्विभावना चति॥१०॥
अथोरुदेशादवतार्य पाद-
माक्रान्तिसम्भावितपादपीठः41।
सङ्कल्पितेऽर्थे42विवृतात्मशक्ति-
माखण्डलः काममिदंवभाषे॥११॥
(प्रकाशिका)
अथैवंविधया कामोक्त्यालब्धाश्वासस्येन्द्रस्य वृत्तमाह
अथेति। अत्र चेष्टाविशेषणादरः प्रतीयते। सङ्कल्पितेऽर्थेविवृतात्मशक्तिमित्यादरे हेतुः। आखण्डलः कामामिदमिति। एवं हि कार्यत्त्वमिति भावः। आखण्डलशब्देनविवेत्तरत्वं
काममिति43 कान्तिमात्रसारत्वम्, इदंशब्देन वक्ष्यमाणवाक्यार्थपरामर्शिनानुवृत्तिपरत्वादि44 च ध्वन्यते॥११॥
१ ‘र’ ङपाठः,
(विवरणम्)
अथ निजमनोरथपूरणक्षमेणैवम्भूतेन मदनवचनेन जनिताश्वासत्य xxxxप्रवृत्तिमाह—
अथेति। अथ आखण्डलः ऊरूदेशात् पादमवतार्य काममिदं वभाषे। अथ हरविषयसामर्थ्यप्रतिपादनानन्तरम् आखण्डलइन्द्रः, अत्राखण्डलशब्देन विश्वोत्तरत्वमिन्द्रस्य द्योत्यते। अखण्डमैश्वर्यं ज्ञानं वा लाति गृह्वातीत्यखण्डलः, स एवाखण्डलः। ‘अन्येषामपि दृश्यते’(६. ३. १३७) इति दीर्घःपृषोदरादिसूत्रेण वा। ऊरुदेशात् पादमवतार्यआदरातिशयात् प्रसादातिशयाच्चऊरुदेशस्थितं पादमधः प्रसार्येत्यर्थः। कामं कामदेवम्, अनेनात्र कान्तिमात्रसारत्वमुक्तम्। कमु कान्ताविति धातुः। अत्राखण्डलकामशब्दाभ्यां तयोः परस्परोपकार(क)त्वं सूचितम्। इदं वक्ष्यमाणं, बभाषेउक्तवान्। आखण्डलंविशिनष्टि—आक्रान्तिसम्भावितपादपीठः इति। आक्रान्त्याआक्रमणेन स्वपादविन्यासेनेत्यर्थः, सम्भावितं सम्मानितं पादपीठं येन स तथोक्तः।स्वस्मिन् स्वामिनः पादविन्यास एवहि पादपीठस्यानुग्रह इति भावः। कामविषया(दरा)तिशये हेतुमाह—सङ्कल्पितेऽर्थेविवृतात्मशक्तिमिति। सङ्गल्पिते मन्त्रकुशलैर्देवैःसह सम्मन्त्र्यतैः सम्यक्कल्पिते व्यवस्थापितेऽर्थेपरमेश्वरचित्ताकर्षणरूपेविवृता प्रकाशिता आत्मनः शक्तिः सामर्थ्यंयेन। हृदयस्थितं कार्यतत्त्वमवधार्य तत्सम्पादननिपुणा हि भृत्याःप्रभूणाप्रादरपदमिति भावः॥ ११॥
सर्वं सखे! त्वय्युपपन्नमेत-
दुभेममास्त्रे कुलिशं भवांश्च।
पू45र्वंतपोवीर्यमहत्सु कुण्ठं
त्वं सर्वतोगाभिच साधकं च॥१२॥
(प्रकाशिका)
तत्र स्तुत्या तावदस्य वीर्यंसन्धुक्षयति—
सर्वमिति। एतद् यत् त्वया शक्यत्वेनोक्तम्। अत्र हेतुमाह—उभेइति। तत्र विशेषमाह—पूर्वमिति। कुण्ठं गमनसाधनक्रिययोरक्षमम्। ‘कुण्ठोमन्दः क्रियासु य’इतिसिंहः। सर्वतः तपोवीर्यमहत्स्वपीत्यर्थः। अनेन तदुक्त्यभ्युपगमः कृतः॥१२॥
(विवरणम्)
अथ स्तुत्या तस्य वीर्यंसन्धुक्षयन्राह—
सर्वमिति। सखे ! एतत् सर्वं त्वयिउपपन्नम्। हे सखे ! आदरातिशयद्योतनार्थमिदमामन्त्रणम्। एतत् त्वदुक्तमर्थजातं सर्वं, नैवात्र किञ्चिदर्थजातमनुपपन्नमस्तीति भावः। त्वयिउपपन्नं युक्तं, तदुक्तं सामर्थ्यंसर्वमपि त्वय्यस्त्येवेत्यर्थः। उपपन्नत्वमेवोपपादयति—मम उभेअस्त्रेइति।वि46द्येते इति शेषः। के युनस्तेइत्यत्राह—कुलिशंभवांश्चेति। कुलिशं वज्रम्। तयोरेकमस्त्रंकुलिशम्, एकस्तु भवानेवेत्यर्थः। उभयोर्मध्ये कुलिशस्य न्यूनतामाह—पूर्वंतपोवीर्यमहत्सु कुण्ठामिति। पूर्वंपूर्वोक्तंवज्रंतपोवीर्यं तपश्शक्तिःतेन महत्सु लोकोत्तरेषु।अस्त्रप्रयोगो हि वीर्यवत्सु कर्तव्य इति वीर्यपदप्रयोगः। कुण्ठमशक्तं, तद्विषयेगमने स्वार्थसाधने चासमर्थमित्यर्थः। ‘कुण्ठो मन्दः क्रियासु य’इति सिंहः। कामस्य व्यतिरेकमाह—त्वं सर्वतोगामि च साधकं चेति। त्वंत्वद्रुपमस्त्रंसर्वतोगामि सर्वतः तपोवीर्यमहत्स्वपि गन्तुंशीलमस्येति तथा। साधकं स्वार्थसाधकं च, न केवलंतत्प्राप्तिमात्रसमर्थम्, अपि तु स्वकार्यभूततत्समाधिभङ्गसमर्थं चेत्यर्थः। अस्त्रापेक्षया सर्वतोगामिशब्दस्य साधकशब्दस्य च नपुंसकलिङ्ग (त्व) मित्यवसेयम्। अनेन श्लोकेनानन्यसाध्ये शस्त्रसाध्ये च कर्मण्यहं कुशल इति यत् कामदेवेनोक्तं , तदेवानूदितमित्यवसेयम्॥१२॥
अवैमि ते सारमतः खलु त्वां
कार्ये गुरुण्यात्मसमं नियोक्ष्ये।
व्यादिश्यते भूधरतामवेक्ष्य
कृष्णेन देहोद्वहनायशेषः॥१३॥
(प्रकाशिका)
यदहं त्वद्वीर्यंजानामि, तत्र केवलमनया मदुक्त्यावसेयम् , अपितु मत्प्रवृत्त्यापीत्याह —
अवैमीति।सारं वलम्। आत्मसमम् अनुरक्तं शुचिंचेत्यर्थः। एव ‘मनुरक्तः शुचिर्दक्ष’ इति प्रधानगुणत्रयविशिष्टेऽमात्ये त्वयि स्थिते कमन्यमीदृशेऽर्थेनियोक्ष्यइति भावः। कर्त्रभिप्राये क्रियाफल आत्मनेपदम्।भूधरतामवेक्ष्य47भूभारधारणक्षमं मत्वा॥ १३ ॥
(विवरणम्)
अपि च अहं ते सकलमपिबीषैजानामीति यदुक्तं, तत्र न केवलमुक्तिमात्रं प्रमाणम्, अन्यैरत्यन्तदुष्पावेऽर्थेमन्नियोगश्चात्याह—
अवैमीति। अहं ते सारम् अवैमि। सारं बलम्। ‘सारो बले स्थिरंशेच’इत्यमरः।अवैमिजानामि। किं तर्हितत्र प्रमाणमित्यत्राह —अतः खलु अहं त्वांगुरुणिकार्ये नियोक्ष्ये इति। अतः त्वद्वीर्यज्ञानात्। खलुशब्दोऽवधारणे। त्वद्वीर्यज्ञानादेव हेतोरित्यर्थः। नह्यज्ञातशक्तयो भृत्याः प्रभुणा गुरुणि कार्येविनियुज्यन्त इति भावः। गुरुणि अनन्यसाध्ये कार्येकर्तव्येऽर्थेनियोक्ष्ये नियोगं करिष्ये। ‘स्वरितञितः कर्त्रभिप्राये—’( १. ३. ७२ ) इत्यात्मनेपदम्।अस्मद48भीष्टसाधनाय हि त्वामहं नियोक्ष्ये, न तु परीक्षाद्यर्थमित्यर्थः। न केवलं तववीर्यवत्त्वमात्रम्, अपि तु
अनुरक्तत्वंमिर्व्याजत्वंचास्तीत्याह —आत्मसममिति। आत्मनैव समं तुल्यम्। ‘तस्यदण्डवतो दण्डः स्वदेहान्न व्यशिष्यत’(स.१७.श्लो.६२) इति रघुवंशोक्तः प्रकरोऽनेन दर्शितः। ‘अनुरक्तः शुचिर्दक्ष’इत्यादयोऽमात्यगुणाश्च प्रतिपादिताः। सर्वामात्यगुणाविशिष्टे त्वयिस्थिते सति कमन्यमीदृशेकार्येनियोक्ष्य इति भावः। गुणावधारणमेवात्मार्थे नियोगे हेतुरिति यदुक्तं, तत् प्रतिवस्तूपमयोपपादयति—शेषः भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय व्यादिश्यत इति। शेषोऽनन्तः। भूधरतां भुवो भूमेः धरः धर्ता। धरतीति धरः, ‘धृञ् धारण’इति धातोः पचाद्यचि रूपम्।भूधरस्य भावो भूधरता, ताम्। अवेक्ष्य49 ज्ञात्वाकृष्णेन विष्णुना देहोद्वहनाय त्रैलोक्याधिष्ठितस्यात्मशरीरस्योद्वहनायोद्धरणाय व्यादिश्यते नियुज्यते। अनन्तस्य पृथिवीधारणमवधार्यैव हिभगवता नारायणेनायमात्मनः शयनसाधनतां नीत इत्यर्थः॥१३॥
आशंसता बाणगतिंवृषाङ्के
कार्यंत्वया नः प्रतिपन्नकल्पम्।
निबोध यज्ञांशभुजाभिदानी-
मुच्चैस्त50रामीप्सितम51र्थमत्र॥१४॥
(प्रकाशिका)
नियोगश्च त्वयाङ्गीकृतप्राय एवेत्याह—
आशंसतेति। आशंसता ईषद् ब्रुवता। ‘शंसु स्तुतौ’इति धातुः, नतु‘आङः शसि इच्छायाम्’इति, तस्यात्मनेपदित्वात्।
“आशंसते स्यादिच्छायां शंसतीति स्तुतौभवेत्।
हिंसायां शसतीच्छायामाशास्ते शास्ति शासने॥”
इति निघण्टुः। ईषद्वचनं च कर्तव्यतयानभिसंहितत्वात्। प्रतिपन्नकल्पं, न तुसर्वथाप्रतिपन्नम्, अस्माभिरनिवेदितत्वात्। तस्मादिदं निवेद्यत इत्याह—निबोधेति। उच्चैस्तरामितीप्साया विशेषणम्। उच्चै (स्त्वि?र्द्वि) षामिति वा पाठः। अत्र वृषाङ्के। देवानामिदानीं यः सातिशयमीप्सितोऽर्थः, तं परमेश्वरविषयमवगच्छेत्यर्थः॥१४॥
(विवरणम्)
‘कुर्यां हरस्यापि पिनाकपाणेः’ (श्लो.१०) इति वदता त्वया मन्नियोगः प्रांयेणाङ्गीकृत एवेत्याह—
आशंसतेति। वृषाङ्केबाणगतिम् आशंसता त्वया नः कार्यंप्रतिपन्नकल्पम्। वृषाङ्केवृषध्वजे बाणगतिं बाणस्य गतिं प्रवृत्तिम् आशंसता ईषद् ब्रुवता। ईषद्वचनमत्र तदेव देवकार्यमिति निश्चयाभावात्। ‘शंसु स्तुतौ’ इति धातोराङ्पूर्वस्य शत्रन्तमिदं रूपं, न तु ‘आङःशसिइच्छायाम्’ इत्यस्य धातोः, तस्यात्मनेपदित्वात्। यथोक्तं देवेन—
“आशंसते स्यादिच्छायां शंसतीति स्तुतौभवेत्।
हिंसायां शसतीच्छायामाशास्ते शास्ति शासने॥”
इति। त्वया भवता नः कार्यं हरवशीकरणरूपं प्रयोजनं प्रतिपन्नकल्पम् अङ्गीकृतप्रायं, न तु सर्वथैवाङ्गीकृतम्, अस्माभिरनुक्तत्वात्। अत एवाह—निबोधेत्वादिना। यज्ञांशभुजाम् इदानीम् उच्चैस्तराम् ईप्सितम् अर्थम्अग्र निबोध। (?) अनेन तारकासुरनिमित्तयज्ञविप्लवनिवृत्त्यर्थोऽयं प्रयास इति सूचितम्। अत एवाह—इदानीमिति। प्रवृद्धतारकासुरोपद्रवेऽस्मिन् काले। उच्चैस्तरामिति ईप्साविशेषणम् सातिशयमीप्सितमित्यर्थः। अर्थं प्रयोजनम् अत्र वृषाङ्केविषये निबोध जानीहि।‘बुध अवगमन’ इति धातोर्लोटि रूपम्। सर्वदा सर्वविषयाणामीप्सितानामस्माकं त्वमवेसाधकः। इदानीमत्यन्तमीप्सितोऽर्थःपरमेश्वरविषयइत्यवगच्छेत्यर्थः॥१४॥
अमी हि वीर्यप्रभवं ह52रस्य
जयाय सेनान्यमुशन्ति देवाः।
स च त्वदेकेषुनिपातहा53र्यो
ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा॥१५॥
(प्रकाशिका)
तत् कथमित्याह
अमी इति। हिशब्दोऽस्यार्थस्य पूर्वोक्तं प्रत्युपपादकत्वं द्योतयति। उशन्ति इच्छन्ति। तत्र का मय्यपेक्षेत्याह—स चेति। एकेति सुकरत्वंद्योतयति। ब्रह्मा अङ्गभूस्तनयो यस्य। तथाच पुराणसिद्धम्। वक्ष्यति च—‘यमामनन्त्यात्मभुवोऽपि कारणम्’(स.५.श्लो.८१) इति। अनेन पूर्वमपि देवः पुत्रवानिति प्ररोचयति। तर्हिस एव देवः किं न प्रार्थि54त इत्याह—ब्रह्मणि प्रत्यगात्मनि योजितात्मा योगेनार्पितान्तः- करणः॥१५॥
(विवरणम्)
हरविषयमभिलाषमेव स्फुटयति—
अमी इति। अमी देवाः जयाय हरस्य वीर्यप्रभवं सेनान्यम् उशन्ति हि। अमी देवाः, ये त्वत्प्रसादकाङ्क्षयात्र तिष्ठन्तः। जयाय तारकासुरविजयाय हरस्य जगत्संहर्तुःपरमेश्वरस्य। अनेन तत्सुतस्यशत्रुतिग्रहसामर्थ्यंध्वन्यते। वीर्यप्रभवं वीर्याद् रेतसः प्रभव उद्भवोयस्य तं सेनान्यं सेनानायकम् उशन्ति इच्छन्ति। ‘वशकान्तौ’इति धातुः। ‘ग्रहिज्या—’(६.१.१६) इत्यादिना संप्रसारणम्। अ55स्यार्थस्य पूर्वोक्तमर्थंप्रत्युपपादकत्वं द्योतयितं हिशब्दः। अत्र किं मया कर्तव्यमित्याइ—स च त्वदे-
केषुनिपातहार्यइति। सः हरः। चशब्देनास्य चित्ताकर्षणमन्यैरशक्यमिति द्योत्यते। सोऽपीत्यर्थः। त्वदेकेषुनिपातहार्यःत्वयाएकस्यैवेषोर्निपातेन56निपतनेन हार्यः हर्तुंशक्यः। एकशब्देनात्र त्वया सुकरोऽयमर्थ इति द्योत्यते। चशब्दोक्तं हरस्य विशेषमेवाह—ब्रह्माङ्गभूरिति ब्रह्मासकलजगन्निर्माणकर्मठोविधिरेवाङ्गभूस्तनयो यस्य स तथा। श्रुतिप्रसिद्धश्चायमर्थः। वक्ष्यति —‘यमामनन्त्यात्मभूवोऽपि कारणमि’ति। पुराणपुरुषे तस्मिन्नन्ये प्रयासा निरर्थका एवेत्यर्थः। पुनरपीदानीमस्तिविशेष इत्याहब्रह्मणि योजितात्मेति। ब्रह्मणि परमात्मनि योजितः एकीभावमापादितः आत्मा जीवात्मायेन स तथा। जीवपरैक्यमवगम्य स्थित इत्यर्थः। अनेन तपोवीर्यमहत्त्वमुक्तम्। तेन चान्यैरसाध्यत्वंद्यो57त्यते। मदनेन साध्यत्वंतु ‘त्वं सर्वतोगामि च साधकं च’ (श्लो.१३) इत्यत्रोक्तम्॥
तस्मैहिमाद्रेः प्रयतां तनूजां
यतात्मने रोचयितुं यतस्व।
योषित्सु तद्वीर्यनिषेकभूमिः
सैव क्षमेत्यात्मभूवोपदिष्टम्॥ १६॥
(प्रकाशिका)
उपायोऽपि तत्र कथ्यत इत्याह —
तस्मा इति। तस्मा इति ‘रुच्यर्थानां प्रीयमाणः’(१,४.३३) इति चतुर्थी हिमाद्रेरिति प्रयतामिति च परमेश्वरयोग्यतां द्योतयतः58। यतस्वेत्यत्र हेतुः—यतात्मन इति। अन्यां किन्नेत्याह—योषि- त्स्विति॥
(विवरणम्)
ननु मया हरः कस्या योपितो वशं नेतव्य इत्यग्राह—
तस्मा इति59। हिमाद्रेःतनूजां तस्मै रोचयितुं यतस्व। हिमाद्रेः हिमवतः तनूजांपुत्रीम्। अनेनाभिजात्ययुक्ततया पार्वत्याःपरमेश्वरयोग्यता दर्शिता। तस्मैहराय। ‘रुच्यर्थानां प्रीयमाणः’ (१.४.३३) इति सम्प्रदानसंज्ञा। रोचयितुं हरस्य तस्यां रुचिमुत्पादयितुमित्यर्थः। यतस्व यत्नंकुरु। ननु किमर्थं यतस्वेत्युक्तं,न रोचयेति। अत आह—यतात्मन इति। यतः संयतः आत्मा अन्तःकरणं येन तस्मै। विषयव्यावृत्तचित्तायेत्यर्थः। स्वगुणैरपि पार्वत्याःपरमेश्वरयोग्यतामाह— प्रयतामिति। परिशुद्धान्तःकरणामित्यर्थः। किमर्थमस्यान्यस्यां रुचिं नोत्पादयेयम्, अत आह— योषित्सु तद्वीर्यनिषेकभूमिः सा एव क्षमा इति आत्मभुवा उपदिष्टमिति। योषित्सु स्त्रीषु तस्य हरस्य वीर्यनिषेकस्यरेतस्सेचनस्य भूमिः अधिकरणं सा पार्वत्येव क्षमा योग्या, नान्याः स्त्रियः। स्रीणां मध्ये सैव हरवीर्यनिषेकाधिकरणत्वयोग्येत्यर्थः। नन्वत्र किं प्रमाणमित्यत्राह—इत्यात्मभुवोपदिष्टमिति। साक्षात् परमेष्ठनैवोपदिष्टोऽयमर्थइत्यर्थः। नास्य कदाचिदप्यन्यथात्वंभविष्यतीति भावः॥ १६॥
गुरोर्नियोगाच्च नगेन्द्रकन्या
स्थाणुं तपस्यन्तमधित्यकायाम्।
अन्वास्त इत्यप्सरसां मुखेभ्यः
श्रुतं मया मत्प्रणिधिःस वर्गः॥ १७ ॥
(प्रकाशिका)
तयोस्तु परिचयः प्रवृत्त एवेत्याह—
गुरोरिति। अन्वास्ते उपास्ते। ननु स्त्रीवचसिकथं प्रत्यय इत्याह—मत्प्रणिधिरिति॥ १७॥
(विवरणम्)
ननु हिमाद्रौ वर्तते सा पार्वती, हरस्तु कैलासशिखरे। अतः कथं तयोः परस्परसन्दर्शनो60पपत्तिः, कथंवा च परस्परसन्दर्शनेन विना रुचिमुत्पादयेयमित्यन्नाह—
गुरोरिति। नगेन्द्रकन्या अधित्यकायां तपस्यन्तं स्थाणुं गुरोः नियोगाद् अन्वास्ते इति मया अप्सरसां मुखेभ्यः श्रुतं च। नगेन्द्रकन्या पार्वती अधित्यकायां हिमवच्छिखरे। ‘उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका’इत्यमरः। तपस्यन्तं तपश्चरन्तं स्थाणुं हरं गुरोः पितुःनियोगाद् निदेशाद् अन्वास्तेउपास्ते इति उक्तप्रकारेण अप्सरसामप्सरःस्त्रीणां मुखेभ्यः, अप्सरसां वचनादितयर्थः। बहूनामप्सरसां मुखेभ्यो बहु श्रुतमिति बहुवचनस्यार्थः। इदं च निर्णये हेतुः। चकारः पूर्वोक्तसमुच्चयार्थः। नन्वनृतवादिन्यो हि स्त्रियः, अतः कथं तद्वचस्सु विश्वासः। अत आह—सः वर्गःमत्प्रणिधिःइति। स वर्गःअप्सरसां गणः मत्प्रणिधिःमम प्रणिधिः गूढपुरुषः। ‘यथार्हवर्णःप्रणिधिरपसर्पश्चरः स्पश’ इत्यमरः। चारवचस्सु विश्वासो युक्त एव, ‘चारैःपश्यन्ति राजान’इत्यु61क्तत्वात्॥१७॥
तद् गच्छ सिद्धयैकुरू देवकार्य-
मर्थोऽयमर्थान्तरभाव्य एव।
अपेक्षते प्रत्ययमुत्तमं त्वां
बीजाङ्कुरः प्रागुदयादिवाम्भः॥१८॥
(प्रकाशिका)
उपसंहरति
तदिति । तत् तस्माद् यस्मादीदृशोऽर्थः, स चोपायः, उपायस्य चोपस्थितत्वम्। सिद्धयैगच्छ त्वद्गमनं सिद्धये भूयात्। कुर्विति नियोगः।
ननु देवीसन्नधिरेव तत्समाधिभङ्गायालमित्याह— अर्थइति। अर्थान्तरेण देवीसन्निधानादिना भाव्यः साध्यः। प्रत्ययं62हेतु63म्। प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु’ इत्य64मरः। अन्न दृष्ठान्तमाह— बीजाङ्कुर इति। यथा मृत्संयोगादिकारणान्तरसमवधानेऽपि बीजाङकुरः स्वो65दयाय प्रधानकारणमम्भोऽपेक्षते, तथा देवीसन्निधानेऽपि त्वामयमर्थइत्यर्थः॥१८॥
( विवरणम् )
प्रकृतमुपसंहरति—
तदिति। तत् त्वंसिद्धयैगच्छ। तद् यस्मात् सेनानीलाभरूपं देवकार्यपार्वतीपरमेश्वरसङ्गममात्रलभ्यं, पार्वती च पितृनियोगात् परमेश्वरसन्निधावेव वर्तते, तस्मादित्यर्थः। अनेन सिद्धः कालप्ताप्तिरुत्त्का। सिद्धयैकार्यसिद्धयर्थंगच्छ गमनं कुरु। त्वद्गमनं सिद्धये भूयादित्याशीर्वादोऽनेन वाक्येन विवक्षितः। ‘अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते’ (श्र्लो.३) इत्यत्राभ्यर्थितामाज्ञामेव करोति— देवकार्यंकुरु इति। देवानां कार्यंदेवकार्यम्। तच्च परमेश्वरवशीकरणरूपम्। कुरुविधेहि। ननुयदि देवसन्निधावेव देवी विद्यते, तर्हिसा स्वभावसुभगया निजशरीरसुषमयैव देवह्लदयमात्र्कष्टुं क्षमा किमस्मद्गमनेन। अत आह— अर्थान्तरभाव्य एवायम् अर्थःउत्तमं प्रत्ययंत्वाम् अपेक्षत इति। अर्थान्तरभाव्यः अर्थान्तरेण त्वद्वचतिरित्त्केन देवीसन्निधानादिलक्षणेन भाव्यउत्पाद्यएवसन्नपि। एवशब्दxकामदेवस्य प्रयासाधिक्यं वारयति। अयं हरवशीकरणरूपः अर्थः प्रयोजनम्। अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वि’ त्यमरः। (उत्तमं प्रकृष्टं प्रत्ययंहेतुम्। ‘प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु’ इत्यमरः। ) त्वाम् अपत्रतेआकाङक्षते। हरचित्ताकर्षणरूपं देवकार्यंदेवीसन्निधानादिभिः xxध्यमपिप्रकृष्टकार ( णे १णत्वे ) न त्वांप्रतिपालयतीत्यर्थः। त्वत्प्राप्त्य-
नन्तरमेवान्येषां साधनानां सफलत्वामिति भावः। अत्रोपमां दर्शयति— बीजाङकुरः उदयात् प्राग् अम्भः इवेति। बीजाङ्कुरः कलमादिबीजानामङकुरः66। ‘अङ्कुरोऽभिनवोद्भीदी’त्यमरः। उदयात् प्राक् स्वोद्भवातपूर्वम् अम्भः जलमिव। नहि जलसेकमन्तरेण क्षितिवपनादिसंयुत्काद् बीजादडकुरोत्पत्तिरिति भावः॥१८॥
अस्मिन् सुराणां विजयाभ्युपाये
तवैव नामास्त्रगतिः कृती त्वम्।
अप्यप्रसिद्धं यशसे हि पुंसा-
मनन्यसाधरणमेव कर्म॥१९॥
(प्रकाशिका)
एवं नियुज्य त्रिभिः श्र्लोकैःपुनस्तमुद्धर्षयति—
** अस्मिन्निति। नाम सम्भावनायाम्। अत्र न त्वदन्यस्यास्त्रव्यापारः सम्भाव्यते। तस्मात् त्वं धन्य इत्यर्थः67। उपपादयति —अपीति। अप्रसिद्धमपि, किमुत प्रसिद्धमीदृशंकर्मेत्यर्थः॥१९॥**
( विवरणम् )
इत्थं कामदेवं नियुज्य तमेव प्रोत्साहयत्यस्मिन्नित्यादिना श्लोकत्रयेण —
अस्मिन्निति। सुराणाम् अस्मिन् विजयाभ्युपाये तवैव अस्त्रगतिः नाम। सुराणां देवानाम् अस्मिन् इदानीं विचार्यकल्पिते विजयाभ्युपाये विजयस्तारकासुरजयः , तत्राभ्युपायश्च सेनानीलाभाय परमेश्वरचित्ताकर्षणं , तत्र। तवैवास्त्रगतिः अस्त्राणां प्राप्तिः, नान्येषामित्यर्थः। नामशब्दः सम्भावनायाम्। अस्मिन् कर्मणि तवैवास्त्रगतिः सम्भाव्यत इत्यर्थः। ततः किमित्यत्राह— त्वं कृती। कृती धन्य इत्यर्थः। धन्यत्वमेवोपपादयति— अनन्यसाधारणमेव कर्म अप्रसिद्धमपि पुंसां यशसे इति। अन-
न्यसाधारणम् अन्येषां साधारणं समानं न भवतीति अनन्यसाधारणम्। एवशब्दः साधारणत्वलेशस्याप्यभावमाह। अन्यैःकदाचिदपि कर्तुमशक्यं कर्मेत्यर्थः। अप्रसिद्धं प्रसिद्धिरहितमपि पुंसां पुरुषाणां यशसे यशः सम्भावयितुं समर्थं भवतीत्यर्थः। अप्रसिद्धं यत्किञ्चित् कर्मापि तस्यैव तत्र सामर्थ्यमिति व्यवस्थिते सति पुंसां यशस्करं भवति। ` परमेश्वरचित्ताकर्षणलक्षणमिदं तु कर्मान्यैर्दुष्कर सुप्रसिद्धं चेति भवानतिमहतोयशसो भाजनं भविष्यत्येवेति भावः॥१९॥
सुराः समभ्यर्थयितार एते
कार्यं त्रयाणामपि विष्टपानाम्।
चापेन ते कर्मन चातिहिंस्र-
महो यथासि68 स्पृहणीयवीर्यः॥२०॥
(प्रकाशिका)
न केवलंभावियशोभाजनतया धन्यस्त्व , किन्त्विदानीमपि धन्य एवासीत्याह—
सुरा इति। सुराः स्वयं वरदाः। त्रयाणामपीति सङ्ख्याशब्दसन्निकर्षउपादीयमानोऽपिशब्दः सङ्ख्येयस्य सजातीयान्तरं व्यवच्छिनत्ति। नातिहिंस्रमिति तपोमात्रहिंसामनुजानाति। यथाशब्दोयोग्यताxxम्। तस्माद् युक्तमेव स्पृहणीयशक्तिरसीत्यर्थः। क्षीरस्वामी तु खेदानुxम्पासन्तोषविस्मयामन्त्रणे वत’इति सन्तोष उदाहृतवान् ‘अहो xxसि स्पृहणीयवीर्य’ इति पाठेन॥२०॥
( विवरणम् )
न केवलं भवतो भावियशोभाजनतया धन्वत्वम्, अपि तु इदानीमपि त्व घन्य ` एवासीत्याह—
सुरा इति। एते सुराः समभ्यर्थयितारः। एते सगौरवंत्वन्मुखमेवावलोक्य परितो वर्तमानाः सुराः देवाः समभ्यर्थयितारः सम्यगभ्यर्थपितारः याचितारः। याचने सम्यक्त्वं गत्यन्तराभावात्। ये देवाः सर्वेषामपि लोकानां वरदाः, ते त्वामभ्यर्थयन्त इत्यर्थः। प्रयोजनं तु न केवलं देवानामेवेत्याह— त्रयाणामपि विष्टपानां कार्यमिति। त्रयाणामपीत्यपिशव्देन लोकान्तरव्यवच्छेद उत्कः। तारकासुरपरिभूताः सर्वेऽपि लोकास्त्वयैवानुग्राह्याःसञ्जाता इत्यर्थः। एवं सर्वलोकानुग्रहे क्रियमाणे प्राणिहिंसाजनितोऽपि दोषस्तव न सम्भवतीत्याह— ते चापेन कर्मअतिहिंस्रंन चेति। ते तव चापेन धनुषा क्रियमाणंकर्मअतिहिंस्रम् अत्यन्तः हिंसाशीलंन च। सर्वेषामपि चापेन क्रियमाणंकर्मशरीरनाशकत्वेन हिंस्रमेव भवति। तव तु तपोमात्रहिंसया नात्यन्तहिंस्रमिति भावः। फलितमाह—त्वं स्पृहणीयवीर्यःअसि अहोबत इति। स्पृहणीयमभिलषणीयं वीर्यंयस्य स तथा। ममाप्येवंविधं वीर्यंभूयादिति सर्वैरप्यभिलषणीयवीर्योऽसीत्यर्थः। अभिनन्द्यवीर्योऽसीति वा। अहोइति विस्मये। बतेति सन्तोषे। ‘अहो हि च विस्मये ’इति, ‘खेदानुकम्पासन्तोषविस्मयामन्त्रणे बतः इति’ च सिंहः। त्वद्वीर्यस्वरूपनिरूपणावस्थायां ममापि विस्मयसन्तोषौजायेते इत्यर्थः। ‘अहो यथासी’ति पाठे यथाशब्दो योग्यतायाम्। युक्तमेव स्पृहणीयवीर्योऽसीत्यर्थः॥२०॥
मधुश्चते मन्मथ ! साहचर्या-
दसावनुक्तोऽपि सहाय एव।
समीरणश्चोदयिता भवेति
व्यादिश्यते केन हुतांशनस्य॥२१॥
(प्रकाशिका)
यच्चोत्त्कं’सहायमेकं मधुमेव लब्ध्वा’ (श्लो. १०) इति, तदपि ते न प्रार्थ्यमित्याह—
मधुरिति। साहचर्यात् सख्यादित्यर्थः। समीरणः केन व्यादिश्यत इत्यन्वयः। अनयोक्तिभङ्गयावसन्तस्य नियोग इति पर्यायोक्तम्॥२१॥
( विवरणम् )
अपिच सर्वेषां सर्वेषु कर्मसु भवता ममास्मिन् कर्मणि सहायेन भवितब्यमित्यभ्यर्थिताःसन्तोऽपि प्रत्युपकारलिप्सयैव बन्धवोऽपि सहायतां प्रतिपद्यन्ते। तवतु ‘सहायमेकं मधुमेव लब्ध्वा’ (श्लो. १०) इत्यत्रोक्तोमधुरुक्तिमान्रमपि नापेक्षते। तस्माद् धन्यएवासीत्याह —
मधुरिति। मन्मथ! असौ मधुः च साहचर्याद् अनुक्तःअपि ते सहायः एव।मन्मथ! हे मदन! असो तवसमीप एव वर्तमानः मधुर्वसन्तः अपिशब्दार्थे चकारः। यस्त्वया पूर्वंपुरारिविजये सहायतया निर्दिष्टः, सोऽपीत्यर्थः।सहैव चरतीति सहचरः, तस्य भावः साहचर्यं, (तस्मात्) सख्यादित्यर्थः।अनुक्तोऽपि अनियुक्तोऽपि। अनेन साहचर्यस्य स्वाभाविकत्वमुक्तम्। तच्च वचनानपेक्षत्वे हेतुः। अत्र प्रतिवस्तुपमामाह— त्वंहुताशनस्य चोदयिता भव इति समीरणः केन व्यादिश्यते इति। हुताशनस्य अग्नेःचोदयिता प्रेरको भव। व्यादेशप्रकारश्चायम्। अत एवाह—इतीति। उक्तप्रकारेणेत्यर्थः। व्यादिश्यते नियुज्यते, न केनापीत्य।अत्रोक्तिभङ्गया वसन्तस्य नियोग एवोत्त्कइति पर्यायोक्तमलङ्कारः। तेनच प्रतिवस्तूपमायाः संसृष्टिः॥२१॥
तथेति शेषामिव भर्तुराज्ञा-
मादाय मूर्ध्नामदनः प्रतस्थे।
ऐरावतास्फालनकर्कशेन
हस्तेन पस्पर्शतदङ्गमिन्द्रः॥२२॥
(प्रकाशिका)
नियुत्त्कस्य वृत्तान्तमाह—
तथेति। तथाशब्दोऽभ्युपगमे। शेषां माल्यादिदानम्। ‘माल्याक्षतादिदाने स्त्रीशेषे’ ति केशवः। प्रतस्थे गन्तुमारभत। आस्फालनमुदर्षणार्थःगजाश्वानाम्। हस्तविशेषणं स्पर्शश्लाध्यताङ्गम्। तदङ्गम्, अर्थात प्रणामसमये॥२२॥
(विवरणम् )
अथ महेन्द्रेण तथा नियुक्तस्य मदनस्य प्रवृत्तिमाह—
तथेति। मदनः भर्तुःआज्ञां शेषामिव तथा इति मूर्ध्नाआदाय प्रतस्थे। मदनः कामदेवः भर्तुःस्वामिनः आज्ञां नियोगं शेषां माल्याक्षतादिदानम्। ‘माल्याक्षतादिदाने स्री शेषा’ इति केशवः। तामिव। तथेत्यभ्युपगमवाचकमव्ययम्। मूर्ध्नानम्रेण शिरसा। आदाय स्वीकृत्य। प्रतस्थे गन्तुमारेभे। अत्राज्ञायाः शेषोपमया मदनस्य तस्यामादरातिशय उत्त्कः। मदनो महेन्द्राज्ञां प्रस्थानादिसमये बन्धुमिर्दीयमानं माल्याक्षतादिकमिव शिरसा समादाय प्रस्थानोद्यमं चकारेत्यर्थः। शेषां चाज्ञां चादायेति वा।अभ्युपगतनियोगंमदनं प्रति महेन्द्रस्यादरातिशयमाह— इन्द्रःतदङ्गं हस्तेन पस्पर्शेति। इन्द्रोदेवेन्द्रःतदङ्गं तस्यमदनस्य अङ्ग शरीरं हस्तेन पस्पर्शहस्तेनैव स्पृष्टवान्। अर्थात्प्रणामसमय इति xxति। महेन्द्रहस्तस्य विशेषमाह — ऐरावतास्फालनकर्कशेनेति। ऐरावतआत्मनो वाहनभूतस्य गजस्य आस्फालनेन। गजाश्वानां युद्धारम्भादावुद्धर्षणार्थं यदाहननं तदिहास्फालनशब्देनोच्यते। तेन कर्कशेन कठिनेन। अनेन विशेषणेनात्रापि स्पर्शनस्योद्धर्षणार्थत्वंद्योत्यते॥२२॥
स माधवेनाभिमतेन सख्या
रत्या च साशङ्कमनुप्रयातः।
अङ्गव्ययप्रार्थितक69र्मसिद्धिः
स्थाण्वाश्रमं हैमवतं जगाम॥२३॥
(प्रकाशिका)
स इति। अभिमतेनाभिमानविषयभूतेन। अस्मिन् सति किं मेदुर्लभमित्यभिमानः।साशङ्कंकिं भविष्यतीति सभयम्। त70च्चतस्याः परमेश्वरप्रभावज्ञत्वेन, तच्च पतिव्रतात्वात्। तत एव71चानुयानम्, एवंविधेऽस्य जीवितसंशये नैनं जह्यामिति। अङ्गव्ययार्थं वस्तुतः शरीरनाशः प्रयोजनं यथा भवति तथा प्रार्थिता कर्मसिद्धिर्येन। अनेन तस्यानात्मज्ञतां कविःसोपहासमनुसन्धत्ते॥२३॥
(विवरणम्)
अथ प्रस्थितस्य मदनस्य हरपदप्राप्तिमाह —
स इति। सः हैमवतं स्थाण्वाश्रमं जगाम। सः मदनः हैमवतं हिमवत्सम्बन्धि, हिमवत्प्रस्थगतमित्यर्थः। स्थाणोः शिवस्य आश्रमं जगामगतोऽभूत्। परमेश्वरपदप्राप्तौमदनस्य सहायसमृद्धिं दर्शयति —अभिमतेन सख्यामाधवेन अनुप्रयातः इति। अभिमतेन अभिमानविषयभूतेन। अस्मिन् सुहृदि मम सन्निधौवर्तमाने किं मया दुष्करमित्यभिमानस्य पात्रभूतेनेति यावत्। सख्या बन्धुना माधवेन वसन्तेन अनुप्रयातः अनुगतः। पतिदेवता रतिश्च नैनं तत्याजेत्याह —रत्या चेति। अनुप्रयातइति योज्यम्। रतेरनुप्रयाणे हेतुमाह —साशङ्कमिति। अनुप्रयाणक्रियाविशेषणं चेदम्। आशङ्कासहितं यथा भवति तथा अनुप्रयात इत्यर्थः। अत्र पतिव्रतात्वात् परमेश्वरप्रभावज्ञानं, तेन च परमेश्वरतपोविघ्नमाचरन्नयं मे भर्ताकथं भविष्यतीत्यशङ्का, तया चानुप्रयाणम्। एवंविधे महति नीवितसंशये नैनमहं जह्याम्। यद्यसावसून् परित्यक्ष्यति, तर्हि तदैव xxत्प्राणनाथमनुकर्तुमनुजानातु मां परमेश्वर इत्यादिचिन्ताकुलया रत्या
च शनैः शनैरनुगत इत्यर्थः। अथ कवीश्वरः परमेश्वरतपोविधाताय प्रवृत्तस्य मदनस्याज्ञतां स्वयमेव सोपहासमनुसन्दधाति —अङ्गव्ययप्रार्थितकर्मसिद्धिरिति। अङ्कव्ययः शरीरनाशः, तदर्थमेव प्रार्थिता अभ्यर्थिता कर्मणः स्वव्यापारस्यसिद्धिः हरसमाधिभङ्गलक्षणं फलंयेन स तथा। यः सकृदपि ध्यातः कीर्तितो वा जन्मसहस्रसञ्चितमपि पापमपहाय मुक्तिमेव प्रयच्छति, यो वा स्वपरिपन्थिनस्त्रिपुरादीनपि क्षणेन भस्मसादकरोत्, तस्य देवस्य समाधिभङ्गे प्रवृत्तस्य मदनस्य स्वशरीरनाशादन्यत् किं वा फलंभविष्यति। तस्मादङ्गव्ययार्थमेवास्य तत्समाधिभङ्गाकाङ्क्षा। अहो महानस्य मोहातिशय इति भावः॥२३॥
तस्मिन् वने संयमिनां मुनीनां
तपःसमाधि72प्रतिकूलव्रत्तिः।
सङ्कल्पयोनेरभिमानभूत-
मात्मानमादा73य मधुर्जजृम्भे॥२४॥
(प्रकाशिका)
तत्र मधोर्वृत्ति74माह
तस्मिन्निति। संयमिनां जितेन्द्रियाणाम्। तपसि समाधिरेकाग्रता। सङ्कल्पयाोनेरभिमानभूतम्। अत्र पुराणवचनं —
“सङ्कल्पप्रभवंकामं रतिं प्रीत्यभिमानिनीम्।
अभिमानात्मकं तस्य मधुं मदनविग्रहम्॥
आराधयेयुः क्षितिपाः सस्त्रीका रूपकाङ्क्षिणः।”
इति। आत्मानमृ75तुविशेषात्मकंस्वभावमित्यर्थः। जजृम्भे पल्लवकुसुमादिस्वलिङ्गबाहुल्येन प्रकटोऽभूदित्यर्थः॥२४॥
(विवरणम्)
अथ कामप्रवृत्तेरुद्दीपनपूर्वकत्वाद् ‘उद्दीपनानि माल्यर्तुचन्दनेन्दूदयादयः।’ इति वसन्तस्याप्युद्दीपनत्वादादौ तत्प्रवृत्तिमाह तस्मिन्नित्यादिभिर्दशभिःश्लोकैः76—
तस्मिन्निति। मधुः सङ्कल्पयोनेः अभिमानभूतम् आत्मानम् आदाय तस्मिन् वने जजृम्भे। मधुर्वसन्तः सङ्कल्पयोनेः काम77स्य अभिमानभूतं, तस्मिन् सति किं मया दुष्करमित्यभिमानमेव मूर्तिमवलम्व्यावस्थितमित्यर्थः। अत्र पुराणवचनं —
“सङ्कल्पप्रभवं कामं रतिं प्रीत्यभिमानिनीम्।
अभिमानात्मकं तस्य मधुं मदनविग्रहम्॥
आराधयेयुः क्षितिपाः सस्त्रीका रूपकाङ्क्षिणः।”
इति। आत्मानं स्वरूपम् आदाय स्वीकृत्य, ऋतुस्वभावमादायेत्यर्थः। तस्मिन् वने स्थाणुतपोवने। वनराब्देन वसन्तविजृम्भणाधिकरणत्वयोग्य(तां) दर्शयति। जजृम्भे मदनहृदयानुरूपं स्वरूपमादाय हरतपोवनेकुसुमपल्लवकोकिलकूजितादिलिङ्गबाहुल्येन प्रकटोऽभूदित्यर्थः। मधोः स्वभावमाह—संयमिनां मुनीनां तपःसमाधिप्रतिकूलवृत्तिरिति। संयमो निगृहीतेन्द्रियत्वमस्त्येषामिति संयमिनः, तेषां जितेन्द्रियाणामित्यर्थः। मुनीनां महर्षीणां तप78सि यः समाधिः चित्तैकाग्य्रंतस्य प्रतिकूला विरोधिनी वृत्तिर्यस्य स तथा। अनेन मधोर्मुनिसामान्यसमाधिभेद79नसामर्थ्यप्रतिपादनेन परमेश्वराकर्षविषयः प्रयासो निष्फलएवेति व्यज्यते। अन्यथा मुनिशब्दमपहाय तपः-समाधिप्रतिकूलवृत्तिरित्येवोच्येत॥२४॥
कुबेरना80थां दिशमुष्णरश्मौ
गन्तुं प्रवृत्ते समयं विलङ्घ्य।
दिग् दक्षिणा गन्धवहं मुखेन
व्यलीकनिःश्वासमिवोत्ससर्ज॥२५॥
(प्रकाशिका)
तत्प्रकारमाह —
** कुबेरनाथामिति**। समयं गमनकालम्। मुखेन पुरोभागेन। व्यलीकमपराधः। अत्रोदीच्यां परपरिग्रह-भूतप्रतिनायिकात्वम्, उष्णरश्मौनायकत्वं, गमने नायकव्यापारविशेषः, नियतकालविलङ्घने संविद्विलङ्घनम्, अवाच्यां खण्डितनायिकात्वं चारोप्यत इति समासोक्तिः। तन्मूलाचेयं गन्धवहे व्यलीकनिःश्वासोत्प्रेक्षा।मुखोपचारश्चतदङ्गम्। न चात्रोपमा युक्ता, नायिकात्वाद्यारोपस्याध्यवसायं प्रत्यनुकूलत्वाद्, अध्यवसायश्चोत्प्रेक्षेति॥२५॥
(विवरणम्)
अथ वसन्तागमनकोलाहलंसविस्तरं वक्तुमुपक्रान्तः प्रथमं मलयमारुतप्रवृर्त्तिवर्णयति —
कुबेरेति। उष्णरश्मौसमयं विलङ्घ्यकुबेरनाथां दिशंगन्तुं प्रवृत्ते दक्षिणा दिग् मुखेन गन्धवहम् उत्ससर्ज। उष्णा रश्मयः किरणाः यस्य तस्मिन् आदित्येसमयं पूर्वव्यवस्थापितं गमनकालंविलङ्घ्यअक्रमेण वसन्तागमनादतिक्रम्य। कुबेरो वैश्रवणो नाथोऽधिपो यस्याः ताम् उत्तरां दिशं गन्तुं प्रवृत्ते गमनाय कृतसन्नाहे सति दक्षिणा दिग् मुखेन पुरोभागेन। गन्धं वहतीति गन्धवहो*वायुः तम् उत्ससर्जउत्सृष्टवती। अत्रोत्प्रेक्षते —व्यलीकनिःश्वासमिवेति। व्यलीकमपराधः। ‘पीडार्थेऽपि व्यली-
कं स्यादि’त्यमरः। अपिशब्दादपराधेऽपि तद्व्याख्या81। प्रियतमकृतापराधनिमित्तं दीर्घनिःश्वासमिव। अत्रकुषेरनाथामिति विशेषणेन स्त्रीलिङ्गत्वेन च परपरिग्रहभूतप्रतिनायिकाकत्वमुदीच्यां82प्रतीयते। समयंविलङ्घ्यगन्तुं प्रवृत्तइत्यनेन उष्णरश्मौ,तथाविधनायकत्वम्अत एवदक्षिणस्यां दिशि खण्डितनायिकात्वंचेति समासोक्तिः। नायकपक्षे समयशब्दः संविद्वाचकः। ‘समयाः शपथाचारकालसिद्धान्तसंविदः’इत्यमरः। समासोक्तिमूला च गन्धवहे व्यलीकनिःश्वासोत्प्रेक्षा। मुखोपचारः पुनरङ्गमुत्प्रेक्षायाः। अत्रोत्प्रेक्षासमासोक्त्योःसङ्करः। ‘विशेषणसाम्यादप्रस्तुंतस्य गम्यत्वे समासोक्ति’रिति ततलक्षणम्॥२५॥
असूतसद्यःकुसुमान्यशोकः
स्कन्धात् प्रभृत्येव सपल्लवानि।
पादेन नापैक्षत सुन्दरीणां
सम्पकेमाशि83ञ्जितनूपुरेण॥२६॥
(प्रकाशिका)
असूतेति।सद्यःअ84पक्रमात्। स्कन्धात् प्रभृति85, सर्वतइत्यर्थः। ‘ततः प्रभृती’ति भाष्यकारवचनात् प्रभृतिशब्दयोगे पश्चमी। सपल्लवानि, ‘कुसुमजन्म ततो नवपल्लव’इति क्रमो नात्रासीदित्यर्थः। पादेनेति। अन्यदा ऋतोःऋमादाप्याय्यमानबलत्वेन सहकायेपेक्षा स्यात्। इदानीं तु सद्य उपलब्ध86बलत्वे सा नासीदित्यर्थः। पादविशेषणेन इतिकर्तव्यताविशिष्टपादसम्पर्ककार्यत्वंपुष्पोद्गमस्य ध्वनितम्। अत्र पादसम्पर्कक्रियानिषेधेऽपि प्रसिद्धतत्कार्यभूतपुष्पोद्गमविभावनाद् विभावनात्रालङ्कारः॥
(विवरणम्)
अथाशोकपुष्पोद्गमं वर्णयति–
असूतेति। अशोकः सद्दःस्कन्धात् प्रभृत्येव कुसुमानि असूत। अशोकः अशोकतरुः सद्यःअक्रमं स्कन्धात् प्रभृति स्कन्धदेशादारभ्य, सर्वत इत्यर्थः। आदौ शाखाग्रे काचिन्मञ्जरी सञ्जाता, पुनश्च शाखान्तर इत्यादिक्रममतिक्रम्य स्कन्धदेशादारभ्य सर्वेष्वप्यवयवेषु युगपदेव कुसुमानि बभूवुरित्यर्थः। ‘ततः प्रभृती’ति भाष्यकारवचनात् प्रभृतिशब्दयोगे स्कन्धादिति पञ्चमी। एवशब्देन कुसुमपल्लवरहितस्यांशस्याभाव उक्तः। कुसुमानि पुष्पाणि असूत उत्पादितवान्। अपिच ‘कुसुमजन्म ततो नवपल्लव87’इत्यादिषु प्रसिद्धः क्रमेऽपि तत्र नासीदित्याह—सपल्लवानीति पल्लवसहितानि। अशोकतरुःसद्यएव कुसुमपल्लवैराचितोऽभूदित्यर्थः। ऋतोरक्रमपरिपूर्तिः क्रमातिक्रमे हेतुरित्यवसेयम्।
“आलिङ्गनात् कुरवको बकुलो मुखशीथुना।
कामिनीनां पदाघातादशोकः पुष्प्यति द्रुत88म्॥”
इत्यादिवचनसिद्धः सहकारिनियमोऽपि वसन्ते मूर्तिमति स्वयमेवागते तत्र नासीदित्याह—सुन्दरीणां पादेन सम्पर्कं नापैक्षतेति। सुन्दरीणां सर्वावयवसुन्दरीणाम्। अनेनान्यासां तत्रानुपयोगित्वमुक्तम्। पादेन चरणेन सम्पर्कं संयोगं नापैक्षत नापेक्षते स्म। इतः पूर्वं चरणस्यापीतिकर्तव्यतांशोऽस्तीत्याह — आशिञ्जितनूपुरेणेति। आभीक्ष्ण्येन शिञ्जितं89 शब्दितं नूपुरं मञ्जीरं यस्य तेन।तत्कालविशेषणं चेदम्। अत्र कामिनीसम्पर्करुपप्रसिद्धकारणविरहेऽपि पुष्पोद्गमरूपकार्योत्पत्तिप्रतिपादनाद् विभावनालङ्कारः। सा चात्रानुक्तनि- (युक्ता?मित्ता)॥ २६॥
सख्युः90 प्रवालोद्गमचारुपत्रे
नीतेसमाप्तिं नवचूतबाणे।
निवेशयामास मधुर्द्विरेफान्
नामाक्षराणीव मनोभवस्य॥२७॥
(प्रकाशिका)
सख्युरिति। उद्गमशन्दो द्रव्यं लक्षयति, करिदन्तच्छेदकान्त इतिवत्। अक्लिष्टताप्रतीतिः फलम्। वाजरचनायां कृतायां नामाक्षरनिवेशनमिति लोकक्रमः।सख्युर्मनोभवस्येत्यन्वयः॥२७॥
(विवरणम्)
चूतपृष्पोद्गमंवर्णयति —
सख्युरिति। मधुः समाप्तिंनीते नवचूतबाणे द्विरेफान् निवेशयामास। मधुर्वसन्तः समाप्तिं सम्पूर्णतां नीते प्रापिते नवचूतबाणे नूतने चूतकुसुम एवबाणे शरे। अधिकरणसप्तमी चेयम्। द्विरेफान् मधुकरान् निवेशयामास निवेशितवान्। अ91त्रोत्प्रेक्षते—सख्युः मनोभवस्य नामाक्षरा- णीर्वति। सख्युः निजपरमसखस्य मनोभवस्य कामदेवस्य नामाक्षराणि नामद्योतकान्यक्षराणीव। अक्षराणां मषीरूषितत्वेन वर्णसाम्यं सन्निवेशसाम्यं चोत्प्रेक्षाहेतुः। उद्दीपनत्वप्रतीतिः फलम्। चूतपुष्परूपस्यबाणस्यतत्किसलयरूपं पत्रमप्याह—प्रवालोद्गमचारुपत्रे इति। अत्रोद्गमशब्द उद्गमनक्रियावाचकोऽपि उद्गमनक्रियायाः पत्रत्वानुपपत्तेः कार्यकारणभावसम्बन्धादुद्गतंद्रव्यं लक्षयति।किसलयानां तत्कालोपपन्नत्वप्रतिपादनमुखेनातपादिभिरपरिक्लिष्टताप्रतीतिश्चफलम्। उद्गतं प्रवालमेव चारुसुन्दरं पत्रं यस्यतस्मिन्। अत्र किसलयानां सन्निवेशादिसाम्यात् पत्रत्वरूपणम्। उत्तेजनवाजरचनादिभिः सम्पूर्णतां नीते हि शरे नामाक्षराणि लिख्यन्त इति लोकप्रसिद्धः क्रमः समाप्तिंनीते इत्यनेनोक्तः॥२७॥
वर्णप्रकर्षेसति कर्णिकारं
दुनोति निर्गन्धतया स्म चेतः।
प्रायेण सामग्रथविधैगुणानां
पराङ्मुखी विश्वसृजः प्रवृत्तिः॥२८॥
(प्रकाशिका)
वर्णप्रकर्षइति। अत्रकर्णिकारं तथात्युज्ज्वलमपि निर्गन्धमभूद्, यथा सहृदयैरदूयतेति वाक्यं विपरिणमनीयम्। अन्यथा अर्थान्तर92न्यासघटना न स्यात्। तदानीं कर्णिकारस्वरूपरामणीयकं तथा यूनां हृदयहारि जातं, यथा तदनुसन्दधतां तेषां हन्त विधातृदौश्शील्यादेतद्रूपानुरूपस्यसौरभस्य लेशोऽपि नात्रासीदिति स्वेदोऽभवदिति तात्पर्यं, शृङ्गारोद्दीपनवर्णनस्य प्रकृतत्वात्॥२८॥
(विवरणम्)
कर्णिकारपुष्पोद्गमं वर्णयति —
वर्णेति। कर्णिकारं वर्णप्रकर्षेसति निर्गन्धतया चेतः दुनाति स्म।कर्णिकारं कर्णिकारकुसुमं वर्णप्रकर्षेवर्णस्य प्रकर्षेउत्कर्षे कान्त्यतिशये सत्यपि निर्गन्धतया निर्गतो गन्धो यस्मात् तन्निर्गन्धं, तस्य भावस्तत्ता, तया सौरभ्याभावेन हेतुनेत्यर्थः। चेतः चित्तं दुनोति स्म अपीडयत्। सहृदयानामिति शेषः। नात्र काचिदनुपपत्तिरित्याह—विश्वसृजः प्रवृत्तिः गुणानां सामग्र्यविधौप्रायेण पराङ्मुखीति। विश्वंसृजतीति विश्वसृग्ब्रह्मा, तस्य। प्रवृत्तिःव्यापारः गुणानां सामग्र्यविधौसम्पूर्णताविधाने प्रायेण प्रायशः पराङ्मुखी विमुखी। अस्य वाक्यस्य कर्णिकारकुसुमानां निर्गन्धतया सहृदयहृदयपीडाविधाने तात्पर्यमिति प्रतिभाति। तज्चायुक्तम्। तथा सति प्रकृष्ठशृङ्गारोद्दीपनवर्णनानुगुणत्वभङ्गप्रसङ्गात्। तस्मादेवमत्र तात्पर्यं वर्णनीयम्। कर्णिकारकुसुमं तथा नामात्युज्ज्वलं यूनां हृदयहारि जातं, यथा तेषां निर्ग-
न्धतामवधार्य सहृदयहृदयैर्दूयत इति पूर्वार्धेवाक्यार्थः। तथा च सति सर्वपदार्थेषु विधातृदौश्शील्यादेवमेव गुणसामग्र्याभाव इति नात्र काचिदनुपपत्तरित्यर्थान्तरन्यासोऽपि सुघटो भविष्यति॥२८॥
बालेन्दुवक्राण्यविकासभावाद्
वभुःपलाशान्यतिलोहितानि।
सद्यो वसन्तेन समागतानां
नखक्षतानीव वनस्थलीनाम्॥२९॥
(प्रकाशिका)
बालेन्दुवक्राणीति। सद्योनखक्षतानीत्यन्वयः, सद्यःसमागतानामिति वा। प्रवासप्रत्यागमने नखक्षतविधानात्। अत्र93समासोक्त्युत्प्रेक्षे॥२९॥
(विवरणम्)
पलाशकुसुमोद्गमं वर्णयति —
वालेति। पलाशानि बभुः। (पलाशानि) पलाशकुमुमानि बभुः शुशुभिरे। अत्रोत्प्रेक्षते—वसन्तेन सद्यःसमागतानां वनस्थलीनां नखक्षतानीवेति। वसन्तेन सद्यःएव समागतानां सङ्गतानाम्। प्रवासप्रत्यागमनसमये हि नखक्षतानि बहुलानि भवन्तीति सद्यइत्युक्तम्। वनस्थलीनां वनराजीनां नखक्षतानि नखव्रणानीव। सद्योनखक्षतानीति वान्वयः। सद्यःसमुत्पन्नानि नखक्षतानीवेयर्थः। तेषामेवातिलोहितत्वोपपत्तेः। पलाशकुसुमानां नखक्षतत्वोत्प्रेक्षायां हेतुमाह— बालेन्दुवक्राणीत्यादिना विशेषणद्वयेन। अविकासभावाद् बालेन्दुवक्राणीति। अविकासभावाद् विकासराहित्याद् वालचन्द्रवद्वक्राणि कुटिलानि। अविकसितानामेव वक्रत्वाद्, वक्राणामेव नखक्षतसादृश्यादविकासभावादित्युक्तम्। तथा अतिलोहितानि अत्यन्तरक्तवर्णानि।
नखक्षतान्यपि बालेन्दुवक्राणि भवन्ति। अचिरोद्गतत्वेसत्यतिलोहितानि च भवन्ति। अत्र चिरकालसङ्गतनायिकानायकवृत्तान्तप्रतीतेः समासोक्तिरलङ्कारः। उत्प्रेक्षा च तदङ्गम्॥२९॥
लग्नद्विरेफाञ्जनभक्तिचित्रे94
मुखे मधुश्रीस्तिलकं प्रकाश्य।
रागेण बालारुणकोमलेन
चूतप्रवालोष्टमलञ्चकार॥३०॥
(प्रकाशिका)
लग्नेति। मुखे प्रारम्भे। तिलकः श्रीमत्संज्ञवृक्ष95विशेषः। अरुणः सूर्यः। अत्र मुखतिलकरागशब्दानां वदनविशेषकलाक्षावाचित्वेन लिङ्गविशेषेण च प्रसाधनप्रवृत्तनायिकाप्रतीतौसमासोक्तिः।तामेव च रूपकमुपस्करोति॥३०॥
(विवरणम्)
निलककुसुमोद्गमं चूतपल्लवोद्भवं च युगपद् वर्णयति —
लग्नेति। मधुश्रीः मुखे तिलकं प्रकाश्य बालारुणकोमलेन रागेण चूतप्रवालोष्ठम् अलञ्चकार। मधुश्रीः वसन्तलक्ष्मीः मुख एव मुखे प्रारम्भे वदने च तिलकमेव तिलकं तिलककुसुमं विशेषकं च। ‘तिलकः क्षुरकः श्रीमानि’ति, ‘तमालपत्रतिलकचित्रकाणि विशेषकमि’ति चामरः। प्रकाश्यअतिशयेन सम्पाद्य। बालःअभिनवोदितः अरुणः सूर्यः। ‘अरुणो भास्करेऽपि स्यादि’त्यमरः।बालश्चासावरुणश्चेति बालारुणः,तद्वत्कोमलेन मनोहरेण रागेणैव रागेण रक्तवर्णेन लाक्षारसेन च। ‘रक्तवर्णेऽनुरागे च रागो लाक्षारसेऽपि चे’ति भोजः। चूतस्य प्रवालं चूतप्रवालं, चूतप्रवालमेवोष्ठं चूतप्रवालोष्ठम्अलञ्चकार - अङ्कृतवती। मुखे तिलकयोग्यतां दर्शयति — लग्न-
फाञ्जनभक्तिचित्रे इति। लग्नैःसक्तैःद्विरेफैःभ्रमरैरेवाञ्जनैः कृतया भक्त्यैव भक्त्याभागेन विन्यासेन च पत्रभङ्गेन च चित्रे आश्चर्यभूते। अत्र प्रवालादीनामोष्ठत्वादिरूपणानि शब्दैरेवोक्तानि। मधुश्रियः प्रसाधनप्रवृत्तनायिकात्वरूपणं पुनरर्थसाम96र्थ्यात् प्रतीयते इत्येकदेशविवर्तिरूपकमिदम्। ‘श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्तितदि’ति। अरुणाचलनाथस्तु— मुखतिलकरागशब्दानां वदनविशेषकलाक्षा-वाचित्वेन लिङ्गविशेषेण च प्रसाधनप्रवृत्तनायिकात्वप्रतीतौसमासोक्तिः। तामेव च रूपकमुपस्करोतीत्युक्तवान्। तत्कथमिति (न) ज्ञायते, एकदेशविवर्तिरूपकेणैव वसन्तलक्ष्म्यानायिकात्वप्रतीतौसिद्धायां समासोक्त्या निरर्थकत्वात्। एतदलङ्कारसर्वस्वेप्रपञ्चितम्॥ ३०॥
मृगाः प्रियालद्रुममञ्जरीणां
रजःकणैर्विघ्नितदृष्टिपाताः।
मदोद्धताः प्रत्यनिलं विचेरु-
र्वनस्थलीर्मर्मरपत्रमोक्षाः॥३१॥
(प्रकाशिका)
मृगा इति। ‘राजादनः प्रियालः स्यादि’ति सिहः। मर्मरो मर्मरशब्दयुक्तः पत्रमोक्षो यासाम्। तदनन्तरं हि नवदलोद्गमः। मदोद्धतत्वात् प्रत्यनिलगमनम्॥३१॥
(विवरणम्)
इत्थं वसन्तागमनवेलायां। स्थावराणां विकारं प्रतिपाद्य जङ्गमानांविकारमप्याह मृगा इत्यादिभिस्त्रिभिः श्लोकैः—
मृगा इति। मृगाः मदोद्धताः प्रत्यनिलंवनस्थलीःविचेरुः। मृगाः एणादयः मदोद्धताः मदेनोद्धताः अतिगर्विताः सन्तः। प्रत्यनिलमित्यव्यः-
यीभावः। अनिलो वायुः। अनिलममिमुखीकृत्येत्यर्थः। वनस्थलीः वनभूमीः। अत्यन्तसंयागे द्वितीया। विचेरुः विविधं चेरुः। अत्र मदोद्धतत्वमनिलाभिमुखप्रसरणे हतुः। मदोद्धतानां मृगाणां स्वभावश्चायम्। अनिलाभिमुखगमनस्य फलमाह—प्रियालद्रुममञ्जरीणां रजःकणैःविघ्नितदृष्टिपाता इति। प्रियालसंज्ञोद्रुमः प्रियालद्रुमः। ‘राजादनः प्रियालः स्यादि’ त्यमरः। तेषां मञ्जर्यःप्रियालद्रुममञ्जर्यः। तासां रजःकणैरजसां रेणूनां कणैः लेशैः। ‘लवलेशकणाणवः’इत्य97मरः। विघ्निताः सञ्जातविघ्नाःदृष्टिपाता नेत्रप्रचाराः येषां ते तथा।रजःकणप्रतिहतावलोकनसामर्थ्याइत्यर्थः। मदोद्धतानां स्वनाश एव फलमिति भावः। वनस्थलीनां तत्कालविशेष98णमाह—मर्मरपत्रमोक्षाः इति। मर्मरो मर्मरध्वनियुक्तः पत्राणां मोक्षोमोचनं यासां तास्तथा। ‘मर्मरः पर्णशब्दे स्यादि’ति भोजः। मृगाणां धावने पादाभिधातवशात् प्रसार्यमाणानां पर्णानां मर्मरध्वनिरत्र विवक्षितः। अथवा मर्मरः पत्रमोक्षो यासामिति विग्रहः। अत्र तु शुष्कतयावृक्षात् पततां पर्णानां ध्वनिर्विवक्षितः। वसन्ते हि पुराणानि पर्णानिपतन्ति, अभिनवानि चोत्पद्यन्ते। अत्र स्वभावोक्तिः॥३१॥
चूताङ्कुरास्वादकषायकण्ठः
पुंस्कोकिलो यन्मधुरं चुकूज।
मनस्विनीमानविधातदक्षं
तदेवजातं वचनं स्मरस्य॥३२॥
(प्रकाशिका)
चूताङ्कुरेति। कषायकण्ठोरक्तकण्ठः। रागश्च सुस्वरता। ‘कषायस्तुवर’इत्युपक्रम्य ‘रक्त’इति केशवः। यच्चुकूजकूजनंयदित्यर्थः। तत् कूजनं तथाविधं स्मरवचनमासीदित्य99र्थः। तेन तस्योद्दीपनातिशय उक्तः।तथाहि —सार्थको निरर्थकादर्था100क्रियाङ्गम्। स च विदग्धप्रयु
क्तश्चित्तमाव101र्जयति। तत्रापि सुहृत्वेन विशेषः। विदग्धः सुहृच्च नान्योऽस्ति, यथायं कामिनां स्मरः। तस्यापि मानिनीमानशैथिल्याभिप्रायं वचः सुतरामुद्दीपनम्॥३२॥
(विवरणम्)
कोकिलकूजितं वर्णयति —
चूतेति। पुंस्कोकिलः मधुरं चुकूज यत् तदेव स्मरस्य मनस्विनीमानविघातदक्षं वचनं जातम्। पुमान् कोकिलःपुंस्कोकिलः। कूजनसामर्थ्यप्रतिपादनार्थंपुंस्त्वविशेषणम्। मधुरमिति कूजनक्रियाविशेषणम्। चुकूज कूजनं कृतवान् यत्, तदेव कूजनं स्मरस्य मदनस्य मनस्विनीनां प्रणयिनीनां मानस्याभिमानस्यविघाते उन्मूलने। अत्र मनस्विनीत्वं मानोत्पत्तौहेतुः। दक्षं विदग्धं वचनंवाक्यं जातम्। वसन्तागमनवेलायां यत् कोकिलकूजनं जातं, तदेव प्रत्युपस्थितं तृतीय102पुरुषार्थंमा परित्यजत, अलमभिमानविलम्बनेनेत्यादिरूपं मदनवचनमासीदित्यर्थः। अनेन कोकिलालापस्योद्दीपनत्वं प्रतिपादितम्। निरर्थकस्यापि कोकिलालापस्य कामि103जनबन्धुभूतस्य विदग्धतरस्य स्मरस्य (च?) प्रियतमाभिमानविधातदक्षवचनत्वेन रूपणाद्रुपकम्। अत्र स्वरमाधुर्यमुद्दीपनत्वेहेतुः। स्वरमाधुर्यहेतुमाह— चूताङ्कुरास्वादकषायकण्ठ इति। चूतानामङकुरस्याभिनवोद्भिन्नस्य पुष्पस्या- स्वादेनादनेन कषायो रक्तः कण्ठो यस्य स तथा। ‘कषायस्तुवरे’इत्यारभ्य ‘रक्ते’इति केशवः। रक्तत्वं च सुस्वरता। सुस्वरकण्ठ इत्यर्थः। अनेन चूताङ्कुरास्वादनस्यगलान्तरोद्धतदोषनिरासकत्वमुक्तम्॥ ३२॥
हिमव्यपायाद् विशदाधराणा-
मापाण्डरीभूतमुखच्छवीनाम्।
स्वेदोद्गमः किम्पुरुषाङ्गनानां
चक्रे पदंपत्रविशेषकेषु॥३३॥
(प्रकाशिका)
हिमेति। विशदाधराणाम्, अलक्तकार्पणविरहात्। स्वाभाविककान्तियुक्तानामेव मुखानामापाण्ड-रीभावः,कुङ्कुमविरहात्। स्वेदोद्गम आतपकृतः। पत्रेषु कपोलगतेषु। विशेषकेषु ललाटगतेषु। पदकरणमर्थादुच्छ्वा104सनम्॥३३॥
(विवरणम्)
हिमवच्छिखरवर्तिनीनां किम्पुरुषाद्यङ्गनानामपि तत्कालसुलभं विशेषं वर्णयति—
हिमेति। किम्पुरषाङ्गनानां पत्रविशेषकेषु स्वेदोद्गमःपदं चक्रे। किम्पुरुषाङ्गनानां किन्नरस्रीणां पत्रेषु विशेषकेषु च कपोलगतेषु पत्रभङ्गेषु ललाटतटघटितेषु तिलकेषु च स्वेदोद्गमः उद्भूत स्वेदः पदं चक्रे स्थानं कृतवान्। आतपकृताः स्वेदबिन्दवः किन्नराङ्गनानां पत्रभङ्गतिलकेषु किञ्चिदुच्छूनतामजनयन्नित्यर्थः। स्वाभाविकमङ्गसौन्दर्यमपि तासां तदानीमभिव्यक्तमासीदिति विशेषणद्वयेन दर्शयति—हिमव्यपायादित्यादिना। हिमव्यपायाद्विशदाधराणां हिमस्य तुषारस्य व्यपायादपगमाद् विशदो निर्मलोऽधरो यासां तासाम्। शीतकालएवहि स्त्रीणामधरेष्वलक्तकरसार्पणम्,अलक्तकस्योष्णस्वभावत्वात्। अलक्तकरसाभावात् स्वाभाविकेन रागेण मनोहराधराणामित्यर्थः। विशेषणान्तरमाह—आपाण्डरीभूतमुखच्छवीनामिति। अत्रापि हिमव्यपाय एव हेतुः। उष्णस्वभावकुङ्कुमार्पणाभावादापाण्डरीभूता मुखच्छविर्यासां तासाम्। मुखेऽपि स्वभाविकी शोभैव प्रकटाभूदिति भावः। अनेन श्लोकेन तासांतत्कालसुलभशोभातिशय उक्तः॥३३॥
तपस्विनः स्थाणुवनौकसस्ता-
माकालिकीं वीक्ष्यमधुप्रवृत्तिम्।
प्रयन्तसंस्तम्भिताविक्रियाणां `
कथञ्चिदीशा मनसां बभूवुः ॥३४॥
(प्रकाशिका)
एवंविधामुद्दीपनसम्पदं कार्यमुखेन रफारयाति—
तपस्विन इति। मत्वर्थेनावासविशेषणेन105 च विकारानुपपत्तिः। आकालिकीं सद्यःसमुद्भवसमाप्तिकाम्।106 ‘आकालिकडाद्यन्तवचने’ (५.१.११४) इत्यकालशब्दस्याकालिकडादेशः। प्रयत्नःप्रत्याहारादिः। विक्रिया हर्षादिरतिर्वासनारूपा107।यदाह—
रम्याणि वीक्ष्य मधुरांक्ष्चनिशम्य शब्दान्
पर्युत्सुकीभवति यत् सुखितोऽपि जन्तुः।
तच्चेतसा स्मरति नूनमबोधपूर्वं108
भावस्थिराणि जननान्तरसौहृदानि॥”
इति। सपरिग्रहाणां च तादात्विकी रतिः॥३४॥
(विवरणम्)
इत्यमुपवर्णितस्योद्दीपनस्य कामदेवाभिमते कार्येप्रवृत्तिं प्रतिपादयति—
तपस्विन इति। स्थाणुवनौकसः तपस्विनः आकालिकीं तां मधुप्रवृत्ति वीक्ष्य कथञ्चिद् मनसाम् ईशाः बभूवुः। स्थाणोः शिवस्य वनं तपोवनमेव ओको गृहे येषां ते तपस्विनः वानप्रस्थाः आकालिकीं सद्यस्समुद्भवसमाप्तिमतीम्। ‘आकायिकडाद्यन्तवचने’ (५. १.११४) इत्य-
कालशव्दस्याकलिकडादेशः। पूर्वव्यवस्थापितकालत् प्रागेव सञ्चातां सद्योविनाश्वतीं चेत्यर्थः। तां पूर्वप्रतिपादितां मधोर्वसन्तस्यप्रवत्तिंविजृम्भणरूपं व्यापारं वीक्ष्य सम्यगवलोक्य कथञ्चिद् यथाकञ्चिद् मनसामीशाः स्वामिनो बभूवुः। अत्र तपस्विन इति मतुबन्तेन स्थाणुवनौकस इति परमेश्वरसान्निध्यप्रतिपादनेन च मनोविक्रियाहेतुःप्रतिपादितः। आकालिकत्वादनिरूपि109 (तत्वा? ता)गतत्वेन तु मनोविकारोत्पत्तौ110 हेतुः प्रतिपादितः। अत एव कथञ्चिदीशा बभूवुरित्युक्तम्। मनोविकारप्रशमनप्रकारमाह—प्रयत्नसंस्तम्भितविक्रियाणामिति प्रयत्नैःप्रत्याहारादिरूपैर्व्यापारैः संस्तम्भितासम्यक् स्तम्भिता विक्रिया वासनारूपेण वर्तमाना हर्षादिर्येषाम्। सपरिग्रहाणांतु तादात्विकी रतिः। हर्षादिरतीनां वासनारूपेण वतेमानत्बमुक्तं शाकुन्तले—
“रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्
पर्युत्सुकीभवति यत् सुखितोऽपि जन्तुः।
तच्चेतसा स्मरति नूनमबोधपूर्वं
भावस्थिराणि जननान्तरसौहृदानि॥ ”
इति। महर्षयः कृतबहुविधग्रशस्ततपस्तवात् परमेश्वरसान्निध्यवशाच्चप्राणायामप्रत्याहारादिभिरात्मनां मनोविकारं कथमपि निवारयामासुरियर्थः॥३४॥
तं
देशमारोपितपुष्पचापे
रतिद्वितीये मदने प्रपन्ने।
काष्ठागतस्नेहरसानुविद्धं
द्वन्द्वानि भावं क्रियया विवव्रुः॥३५॥
(प्रकाशिका)
अथ मदनागमनस्य प्रभावं वर्णयति—
तमिति। आरोपितपुष्यचाप इति संरम्भः। रतिद्वितीय इति तस्याःप्रीत्यभिमानित्वाद्अस्य सहायसम्पत्। काष्ठामुत्कर्षंगतं काष्ठागतम्। ‘द्वितीया श्रिता—’(२,१,२४) इत्यादिना समासः। तत्कालभावि चैतद्विशेषणम्। काष्ठागतत्वाच्च स्नेहो111 रसः रसनियतत्वात् वरात्, तेनानुविद्धम्। तद्विजृम्भानुरूप॑ द्वन्द्वानि जङ्गमम्थावराणि भावं सम्भोगेच्छाम्। क्रियया अनुभावरूपया॥३५॥
(विचरणम्)
हत्थं वसन्तागमनप्रभावमुक्त्वा मदनागमनप्रभावमेवाह—
तमिति। रतिद्वितीये मदने तं देशंप्रपन्ने द्वन्द्वानि भावं क्रियया विवव्रुः। रतिद्वितीये रतिरेव द्वितीया यस्य तस्मिन्। अनेन मदनस्य तस्यां प्रीत्यभिमानित्वात् सहायसम्पदुक्ता॥ भावमभिलापंसम्भोगोच्छामित्यर्थः\। क्रियया इच्छायाः कार्यभूतेन व्यापारेण, आलिङ्गनादिभिरित्यर्थः।विवव्रुःप्रकाशयामासुः। मदनागमनानन्तरं सर्वाणि मिथुनान्यपि स्वात्मनि सञ्चातां सम्भाेगेच्छां तत्कालभूतैर्व्यापारैःप्रकाशयामासुरित्यर्थः। मदनस्योद्योगमाह—आरोपितपुष्पचाप इति। आराेपितं सज्जीकृर्त पुष्पमयं चापं शरासनं येन तस्मिन्। भावस्पोत्कर्षमाह—काष्ठागतस्नेहरसानुविद्धमिति। काष्ठामुत्कर्षम्। ‘काष्ठोत्कर्षे स्थितौदिशी’त्यमरः। गतेन प्राप्तेन। ‘द्वितीया श्रितातीत-’(२.१.२४)इत्यादिना समासः। तत्कालविशेषणं चेदम्। स्नेह एवं रसनियतत्वाद्रसः स्नेहरसः, स्नेहातिशयो। वा, तेनानुविद्धं विजृम्भितमित्यर्थः। द्वन्द्वानि मदनागमनवशात् परमकाष्ठामधिष्ठितं परस्परानुरागं तत्प्रकाशकैः।कर्मभिःप्रकाशयाञ्चक्रुरित्यर्थः॥३५॥
मधु द्विरेफः कुसुमेकपात्रे
पपौ प्रियां स्वामनुवर्तमानः।
शृङ्गेण च स्पर्शनिमीलिताक्षीं
मृगीमकण्डूयत कृष्णसारः॥३६॥
(प्रकाशिका)
तत्प्रकारानाह112—
मध्विति। प्रियामनुवर्तमान इति नागरिकवृत्तमप्यशिक्षितमेव प्रतिभातमित्यर्थः।‘पाययेयुरनुपिवेयुश्चेति दर्शनात्। कण्डूयनमनुवृत्तिप्रकर्षः। कण्ड्वादुर्लक्षत्वात् ॥३६॥
(विवरणम्)
अथ क्रियया भावप्रकारानमेव प्ररञ्चयति चतुर्भिःश्लोकैः। तत्रादौ भ्रमरद्वन्द्वानां मृगद्वन्द्वानांच प्रकाशनप्रकारमाह113—
मध्विति। द्विरेफः स्वांप्रियाम् अनुवर्तमानः कुसुमैकपात्रे मधु पपौ। द्विरेफो भ्रमरः स्वांप्रियाम् आत्मीयां वल्लभाम्अनुवर्तमानः अनुसरन् कुसुमैकपत्रे कुसुममये एकस्मिन् पात्रे साधारणे पात्रे मधु पपौपीतवान्। अत्रनागरिकवृत्तं भ्रमरैरशिक्षितमपि मदनसान्निध्यवशादुद्बुद्धमभूदित्युक्तं भवति। नागरिका ह्मोकस्मिन्नेव पात्रे सम्भृतं मंद्यं वल्लभांपाययन्ति, स्वयं चानुपिबन्ति। ‘पाययेयुरनुपिबेयुश्चे’ति वचनात्। कृष्णसारः शृङ्गेणमृगीम् अकण्डूयत। कृष्णसारो मृगविशेषः शृङ्गेण स्वेनैव विषाणेन मृगीं वल्लभाम् अकण्डूयत कण्डूयितवान्114। कृष्णसारः स्वां वल्लभां कण्डूयनादिभिरनुवर्तितवानित्यर्थः। मृग्या अपि भावविशेषप्रकारमाह115— संस्पर्शनिमीलिताक्षीमिति। संस्पर्शेन समीचीनेन स्पर्शनेन, स्पर्शसुखेनेति यावत्। निमीलिते अक्षिणी यया ताम्। अत्राक्षिनिमीलनं स्पर्शसुखस्यानुभावः॥३६॥
ददौ सरःपङ्कजरेणुगन्धि116
गजाय गण्डूषजलं करेणुः।
अर्धेपयुक्तेन117 बिसेन जायां
सस्भावयामासरथाङ्गनामां॥३७॥
(प्रकाशिका)
ददाविति। गण्डूषजलं मुखान्तर्गतजलम्। अर्धोपयोग आस्वादपरीक्षार्थम्॥३७॥
(विवरणम्)
गजमिथुनानां चक्रवाकमिथुनानां च प्रवृत्तिमाह—
ददाविति। करेणुः गजाय गण्डूषजलं ददौ। करेणुः करिणी। ‘करेणुरिभ्यां स्री नेभे इत्यमरः। गजाय करिणं गण्डूषजलं मुखान्तर्गतजलंददौ दत्तवती। गण्डूषजलस्य प्रियतमावदनसम्पर्कव्यतिरिक्तमपि गुणान्तरमाह—सरःपङ्कजरेणुगन्धीति। सरासे यानि पङ्कजानि तेषां रेणुः परागः तस्य गन्धोऽस्तयस्मिन्निति तथा। यथा कामिनी सुरभिलकुसुमादिसंस्कृतं मुखासवं कामिने ददाति तद्वदित्यर्थः। यथाह माघः—
“सञ्जितानि सुरभीण्यथ यूनामुल्ललन्नयनवारिरुहाणि।
आययुः सुमधुराणि सुरायाः पात्रतां प्रियतमवदनानि॥”
(स. १०. श्लो१)
इति। रथाङ्गनामा अर्धोपयुक्तेन बिसेन जायां सम्भावयामास। रथाङ्गनामा चक्रवाकः। कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः’ इत्यमरः। अर्धोपयुक्तेन अर्धकबलितेन। अत्रार्धोपयुक्त त्वमास्वादपरीक्षार्थम्। तेन च स्वयमेवादौकि-
________________________________
३. र्थः। ङ. पाठः,
ञ्चिदास्वाद्यतस्य स्वादिष्ठतामवगम्य प्रियतमायैददावित्यर्थः प्रदर्शितः। बिर्सेन मृणालेन जायां प्रियतमां सम्भावयामास सम्मानितवान्। अत्र ‘ताम्बूलीदलमर्धखण्डितमहं वाञ्छामी’त्यादिषु प्रसिद्धं मुखताम्बूलार्पणं प्रतीयते॥३७॥
गीतान्तरेषु श्रमवारिलेशैः
किश्चित्समुच्छ्वासितपन्रलेखम्।
पुष्पासवाघुर्णितनेत्रशोभं
प्रियामुखंकिम्पुरूषश्चुचुम्ब॥३८॥
(प्रकाशिका)
गीतान्तरेष्विति। गीतयोः प्रक्रान्तप्रक्रंस्यमानयाेरन्तर इत्यर्थः। अवसरज्ञत्वं च द्योत्यते। पुष्पामवाघूर्णितयाेर्नेत्रयाेःशोभा यत्रेति विग्रहः। मुखस्य विशेषणाभ्यांविभावतापारिपाेपः॥३८॥
(विवरणम् )
एवं हिमवच्छिखरवतिनां मृगपक्षिणां कामविकारमुक्त्वाकिम्पुरुषादीनामप्याह—
गीतान्तरेष्विति। किम्पुरुषः गीतान्तरेषु प्रियामुखं चुचुम्ब। किम्पुरुषःकिन्नरः गीतान्तरेषु अतीतानागतयाेगीनयाेरन्तरालेषु। अतीते कस्मिंश्चिद्गाने गानान्तरे चानागते सतीत्यर्थः। अनेनाेद्दीपनविभाव उक्तः। अवसरज्ञत्वं च तस्य द्दोत्यते।प्रियाया मुखं प्रियामुखं चुचुम्ब चुम्बितवान्। अत्र हि भावपरिपाेषार्थं मुखस्य विशेषणद्वयम्। तत्राद्यमाह—श्रमवारिलेशैःकिञ्चित्समुच्छ्वासित- पत्रलेखामिति। श्रमवारीणांगानश्रमसञ्चातानां स्वेदजलानां लेशौःकणौः। किञ्चिचत्समुच्छ्वासितपत्रलेखं किञ्चित्समुच्छ्वासिता स्वेदजलसं-
________________________________________________
१. भि मुद्गितकाेशपाठः. २. योरतीतप्रकख, ग, घ. इ. पाठः. ३. त्व द्यो खघ, पाठः, ४. स्ये क, ग. घ. स्मिस्तत्रेति’ ङ, पाठ
सर्गादीषदुच्छ्वासिता उच्छूनतां प्रापिता पत्रलेखा पत्रभङ्गो यस्मिस्तत् तथा। द्वितीयं विशेषणमाह—पुष्पासवाघूर्णितनेत्रशोभामिति। पुष्पासवेन माध्वीसुरया। “गोलीमाध्वी च पैष्टीच विज्ञेया त्रिविधा सुरा’ इत्यादिस्मृतिप्रसिद्धयेत्यर्थः। आघूर्णितयों; कलुषीकृतयोःनेत्रयोः शोभा यस्मिस्तत्तथोक्तम्।अत्रमाध्व्यास्तद्देशसुलभल्वात्, सौरभ्यादिगुणविरिष्टत्वाच्चपुष्पशब्दस्योपयोगः॥२८॥
पर्याप्तपुष्पस्तबकस्तनाभ्यः
स्फुरत्प्रवालोष्ठमनोहराभ्यः।
लतावधूभ्यस्तरवाेऽप्यवापु-
र्विनम्रशाग्वाभुजबन्धनानि ॥२०॥
(प्रकाशिका)
पर्याप्तेति। पर्याप्तपूर्णम्। प्रियसन्निधौ स्तनपूरणमधरस्फुरणं118 च नायिकाधर्मः।विनम्रम्119 अस्तब्धम् ॥३९॥
(विवरणम् )
अथ स्थावराणामपि मदनोन्मादंदर्शयति—
पर्याप्रेति। तरवः अपि लतावधूम्यः विनग्रशाखाभुजबन्धनानि अवापुः तरवोऽपि स्थावरात्मका वृक्षा अपि। अन्ये तिष्ठन्त्वित्यर्थः। लतावधूभ्यः लताभ्य एवं वधूभ्यः स्त्रीभ्यः सकाशाद् विनम्रशाखाभुजबन्धनानि विनम्रैःविशेषेण नम्रैःअस्तब्धैः। द्विविधा हि लतानां शाखाः सतब्धाःसन्नताश्च। तत्र स्तब्धैरालिजङ्गनानुपपत्तेरेवमुक्तम्। तरुषुं120 तरुषु लीनैरित्यर्थः। नायिकापक्षे तु अनेनाटिङ्ग(ने121?न)स्वभावोक्तिः। शाखाभिरेव भुजैः यानि बन्धनानि आ-
लिङ्गनानि तानि अवापुः प्राप्तवन्तः। आलिङ्गनसौख्यमाह122—पर्याप्तपुष्यस्तषकस्तनाभ्य123 इति। पर्याप्ताः सम्पूर्णाःपुष्पस्तबकाः कुसुमगुच्छा एव स्तनाः यासां ताभ्यः। किञ्च अधर्पणमप्यासीदियाह—स्फुरत्प्रवालोष्ठमनोहराभ्य इति। स्फुरद्भिः कम्पमानैः प्रावालैःपल्लवैरेवौष्ठैःमनोहराभ्यः। सन्निहिते हि प्रियतमे वधूनां स्तनपूर्तिरधरस्फुरणं च भवति। कामशास्त्रप्रसिद्धश्चायमर्थः॥३९॥
श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्
हरः प्रसङ्ख्यानपरो बभूब।
आत्मेश्वराणां नहि जातु विघ्नाः
समाधिभेदप्रभवो भवन्ति॥४०॥
(प्रकरिका)
अथयथावसरमाधिकारिकं वृत्तमवताग्यति—
श्रुतेति। अत्राप्सरसामुपस्थानंसकलदिविषत्साधारणं124, न त्वन्यमुनिवत् समाधिभङ्गार्थम्। उक्तं च “अप्सरसां मुखेभ्यः श्रुतमि’ति। अस्मिन् क्षणे एवंविधे सकलचेतनक्षोभसमये। प्रसङ्ख्यानं परमात्मानु सन्धानम्। चित्ताधिकारे पातञ्जलं125—‘तदेव रजोलेशमलापेत126 स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यथाख्यातिमात्र॑ धर्ममेघाख्यध्यानोपगमं भवति। तत् प्रसङ्ख्यानमित्याचक्षते ध्यायिन’ इति। चित्तस्य धर्ममेघाख्यध्यानो- पगमः प्रसङ्ख्यानम्। आत्मेश्वराणां वहयात्मनाम्। समाधिरैकाग्र्यम्॥४०॥
( विवरणम् )
हत्थमुपवर्णितं मधुमदनवृत्तं प्रकृते योजयति—
श्रुतेति। हरः अस्मिन् क्षणेऽपि प्रसङ्ख्यानपरः बभूव। हरः परमेश्वरः अस्मिन् क्षणे एवंविधसकलचेतनवर्गमनःक्षोभकरे समयेऽपिप्रङ्ख्यानपरः। प्रसङ्ख्यानंपरः परमात्मानुसन्धानम्। ‘परमात्मानुसन्धानप्रसङ्ख्यानसमाधय’ इति भोजः। एवंविधे वसन्तकोलाहले मन्मथे च स्वयमेवागते सति हरः किञ्चिदप्यस्खलितचित्तवृत्तिः परमात्मानुसन्धानान्न विररामेत्यर्थंः। सेवार्थमागतानामप्सरसां स्तुतिमात्रमेव तदा हरेण भक्तानुकम्पया श्रुतमित्याह—श्रुताप्सरोगीतिरिति। श्रुताः (आकर्णिताः) अप्सरसां सेवार्थमागतानाम् अप्सरः स्त्रीणां गीतयो गानानि येन। अत्राप्सरसां सेवार्थमेवागमनं127 नान्यमुनिसन्निधाविव चित्तक्षोभविधानार्थम्। भगवत्सेवायाः सर्वसुरसाधारणत्वादप्सरसामुपस्थानम्। अत एव अप्सरसां मुखेभ्यः श्रुतमिति पूर्वमुक्तम। उक्तमर्थमर्थान्तरन्यासेन समर्थयते—विघ्नाःजातु आत्मेश्वराणां समाधिमेदप्रभवो128 न भवन्ति हि इति। विघ्नाःविघ्नकारिणो. रम्यपदार्थाःजातु कदाचिदपि आत्मेश्वराणां आत्मनः मनसः ईश्वराणां स्वामिना, स्ववशमनसामित्यर्थः। समाधिभेदे129 चित्तैकाग्यभञ्जने प्रभवः समर्थाःन भवन्ति। हिशब्दः प्रसिद्धौ। सकलचित्तक्षोभविधायिनोऽपिपदार्थाः कदाचिदपि न धीराणां मनसः क्षोभमापादयन्तीति भावः॥४०॥
लतागृहद्वारगताेऽथ नन्दी
वामप्रकोष्ठार्पितहेमवेत्रः।
मुस्वार्पितैकाङ्गुलिसंज्ञयैव
मा चापलायेति गणान् व्यनैषीत्॥४१॥
(प्रकाशिका)
अथात्मनिर्विशेषस्य देवामात्यस्य प्रतीहारपदे स्थितस्य भगवतः शौलादेस्तत्कलोचितं विधिमाह—
लतागृहेति। बामप्रकोष्ठेऽर्पणं दक्षिणाङ्गुल्यागणतर्जने व्यापृतत्वात्। अङ्गुलिस्तर्जनी130। संज्ञाविनयसूचना। संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचनेंति सिंहः। मा चापलाय चापलं कर्तुंमा भूतेति शेष!॥४१॥
(विवरणम् )
एवं मधुमदनवृत्तसम्भ्रान्तचित्तेषुजरायुजादिषुचतुर्विधेषु शरीरिवर्गेषुभगवत्प्रतिहारपदे वर्तमानस्यदेवामदयस्य नन्दिकेश्वरस्य तत्कालोचितां प्रवृत्तिमाह—
लतेति। अथ नन्दी लतागृहद्वारगतः गणान् चापलाय मा इति मुखार्पितैकाङ्गुलिसंज्ञया एव व्यनैषीत्। अथ सर्वभूतानामविनयवर्धनानन्तरःनन्दी नन्दिकेश्वरः लतैव गृहं लतागृहं तस्य द्वारं गतः सन् गणान् भूतगणान् चापलाय चापलं कर्तुंमा भूत इति शेषः। इतिशब्दो विनयः प्रकारवचनः। मुखार्पितैकाङ्गुलिसंज्ञया मुखे वदने अर्पितया न्यस्तया एकयैवाङ्गुल्या, तर्जन्यतयर्थः। तया या संज्ञा अर्थसूचना। संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना इति सिंहः। तयैव। एवकारोवचनादिव्यावृत्त्यर्थः। तेन चास्य प्रभावातिशयः सूचितः। व्यनैषीत् शिक्षितवान्। सर्वेऽपि काममविनयमाचरन्तुवयं तु भगवत्परिचारकाः131, तताे नास्माकमुचितोऽयमविनय इतीममर्थंस नासारोपितया तर्जन्यैव सूचितवानियर्थः। अथ नन्दिनस्तत्कालविशेषणमाह—वामप्रकोष्ठार्पितहेमवेत्र इति। वामे दक्षिणेत(रे?रस्मिन्) प्रकोष्ठे मणिबन्धकूर्परमध्ये अर्पितं न्यस्तं हेमवेत्रं सुवर्णमयं वेत्रं यष्टिर्येन स तथा। अत्र दक्षिणहस्तस्य गणविनयव्यापृतत्वात् सुवर्णवेतरस्य वामप्रकोष्ठार्पणमित्यववसेयम्॥४१॥
निष्कम्पवृक्ष निभृतद्विरेफं
मूकाण्डजं शान्तमृगप्रचारम्।
तच्छासनात् काननमेबसव
चित्रार्पितारण्यमिवावतस्थे132॥४२॥
(प्रकाशिका)
गणानां विनयनादेव133 जरायुजादिचतुर्विधभूतग्रामस्य विनयो जात इत्याह—
निष्कम्पेति। अत्र दिरेफाः स्वेदजा। ‘स्वेदजा। कृमि दंशाद्याइत्यमरः134। अण्डजाः पक्षिणः। उपमया निष्पन्दतातिशय उक्तः।पारमेश्वर्याआज्ञाशक्तेरयं प्रभाव इति भावः॥४२॥
(विवरणम् )
एवं गणविनयनादेव चतुर्विधस्यापि भूतग्रामस्य विनयो जात इति परमेश्वरद्वारपालस्य नन्दिनः प्रभावातिशयमाह—
निष्कम्पेति। तच्छासनात् काननंसर्वमेव चित्रार्पितारण्यमिव अवतस्थे। तच्छासनात् तस्य नन्दिनः शासनात् काननंवनम्। सर्वमेव, न तु भुतगणमात्रे, नापि काननावस्थितजनमात्रमित्यर्थः। चित्रार्पितारण्यं चित्रे अर्पितं लिखितम् अरण्यं वनमिवावतस्थे अवस्थितमासीत्। अत्र जरायुजाण्डजस्वेदजोद्भिज्जभेदेन चतुर्विधेषु भूतग्रामेषु उद्भिज्जादीनां तच्छासनानुष्ठानस्य विस्मयकरत्वात् प्रथमं तत्प्रकारमाह—निष्कम्पवृक्षमिति। निष्कम्पा निश्चला वृक्षा यस्मिंस्तत्तथा। वृक्षा अपि तदानीमचञ्चला जाता इत्यर्थः। अथ वृक्षाद्यपेक्षया किञ्चिदधिकज्ञानानां स्वेदजानां तच्छासनानुष्ठानप्रकारमाह—निभृतद्विरेफिमिति ! निभृता निश्चलाद्विरेफा भ्रमराः यस्मिस्तत्तथा। भ्रमरा अपि तदा स्वाभाविकं भ्रमणशीलत्वंतत्यजुरित्यर्थः। अत्र द्विरेफानां स्वेदजत्वंस्वेदजाः क्रिमिदंशाद्या’ इत्यमरसिंहवचनाद् द्रष्टव्यम्। स्वेदजापेक्षया अण्डजानां ज्ञानाधिक्यादनन्तरं तेषांनन्दिनियोगाव-
स्थितिमाह— मूकाण्डजमिति। मूका निशशब्दा अण्डजाः पक्षिणों यास्मिंस्तत्तथा। अथ जरायुजा अपि तन्रियोग एवं स्थिता इत्याह— शान्तमृगप्रचारमिति। शान्तो मृगाणां हरिणादीनां प्रचारः सञ्चारो यस्मिंस्तत्तथा। भूतग्रामाणामेवमेव चतुर्विधत्वमुक्तंभोजराजेन—
“उद्भिज्जावृक्षगुल्माद्याःपक्षिसर्पादयोऽण्डजाः।
स्वेदजाः क्रिमिदंशाद्या नृमृगाद्या जरायुजाः॥
इति। अत्राभिप्रायवेदिनां तच्छासनावस्थानं कैमुतिकन्यायादवगतमित्युपेक्षितमित्यवसेयम्। उपमया निष्कम्पत्वाद्यतिशयः प्रतिपादित इति महेश्वरप्रभावोऽनेन श्लोकेन दर्शितः॥ ४२॥
दृष्ठिप्रतीपं परिहृत्यतस्य
कामः पुरशशुक्रमिव प्रयाणे।
प्रान्तेषु संसक्तनमेरुशाखं
ध्यानास्पदं भूतपतेर्विवेश॥ ४३ ॥
(प्रकाशिका)
प्रकृतं प्रस्तौति—
दृष्टिप्रतीपमिति। प्रतीपमाभिमुख्यमित्यर्थः। प्रयाणे पुरश्शुक्रो निषिद्धः शास्त्रे। प्रान्तेषु संसक्तनमेरुशाखमिति135 आत्मनिगृहनार्थम्। ध्यानास्पदं प्रकृतं लतागृहम्। अत्र136दृष्टिप्रतीपपरिहरणेन कामस्य देवसन्नि कर्षाद्धतौजस्कत्व137ंद्योत्यत॥ ४३ ॥
(विवरणम्)
अथ प्रकृतं मदनस्य परमेश्वरसमाधिभङ्गव्यापारमेवानुषन्धत्ते—
दृष्टीति। कामः प्रयाणे पुरश्शुक्रमिव तस्य दृष्टिप्रतीपं परिहृत्यभत-
पतेः ध्यानास्पदं विवेश। कामः कामदेवः प्रयाणे यात्रायां पुरश्शुक्रं पुरोभागस्थितं शुक्रमिव तस्यहरस्य। दृष्टिप्रतीपं दृष्टेः प्रतीपमाभिमुख्यमित्यर्थः। परिहृत्य त्यक्तवा भुतपतेःगिरीशस्य। “भूतेशः खण्डपरशुरित्यमरः। ध्यानार्थमास्पदं ध्यानास्यदम्। आसदं स्थानम्। ‘लतागृहद्वारगतः (श्लो४१) इत्यत्र प्रकृतं लतागृहमित्यर्थः। विवेश प्रविष्टोऽभूत्। प्रयाणे हि पुरशशुक्रः प्रतिषिद्धो मुहूर्तशास्त्रे—
“आग्नेयाद्यास्तारकाः साभिजित्काः प्रागाद्याशासंस्थिताः सप्त सप्त।
यस्यां तिष्ठेद्भर्गवो दिश्यमुष्यां यात्रा पुंसां प्राणमानार्थहन्त्री॥
इति। यथा प्रयाणोद्युक्ताजनाः पुरोभागस्थितं शुक्रं वर्जयित्वैव गच्छन्ति, तथासावपि हरस्य दृष्टिमार्ग परिहृत्यैव गतवान्। यथात्मानं हरौ न पश्येततथा जगामेत्यर्थः। अनेन दृष्टिमार्गपरिहारकथनेन कामस्य हरसान्निध्यप्रतिहतशक्तित्वं सूचितम्। यथा पुरश्शुक्रपरिहाराभावे बिनाशनिश्वयस्तथैवास्याप्येतदभि- मृखप्रयाणेऽप्यभुदिति भावः। आत्मनिगूहनोपायोऽपि दैववशत्तत्र तस्यासीदिप्याह—प्रान्तेषु संसक्तनमेरुशाखमिति। प्रान्तेषु परिसरेषुसंसक्ता संश्लिष्टा नमेरूणां सुरपुन्नागानां शाखा यस्मिस्तत्क्षितितलपर्यन्तनिरन्तराश्लिष्टनमेरुविटपत्वात् तत्प्रदेशस्यदृष्टिमार्गपारिहारसौकर्यमिति भावः॥४३॥
स देवदारुद्रुमवेदिकायां
शादेूलचर्मब्यवधानवत्याम्।
आसीनमासन्नशरीरपात-
स्त्रियम्बकं संयमिनं ददर्श॥४४॥
(प्रकाशिका)
पुनरप्यत्यवसादकरेदेवदर्शनं वर्णयति—
सं138 इति शार्दूलेति तदास्तृतायामित्यर्थः। आसन्नशरीरपात इति सोपहासम्। त्रियम्वकमिति यणादेशे प्राप्तेऽपि139 छन्दोभङगे छन्दोविचिति. कारैरियङुवङादेशस्योक्तत्वादियङादेशः। संयमिनमित्यनवसरोपस्थानं दर्शयता आसन्नशरीरपातत्वमुपपादितम्। अवसरे तु वक्ष्यति—‘तस्यातुमेने’ (स, ७. श. ९३) इत्यादि ॥४४॥
(विवरणम् )
मदनस्य भगवद्दर्शनप्रकारमाह—
स इति। सः त्रियम्बकं ददर्श। सः कामदेवः त्रियम्बकं त्रिनेत्रम्। अम्बकं नेत्रम्। त्रियम्बकमित्यत्रयणादेशे प्राप्तेछन्दोभङ्गप्रसङ्गेसति छन्दोविचितिकारैरियङुव ङादेशयोर्विहितत्वादियङादेशः। त्रियम्बकं140 नान्यमुपस्थितासावि’ति भतृहगप्रियाेगाच्च नायं दोषः। ददर्शद्दष्टवान्। अत्र त्र्यम्बकशब्दप्रयाेगेण141 “तृतीयादक्ष्णः कृशानुः किल निष्पपात (छा. ७१) इति वक्ष्यमाणाेऽर्थः सूचितः। त्र्यम्बकस्य समाधियाेग्यमवस्थानप्रकारमाह—दवदारुद्रुमवेदिकायाम् आसीनमिति। देवदारुर्वृक्षविशेषः। देवदारुरेव द्रुमो देवदारुद्रुमः, तस्य वेदिकायाम्। शिलादिभिर्बद्ध मूलप्रदेंश इत्यर्थः। आसीनं स्थितम्। ईदासः (७. २.८३) इति शानच ईकारादेशः। तस्यां समाधियोग्यमवस्थानमाह—शार्दूलचर्मव्यवधानवत्यामिति। शार्दूलो व्याघ्रः, तस्य चर्मणा व्यवधानवत्याम् आच्छादनसहितायाम्। शार्दूलचर्मास्तृतायामित्यर्थः। अथ कविसताद्दशपरमेश्वराभिभवाेद्युक्तं142 मदनं सोपहासं विशिनष्टि—आसन्नशरीरपात इति। आसन्नः समीपवर्ती शरीरपातः शरीरस्य पातो नाशोयस्य स तथोक्तः। अहोमदनस्यानात्मवेदित्वमिति भावः। आसन्नशरीरपातत्वोप-
पादकं त्र्यम्बकविशेषणमाह—संयमिनमिति। संयम इन्द्रियनिग्रहः सोऽस्यास्तीति संयमी , तम्। अनवसरोपस्थानादस्य शरीरनाश इति भावः। अवसरोपस्थनेनानु्रहः पुनः तस्यानुमेने भगवान् विमन्युर्व्यापारमात्मन्यपि सायकानाम् (स. ७. छो ९३) इत्यादिना वक्ष्यते॥४४॥
पर्यङ्कबन्धस्थिरपूर्वकाय-
मृज्वायतं सन्नमिताेभयांसम्।
उत्तानपाणिद्वयसन्निवेशात्
प्रफुल्लराजीवमिवाङ्कमध्ये॥४०॥
(प्रकाशिका)
पर्यङ्केति। पर्यङ्कोवीरासनं , नस्य वन्धेन स्थिरः पूर्वकायोऽधःकायोयस्य। अत्र वसिष्ठे—एकं पादमथैकस्मिन्143 विन्यस्योरुणि संस्थितमित्यादि। ऋज्वायतत्वमर्थादूर्ध्वकाये। उत्तानपाणिद्वयसन्निवेशात सन्नमितोभयांसत्वम्। अत्र योागसारवचनम्
उत्तानिते करतले करमुत्तानितं परम् \।
आधायाङ्कगतं कृत्वा ध्यायेद् यस्तत्र नान्तरम्॥”
इति॥४५॥
(विवरणम्)
अथ मन्मथावसादुकरं भगवतस्तपःप्रभावदुप्प्रेक्षत्वमेव विशेषणैःप्रपञ्चयति षड्भिः श्लोकैः। तत्र तपसामासनस्थैर्यमूलत्वादादावासनप्रकारमाह
पर्यङ्केति। पर्यङ्कबन्धस्थिरपूर्वकायं पर्यङ्कस्यवीरासनस्य बन्धेन बन्धनेन स्थिरः निश्चलः पुर्वकायः अधःकायः कायस्याधोभागो यस्य। वीरासनःबन्धनेन निश्चलशरीरपूर्वार्ध इत्यर्थः। यथाह वसिष्ठ
“एकं पादमथैकस्मिन् विन्यस्योरुणि संस्थितम्।
इतरस्मिंस्तथाचोरुं वीरासनमुदाहृतम्॥”
इति। तं ददर्शोति पूर्वेणान्वयः। उर्ध्वकायावस्थानप्रकारमाह—ऋज्वायतमिति। ऋजु अवक्रम् अत एवायतं दीर्घं च। अवक्रायतोर्ध्वकायमित्यर्थः। पाणिद्वयावस्थापनप्रकारमाह—उत्तानपाणिद्वयसन्निवेशाद अङ्कमध्ये प्रफुल्लराजीवमिवेति। उत्तानस्य ऊर्ध्वमुखस्यपाणिद्वयस्य सन्निवेशाद अवस्थापनाद्। अङ्कस्य मध्ये। प्रफुल्लराजीवं प्रफुल्लंविकसितं राजीवं पङ्कजं यस्य तम्। उत्तानयोः करतलयोरङ्कमध्यावस्थापितत्वाद् अङ्कमध्ये प्ररूढारविन्दमिव द्दश्यमानमित्यर्थः।अत्र पाणिद्वयस्याङ्केसन्निवेशदेवांसयोः सन्नमि—तत्वमपि सम्भवतीति न तस्य शास्त्रीयत्वम्। पाणिद्वयस्याङ्कावस्थापनं तु योगसारवचनसिद्धम्। यथोक्तम्—“उत्तानिते करतले करमुत्तानितं परम्। आधायाङ्कगतं कृत्वा ध्यायेदि’त्यादि ॥४५॥
भुजङ्गमोन्नद्धजटाकलापं
कर्णावसक्तद्विगुणाक्षसूत्रम्।144
कण्ठप्रभाभ्यङ्गविशोषनीलां
मृगत्वचं145 ग्रन्थिमतीं दधानम्॥४६॥
(प्रकाशिका)
भुजङ्गमेति। अक्षसूत्रस्य द्विगुणनं शैथिल्यपरिहाराय। श्रवसि स्थापनं श्रवसः पवित्रतास्मृते!। अभ्यङ्गो व्याप्तिः। ग्रन्थिरस्रंसनाय॥४६॥
(विवरणम्)
ध्यानोद्योगतद्योतकमलङ्कारविशेषमाह—
भुजङ्गमेति। भुजङ्गमोन्नद्धजटाकलापं भुजङ्गमेन सर्पेण उन्नद्धः ऊर्ध्वनद्धः जटाकलापः जटासमूहो येन तम्। योगमात्रव्यापृतस्य जपविरामादक्षमालार्पणप्रकारमाह—कर्णवसक्तद्विगुणाक्षसुत्रमिति। कर्णे अवसक्तं कर्णाव
सक्तम्। द्वौगणौपरिवत्ती यस्य तद् द्विगुणम्। कर्णे दक्षिणकर्णे अवसक्त स्थितं दिगुणमक्षसूत्रम् अक्षमालायस्य तम्। अक्षसूत्रस्य कर्ण निधानं क्स्य पवित्रतास्मृतेः। द्विगुणत्वं चाञ्चल्यपरिहारार्थम्। कटिप्रदेशस्यापि योगानुगुणंस्थिरत्वापादनप्रकारमाह—ग्रन्थिमतीं मृगत्वचं दधानमिति। ग्रन्थिः ग्रथनमस्या अस्तीति ग्रन्थिमती। अतिशायने मतुप्। ताद्दशींमृगत्वचं मृगस्य त्वच॑ दधानं परिदानम्। निबिडग्रथितं146 मृगचर्म वसानमित्यर्थः। अत्र निबिडग्रथनं मध्ये स्त्रंसपरिदार्थम्। भगवत्परिधानभुताया मृगत्वचः शोभाधिक्यमाह— कण्ठप्रभाग्यङ्गविशेषनीलामिति। कण्ठस्य प्रभाया अभ्यङ्गेन व्याप्त्या विशेषतो नीलाम्। गलगलितया बहलतरया गरलप्रभया विशेषतोऽपि श्यामलामित्यर्थः। मृगत्वचः स्वतो नीलत्वाद विशेषनीलोक्तिः॥४६॥
किञ्चित्प्रकाशस्तिमितोग्रतारै-
र्भ्रूविक्रियायांविरतप्रसङ्गैः
नत्रैरविस्पन्दितक्ष्ममाले-
र्लक्षीकृतघ्राणमधोमयूखैः॥४७॥
(प्रकाशिका)
किञ्चिविदिति। विशेषणानि योगदृष्टिस्वभावाख्यानपराणि चित्तैकाग्रताद्योतकानि॥४७॥
(विषरणम्)
नेत्राणामपि योगानुगुणमवस्थानविशेषमाह—
किञ्चिदिति। नेत्रैःलक्षीकृतघ्राणम्। नेत्रैःत्रिभिर्लोचनैः। लक्षीकृतघ्राणं लक्षीकृतं लक्षतां प्रापितं घ्राणं नासाग्रं येन तम्। शरादिप्राप्यभूमिर्लक्षरब्दार्थः। अत्र तु प्राप्यभूमित्वगुणयोगाद् घ्राणे गैणः प्रयोगः। त्रिभि-
रपि लोचनैरश्रान्तमवलोक्यमाननासिकग्रमित्यर्थः। अथ योगदृष्ठिस्व्यापनपराणि चित्तैकाग्र्यद्योतकानि च नेत्रविरोषणान्याह—किञ्चिदित्यादिभिः। किञ्चित्प्रकाशस्तिमितोग्रतारैः। किञ्चन प्रकाशो यासां ताः किञ्चित्प्रकाशाः स्तिमिता निश्वलाः उग्रा दुर्निरीक्षाश्चताराः कनीनिकाः येषां तैः.। अत्र किञ्चित्प्क्रकाशत्वंनयनानामीषन्मील्नात्। तच्च योगखभावकृतम्। स्तिमितत्वं चिृत्तैकाग्र्यकृतम्। स्तिमितत्वादेवोग्रत्वम। नेत्राणां स्तिमितत्वाद् भ्रुवोरपि स्तिमितत्वमाह—भ्रूविक्रियायां विरतप्रसङ्गैरिति। भ्रुवोर्विक्रियायां विकारे। विरतो निवृत्तः प्रसङ्गोव्यापारो येषां तैः। भ्रुविकारस्य नेत्रविकारपूर्वकत्वादेवमुक्तम। नेत्रावयवानामपि निस्पन्दत्वमाद्— अविस्पन्दितपक्ष्ममालैरिति। अविस्पन्दिता अचलिताः पक्ष्ममाला अक्षिरोमसमूहाः येषां तैः। नासाग्रमात्रावलोकप्रकारमाह— अधोमयूखैरिति। अधोभाग एव मयूखा रश्मयोयेषां तैः। अनेन समाधेरचलत्वमुक्तम्॥४७॥
अवृष्टिसंरम्भमिवाम्वुवाह-
मपामिवाधारमनुत्तरङ्गम्।
अन्तश्चराणां मरुतां निरोधा-
न्निवातनिष्कम्पमिव प्रदीपम्॥४८॥
(प्रकाशिका)
अवृष्टीति। अत्राध उर्ध्वं तिर्यक् च वायोर्गतित्रयनिरोधादुपमानत्रयोपपत्तिः॥४८॥
(विवरणम् )
अथ योगाभ्यासयोग्यं प्राणादिवायूनां निरोधमुपमामुखेन दक्षयति—
अवृष्टीति। अन्तश्चराणां मरुतां निरोधाद् अवृष्टिसंरम्भम् अम्बुवाहमिव। अन्तश्चरन्तीत्यन्तश्चराः, तेषाम्। शरीरान्तर्वर्तिनामित्यर्थः। मरुतां प्राणादिवायूनां निरोधाद् नियमनाद्धेतोः। अवृष्टिसंरम्भम्। संरम्भ उद्योगः
वृष्टिसंरम्भो यस्य नास्ति सोऽवृष्टिसंरम्भः, (तम्) वर्षोद्योगरहितमम्बुवाहं मेघभेव दृश्यमानम्। अनेनोपमानेन मरुतामधःप्रदेशग्रवृत्यभावः147 सूचितः। ऊर्ध्वप्रवृत्यभावमपि दर्शयति—अनुत्तरङ्गम् अपाम् आधारमिवेति। अनुत्तरङ्गम्उद्गतस्तरङ्गोयस्मात् स उत्ताङ्गः, उत्तरङ्गोन भवतीत्यनुत्तरङ्गः(तम्) अपां जलानाम् आधारमाधिष्ठानं जलाशयमिवेत्यर्थः। जलाशयो जलाघार’ इत्यमरः। अन्तश्चराणां मरुतां निरोधादिति अत्रापि योजनीयम्। तिर्यकप्रवृच्यभावसपि प्रतिपादयति— निवातनिष्कम्पप्रदीपमिवेति \। निवातवाताभावः। अर्थाभावेऽव्ययीभावः। तेन हेतुना निष्कम्पं निश्वलंप्रदीपमिव। अन्तश्चराणां मरुतां निरोध एवात्रापि हेतुः। कुम्भितपवनत्वेन कुत्रापि पवनप्रवृत्त्यभावाः न्निश्वलशरीरमित्यर्थः॥४८॥
कपालनेत्रान्तरलब्धमार्गै
र्ज्योतिःप्ररोहैरुदितैःशिरस्तः।
मृणालसूत्राधिकसौकुमार्यान148्
वालस्य रंदश्मीन्149ग्लपयन्तनिन्दोः॥४९॥
(प्रकाशिका)
कपालनेत्रान्तरेति। कपालं ब्रह्मशिरस्सम्बन्धि। वक्ष्यति च ‘कपालमेवामलशेखरश्री(स,७, श्लो.३२) इति। नन्नेत्ररन्ध्रनिर्गतैर्ज्योतिःप्ररोहैरन्तराग्नेयमण्डलसमुद्गतैः। शिरस्तः ब्रह्मरन्ध्रात्।मृणालेत्याद्युत्प्रेक्षाप्राणकम् ॥४९॥
(विवरणम्)
इत्थं प्रतियादितस्पासनजयादिरूपत्य योगस्यसिद्धिं दर्शयति—
कपालेति। शिरस्तःउदितैःज्योतिष्प्ररोहैः बालस्य इन्दोः रश्मीन्
ग्लपयन्तम्। शिरस्तःब्रह्मरन्ध्राद उदितैः उद्गतैः ज्योतिष्प्ररोहैः ज्योतिषाम् अन्तर्गतग्नेयमण्डलसमुद्गतानां तजसां प्ररोहै अङ्कुरैःबालस्यइन्दोः जटकोटितटघटितस्य बालचन्द्रस्य रश्मीन् ग्लपयन्तं ग्लानिं प्रापयन्तम्। अयमभिप्रायः—योगिनो हि नियमितप्राणा आग्नेयमण्डलापरनामधेयं कुण्डलिनीशब्दाभिधेयमात्मतेजो मूलाधारादुत्थाप्य क्रमात् सुपुम्नान्तरं नाभिप्रदेशं हृदयं भ्रूमध्य च नीत्वा। द्रदशान्तस्थिते परमात्मनि योजयन्ति। परमेश्वरस्य तु तदानीं तेन तेजसा तन्मध्यवर्तिनोवालचन्द्रस्यप्रभासङ्कोचोऽपि सञ्जातः। वालचन्देपरमात्मसाम्यं च प्रतीयत इति। ज्योतिष्यरोहाणामुर्ध्वगमनाभ्युपायमभ्युह्मकथयति—कपालनेत्रान्तरलब्धमार्गौरिति। कपालस्य ब्रह्मशिरः150कपालस्य यन्नेत्रान्तरं नेत्ररन्ध्रं, तेन पथा लब्धमार्गैः।ब्रह्मशिरःकपालनेत्रगन्धरनिर्गतैरित्यर्थः। बालचन्द्ररश्मीनां ग्लानिप्राप्ताैहेतुमाह—मृणालसूत्राधिकसौकुमार्यानिति ।मृणालस्यसूत्रंमृणालसूत्र, तस्मादप्यधिकं सौकुमार्यबयेषां तान। प्रबलसन्निधौ दुर्बलंगलानिमेतीति हि प्रसिद्धमिति भावः ॥ ४९ ॥
मनाेे नवद्वारनिषिद्धवृत्ति
हृदिं व्यवस्थाप्य समाधिवश्यम्।
यमक्षरं क्षेत्रविदो विदुस्त
मात्मनमात्मन्तवलोकयन्तम्॥५०॥
(प्रकाशिका)
मन इति। हदि स्थानविशेषे। अत्र वसिष्ठः
“यताे नियाति विषयाद यस्मिश्चैव प्रलीयते।
हृदयंतद् विजानीयान्मनसः स्थितिगोचरम151॥
इति। अत्रोपायमाह—समाधिवश्यमिति। अक्षरमनश्वरम्। क्षेत्रविदः152 क्षेत्रक्षेत्रज्ञविभागाविद इत्यर्थः। आत्मानं परमात्मानम्। आत्मनि स्वस्मिन्। अत्र परमपावनस्य याेगिदशापन्नपरमेश्वरस्वरुपस्य कविशक्त्या प्रत्यक्षायमाणत्वंकृतमित्येतदनुसन्धतृृणां कार्यमात्ररसिकानां गुरुकटाक्षपातराहितानापपि153 सकलबन्धध्वसो154 भवति। अयमेव चात्र कारुणिकस्य क्रवेभिप्रायः ॥५०॥
(विवरणम्)
योगसिद्धेः फलमाह—
मन इति। क्षेत्रविद। यम् अक्षर विदुः, मनः हृदि व्यवस्थाप्यतम् आत्मानम् आत्मनि अवलोकयन्तम्। क्षेत्रं शरीरविदन्तीति क्षेत्रविदः। आत्मनो भिन्नेत्वेनशरीरमवगच्छन्त इत्यर्थः। क्षेत्रक्षेत्रज्ञविभागविद इति यावत्। यमक्षरं विदुः अनश्वरं जानन्ति। विदों लटोवा(३. ४. ८३)इतिझेरुसादेशः। (मनः) अन्तःकरणम् \। हृदि हृदये मनोनिवासस्थान इत्यर्थः येः \। यथाह वसिष्ठः—
“यतो निर्याति विषयाद् यास्मश्चव प्रलीयते।
हृदयं तद्विजानीयान्मनसः स्थितिगोचरम् ॥”
इति। व्यवस्थाप्य स्थिरतया स्थापयित्वा। तम् आत्मानं परमात्मानमि त्यर्थः \। आत्मनि खसिमिन् , जीवात्मनीत्यर्थ;। अवलोकयन्तं पश्यन्तम्। विषयेभ्यो मनो निवार्य जीवपरयोरैक्यमेवावगच्छन्तमिति भावः। तत्तदिन्द्रियानुसरेण विषयाननुधावतो मनसो निरोधप्रकारमाह—नवद्वारनिषिद्धवृत्तीति। शरीरस्य हि नवद्वाराणि सनि। यथाहुः—
“नयनश्रवणेद्वेद्वे नासिके वदनं तथा।
पायूपस्थौच देहेऽस्मिन् नवद्वाराणि देहिनाम्॥
इति। नवभ्योऽपि द्वारेभ्यो निषिद्धा वारिता वृत्तिर्यस्य तत्। मनोनिषेधोपायमाह—ससाधिवश्यमिति। समाधिरैकाग्र्यं, तेन वश्यं विधेयम्। समाधिपरिशीलनमेवहि विषयेभ्यो मनोनिवारणस्योपायः। एवम्भूतं व्यम्बकं ददर्शेति पूर्वेणान्वयः। अत्र महाकविः परमकारुणिको योगिदशापन्नस्थ परमेशवरस्य परमपावन॑ खखरूपंमनुसन्धातृृणां155 कर्मबन्धपरिध्वंसार्थं कविशक्तया प्रत्यक्षायमाणतया प्रदर्शिवानिति भाविकमलङ्कारः। “अतीताना गतयोः प्रत्यक्षायमाणत्वंभाविकमि’ति॥ ५० ॥
स्मरस्तथाभूतमयुग्मनेत्रं
पश्यन्नदूरान्मनसाप्यधृष्यम्।
नालक्षयत् साध्वससन्नहस्तः
स्रस्तंशरं चापमपि स्वहस्तात्॥५१॥
(प्रकाशिका)
एवं परमामनभिभवनीयतामधितिष्ठति देवे कामस्यावस्थां वर्णयति—
स्मर हति। साध्वसं भयम्। तस्य चालम्बनं156 (तथाभूतत्वम्) ।तथाभूतत्वात् सङ्कल्पेनाप्यधृष्यतम्।157 अदूरादिति158 स्फुटप्रत्यये हेतुः। नालक्षयदिति विपादव्यभिचारिणी जडता। तथाभूतं पह्यन्नित्यनेन पूर्वं दाक्षायणीसाहचर्येसमग्रशृङगारास्पदत्वेन देवस्यं159 स्वयमनुभूतत्वात160् तथाभावः कदाचिदष्यतर्कित- पूर्वःकामेनेति प्रतीयते॥५१॥
(विवरणम्)
एव परमेश्वरस्य दुरभिभवत्वं प्रतिपाद्यतमेवमालोकयताे मदनस्य तदनुगुणामवस्थामाह—
स्मर इति। अयुग्मनेत्रम् अदूरात् तथाभूतं पश्यन् स्मरः स्वहस्तात् स्त्रस्तं शरं चापमपि न अलक्षयत्। अयुग्मनेत्र त्यम्बकरम् अदूरात् समीपे इत्यर्थः। ‘दुरान्तिकार्थेभ्याेद्वितीया च’ (२, ३. ३५) इति पञ्चमी। अनेन सम्यगवलोकनोपपत्तिर्दर्शिता। तथाभूतं पश्यन् अत्यन्तदुर्निरीक्षतया साक्षात्कुर्वन। पूर्वं दाक्षायणीसाहचर्ये समग्रगशृङ्गारास्पदत्वात् तथाभूतत्वेनानुभूतस्य भगवतस्तथाभवाेमनसापि न स्मरेण सम्भावित इति भावः। स्मरः मदनः स्वहस्ताद् आत्मनः करात्। स्रस्तंगलितंशरं चापमपि। अपिशब्दः समुच्चये। नालक्षयत् न ज्ञातवान्। अत्र स्वहस्तस्रस्तस्याप्यज्ञातत्ववचनेन साध्वसस्याेत्कर्ष उक्तः। तथाभूतत्वमेवोपपादयति—मनसाप्यधृष्यमिति। सङ्कल्पेनाप्यनभिभवनीयम्। अहमेनमभिभविष्यामीति सङ्कल्पयितुमप्यशक्यमित्यर्थः। स्वहस्ताच्छरचापस्त्रसे हेतुमाह—साध्वससन्नहस्त इति। साध्वसेन भयेन। भीतिर्भीः साध्वसं भयमित्यमरः। सन्नौक्षीणौहस्तौयस्य स तथा। अत्र साध्वसस्यालम्बनं तथाभृतत्वम् ॥५१ ॥
निर्वाणभूयिष्ठमथास्य वीर्यं
सन्धुक्षयन्तीव वपुर्गुणेन।
अनुप्रयाता वनदेवताभ्या-
मदृश्यत स्थावरराजकन्या॥५२ ॥
(प्रकाशिका)
अथ पूर्वप्रकृतदेवीकर्तृकं शुश्रूषालक्षणं प्रयोज्यस्योपावर्तनं161 स्वावसरेऽवतरयति—
निर्वाणभूयिष्ठमिति। आहिताग्र्यादिषु पाठात् पूर्वनिपातानियमः। निर्वाणसन्धुक्षणाभ्यामग्निसाम्यप्रतीतिः। वपुर्गुणेन रूपसम्पदा। बनदेवताभ्याणोषधिप्रस्थयोषिद्भयां162 सखीःभ्याम्। यद्वक्ष्यति योषितो वनदेवताः” (स. ६. छो. ३९) इति। अनेन ‘सखीसमग्राम’ (स, १. श्लो. ५८) इत्येतदनुसंहितम्। ते च विजयामालिन्यौ प्रसिद्धे। दर्शनस्य तद्वीर्योद्दीपनत्वाददृश्यतेत्युक्तं , न त्वाजगामेति ॥ ५२॥
( विवरणम् )
अथ प्रथमसर्गेप्रतिपादित श्रुश्रृषादिलक्षण163ं प्रयोज्यपावर्तनं स्वावसरेऽवतारयति—
निर्वाणेति। अथ स्थावरराजकन्या अदृश्यत। अथ साध्वसप्राप्त्यनन्तरम्। स्थावरराजकन्या स्थावराणां राजा हिमवान्, तस्य कन्या पार्वती। अदृश्यत दृष्टाभुत्। तद्दर्शनस्य मन्मथोद्दीपनत्वप्रदर्शनार्थमदृश्यतेत्युक्तं , नत्वभ्याययाविति। दर्शनं हि मन्मथकर्तृकं, तेन च तस्य कृता(र्था? र्थता). भिमानः, तेन च तस्य वीर्यसन्धुक्षणमिति कमः। अत एवोत्प्रेक्षते—निर्वाणभूयिष्ठमस्य वीर्यं वपुर्गुणेन सन्धुक्षयन्तीवेति। निर्वाणभूयिष्ठं नष्टप्रायम्। आहितागन्यादिषु पाठात् पूर्वनिपातनियमाभाव;। कर्तरि निष्ठान्तश्चायं निर्वाणशब्दाे निर्वाणोऽवाते’ (८. २. ५०) इति निपातितः। अस्य कामदेवस्य वीर्यं बलम्। वीर्यं बलेप्रभावे च’ इत्यमरः। वपुषो गुणेन सौन्दर्यातिशयेन सन्धुक्षयन्तीव164 वर्धयन्तीव। अत्र निर्वाणसन्धुक्षणशब्दाभ्यां मन्मथवीर्यस्याग्निसाम्यं प्रतीयते। तेन चात्यन्तदुस्सहत्वम्। ‘सखीसमग्रां समादिदेशेति पूर्वोक्तमर्थमनुसन्दधान आह—वनदेवताभ्यामनुप्रयातेति। ‘तत्रत्यानां योषितां वनदेवतात्वाद् वनदेवताभ्याभित्युक्तम्। वक्ष्यति च ‘योषितो वनदेवताः’ (स. ६. छो, ३९) इति। एते च विजया मालिनी चेति प्रसिद्धे देवीसस्व्यौ। अनुप्रयाता अनुगता॥५२॥
अशोकनिर्भर्त्सितपह्मराग-
माक्रुष्टहेमद्युतिकर्णिकारम्।
मुक्ताकलापीकृतसिन्दुवारं
वसन्तपुष्पाभरणं वहन्ती॥५३॥
(प्रकाशिका)
अशोकेति। मुक्ताकलापो हारः। वसन्तपुष्पमयमाभरणमाभरणजातमित्यर्थः ॥ ५३॥
(विवरणम्)
अथ देवीदर्शनस्प\। मन्मथवीर्यसन्यक्षणसमर्थप्रतिपादभयितुं देवीविशेषणभूताश्चत्वारः श्लोकाः। तत्रादाै दृरतों दृश्यसामाया अपि देब्या वसनन्तपुष्याभरणामुज्ज्वलतरत्वाद दृरतेऽपि दर्शनोपयत्तेपत्तपुरसरणरसर्गबत्यमाद—
अशोकेति। वसन्तपुष्पभरणं वहन्ती। वसन्तपुयाभरणमिति जातावेकवचनम्। वसन्तपुष्पमयान्याभरणानि दपानेवयथः। वसन्तपुष्पाभग्- णानामितराभरणव्यतिरेकं प्रतिपादयितुं दपन्तपुपामरणं विशिनष्टि—अशाेके- त्यादिना। तत्रादावशोककुसुमानामौज्ज्वल्यातिरेकात् तद्दर्शनं जातमिति पूर्वमशोकपृष्पाभरणं वर्णयति—अशोकनिर्भर्त्सितपद्मरागमिति। अशोकैःअशोककुसुमैःनिर्भेर्त्पिता निन्दिताः पद्मरागाः पद्मरागमणयों येन तत। अनेन देव्याः काञ्चीनूपुरादिप्रत्युप्तानामुत्तमतराणां पद्मरागाणामशोककुसुमेभ्यों न्यूनताप्रतीतिः प्रतिपादिता। काञ्चीनूपुरादीनामपि कर्णिकारकुसुमापेक्षया न्यूनतांप्रतिपादयति—आक्रुष्टहेमद्युतिकर्णिकारमिति। आक्रुष्ट निन्दिता हेम्न सुवर्णस्य द्युतिः कानितर्यैसतादृशाःकर्णिकारः कर्णिकारपुष्पाणि यस्मितत् अनेनाशोककुयुमपेक्षया165 कर्णिकारकुसुमानां न्यूनप्रभावत्त्वादशोकपुष्पदर्शनानः न्तरमेव कर्णिकारपुष्पदर्शनमिति च प्रतिपादितम्। अत एवानन्तरमेव तदुपा दानम्। अथ पुनरपि प्रत्यासत्तिबलात् सिन्दुवारकुसुमानामपि दर्शनं जातमि
त्याह—मुक्ताकलापीकृतसिन्दुवारमिति। मुक्ताकलापो हारः, मुक्ताकलापीकृतानि मुक्ताकलापतां प्रापितानि सिन्दुवारकुसुमानि यस्मिन्। अत्रामूततद्भावप्रयोगेण सिन्दुवारपुष्पाणां मुक्ताकलापापेक्षया बहुगुणत्वाद मुक्ताकरापमपहाय तत्स्थानप्रापणमुक्तामिति व्यतिरेकोपपत्तिः॥५३॥
आवर्जिता किञ्चिदिव स्तनाभ्यां
वासो वसाना तरुणार्करागम।
सुजातपुष्पस्तबकावनस्ना166
सञ्चारिणी पल्लाविता167लतेव॥५४॥`
(प्रकाशिका)
आवर्जितेति ।इवशव्दोवाक्यालङ्कारे। तरुणार्करागमिति वसन्ते स्त्रीणां रक्तं वासः। तदुक्तम् “अरुणरागनिषेधिभिरश्रुकैरि’ति॥५४॥
(विवरणम्)
अथक्रमेणकिञ्चिदासबत्वाद विभाव्यरमानस्तनजघनद्यवयवविभगोदेवीविशिनष्टि—
आवर्जितेति। स्तनाभ्यां किञ्चिदिव आवार्जिता इति। स्तनाभ्यामावर्जनकर्तृभूताभ्यां स्तनमागाभ्याकिञ्चिद् ईषदिव। इवशब्दाे वाक्यालङ्कारे। आवर्जिता आनमिता। स्तनमारगैरवादवनमितशरीत्यर्थः। पुनश्च क्रमेण वसनवर्णस्यापि विशेषावगमाे जात इत्याह—तरुणार्करागं वासो वमाना इति तरुणस्य अचिराेदितस्य अर्कस्य सूर्यस्यराग इव गगाेयस्य तादृशं वासो वसाना परिदधाना। अत्रारुणाम्बरधारणं वमन्ताेचितम्। यथोक्तं रघुवंशे अरुणरागनिषेधिमिरंशुकैः(स. ९. छटा. ४३) इति। अत्रोत्प्रेक्षते—सुजात पुष्पस्तबकावनग्रा पल्लविता लता सञ्चारिणीवेति। सुजातेन मनाेहरेण पुष्पस्तबकेन मञ्जर्या। अत्र स्तवकशब्देनैव विवक्षितार्थमिद्वावपि मनोहारित्वा तिशयप्रदर्शनार्थं पुष्पशब्दप्रयोगः। यदुक्तं काव्यप्रकाशकृता—‘कर्णबतंसा-
दिपदे कर्णादिध्वनिनिर्मितिः। सन्निधानादिबोधार्थमि’ति। अवनम्रा अवनमिता। पल्लविता सञ्चातपल्लवा। तारकादित्वादितच्। सञ्चारिणी सञ्चरणशीला लतेव। अत्र गौरीलतयोः स्तनस्तबकयो रक्तवासःपल्लवयोश्च परस्परसाम्यमुत्प्रेक्षाबीजम् ॥ ५४॥
स्रस्तां नितम्बादवलम्बमाना-
पुनः पुनः केसरदामकाञ्चीम्।
न्यासीकृतां स्थानविदा स्मरेण
द्वितीयमौर्वी168मिव कार्मुकस्य॥ ५५ ॥
(प्रकाशिका)
स्त्रस्तामिति। स्त्रसंनगमनवशात्। गमनप्रतिबन्धनिरासाय चावलम्बनम्। पुनश्शब्द उभयशेषः। स्थानविदा, अत्र निक्षिप्तमापदि सुलभंस्यादिति। मौर्वी द्वितीयामिति युक्तमि’ति भोजादयः। अत्र युक्तिविंस्तरभयादस्माभिर्नलिख्यते ॥५५॥
(विवरणम् )
अथ तदुपेक्षयापि किंञ्चित् प्रत्यासन्नां विभाव्यमानव्यापारविशेषां देवीं विशिनष्टि—
स्त्रस्तमिति। नितम्बात् स्त्रस्तां केसरदामकाञ्चीं पुनः पुनः अवलम्बमाना। नितम्बाद् जघनप्रदेशात् स्रस्तां गमनवशाद् गलिताम्। केसरदामकाञ्चीकेसरमालामरयीकाञ्चीं रशनाकलापम। केसरो बकुलः। पुनशब्द उभयशेषः। गमनवशात् पुनः पुनर्गलितां केसरदामकाञ्चीं पुनः पुनरवलम्बमानेत्यर्थः। गमनप्रतिबन्धनिरासाय स्वयमेव स्वस्थानं नीत्वाकरेण गृह्लतीति भावः \। काञ्चीमुत्पेक्षते—स्थानविदा स्मरेण न्यासीकृतां कार्मुकस्य द्वितीयमौर्वीमिवेति।169 स्थानविदा स्थानं वेत्तीति स्थानवित् तेन। अत्र निक्षिष्तमापदि मया सुलभं भवेदिति निक्षेपस्थानज्ञेनेत्यर्थः। स्मरेण मदनेन न्यासाकृतां निक्षेपतां प्रापितां कार्मुकस्य चापस्य द्वितीयां
मौर्वीशिञ्जिनीमिव। चापभृताे170 हि युद्धमध्ये मौर्वीभङ्गमाशङ्कय द्वितीयां कामपि माैर्वीमाप्तजने निक्षिपन्ति। अत्र द्वितीयमौर्वीमित्यत्रोत्प्रेक्षाविषयभुतस्य द्वितीयात्वस्य समासान्तर्गतत्वमयुक्तम्। तस्मान्माैर्वीं द्वितीयामि त्येव युक्तः पाठइति कौश्चिदुक्तम्। तदयुक्तम्। समासान्तर्गतत्वेऽपि कविशक्त्या द्वितीयातप्रतिपत्तेःसुलभत्वात्। न चात्र द्वितीयात्वमात्रमुत्प्रेक्ष्यम्, अपि तु
स्मरेण न्यासीकृतत्वं द्वितीयात्वंमौर्वीत्व॑ च। तत्र मौर्वीत्वोत्प्रेक्षयैव तदितरोत्प्रेक्षासिद्धिरिति मौर्वाीत्वमेवात्र विधेयांश इति नाविमृष्टविधेयांशत्वदोषः ॥ ५५॥
सुगन्धिनिःश्वासविवृद्धतृष्णं
बिम्बाधरासन्नचर द्विरेफम्।
प्रतिक्षणं सम्भ्रमलोलदृएि-
र्लीलाराविन्देन निवारयन्ती॥ ५६ ॥
(प्रकाशिका)
सुगन्धीति।विम्बाधर171 इति “विम्बाधर172इति वृत्तौमध्यमपदलोपिन्याम् (५.२.१५) इति वामनः। बिम्बाकारोऽधर इति विग्रहः। शाकपार्थिवादित्वात् समासः। अन्यथाधरविम्ब इति स्यात्। अनेन कुलकेन कविः प्रतिभामय्या स्वदृष्ट्यासाक्षात्कृतं सपग्रलाेकोत्तरविभावतापात्रभूतं173 तत्कालंसमुचितभूषणविलासबिशेषित174ं देव्या वपुः सहृदयानां साक्षात्कारपदवी स्वशक्तया नीतवानिति भाविकमलङ्कारः। अत्रापि पूर्ववदभिप्रायः कवेः॥५६ ॥
(विवरणम्)
अथ देवीगतानां सूक्ष्मतराणां व्यपाराणामपि विभाव्यमानत्वात् तद्विशिष्टं देवीं विशिनष्टि—
सुगन्धीति। बिम्बाधरासन्नचरं द्विरेफ प्रतिक्षणं लीलारविन्देन निवारयन्ती। बिम्बाधरासन्नचरम्। बिम्बाकारोऽधरो बिम्बाधरः। शाकपार्थिवादित्वात् समासः। तस्यासन्ने चरतीति तथा। द्विरेफ भ्रमरं प्रतिक्षणं क्षणे क्षणेलीलारविन्देन लीलार्थमेव हस्ते गृहीतेन पद्मेन निवारयन्ती नितरां वारयन्ती। लीलारविन्दगन्धानुभवस्य प्रतिक्षणं विद्यमानत्वेऽपि भ्रमरस्य तत्परित्यागपुर्वकस्य बिम्बाधरसञ्चारस्य हेतुमाह—सुगन्धिनिःश्वासविवृद्धतृष्णमिति। शोभनो गन्धोयस्य सः सुगन्धिः। गन्धस्येदुत्पूतिसुसुरभिभ्यः(५.४.१३५)इतीत्। तादृशे निःश्वासे विवृद्धा तृष्णा यस्य तम्। भ्रमरबाधानुभावमाह—सम्भ्रमलाेलदृष्टिरिति। सम्भ्रमेण लोलाचञ्चला दृष्टिर्यस्याः सा तथा। अत्र किल कुलके महाकविः प्रतिभामय्या स्वदृष्टयालोकोत्तरसौन्दर्यसौकुमार्यादिभिः स्वत एवं रमणीयं तत्कालोचितमभूषांविलासादिभिश्175चनितरां हृदयङ्गमं देवीशरीरं साक्षात्कृत्यस्वशक्त्या सहृदयानामपि साक्षात्कारपदवींनीतवानिति भाविकमलङ्कारः। अत्रापि पूर्ववदेवानुसन्धातृृणामखिलक्लेशनाश एव महाकारुणिकस्य कवेरभिप्रायः॥५६ ॥
तां वीक्ष्य सर्वावयवानवद्यां
रतेरपि हृीतिमिवादधानाम्।176
जितेन्द्रिये शूलिनि पुष्पकेतुः177
स्वकर्मसिद्धि पुनराशशंस॥५७॥
(प्रकाशिका)
इत आरभ्य प्रयोज्यस्य देवस्याभियोक्त्र्या देव्यास्तत्सहोत्थायिनः कामस्य तत्सख्यादीनां च वृत्तं यथास्वमवसरे तिलतण्डुलकंन्यायेन178 वर्णयति। तत्र तावल्लब्धबलस्य कामस्य वृत्तमाह—
** तामिति। हीतिमादधानामिवेति रूपाभिमानमपहरन्तीमित्यर्थः।**
४, हायि ड,
जितेन्द्रिये जितेन्द्रियेऽपीत्यर्थः। शूलिनीति तीक्ष्णदण्डत्वं द्योत्यते , पुष्पकेतुरिति सुकुमारोपफरणत्वम्। पुनश्शब्देनाशंसायाः पूर्वत्रुदुटितत्वमनुसंहितम्॥ ५७ ॥
(विवरणम्)
अथ तादृशदेवीदर्शनलब्धबलस्य कामस्यावस्थामाह—
तामिति। पुष्पकेतुः तां वीक्ष्य जितेन्द्रिये शूलिनि पुनः स्वकर्मसिद्धिम् आशशंस। पुष्पकेतुः पुष्पमेव केतुर्यस्य सः कामदेवः। अनेनात्मनः सुकुमारसाधनत्वमुक्तम्। तां पर्वतीं वीक्ष्य सम्यगवलोक्य। जितेन्द्रिये जितानीन्द्रियाणि येन तस्मिन्। उपरतेन्द्रियव्यापारेषपीत्यर्थः। शुलिनीत्यनेन तीक्ष्णदण्डत्वादनभिभवनीयत्वं द्योत्यते। पुनश्शब्देनाशंसायाः पूर्वं भग्नत्वमनुसंहितम्। स्वकर्मसिद्धिं स्वस्य कर्मणः हरचित्तवशीकरणव्यापारस्य सिद्धि फलप्रातिम आशशंस श्रद्दधे“अत्रपरस्मैपदित्वचिन्त्यम्। तद्दर्शनेन स्वकर्मलाभाशंसायां हेतुमाह— सर्वावयवानवद्यामिति। सर्वेष्ववयवेप्वनवद्यामवद्यरदहिताम्। निंर्दोषामिति यावत्। अत एवाेत्प्रेक्षते—रतेरपि हृीतिमादधानामिवेति। रतेकामदेवेन सह तत्रागतायाः कामपत्न्या। अपिशव्देनान्यासां का गति(रिति) द्योत्यतेहृीति लज्जाम्। हृीलज्जायामिति धातोस्त्रिया क्तिन्। आदधानां विरचयन्तीमिव। रतिरपि तामवलोक्य किमपि ब्रीलाकुलानूनं जातैवेत्यर्थः। तस्या रूपाभिमानदर्पं हरन्तीमिति भावः। शूलिनरस्तीक्ष्णदण्डत्वेऽपि पुष्पकेतुः सुकुमारसाधनस्यात्मनस्तज्जयाे नूनमनया भविष्यतीति कल्पितवानिति भावः॥ ५७॥
भविष्यतः पत्युरुमा च शम्भो
समाससाद प्रतिहारभुमिम्।
याेगात् स चान्तः परमात्मसंज्ञं
दृष्ट्वापरं ज्योतिरूपारराम॥ ५८॥
(प्रकाशिका)
अथ कथां संविदधाति—
भविष्यत इति। भविष्यतः पत्युरिति प्राप्तौलज्जामन्थरत्वं द्योत्यते। प्रतिहारभूमि द्वारदेशम्। योगादुपारराम, योगश्चित्तवृत्तिनिरोधः। चशब्दौदैवाद् यौगपद्यं सूचयतः179॥५८ ॥
(विवरणम्)
अथ कथमेवानुसन्दधान आह—
भविष्यत इति। उमा शम्भोः प्रतिदहारभूमिं समाससाद च। सः परमात्मसंज्ञं परं ज्योतिः अन्त्रर्दृष्ट्वायाेगादुपारराम च। उमा पार्वती शम्भोः शिवस्य प्रतिहारभूमि द्वारप्रदेश समाससाद प्राप्तवती।सः शम्भुः। परमात्मसंज्ञपरमात्मेति संज्ञा यस्य तादृशम्। परं ज्याेतिः दृश्यप्रपञ्चोत्तीर्णस्वयम्प्रकाशस्वरूपम् अन्तः हृदयकुहरे दृष्ट्वासाक्षात्कृय योगात् समाधेः उपारराम उपरतोऽभूत्। “व्याङ्परिभ्यां रमः’ (१. ३. ८३) इति परस्मैपदम्। परमात्मसाक्षात्कारपर्यन्तोहि याेगः। अत्रचशब्दद्वयेन दैवादागतं यौगपद्यंद्योत्यते, प्रयोज्यस्योपावर्तनमिदत्राेक्तमवसरोपस्थानं च। ननु अव्याक्षेपो भविष्यन्याः कार्यसिद्धेर्हि लक्षणम्’(स. १०. श्लो. ६.)इति रघुवंश उक्तम्। अत्र पुनः कामदहनाद्यनर्थप्राप्तिरेव भाविनी। अत आह—पत्युः भविष्यत इति। भर्तृत्वेन भविष्यत इत्यर्थः। अनेन देवीप्राप्तेलेब्धावसरत्वद्योत्यते अपिच मुखदर्शनमात्र॑ तदानीमेव भविष्यति। ‘उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि! (श्लो, ६७) इति वक्ष्यमाणत्वात्। समुच्चयोऽत्रालङ्कारः। गुणक्रियायौगपद्यं समुच्चयइति॥५८॥
ततो भुजङ्गाधिपतेःफणाभि180-
रधः कथञ्चिद् धृतभूभिभागः।
शनैःकृतप्राणविमुक्तिरीश
पर्यङ्कबन्धं xबिडं बिभेद॥५९॥
(प्रकाशिका)
योगावसानिकंविधिमाह—
तत इति। फणाभिरिति सर्वाौघप्रसर उक्तः। कथञ्चित कृच्छात् शनैरिति शास्त्रसिद्धो181 रेचनांक्रमः182॥ ५९॥
(विवरणम्)
अथ योगादुपरतस्यभगवतस्तदवसानकर्तरव्यविधिमाह—
तत इति। तत ईशः पर्यङ्कबन्धं विभेद। ततः योगविरामानन्तरम् ईदाः परमेश्वरः पर्यङ्कबन्धं वीरासन बि
भेद विमृष्टवान्। योगादुपरते त्रैलोक्यात्मके भगवति तच्छरीरगैरवमप्यनन्तेन कथमपि सोढमित्याह—भुजङ्गाधिपतेः फणाभिः अधः कथञ्चिद् धृतभूमिभाग इति। भुजङ्गानां नागानाम् अधिपतेःअनन्तस्य। फणाभिरिति बहुवचनेन सर्वासामपि स्वशक्तीनां तत्रैवोपयोगविधानमुक्तम्। अधः क्षितितलस्थाधोभागे कथञ्चिद् यथाकथञ्चित्। धृतभूमिभागः, धृतः स्वावस्थानभुमिभागो यस्य स तथोक्तः। भगवति योगादुपरते तद्भारमसहमानेनानन्तेन सर्वाअपि फणास्तदधोभाग एवाधाय भूमिर्वृताभूदिति भावः।183 कुम्भेन क्रमेणपूरितानां प्राणवायूनां योगशास्त्रोक्तेचनक्रमेण विमुक्तिमाह—शनैः कृतप्राणविमुक्तिरिति। शनैः योगशास्त्रोक्त–
क्रमेणेत्यर्थः। कृतः प्राणानां शरीरवायूनां विमुक्तिः माेचनं येन सतथा। मगवद्बद्धस् पर्यङ्कबन्धस्य याेगाशस्त्रानुगुणत्वमाह—निबिडमिति। अच्छिद्रमित्यर्थः। अच्छिद्रत्वं184 च योगशास्त्रसिद्धम्॥५९॥
तस्मैशशंस प्रणिपत्य नन्दी
शुश्रूषया शैलसुतामुपेताम्।
प्रवेशयामास च भर्तुरेनां
भ्रक्षेपमात्रानुमतप्रवेशाम॥६०॥
(प्रकाशिका)
अथ नायिकानायकयोाः परस्परावलोकनं घटयितुमाह—
तस्मा इति। तस्मै लब्धावसराय। प्रणिपत्येति समुदाचारः185। शुश्रूषयेत्यनौचित्यपरिहारः। अनुमतोऽनुज्ञातः। मात्रशब्देन सत्त्वजं माधुर्यमुक्तम्। ‘श्लक्ष्णाे विकारो माधुर्यं संक्षाेभे सुमहत्यपी’ति ॥६०॥
(चिवरणम्)
अथ नायिकानायकयोः परस्परदर्शनेापाधमाह—
तस्मा इति। नन्दी प्रणिपत्यशैलसुतां शुश्रूषया उपेतां तस्मैशशंस। नन्दी नन्दीश्वरः। प्रणिपत्येत्यनेन भूत्यनां समुदाचार उक्तः। शैलसुतां पार्वतीम्। शुश्रूषया प्रतिदिनं क्रियमाणया परिचर्यया हेतुभूतया। नात्र किञ्चिदनुचितत्वमस्तीति भावः। देवस्य सर्वसेव्यत्वात्। उपेतां प्राप्तामष।तस्मैयोगादुपरतत्वेन लब्धावसराय हराय शशंस निवेदितवान्। निवेदनानन्तरं हरानुज्ञापुरस्सरी नन्दिनः प्रवृत्तिमाह—भर्तुः भूक्षेपमात्रानुमतप्रवेशाम् एनां प्रवेशयामास चेति। भर्तुःस्वामिनो हरस्य। भ्रूक्षेपमात्रातुमतप्रवेशाम्।
भ्रुवः क्षेपो भ्रूक्षेपः। क्षेपश्चालनम्। एकस्या भुवश्चालनमात्रेणेत्यर्थः। अनेन सस्वजं माधुर्यमुक्तम्। श्लक्ष्णोविकारो माधुर्यं संक्षोमे सुमहत्यपी’त्कुक्तत्वात्। अनुमतः अनुज्ञातः प्रवेशः समीपप्राप्तिर्यस्याःताम्। एनां पार्वती प्रवेशयामास अन्तर्भागं प्रापयामास च। एककर्तृकयोः शंसनप्रवेशनक्रिययोः समुच्च(यो186 ? ये)ऽत्र चशब्दः॥६०॥
तस्याः सखीभ्यां प्रणिपत्य187पूव
स्वहस्तलूनः शिशिरात्ययस्य।
व्यकीर्यत त्र्यम्बकपादमूले
पुष्पाेच्चयः पल्लवभङ्गभिन्नः॥६१॥
(प्रकाशिका)
देव्या देवोपस्थाने क्रममाह—
तस्या इति। पूर्वं देवीप्रणामात् प्रागित्यर्थः। स्वहस्तलून इति सौष्ठवार्थम्। शिशिरात्ययस्य वसन्तस्य। मूले निकटे। भिन्नो मिश्रः। प्राक् पुष्पविकिरणमाभ्यामीश्वरभावज्ञानार्थमिति दक्षिणावर्तः। देव्याः शालीनतापनयनार्थत्वं188 तु युक्तम्॥६१॥
(विवरणम्)
नायकदर्शनानन्तरं सञ्जातसात्त्विकविकाराया देव्या लज्जापनोदार्थमादौतत्सखीभ्यामेव परमेश्वरसेवा कृतेत्याह—
तस्या इति। तस्याः पूर्वं सखीभ्यां शिशिरात्ययस्य पुष्पोच्चयः त्र्यम्बकपादमूले प्रणिपत्यं व्यकीर्यत। तस्याः देव्याः पूर्वम्। “अन्यारादितरर्तेदिक्शब्द—(२. ३. २९)इत्यादिना पञ्चमी। देवीप्रणामात् प्रागित्यर्थः। स-
स्वीभ्यां विजयामालिनीभ्यां शिशिरात्ययस्य189 वसन्तस्य। पुष्पोच्चयःपुष्पाणामुच्चयः समूहः। वसन्तकुसुमराशिरित्यर्थः। त्र्यम्बकपादमूले त्र्यम्बकस्य हरस्य पादमूले पादयोर्मूलेनिकटेप्रणियत्य नमस्कृत्य। व्यक्रीर्यत विक्षिप्रोऽभूत्। पुष्पोच्चयस्य सौष्ठवद्योतकंविशेषणमाह—स्वहस्तलून इति। आत्मनाे हस्ताभ्यामेव लूनः अवचितः , परमेश्वरभक्तया स्वयमेव शिक्षापूर्वकमाहृत इत्यर्थः। दर्शनीयत्यमाह—पल्लवभङ्गभिन्न इति। भग्राः पल्लवाः पल्लवभङ्गाः, पल्लवभङ्गैर्भिन्ना मिश्रः पल्लवभङ्गभिन्नः। स्वयमेवाहृतैः पल्लवैरुपेत इत्यर्थः॥ ६१॥
उमापि नीलालकमध्याशोमि
विस्रंसयन्तीनवकर्णिकारम्।
चकार कर्णच्युतपल्लवेन
मूर्ध्नाप्रणामं वृषभध्वजाय॥ ६२॥
(प्रकाशिका)
अत एवाह—
उमेति।अत्र विशेषणानि रत्युदृीपनाभिप्रायेणोपात्तानीति परिकरः प्रकृताप्रणामक्रियामुपस्कराेति॥ ६२॥
(विवरणम्)
अथ देव्पाः प्रणममाह—
उमापति। उमापि मूर्ध्नावृषभध्वजाय प्रणामं चकार। उमा पार्वती। अपिशब्दः पूर्वोक्तसखीप्रणामयमुच्चयार्थः। वृषभध्वजाय परमेश्वराय प्रणामं प्रणमनं चकारकृतवती। प्रणमसमये देव्याः प्रहृत्वमाह—नीलालकमध्यशोभिनवकर्णिकारं विस्त्रंसयन्तीति। नीलानां कृष्णवर्णानामलकानां मध्ये शोभितुंशीलमस्येति तथा। नवकर्णिकारंनवमभिनवं कर्णिकार
कर्णिकारकुसुमम्। विस्त्रंसयन्ती अत्यन्तनम्रशिरस्तया निपातयन्ती। अनेनात्यन्तप्रवणत्वमुक्तम्। अत्र नीलशब्दनवशब्दाभ्यामलककर्णिकारकुसुमयोः परभागलाभातिशयः सूचितः। कर्णावतंसपल्लवोऽपि प्रणामसमये गलित इत्याह—कर्णच्युतपल्लवेनेति। कर्णात् च्युतः गलितः पल्लवः कर्णवतंसपल्लवो यस्वतेन मूर्ध्ना। अत्र प्रणामक्रियायां लालित्यापादकानि विशेषणानि रत्युद्दीपनपरतवा प्रयुक्तानीति परिकराेऽलङ्कारः॥ ६२ ॥
अनन्यभाजं पतिमाप्नुहीति
सा भव्यमेवाभिहिता190 भवेन।
न हीश्वरप्याहृतयः कदाचित्
पुष्णान्ति पाके191विपरीतमर्थम्॥६३ ॥
(प्रकाशिका)
प्रत्यभिवादनप्रकारमाह
अनन्येति। अन्यां न भजतीत्यनन्यभाक्। सर्वनाम्नोवृत्तिमात्रे192 पृर्वपदस्यपुवद्भावः। भव्यमेव , न केवलमाचारासिद्धम्। भव्यं भावि।भावित्वमेवोपपादयति—न द्दीति। ईश्वररव्याहृतयः आगमप्रभृतयः। कदाचिदिति स्वतः प्रामाण्यं द्याेतयति। पूष्णाान्तीत्यनेन कारकत्वमप्यस्तीतिं द्योतयति।पाकेे परिणामे ॥ ६३ ॥
(विवरणम् )
देवया प्रणतस्य देवस्याशीर्वादप्रकारमाह—
अनन्येति। भवेन सा अनन्यभाजं पतिम् आप्रहि इति भव्यमेव अभिहिता ! भवेन रुद्रेण। भवाे भीमः स्थाणू रुद्र’ इत्यमरः। सा पार्वती।
अनन्यभाजम्। अन्यां स्त्रियं भजत इत्यनन्यभाक। अन्यशब्दस्य सर्वनामत्वात् पुंवद्धावः। पतिं भर्तारम्। भार्यान्तररहितं भर्तारमित्यर्थः। सपत्नीसद्भावो हि स्रीणां परं दुःखकारणमिति भावः। आप्नुहि प्राप्नुहि। इतिशब्दः प्रकारवचनः। भव्यं भावि। न केवलंकन्यकाजनप्रणामेष्वाचारसिद्धत्वादेवमुक्तं, किन्तु भाव्यर्थकथनमेवेत्येवकारस्थार्थःअभिहिता उक्ता। भावित्वमेवोपपादयति— ईश्वरव्याहृतयः लोके कदाचिद् विपरीतमर्थ न पुष्णन्ति हीति। ईश्वराणां महात्मनां व्याहृतयः उक्तयः लोके लोकत्रये कदाचित् कालत्रयेऽपि विपरीतमन्यथाभूतम् अर्थ न पुष्णन्ति न प्राप्नुवन्ति। ईश्वराणां वचनं देशान्तरेकाटान्तरेऽस्थान्तर वा ने व्यभिचरतीत्यथः। तत्मतिवन्धकं दुरितं निरस्याि साध्यं साधयत्येवेति पुष्णन्तीत्यनेन द्योत्यते. पुव पुष्टविति धातुः। हिशब्दःप्रमिद्धौ। प्रसिद्धिश्वश्रुनिस्मृतिषुं। पाक इति पाठे परिणाम इत्यर्थः ॥ ६३ ॥
कामस्तु बाणावसर प्रतीक्ष्यऽ
पतङ्गवद्वह्निमुखंविविक्षुः।
उमासमक्षं हरबद्धलक्षः193
शरासनज्यां मुहुराममर्श॥ ३४ ॥
तस्मिन्नवसरे कामप्याेद्यमाह।
काम इति। तुशब्दोऽवस्थान्तरद्योतकः। बाणावसरं परिचयविशेषमित्यर्थः।पतङ्गवत् शलभवत्।194 वह्निमुखं विविक्षुःमहासाहसं कर्तुकामइत्यर्थः। इतोऽपि किञ्चित् प्रसृतंपरिचयं प्रतिषाल्यप्रहरिष्याम्पेनमिति व्यवसित इत्यर्थः ।उमासमक्षं देव्याः समक्षं यथा भवति। इदं
देवीप्रोत्साहनार्थम्। हरे बद्धलक्षो दत्तदृष्टिरित्यर्थः195। ज्यापरामर्शनं शरसन्धानपूर्वरङ्गः॥६४॥
(विवरणम्)
अथ लब्धावसरस्यमदनस्योद्योगमाह—
कामास्त्विति। कामः तु बाणावसरं प्रतीक्ष्य उमासमक्ष शरासनज्यां मुहुः आममर्श। कामः कामदेवः। तुशब्दोऽवस्थान्तद्योतनार्थः। बाणावसरं बाणस्यावसःर नायिकानायकयोः परस्फपरिचयविशेषरूपं प्रहरणावकाशंप्रतीक्ष्य प्रतिपाल्य। उमासमक्षमित्यामर्शनक्रियाविशेषणम। उमायाः पार्वत्याः समक्षं प्रत्यक्षं यथा भवति तथा। ज्यपरामर्शनस्योमासमक्षत्वमहमस्मि ते सहाय इति देवीप्राेत्साहनार्थम्। शरासनज्यां शरासनस्य चापस्य ज्यां शिञ्जिनीम्। मुहुः पुनः पुनः अममर्शआमृष्टवान्। ज्यापरामर्शश्च धन्विनां शरसन्धानस्य पूर्वरङ्गतया प्रसिद्धः। अथ कामस्य साहसाेद्योगं कविः सोपहासमाह—पतङ्गवद्वह्निमुखं विविक्षुरिति। पतङ्गवच्छलभइव। वह्निमुखंवह्नेर्मुखं, भोक्तुकामस्य व्यात्तवदनस्य वह्नेरग्नेर्मुखं वदनकुहरमेव।विविक्षुः प्रवेष्टुकामः। अतिसाहसमेव कर्तुकाम इव्यर्थः। ज्यापरामर्शसमयोंचितं स्वभावमाह—हरबद्धलक्ष इति। हरे परमेश्वर एवं बद्धलक्षः, बद्धदृष्टिरित्यर्थः। शरनिपाताधिकरणं परमेश्वरमेव सावधानमवलोकयन्निति भावः।नायिकानायकयाेरितोऽपि किञ्चिदुपयिते सति परिचये सहसैव प्रहरिष्याम्येनमिति शरसन्धानं कर्तुमुद्युक्तस्तस्थावित्यर्थः॥६४ ॥
अथाेपनिन्ये गिरिशाय गौरी
तपस्विने ताम्ररुचा करेण।
विशोषितां भानुमतो मयूखै-
र्मन्दाकिनीपुष्करबीजमालाम्॥६५॥
(प्रकाशिका)
परिचयस्य कारणान्तरमाह—
अथेति। उपनिन्ये उपजहार। तपस्विन इत्युपायनविशेषौचित्यार्थम्। ताम्ररुचेत्युदृीपनाभिप्रायम्। मन्दाकिनीसम्बन्धात् श्लाघ्यत्वम्॥ ६५॥
(विवरणम् )
दैवात् परिचयस्य कारणान्तरमपि तदैव जातमित्याह—
अथेति। अथ गौरी तपस्विने गिरिशाय ताग्ररुचा करेण मन्दाकिनीपुष्करबीजमालाम् उपनिन्ये। अथ प्रणामानन्तरं गौरी पार्वती। तपस्विन इत्यनेन तादृशोपायनविशेवौचित्यं द्योत्यते गिरिशाय हराय। ताभ्ररुचार्वा ताम्रा रक्ता रुक् शोभा यस्य तादृशोन करेण। उदृीपनाभिप्रायमेतद्विशोषणम्। मन्दाकिनीपुष्कररबीजमालां, मन्दाकिन्यां गङ्गायां यानि पुष्करणि पद्मानि तेषां बीजैःकृतां मालाम्। पद्माक्षमालामित्यर्थः। मन्दाकिनीशब्देन पद्माक्षाणां सुलभत्वमुक्तं, मन्दाकिन्या हिमवच्छिखरवर्तित्वात्। मन्दाकिनीसम्बन्धेन पद्माक्षाणां पावनत्वाधिक्यं च द्योत्यते। उपनिन्ये उपजहार। पद्माक्षस्य धारणमात्रमेवातः परंकर्तव्यं, संस्कारस्तु सर्वाोऽपि कृत एवेत्याह—भानुमतः मयुखैः विशोषितामिति। भानवो रश्मयोऽस्य सन्तीति भानुमानित्यादित्य उच्यते। तस्य मयूखैः रश्मिभिः। विशोषितां विशोषेण शोषितां कृतशोषणाम्। भगवदुपायनार्थं स्वयमेवादाय शोषितामित्यर्थः॥६५ ॥
प्रतिग्रहीतुं प्रणायिप्रियत्वात्
त्रिलोचनस्तामुपचक्रमे च। `
सम्मोहनं नाम च पुष्पधन्वा
धनुष्यमोघं समधत्त बाणम्॥६३ ॥
(प्रकाशिका)
परिचयस्य प्रसरमाह—
प्रतिग्रहीतुमिति। प्रणयिनः प्रार्थयितारः प्रिया यस्य। दाक्षिण्यादित्यर्थः।तां पुष्करबीजमालम्। नाम प्रसिद्धौ। अत्र यौगपद्येन कामस्य क्षिप्रकारित्वमुक्तम्॥६६॥
(विवरणम्)
परिचयस्य ततोऽपि किञ्चदाधिक्यमाह—
प्रतिग्रहीतुपिति। त्रिलोचनःप्रणयिप्रियत्वात् तां प्रतिग्रहीतुम् उपचक्रमे च। पुष्पधन्वा धनुषि सम्मोहनं नाम बाणं समधत्त च। त्रीणि लोचनानि सन्त्यस्येति त्रिलोचनः शिवः। प्रणयिनः प्रार्थयितारः। प्रणयः स्नेहयाच्ञयोरि’ति भाेजः। ते प्रिया यस्य तस्य भावस्तत्त्वंतस्माद्धेतोः, दाक्षिण्यादित्यर्थः। तां पद्मक्षमाला। प्रतिग्रहीतुम् उपचक्रमे आरब्धवान्। पुष्पधन्वा कामः धनुषिचापेसम्माेहनं नाम सम्मोहन(मि ? इ)ति प्रसिद्धम।
“द्रावणः क्षाेभणश्चैव वशीकरण इत्यपि\।
आकर्षणश्च कामस्य बाणः सम्माेहनाेऽपरः ॥
इत्युक्तत्वात्। बाणं शरं समधत्त संयोजयामास च। अत्र चकारद्वयेनयौगपद्यमुक्तम्। तेन च कामस्य क्षिप्रकारित्वंध्वन्यते। सम्मोहनबाणस्य यथार्थनामकत्वमाह—अमोघमिति। सफलमित्यर्थः। सर्वत्र दृष्टसद्यःफलमिति भावः। अत्र समुच्चयोऽलङ्कारः॥६६॥
हरस्तु किञ्चित्परिवृत्तधैर्य–196
श्चन्द्रोदयारम्भइवाम्बुराशिः।
उमामुखे बिम्बफलाधरोष्ठे
व्यापारयामास विलोचनानि॥६७॥
(प्रकाशिका)
तत्फलमाह —
हर इति। तुशब्दोऽवस्थाविशोपद्योतकः। किञ्चिदिति अगाधसत्त्वत्वात्।उपमानेऽपि197 किञ्चिचद्धैर्य- परिदवृत्तिरुदयारम्भशब्देनोपदर्शिता। बिम्बफलाधरोष्ठ इति विभावोपस्कारः। विलोचनव्यापारेण नैसर्गिक्या रतेरुदयावस्था द्योत्यते। सच औत्सुक्यावेगचापलहर्षादेर्व्यभिचारिणोऽपि साधारणः॥६७॥
(विवरणम्)
तादृशभाणसन्धानस्प फलमाह—
हर इति। हरः तु उमामुखे विलोचनानि व्यापारयामास। हरः त्रिलोचनः। तुशब्दः पूर्वावस्थाताेव्यतिरेकंद्योतयति। उमामुखे उमायाः पर्वत्यामुखेविलोचनानि त्रीण्यपि लोचनानि। व्यापारयामास प्रवर्तयामास। उमामखे विलोचनव्यापारस्य हेतुमाह—किञ्चत्परिवृत्तधैर्यइति। किञ्चित्परिवृत्तम ईषदन्यथाभूतं, (तद्वि ? न तु वि)गलितं, धैर्यं यस्य स तथा। हरधैर्यस्यपितदानीं किञ्चिदन्यथात्वंजातमिति भावः। महासत्वत्वादीषत्परिवृत्तत्वम्। अत्रोपमामाद—चन्द्रोदयारम्भे अम्बुराशिरिवेति। चन्द्रोदयस्यारम्भे अम्बुराशिःसमुद्र इव। अत्राप्युदयारम्भशब्देन उपमानभूतस्य समुद्रस्यापि किञ्चिद्धेर्यपरिवृत्तिरूपदर्शिता। देवस्य देव्यां सञ्जातं भावविशोष प्रकाशयन्नुमामु्ख विशिनष्टि—बिम्बफलाधरोष्ठइति। बिम्बस्य लताविशेषस्य फलं बिम्बफलं, तदिव रक्तवर्णोऽधराेष्ठो यस्य तस्मिन्। अनेन विलोचनव्यापारयोग्यत्वमुक्तम्। अत्र देवस्य तादृतेवरने विलोचनव्यापारेण खाभाविक्या रतेरूद्बोधधावस्था दर्शिता। स तुविलोचनव्यापारः रतेर्व्यभिचारिणामौत्सुक्यवेग- चापलहर्षादीनामप्यपलक्षणम्॥६७॥
विवृण्वती शैलसुतापि भाव-
मङ्गैकुचद्बालकदम्बकल्पैः198।
साचिक्रियाचारुतरेण199 तस्थौ
मुखेन पर्यस्तविलोचनेन॥६८॥
(प्रकाशिका)
हरदृष्टिपाते200 देव्या दाशांवर्णयति—
विवृण्वतीति। शैलसुतापीति,201 न केवलंदेवों विवृण्वन् विलोचनानि व्यापारितवान्। कुचन्तो मीलन्तः। मीलत्पुष्पबालकदम्बकल्पैरित्यर्थः। रोमाञ्चितत्वाच्च तत्सादृश्यम्। स्तनवाचिनः कुचशब्दस्यापि कुचतीति निर्वाहः, कुड्मलसन्निवेशत्वात्202। साचिक्रिया त्र्यश्रीकरणम्। तच्च लज्जाकार्यम्।तिर्यगर्थे साचि तिरोऽपी’ति सिंहः। पर्यस्तं विवर्तितम्।अनेनान्योन्यदृष्टिसमागम उक्तः॥९८ ॥
(विवरणम्)
देवस्यतादृशदृष्टिपातेदेब्याःसमबस्थां वर्णयति—
विवृण्वतीति। शैलसुता अपि अङ्गैःभावंविवृण्वती तस्थौ॥ शैलसुता पार्वती। न केवलं देव एव भवं व्यवृणोत्, किन्तु शैलसुतापीत्यपिशब्दार्थः। अङ्गैशरीरावयवैभावमभिलापं विवृण्वती प्रकाशयन्ती तस्थौअतिष्ठत्। अङ्गानां भावविवरणप्रकारं दर्शयति—कुचद्वालकदम्बकल्पैरिति कुचन्तः सङ्कुचन्तः। सङ्कुचत्पुष्पा इत्यर्थः। निमीलत्पुष्पबाल कदम्बसदृशौरित्यर्थः। कदम्बो वृक्षविशेषः। अङ्गानां रोमाञ्चितत्वादत्र तत्सादृश्यम्। कदम्बकुसुमानि हि रोमतुल्यदलानि। तेषां निमीलनावस्थाप्रदर्शनेन रोमाञ्चस्य निबिडत्वमुक्तम्। बालशब्देन देव्या यौवनावस्था दर्शिता।
तेन मनोहारित्वातिशयः। अन्याेन्यदृष्टिसमागमोऽपि जात इत्याह—पर्यस्तविलोचनेन मुखेन उपलक्षिता इति।पर्यस्ताविलोचनेन पर्यस्तं विवर्तितंविलोचनं नेत्रं यस्य तादृशेन मुखेन उपलक्षिता। भगवददृष्टिपातसञ्चातया लज्जया विवर्तितनयनमुखारविन्देत्यर्थः।तादृशस्य वदनस्य पुनरपि लज्जाद्योतरकविशेषणमाह—साचिक्रियाचारुतरेणेति। साचिक्रिया व्यश्रीकरणम्।‘तिर्यगर्थे साचि तिरोऽपीति पिंहः। व्यश्रीकरणं च लज्जाकार्यम्।तेन चारुतरेण अत्यन्तचारुणा।अत्र देव्याः शङ्करेपूर्वमुत्पन्ना रतिः साभिलाषतदवलोकनवसन्तादिभिरुदृीप्यमाना राेमाञ्चोन्कण्ठादिभिः सात्त्विकव्यभिचार्यारिभिरनुबध्यत इत्यवसेयम्॥ ६८ ॥
अधेन्द्रियक्षोभमयुग्मनेत्रः
पुनर्वशित्वादयलवन्निगृह्य।
हेतुं स्वचेतोविकृतेर्दिदृक्षु-
र्दिशामुपान्तेषुससर्ज दृष्टिम्॥६०॥
(प्रकाशिका)
अथ बलवद्भावान्तरोदयेन सत्त्वनिधौदेवे रतेःप्रशम दर्शयति
अथेति। पुनरिति प्रत्याहरणमुक्तम्।वशित्वादिति। जितेन्द्रियो हि प्रमादादृत्पथगामीन्यपीन्द्रियाणि नियन्तुं शक्नोति, शान्तरसवासनाया अप्रमुषितत्वादित्यर्थःबलवत् सुष्ठु। स्वशब्देन हेतोरनल्पत्वं द्योत्यते। उपान्तेषु मुखेषु। अत्रेन्द्रियक्षोभनियमनेन203शान्तव्यभिचारिण्या मतेरुदयःप्रतीयते।दिदृक्षुरिति तद्व्यभिचार्यैत्सुक्यम्। दृष्टिमर्जनमनुभावः॥ ६९ ॥
(विवरणम्)
अथः सरत्वनिधौभगवति झटेति शान्तरसब्यभिचारिण्याःपरमार्थविमर्शनरूपाया204 मतेराविर्भावे सति तस्याः प्राबल्यात् तादृश्याअपि रतेः प्रशमं दर्शयति—
अथेति। अथ अयुग्मनेत्रः वशित्वाद् इन्द्रियक्षोभं पुनः बलवद् निगृह्य स्वचेतोविकृतेः हेतुं दिदृक्षुः दिशाम् उपान्तेषु दृष्टिंससर्ज। अथ तत्ता दृशस्य प्रशमस्य तादृशावस्थाप्राप्तयनन्तरम्। अयुग्मनेत्रः त्रिलोचनः। द्व्यादयों युग्मसड्ख्या युग्मशब्देनोच्यन्ते। युग्मसङ्ख्याकनेत्रो न भवतीत्ययुग्मनेत्रः। वशित्वाद् जितेन्द्रियत्वात्। प्रमादादुत्पथगामिनामिन्द्रियाणां निग्रहे वशिनामेव हि सामर्थ्यमित्यर्थः। शान्तरसस्यात्यन्तप्रमुषितत्वाभावादिति भाव!। इन्द्रियक्षोभम् इन्द्रियाणां चक्षुरादीनां क्षोभंविकारम्। पुनशाब्देन प्रत्याहरणमुक्तम्। पुनरपीत्यर्थः। बलवदिति निग्रहक्रियाविशेषणम्। बलवत् सुष्ठु यथा भवति तथा निगृह्मनियम्य। क्षोभवासनामपि परिहृत्येत्यर्थः। स्वचेतोविकृतेःस्वस्य चेतसः मनप्तः विकृतेः विकारस्य। अत्र स्वशब्देन बलवता कारणेन विनानुपपत्तिरुक्ता। हेतुं कारणं दिदृक्षुः द्रष्टुमिच्छु; दिशामुपान्तेषुमुखेषुदृष्टिनेत्र ससर्ज विससर्ज। अत्र शान्तरसव्यभिचारिण्या मतेरुदयइन्द्रियक्षोभनियमने हेतुः। क्षोभकारणदर्शनौत्सुक्यं तादृश्यामतेर्व्यभिचारि। दृष्टिविसर्गस्तस्या अनुभाव इति विवेकः॥६९॥
स दक्षिणापाङ्गनिविष्टमुष्टि
नतांसमाकुञ्चितसव्यपादम्।
ददर्श चक्रीकृतचारुचापं
प्रहर्तमभ्युद्यतमात्मयोनिम्॥७०॥
(प्रकाशिका)
स इति। चक्रीकृतं मण्डलीकृतम्। इदमालीढासख्यस्थानम्। आलीढं तु ततोऽग्रतः। दक्षिणे वाममाकुञ्च्य प्रत्यालीढंविपर्यय’ इति यादवः। प्रहर्तुपभ्युतंस्पष्टापकरामित्यर्थः। अत्रालीढस्थानस्वभावोत्रत्त्किर्देवक्रोधस्य वक्ष्यमाणस्यालम्बनविभावतां205 पुष्णाति॥७०॥
(विवरणम्)
दृष्टिविसगंस्य फलमाह—
स इति। सः आत्मयोनिं ददर्श। सः अयुग्मनेत्रः आत्मयोनि कामदेवं ददर्शदृष्टवान्। अयमेव चेतोविकृतिहेतुशिति दर्शनमात्रेणैव ज्ञातुं शव्यमिति द्योतयितुमात्योनेर्विशोषणान्याह—दक्षिणापाङ्गनिविष्टमुशिमित्यादिभिः। दक्षिणे अपाङ्के नेत्रकोणेसंशरचापमौर्वीविकर्षणवशान्निविष्ठा स्थिता मुष्टिर्यस्य तम्। नतांसं विनष्टदक्षिणसम्। अकुञ्चितसव्यजानुम् आकुञ्चितः वक्रीकृतः सव्यजानुः वामपादजानुर्येन तम्। अनेनालीढाख्यो धन्विनामवस्थानविशेषउक्तः।
“स्थानानि धन्वितां पञ्चतत्र वैशाखमस्त्रियाम्।
त्रिवितस्तयन्तरौपादौमण्डलंतोरणाकृती॥
अन्वर्थं स्यात् समपदमालीदं तु ततोऽग्रतः।
दक्षिणे वाममाकुञ्च्य प्रत्यालीढंविपर्यये॥
इति यादवः। उक्तं च रघुवंशे—‘अतिष्ठदालीढविशेषशोभिना’ (स. ३. छो.५२)इति। इयमालीढस्वभावोक्तिर्वक्ष्यमाणस्य देवकोपस्यालम्बनविभावः। चापस्याप्यवस्थामाह—चक्रीकृतचारु चापमिति। चक्रीकृतंमण्डलीकृतंचारु सुन्दरं चापंयेन तम्।अनेन प्रहारस्य दृढतित्वं सूचितम्। एभिविशेषणैःसिद्धनर्थमेवाह—प्रहर्तुमभ्युद्यतसितिरमिति। प्रहर्तुमात्मनि बाणप्रयोगं कर्तुम् अभ्युद्यतमुद्युक्तम्। अनेन स्पष्टापकारत्वमुक्तम्॥७०॥
तपःपरामर्शविवृद्धमन्यो-
र्भ्रूभङ्गुदुष्प्रेक्षमुखस्य तस्य।
स्फुरन्नुदर्चिः सहसा तृतीया
दक्ष्णः कृशानुः किलनिष्पपात॥७१॥
(प्रकाशिका)
अत206 एवाह—
तप इति। परामर्शो धर्षणम्। भ्रूभङ्गेत्यादि रौद्रव्यभिचारिण207 औग्रधस्यानुभावप्रपञ्चनम्। कृशानुरिति, यः कल्पान्तेषु विश्वं संहरति। यथाह मुरारिः—
“नीललोहितललाटलाञ्छने लोचने जयति कोऽपि पावकः।
रक्षितस्यजगदन्तहेतवे यस्य संज्वलनमात्मभूरभूत् ॥’ (अङ्क. ७.श्लो. ३१)
इति।किलैतिह्मे॥७१ ॥
(विवरणम्)
भगवतस्तत्तादृशमदनदर्शनजंक्रोधं तत्कलंचाह —
तप इति। तपःपरामशंविवृद्धमन्योंः तस्य तृतीयादक्ष्णः कृशानुः सहसा निष्पपात किल। तपःपरामर्शविवृद्धमन्याेःतपसः परामर्शेन धर्षणेन हेतुना विवृद्धः प्रवृद्धः मन्युः क्रोधो यस्य। तृतीयादक्ष्णः ललाटलोचनात्208 कृशानु; अग्निः। यः किलकल्पान्तेसकलमपि लोकं भस्ममात्करिष्यति। यदाह मुरारिः—
“नीललाेहितललाटलाञ्छने लोचने जयति काेऽपि पवकः।
रक्षितस्य जगदन्तहेतवे यस्य संज्वलनमात्मभूररभूत् ॥”
इति। सहसा झटिति निप्पपात निजेगाम।मदनमभिमुखीकृत्येति शेषः। किलैतिह्मे। अनेन निजवचनस्य मूलभूतं प्रमाणं दर्शयति। रौद्ररसव्यभिचारिणः क्रौर्यस्यानुभावं प्रपञ्चयति —भ्रूभङ्गेत्यादिना। भ्रूभङ्गदुष्प्रेक्षमुखस्य
भ्रूभङ्गेन भ्रूकुट्या209दुष्प्रेक्ष दुर्दशं मुखं यस्य तस्य। कृशानुनिष्पतनस्यावस्थां दर्शयति—स्फुरन्निति। प्रकाशमानः, आदौतावत् तृतीयलोचने किञ्चित्प्रकाशमानो दृष्ट इत्यर्थः। द्वितीयावस्थां210 दर्शयति—उदर्चिरिति। उद्गतज्वालः, तदनन्तरं जाज्वल्यमानो दृष्ट इत्यर्थः। जत्र स्फुरन् उदर्चिनिष्पपातेति पदत्रयेण कृशानुखभावासिद्धः क्रमो विवक्षित इत्यवसेयम्॥ ७१॥
कोपं211 प्रभो! संहर संहरेति
यावद् गिरः खे मरुतांचरन्ति।
तावत् स वह्निर्भवनेत्रजन्मा
भस्मावशोषं मदनं चकार॥ ५२॥
(प्रकाशिका)
तत्फलमाह —
कोपमिति212। संहर प्रार्थने लोट।सम्भ्रमे द्विर्वचनम्। मरुतां कामं नियुज्य प्रतिपालयताम्। यावच्चरन्तीति लटो निर्वाहोरघुवंश्यप्रकाशिकायां ‘यावदादिशति’ (स.११.श्लो.३) इत्यत्र दर्शितः। तत्समकालमेव स दग्ध इत्यर्थः। भवनेत्रजन्मेति तत्समर्थत्वद्योत्यते। अनेन परमेश्वरप्रतिकूलस्य देवानाघुद्यमस्य भङ्गाे दर्शितः॥७२॥
(विवरणम्)
कृशानुनिष्पतनस्थ फलमाह—
कोपमिति प्रभो! त्वं कोपं संहर संहर इति मरुतां गिरः यावत् खे चरन्ति तावद् भवनेत्रजन्मा वह्निमदनं भस्मावशेषं चकार। प्रभो! हे त्रैलोक्याधिपते !। हरप्रभावदर्शनेन सञ्जातपरमार्थबोधानामत एव विगलिता-
भिमानानां देवानामियमुक्तिः। संहरेति प्रार्थनायां लोट्। द्विर्वचनं तु सम्भ्रम॑ प्रतिपादयति। इतिशब्दः प्रकारवाची। मरुतां कामं नियुज्य निजमनीषितलभदर्शनार्थं हरसमीपेवर्तमानानां देवानाम्। गिरः वाचः यावद् यस्मिन् कालेखे आकाशे चरन्ति। अत्र लट्प्रयोगस्यायं निर्वाहः ‘तदादौच’ इति भोजसूत्रन्। तप्य चायं वृतिग्रन्थः—तदादौचोपपदे भूतार्थेलड् भवतीति। वृतौचायमेव श्लोक उदाहरणस्वेन दर्शितः, “अथाहं वर्णी—(स.५.श्लो.६५) इति च। माधवस्त्वेवमाह—यावतावच्छब्दौक्रिययोस्तुल्यकालता- माहतुः। गिरां चरणे वर्तमाने सति वह्निःकाममदहदित्यर्थः। नहि मरुतां वचनेषुचारसु वह्निकाममरहदिति प्रयोगे केऽपि दोष इति। वाक्प्रचारसमकालमेव मदनाे दग्धोऽभूदित्यर्थः। भवनेत्रजन्मा भवस्य शम्मोर्नेत्राज्जन्म यस्य सः। वह्निःमदनं भस्मवशेषं भस्मैवावशेषम् अवशिष्टं यस्य तथाविधम्। चकार कृतवान्। अत्र भवनेत्रजन्मेत्यनेन दहनसामर्थ्य द्योत्यते। देवानां परमेश्वरप्रतिकूलः समुद्यमोऽपि भग्नोऽभूदिति अनेनैव श्लोकेन दर्शितः। पुनश्च भग्नमदैर्देवैः सेनानीप्रसूत्यैभगवानभ्यर्थितोऽभूदित्यवसेयम्। अत एवं षष्ठेसर्गे हर एव वक्ष्यति—
“सोऽदं तृष्णातुरैर्वृष्टिंविद्युत्वानिव चातकैः।
अरिविप्रकृतैर्देवैःप्रसूतिं प्रति याचितः॥” (श्लो. २७)
** इति॥७२॥**
तीव्राभिषङ्गप्रभवेण वृत्तिं
मोहेन संस्तम्भयतेन्द्रियाणाम्।
अज्ञातभर्तृव्यसना मुहूर्तं
कृतोपकारेव रतिर्बभुव॥७३॥
(प्रकशिका)
अथ ‘रौद्रात्तुकरुणो रसः इति न्यायेन देवगतस्य तथाविधस्य रौद्रस्यकार्यत्वेनोत्तरसर्गे वर्णयिष्यमाणं करुणमुपक्षिपति—
तीव्रेति। अभिषङ्गो दुःखम्। मोहोऽत्रप्रलयःसात्त्विको भावः करुणव्यभिचारी। स च नष्टसंज्ञत्वम्। व्यसनं विपत्। मोहेन कृतोपकारेवेत्यन्वयः॥७३॥
(विवरणम्)
अथ परमेश्वरगतरय तत्तादृशस्य रौद्ररसस्य ‘रौद्रात् तुकरुणोरसःहति न्यायेन कार्यभूतयुत्तरसर्गेवर्णयिष्यमाणं करुणमुपक्षिपति—
तीव्रेति। रतिः मुहूर्तं मोहेन कृतोपकारा बभूव इव। रतिः कामभार्या। मुहूर्तं कञ्चित्कालमित्यर्थः। माेहेन करुणव्यभिचारिणा प्रलयाख्येन सात्तिकेन भावेन कर्त्रा।
“स्तम्भप्रलयरोमाञ्चाः स्वेदोवैवर्ण्यवेपथू।
अश्रु वैखर्यमित्यष्टौस्तम्भोऽस्मिन्निष्क्रियाङ्गता॥
प्रलयो नष्टसंज्ञत्वं शेषाः स्युर्व्यक्तलक्षणाः।”’(प्रकाशः ४. श्लो.५,३)
इति दशरूपके। कृतोपकारा कृत उपकारो यस्याः तथाविधा बभूवेव। मोहस्य कारणमाह—तीव्राभिषङ्गप्रभवेणेति। तीव्रो दुस्सहः अभिषङ्गो दुःखम्। अभिषङ्गस्तु कथ्यते। आक्रोशशापाभिभवसङ्गेष्वाह तु सज्जनः। दुःखे पराभवे त्वाह सिंह’इति केशवः। तस्मात् प्रभव उद्भवो यस्य तेन। मोहस्य स्वरूपमाह—इन्द्रियाणां सान्तःकरणनां चक्षुरादीनां वृत्तिस्वस्वविषयव्यापारम्। संस्तम्भयता सम्यक्स्तम्भयता। अत एवाज्ञातभर्तृव्यसना अज्ञातमनवगतं भर्तुः कान्तस्य व्यसनं विपत्तिर्यया या सा तथा। अयमेव कृतोपकारत्वोत्प्रेक्षायांहेतु॥७३॥
तमाशु विघ्नंतपसस्तपस्वी
वनस्पति वज्रंइवावरुज्य।213
स्त्रीसन्निकर्षं परिहर्तुमिच्छ-
न्नन्तर्दधे भूतपतिः सभूतः॥७४॥
(प्रकाशिका)
अथ दाह्यभावात् प्रशान्तरोषस्य देवस्य पुनरपि शन्ते विश्रान्तिमाह—
तमिति। आशु इति शान्तस्यादरविच्छेदः प्रकाश्यते। तत्र हेतुः— तपस्वीति। नित्ययोगे मतुप्। तथाच पुराणेषु श्रूयते देवः। वज्रोऽशनिः। उपमानेन तत्स्वभावत्वं द्योत्यते स्त्रीसन्निकर्षं परिहर्तुम् “अङ्गारसदृ214शीनारी घृतकुंभसमः पुमानि,ति न्यायेन देवीप्रत्यासत्तिजं स्वचित्तविकारं देव्यावैलक्ष्यविषादादेः कामपत्न्याः शोकस्य चानुसन्धानं च परिहर्तुमित्यर्थंः। अन्तर्दधे अन्तर्धोनेन तदृेशवासमजहात्।215 सभूतः सः गणः। एतत् सर्वपरिच्छेदोषलक्षणं.216 सर्वस्यापि स्वेच्छापरिकल्पितत्वात्॥७४॥
(विवरणम्)
अथ मदने दग्धे दाह्यस्यान्यस्याभावात् स्वयमेव शान्ते रोषेदेवस्य पुनरपि प्रकृते शान्ते विश्रान्तिमाह —
तमिति। भूतपतिः तपसः विंघ्नं तंवज्रःवनस्पतिमिव आशु अवरुज्य स्लीसन्रिकर्षपरिहर्तुमिच्छन् सभूतोऽन्तर्दधे।भूतानां पतिः भूतपति। भूतेशः खण्डपरशुः’ इत्यमरः। तपसः विघ्नंशरीरमवलम्ब्यावस्थितं तपोविघ्नम्। तं कामदेवम्। वज्रोऽशानिः। ह्रादिनी वज्रमस्त्रीस्यात् कुलिशम्’ इत्यमरः। वनस्पति वृक्षमिव। अनेनोपमानेन आशुशब्दोक्तमर्थमनुस्मारयाति।
आशु शीघ्रम्। अनेन शान्तरसस्यादूराविच्छेदः प्रकाश्यते। अवरुज्य अवभज्य।स्त्रियाः सन्निकर्षंस्त्रीसन्निकर्षः तम्। परिहर्तुं हातुम् इच्छन्। ‘अङ्गारसदृशी नारी घृतकुम्भसमः पुमान्’इति न्यायेन देवीसन्निकर्षेण ममावश्यं चित्तविकारो भविष्यति, देव्या वैलक्ष्यविषादादिदर्शनेन कामपत्न्याः शोकानुसन्धानदर्शनेन च तपसो महान् विघ्नो भविष्यतीत्याशङ्क्येत्यर्थ। सभूतः भूतगणसहितः सन् अन्तर्दधे तिरोऽधात्। तद्देशावासमजहादित्यर्थः। अत्र भूतशब्दः सर्वपरिच्छदानामुपरक्षणम्। तेषामपि स्वेच्छमात्रपरिकल्पितवादिच्छाभावे तिरोधानम्। एवम्भूतं तपोविघ्नंसद्य एवविनाश्य तत्क्षणमेव शान्तरसावलम्बने हेतुमाह—तपस्वीति। नित्ययोगे मतुप्। पुराणप्रसिद्धश्चायमर्थः ‘शिवो योगरतः शश्वद्’ इत्यादि॥७४॥
शैलात्मजापि पितुरुच्छिरसोऽभिलाषं
व्यर्थंसमी217क्ष्य ललितं वपुरात्मनश्च।
सख्योः समक्षमिति चाधिकजातलज्जा
शून्या जगाम भवनाभिमुखी कथाञ्चित्॥७५॥
(प्रकाशिका)
अथनायिकाया वृत्तान्तमपि तावदुपसंहराति—
शैलात्मजेति218।अपीति, न केवलं देवः। पितुरिति, न तथा(त्मा) भिलाषभङ्गइति भावः। अत्र हेतुः—उच्छिरसंः219अभिमानिनः अभिलाषंदेवोपावर्तनविषयम्। ललितं वपुरिति, व्यर्थमित्यनुषङ्गः। समक्षम् अक्ष्णोः समीपे। ‘अव्ययं—’ (२, १, ६) इत्यादिना समासः। ‘तृतीया—’ (२, ४. ८४) इत्यादिना अम्भावः। इतिशब्दः सखीसाक्षात्कारस्य लज्जाधिक्ये हेतुत्वद्योतकः। शून्येति, चेतसः शून्यत्वंचिन्ताया अनुभावः। चिन्तालज्जे चानिष्टोपारम्भजस्य शोकस्य व्यभिचारिण्यौ, स च पूर्वानुरागस्य। कथञ्चिदिति लज्जाकार्यम्॥७५॥
(विवरणम्)
नायिकायाः शुश्रूषावृत्तान्तमप्युपसंहरति—
शैलात्मजेति। शैलात्मजा अपि उच्छिरसः पितुः अभिलाषमात्मनो लसितं वपुश्च व्यर्थं समीक्ष्य कथञ्चिद् भवनाभिमुखी जगाम। शैलात्मजा पावती। न केवलं देवस्तद्देशवासमजहाद् अपितु शैलात्मजापीत्यपिशब्दार्थः। उच्छिरसो मानिनः। अनेनाभिलाषभङ्गस्यात्यन्तदुःसहत्वमुक्तम्। अत एव पितुरभिलाषमित्युक्तंन पुनरात्मनोऽभिलाषमिति। पितुरभिटाषश्च देवोपावर्तनविषय एव। आत्मनो ललितं सुन्दरं वपुः शरीरं च व्यर्थं निरुपयोगं समीक्ष्य सम्यगवधार्य। कथञ्चित् कृच्छ्रेण। एतच्च लज्जाया अनुभावः। भवनाभिमुखी भवनं प्रत्यभिमुखी जगाम। भवनमभिमुखीकृत्य प्रतस्थ इत्यर्थः। विशेषतोऽपि लञ्जाया आधिक्यमाह—सख्योः समक्षमिति अधिकजातलज्जा चेति। सख्योर्विजयामालिन्योः। समक्षम् अक्ष्णोः समीपे। प्रत्यक्षमित्यर्थः। ‘अव्ययं विभक्ति—’(२.१.६) इत्यादिना समासः। ‘तृतीयासप्तम्योर्बहुलम्’ (२.४.८४) इत्यम्भावः। इतिशब्दः सखीसाक्षात्कारस्य लज्जाधिक्ये हेतुत्वं द्योतयति। अधिकजातलज्जाअत्यन्तजाता लज्जा यस्याः सा तथोक्ता। सौभाग्यभङ्गस्यान्यदर्शनमेवात्यन्तलज्जावहं, किं पुनः सखीदर्शनमिति भावः। इत्यमभिप्रवृद्धस्यमनोरथस्यात्यन्तभङ्गे जाते सति सञ्जातायाधश्चिन्ताया अनुभावमाद—शून्येति। शून्यहृदयेत्यर्थंः। आत्मानमप्यजानानेति भावः। अत्र शोकः पूर्वानुरागहेतुकः, चिन्तालज्जे च शोकस्य व्यभिचारिण्यौ। एतच्च सर्वं पश्चमसर्गादौदेवीवृत्तान्तप्रस्तावे स्फुटीकरिष्यति॥७५॥
सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या
दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्याम्।
सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां
प्रतिपथगतिरासीद् वेगदीर्घीकृताभ्रः220॥७६॥
(प्रकाशिका)
अत्र देव्याः221 शोच्यतां परिहरति—
सपदीति। सपद्यादायेत्यन्वयः। संरम्भः क्रोधः। मुकुलिताक्षीं ‘बहुव्रीहौसक्थ्यक्षणोः—’ (५.४.११३) इति षच्। ‘षिद्गौरादिभ्यश्च’ (४.१.४१) इति ङीष्।दुहितरमिति निसर्गवात्सल्यम्। अनुकम्प्यापिति तदवस्थोचितम्। दोर्भ्यामादायेत्यनुभावः। उपमानेनानुरूपता द्योत्यते। पन्थानं प्रतिगता प्रतिपथा। ‘अत्यादयः क्रान्ता—’ (वा० २.२.१८) इत्यादिना समासः। ‘ऋक्पूरब्धूः—’(५.४.७४) इत्यादिना समासान्तः। येनागतस्तनैव222पथा गतवानित्यार्थः। अत्र प्रतिपथं वेगेन गमनं हिमवतोवैलक्ष्यद्योतकम्। अत्र दीर्घीकरणं महाबलत्वमहावर्ष्मत्वयोः। अत्रैतत्पर्यन्त इतिवृत्ते देवस्य दाक्षायणीविषयाया रतेस्तद्देहत्यागात् करुणेन विच्छेदः। तस्य223च नैसर्गिकतत्त्व224ज्ञानपरिपोषितेन निर्वेदात्मना शान्तेन प्रशमः। पुनश्च देहान्तरं गताया देव्यास्तदुद्दीपनसेवाकृ225तिदर्शनोदिताया वासनास्थितायाः प्राक्तन्या रतेः ‘प्रणयिप्रियत्वात्’ (श्लो, ६६) इति दर्शितदाक्षिण्यात्मना दयावीरेण शान्तं व्यवधाय ‘हरस्तु किञ्चित्’ (श्लो.६७) इत्यादिना किञ्चिदाविर्भावमुपगतायाः प्रवलवासनाव्यभि226चारिण्या ‘अथेन्द्रियक्षोभम्’ (श्लो, ६९) इत्यादिना दर्शितया मत्याभिभवः। तस्याश्च स्मरविषयेण रौद्रेणाभिभवः। तस्मिंश्च दाह्याभावात् प्रशान्ते ‘तमाशुविघ्नम्’ (श्लो. ७४) इत्यादिना पुनः शान्ते विश्रान्तिरित्यजसेयम्॥७६॥
इत्यरुणगिरिनाथविरचितायां कुमारसम्भवप्रकाशिकायां
तृतीयः सर्गः।
(विवरणम्)
अथ पुत्र्यास्तादृशी दशामवरलोकयतो भग्नमनोरथस्य हिमदतस्तत्कालोचितां प्रवृत्तिं दर्शयते—
सपदीति। अद्रिःदोर्भ्यां दुहितरं सपदि आदाय प्रतिपथगतिः आसीत्। अद्रिः हिमवान् दोर्भ्या स्वहस्ताभ्यां दुहितरं पुत्रीम्। अनेन निसर्गवात्सल्यास्पदत्वमुक्तम्। एतच्च सपद्यादानप्रयोजकम्। दोर्भ्यामादानं वात्सल्यस्यानुभावः। प्रतिपथगतिः पन्थानं प्रतिगता प्रतिपथा। ‘अत्यादयः क्रान्ताद्यर्थेद्वितीयया’ इति समासः। ‘ऋक्पूरब्धू—‘इत्यादिना समासान्तः। प्रतिपथागतिर्यस्य स प्रतिपथगतिः। येन पथा पूर्वमागतस्तेनैव गतवानित्यर्थः। एतच्च वेगेन प्रतिपथगमनं वैलक्ष्यद्योतकम्। अत्रोपमामाह—सुरगजः पद्मिनीं दन्तभ्यांबिभ्रदिवेति। सुरगज ऐरावतः पद्मिनीं पद्मम्। दन्तलग्नां दन्तयोर्लग्नां सतीम्। बिभ्रद् दधानः सन्निव। यथा सुरगजः पद्मिनीं दन्ताभ्यां बिभ्रद् यथागतं गच्छति, तथा हिमवान् पुत्रीं दोर्भ्यामादायेत्यर्थः। अनेनोपमानेनानुरूपता द्योत्यते। देव्याः पारवश्यमाह—रुद्रसंरम्भभीत्या मुकुलिताक्षीमिति। रद्रस्य संरम्भो रुद्रसरम्भः। संरम्भः क्रोधः। संरम्भौक्रोधसम्भ्रमौ’ इति भोजः। तस्माद् भीत्याभयेन हतुना। मुकुलिताक्षीं मुकुलिते निमीलिते अक्षिणी नेत्रे यस्याः सा तथा। ‘बहुव्रीहौसक्थ्यक्ष्णोः स्वाङ्गात् षच्’‘षिद्गारादिभ्यश्च’ इति ङीष्। पद्मिन्यपि जलाशयादुद्धृता मुकुलिता भवति। देव्यास्तादृशलालनयोग्यत्वमाह—अनुकम्प्यामिति। दयनीयाम्।गमनप्रकारमाह—वेगदीर्घीकृताभ्रइति। वेगेन सत्वरप्रयाणजेन दीर्घीकृतमभ्रंमेघोयेन स तथा। अभ्युन्नताङ्गसङ्घट्टनाद् दीर्घीकृतगगनासक्तमेघमण्डल इत्यर्थः। एतच्च विशेषणं सुरगजेऽपि योजनीयम्। अनन विशेषणेन महाबलत्वं महाशरीरत्वंच द्योत्यते। अत्र देवगता दाक्षायणीविषया या रतिस्तद्देहत्यागेन करुणेन विच्छिन्ना तत्त्व-
ज्ञानोपबृंहिता शान्तरसे विश्रान्तिमुपयाता, सैवात्र देहान्तरमवलम्ब्योपगताया देव्या दर्शनादिभिः समुन्मिषिता। ‘हरस्तु किञ्चित् परिवृत्तधैर्य’ इत्यादिना तदुन्मेषो दर्शितश्च। ततः सापि चिरकालपरिचितेन शान्तेनाभिभूता। अथेन्द्रियक्षोभम्’ इत्यादिनातदभिभवावस्यैव दर्शिता च। पुनश्च तस्यापि रौद्ररसेनाभिभवः। तस्य तु मदने दग्धे दाह्याभावात् पुनरपि शान्ते विश्रान्तिः। ‘तमाशुविघ्नं तपस’ इत्यादिना तस्य शान्ते विश्रान्तिर्दर्शिता च। पुनश्च देव्यास्तपश्चरणानन्तरं प्राचीना रतिरेवोन्मेषमुपयास्यतीत्यवसेयम्॥७६॥
‘श्रीमासोत्सवचम्पु’काव्यरचनादक्षस्य नारायण-
क्ष्मादेवस्य कृतौगिरीशगिरिजाभक्तिप्रवृद्धोदये।
व्याख्यानेऽत्र कुमारसम्भवपदार्थालोचनप्रक्रिया-
निष्णाते स्म तृतीय एति विरतिं सर्गोनिसर्गोज्ज्वलः॥
इति श्रीकृष्णशिष्यस्य नारायणस्य कृतौ
कुमारसम्भवविवरणे
तृतीयः सर्गः।
अथ चतुर्थःसर्गः।
———
अथ मोहपरायणा सती
विवशा कामवधूर्विवोधिता।
विधिना प्रतिपादयिष्यता
नववैधव्यमसह्यवेदनम्॥१॥
(प्रकाशिका)
अथोपक्षिप्तं करणं वर्णयति। स च प्रतिपक्षगतत्वेन नायकोत्कर्षावह इति प्रसिद्धम्।
अथेति। अथशब्दः प्रकरणान्तरोपक्रमे।परायणं परमाश्रयः। ‘परायणमभिप्रेते तत्परे परमाश्रय’ इति यादवः।सती भवन्ती। अनेन मोदस्येष्टत्वं गम्यते227। विवशा विबोधितेति विबोधनस्पा228निष्टत्वम्। नवत्वमसह्यत्वे हेतुः। प्रतिपादयिष्यतेति एवं साध्यवसायस्य विधेरनिच्छन्त्यामेव तस्यां विबोधनं घटत एवेति भावः॥१॥
(विवरणम्)
अथ पूर्वसर्गापक्षिप्तः प्रतिपक्षगतत्वेन नायकोत्कर्षप्रतिपाद्(न?)कः करुणरसश्चतुर्थेनानेन सर्गेण वण्येते। तत्र हरे तिरोहिते गतायां च देव्यां कामदहनप्रस्तावमोहमुपगता रतिः किमकरोदित्या- काङ्क्षायामाह—
अथेति। अथ मोहपरायणा सती कामवधूःविधिना विबोधिता। अथशब्दः प्रकरणान्तरोपक्रमे वर्तते। मोहपरायणा मोह एव परायणं परमाश्रयो यस्याः सा तथा। ‘परायणमभिप्रेते तत्परे परमाश्रये’इति यादवः।
मोहैकशरणेयर्थः। सती भवन्ती। अनेन मोदस्येष्टत्वं प्रतिपादितम्। कामवधूः कामस्य वधूर्भार्यारतिः। विधिना दैवेन। विबोधिता बोधं प्रापिता।
दैववशादुपलब्धचेतनाभूदित्यर्थः। अनेन प्रबोधनस्यानिष्टत्वमुक्तम्। तर्हि किमर्थमसौ निजानभिमतं प्रबोधमुररीचकार। अत आह—विवशेति। परवशा229विधिपराधीनेत्यर्थः। तर्हिकिं विधिरनिच्छन्यैतस्यैबोधं विततारेत्यत्राह—असह्यवेदनं नववैधव्यं प्रतिपादयिष्यता। नवमभिनवं वैधव्यम्। नव(म ? त्वम)सह्यवेदनत्वे हेतुः। गते हि काले वेदना सह्या भवति। प्रतिपादयिष्यतेति। लृटःशत्रादेशः। ‘विश्राणनं वितरणं स्पर्शनं प्रतिपादनमि’त्यमरः। दातुमारब्धेनेत्यर्थः। इत्थं साध्यवसायस्य विधेस्तस्या अनिष्टस्यापि बोधस्य विधानं कर्तव्यमेवेत्यर्थः॥१॥
अवधानपरे चकार सा
प्रलयान्तोन्मिषिते विलोचने।
न विवेद तयोरतृप्तयोः
प्रियमत्यन्तविलुप्तदर्शनम्॥२॥
(प्रकाशिका)
विबोधनस्य कार्यमाह—
अवधानेति। अवधानपरे प्रियदर्शनं प्रत्यवहिते इत्यर्थः। प्रलयान्तोन्मिषितत्वाच्च तच्छेषानुत्त्या यत्नावधेयत्वम्। कथमत्यन्तास्तमितस्य दर्शनमित्याह—न विवेदेति। अनेन भर्गलोच230नाग्निनिर्गमनसमय एव मोहमुपगतेति गम्यते। अतृप्तयोर्दर्शनोत्सुकयोः। ‘तद्विपर्यासे च’ इति भोजसूत्रेण सप्तमी। तत्र च ‘क्रियार्हस्यकारकत्व’इति “क्रियानर्हस्यचाकारकत्व’ इति च सूत्रद्वयगतोऽर्थः तच्छब्देन परामृश्यते। अत्र च दर्शनार्हयोर्द्दशोः स्थितयोः दर्शनविलोपात् क्रियार्हस्याकारकत्वम्। अत्र प्रलयशेषानु- वृत्तिरौत्सुक्यस्य चोदयः॥२॥
(विवरणम्)
अथ विबोधस्य कार्यंदर्शयति—
अवधानेति। सा प्रलयान्तोन्मिषिते विलोचने अवधानपरे चकार। सा रतिः। प्रलयान्तोन्मिषिते। प्रलयो मोहः। ‘प्रलयो नष्टचेष्टते’त्यमरः। तस्यान्ते अवसाने उन्मिषिते कृतोन्मेषे। अनेन मोहशेषानुवृत्तिदर्शिता। अत एव विलोचनयोर्यत्नतः सावधानलविधानम्। विलोचने चक्षुषी। अवधाने सावधानत्वे परे तत्परे। प्रियदर्शनसावधाने इत्यर्थः। बोधनानन्तरं प्रियतममेव सावधानमवलोकितवतीति भावः। कथमत्यन्तास्तमितस्य प्रियस्य दर्शनोपपत्तिरत आह—प्रियंतयोः अतृप्तयोः अत्यन्तविलुप्तदर्शनं न विवेदेति। सेति तच्छब्दः पूर्वार्धगत एव कर्तृत्वेनात्राप्यतुषज्यते। प्रियं कान्तम्। तयोः विलोचनयोः। अतृप्तयोः, तृप्ते न भवत इत्यतृप्ते। दर्शनोत्सुकयोः सतोरेवेत्यर्थः। अत्र सप्तमीविधानाभावात् तत्र ‘तद्विपर्यासे चे’ति भोजसूत्रेण सप्तमी द्रष्टव्या। अस्य सूत्रस्यायमर्थः—‘क्रियार्हस्य कारकत्वे’ ‘क्रियानर्हस्य चाकारकत्वे’ इति च सूत्रद्वयेन या सप्तमी विहिता, सा तयोर्विपर्यासे च भवति। क्रियार्हस्याकारकत्वे क्रियानर्हस्यच कारकत्वे च भवतीत्यर्थः। अत्र दर्शनार्हयोर्दृशोःसतोरपि दर्शनविलोपात् क्रियार्हस्याकारकत्वम्। अत्यन्तविलुप्तदर्शनम्, अत्यन्तं विलुप्तं नष्टं दर्शनंयस्यतथाविधम्। न विवेद न ज्ञातवती। हरकोपानलोद्गमनसमय एव मोहमुपगतत्वादात्मकान्तं मृतं न विवेदेति भावः। अस्मिन् वाक्ये मोहशेषानुवृत्तिरौत्सुक्योदयश्च दर्शितः॥२॥
अयि जीवितनाथ ! जीवसी-
त्यभिधायोत्थितया तया पुरः।
ददृशेपुरुषाकृतिः231 क्षितौ
हरकोपानलभस्म केवलम्॥३॥
(प्रकाशिका)
अवधानस्यकार्यमाह—
अयीति। ‘अयि प्रश्ने सानुनय’ एति हलायुधः। पुरुषाकृतिरिति पाठः। तद्विशेषणं हरकोपानलभस्मेति। हरकोपानले232 भस्मीभूता। केवलमिति, न कश्चिदप्यभस्मीभूत233स्तदवयवस्तन्परिच्छदो वेत्यर्थः।एतद् विभावाद्बोधपरं234 वाक्यम्॥३॥
(विवरणम्)
विलोचनयोरवधानपरत्वविधानस्य फलमाह—
अयीति। जीवितनाथ! त्वं जीवसि अयीत्यभिधाय उत्थितयातया पुरः क्षितौपुरुषाकृतिः ददृशे। जीवितनाथ ! प्राणेश्वर! त्वं जीवसि।अयीति सानुनयप्रश्नविषयमव्ययम्। ‘अपि सानुतये प्रश्ने’ इति हलायुधः। जीवसि कच्चिदित्यर्थः। इत्यभिधाय उक्त्वाउत्थितया कृतोत्यानया।पुरुषाकृतिमात्रदर्शन जीवनसन्देहे हेतुः॥ अत एव सत्वरमुत्थानम्। तयारत्या। (पुरः) अग्रे क्षितौ भूमौपुरुषाकृतिः पुरुषस्याकृतिराकारः ददृशेदृष्टाभूत्। अयमभिप्रायः—हरकोपानलनिष्पतनानन्तरमेय मोहमुपगना रतिः ईषन्मोहविगमनानन्तरं प्रियशरीरसंस्थानं पूर्ववदेवावलोक्य सत्वरमुत्थाय तत्समीपमुपगम्य पुरस्तादेव पुरुषाकृतिं ददर्शेति। कीदृशी पुनः सा पुरुषाकृतिरित्यत्राह—केवलं हरकोपानटभस्मेति। केवलंतच्छरीरावयवेषु तत्परिच्छदेषु वा न कश्चिदंशस्तत्राभस्मसाद्भूतो दृष्टोऽभूदित्यर्थः। हरकोपानलभस्म। हरस्य कोपोहरकोपः हरकोपश्चासावनश्चेति हरकोपानलः तस्य भस्म। सम्यगवलोकनानन्तरं हरकोपानलभस्मैव दृष्टमभूदिति भावः। पुरुषाकृतीत्येव केचित् पठन्ति। तन्मते पुरुषाकृति हरकोपनलभस्म ददृशेइत्यन्वयः। अनेन श्लोकेन करुणस्य विभावोद्बोधो दर्शितः॥३॥
अथ सा पुनरेव विह्वला
वसुधालिङ्गनधूसरस्तनी।
विललाप विकीर्णमूर्धजा
समदुःखामिव कुर्वती स्थलीम्॥४॥
(प्रकाशिका)
अथ तद्विबोधाद्बोधितस्य करुणस्यानुभावव्यभिचारादिकं प्रपञ्चयति—
अथेति235। अथ अत्यान्यनाशावगमानन्त236रमित्यर्थः। अत एव237 पुनरेव238 विलापः। एव शब्दःपौनर्वचनिकः। विह्वलता चरलानिः।तस्या अनुभावो वसुधालिङ्गनं मूर्धजविकिरणं च। निर्दयसङ्गै (र्म?र्व)लनात्स्थल्यास्तथाकरणात्प्रेक्षा॥४॥
(विवरणम्)
भस्ममात्रावलोकनोद्बोधित यवरुणस्यानुभावव्यभिचार्यादेकंप्रपञ्चयति—
अथेति।अथ सा पुनः एवं विह्वला विललाप। (अथ) प्रियतमस्पात्यन्तिकविनाशावगमनानन्तरम्। सा रतिः। पुनरेव पुनरपीत्यर्थः। विह्वला परवशा सती। ग्लानिमुप्गम्येति भावः। विललाप परिदेवनमकरोत्। ‘विलापः परिदेवनमि’त्यमरः। आत्मनः शरीरावयवेष्वपि निर्दयत्वमाद—वसुधालिङ्गनधूसरस्तनीति। वसुधायाः भूमेःआलिङ्गनेन धूसरौधूसरवर्णौ स्तनौयस्याः सा तथा। अनेनपूर्वमुत्थितायाः परमार्थावगमनानन्तरमवनत शरीरतया भूमौपतनं द्योत्यते। इदं च ग्लानेरनुभावः। अनुभावान्तरमप्याह—विर्कीणमूर्धजेति। विकीर्णाः विक्षिप्ताः मूर्धजाःकेशा यस्याः सा तथा। इत्थंभूतव्यापारायास्तस्याउत्प्रेक्षां दर्शयति। स्थलीं समदुःखां कुर्वती-
वेति। स्थलींपृथिवीम्। समदुःखां समं समानं दुःखं यस्यास्तथाविधां कुर्वतीव। निर्दयं पृथिव्यां परिवर्तनादिभिः स्थल्यास्तथाकरणोत्प्रेक्षा239। पश्यतां पक्षिमृगवनचरादीनामपि दुःखोत्पादनाद्- वनस्थलीमप्यात्मसमानदुःखा कुर्वाणेवेत्यर्थः॥४॥
उपमानमभूद् विलासिनां
करणं यत् तवकान्तिमत्तया।
तदिदंगतमीदृशीं दशां
न च240 दीर्घेकठिनाःखलु स्त्रियः॥५॥
(प्रकाशिका)
विलापप्रकारानाह—
उपमानमिति। उपमानंनाम प्रXद्वतद्धर्मकं वस्तु।विलासिनाम्।
“धीरसञ्चारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता।
स्मितपूर्वमथालापो विलासइति कीर्तितः॥”
इनि विलासलक्षणम्। करणं गत्राप्। वस्त्वर्थे। खलुर्जिज्ञासायाम्। ‘निषेधवाक्यलङ्कारजिज्ञासानुनये खल्वि’ति सिंहः। अतः सर्वाः स्त्रियः कठिना इति ज्ञातव्यमित्यर्थः। अत्र निर्वेदः।उत्मादस्त्वेषु वाक्येषु भूयसा द्रष्टव्यः॥५॥
(विवरणम्)
विलापप्रकारानेव प्रपञ्चयतिउपमानमित्यादिभिः—
उपमानमिति। तव यत् करणं कान्तिमतया विलासिनाम् उपमानम् अभूत्, तद् इदम् ईदृशीम्दशां गतम्, अहं च न दीर्ये। तव यत् करणं शरीरम्। ‘करणं साधकतम241क्षेत्रगात्रेन्द्रियेष्वपी’त्यमरः। कान्ति-
मत्तया। कान्तिरस्त्यस्मिन्निति कान्तिमत्। अतिशा242यने मतुप्। तस्य भावस्तत्ता। विलासिनाम्।
“धी243रसञ्चारिणी दृष्टिर्गतिर्गोवृषभाञ्चिता।
स्मितपूर्वमथालापो विलास इति कीर्तितः॥”
इति विलासलक्षणम्। ‘विलासो भूषणालापगतिकर्मसु चारुता’ इति च। तद्वतां पुरुषाणाम्। उपमीयतेऽनेनेत्युपमानम्। प्रसिद्धसाधर्म्यं वस्त्वित्यर्थः। कामस्य शरीरमिवास्य शरीरं चारुतरमित्यादिवचनेष्विति भावः। तदिदं शरीरमीदृशीं दशामवस्थाम्। भस्मसाद्भावमित्यार्थः। गतं प्राप्तमासीत्। तुशब्दार्थे चकारः244। दीर्य इति कर्मकर्तरि प्रयोगः। अहं तु न दीर्येविदारणं न गच्छामि। यतोऽहं तादृशे त्वयीदृशीं दशां गतेऽपि न दीर्ये, तत एवशङ्के इत्याह—स्त्रियःकठिनाः खल्विति। खलुशब्दो जिज्ञासायाम्। ‘निषेधवाक्यालङ्कारजिज्ञासानुनये खल्वि’त्यमरः। ततोऽहं स्त्रियःकठिना एवेति तर्कयामीत्यर्थः। स्त्रीत्वात्कठिनतैव मम विदारणाभावे हेतुरिति भावः। अनेन वाक्येनात्मनिर्वेदोदर्शितः। उन्मादस्त्वस्मिन् प्रकरणे प्रायेण द्रष्टव्यः॥५॥
क्व नु मां त्वदधीनजीविनां
विनिकीर्य क्षणभिन्नसौहृदः।
नलिनीं क्षतसेतुबन्धनो
जलसङ्घात् इवासि विद्रुतः॥६॥
(प्रकाशिका)
क्वेति। विनिकीर्यापास्य। उपमानेन गत्वरत्वं245द्योत्यते॥६॥
प्रणयिनींमां परित्यज्य क्वनुखलु गतोऽसीत्यनुगमनाकाङ्क्षया सोन्मादमाह—
क्वेति। त्वदधीनजीवितां मां विनिकीर्य क्व नु विद्रुतः असि। त्वदधीनजीवितां तवैवाधीनं जीवितं जीवनं यस्यासाम्। मत्प्राणनाथत्वं तवैवेति भावः। विनिकीर्य। ‘कृृ विक्षेप’ इति धातुः। अपात्येत्य’र्थः। क्वतु विद्रुतोऽसि कस्मिन् प्रदेशे विद्रुतवानसि। अत्रानुरूपामुपमां दर्शयति—जलसङ्घातः नलिनीमिवेति। जलस्य सङ्घातो जलसङ्घातः। सङ्घातः समूहः। नलिनीं पद्मिनीमिव। विनिकीर्येति अत्रापि योज्यम्। यथा जलसङ्घातः नलिनीमितस्ततो विक्षिप्य त्वरितं गच्छति, तद्वदित्यर्थः। प्रियतमस्य सत्वरगमने हेतुमाशङ्कते—क्षणभिन्नसौहृद इति। क्षणेन भिन्नं नष्टं सौहृदं बन्धुत्वंयस्य स तथा। स्नेहभङ्गाभावेहि जिगमिवायां सत्यामपि पुनः पुनरापृच्छ्यमन्दमेव गच्छति। जलसङ्घातस्य गमने हेतुमाह—क्षतसेतुबन्धनामिति। क्षतं भग्नं सेतोर्बन्धनं यस्यास्ताम्। अत्र सौहृदसेत्वोःपरस्परसाम्यं प्रतीयते। नलिन्या जीवितमपि जलसङ्घाताधीनम्। एकत्र सञ्चितोजलसङ्घातोऽपिसेतुभङ्गानन्तरं सत्वरं गच्छति, गमनानन्तरं च कुत्र गत इति न ज्ञायते॥६॥
कृतवानसि विप्रियं न मे
प्रतिकूलं न च ते मया कृतम्।
किमकारणमेव दर्शनं
विलपन्त्यैरतये न दीयते॥७॥
(प्रकाशिका)
अथवा न गतोऽसीत्याह—
कृतवानिति। उभयं ह्यमिलने हेतुरीति भावः।अत246आह—
अकारणमिति। रतय इति परत्वनिर्देशः स्ववाल्लभ्यादिद्योतकः। विलपन्त्यै इति, परिहासस्यापि नायमवसर इत्यर्थः। अनयोरुपालम्भ247नवाक्ययोरीर्ष्या॥७॥
(विवरणम्)
अथवा प्रणयिनींमां परित्यज्य गतोऽसीतियत्नया कथितं(तद्) युक्तमेव, अत्र विश्लेषमात्रेऽपि हेत्वभावादित्याह—
कृतवानिति।त्वं मे विप्रियंन कृतवान् असि। विप्रियमप्रियं कर्म कदाचिदपि न कृतवानसि। त्वया ममानिष्टं कर्मस्वप्नेऽपि ना चरितमित्यर्थः। तापि मया तवानिष्टं कर्मकृतमित्याह—मया ते प्रतिकूलं च न कृतमिति। प्रतिकूलमनिष्टम्। उभयमेव हि द्वन्द्वानां परस्परविश्लेषकारणमिति भावः। तस्मात् तयोर248प्येकस्याभावे त्वरितमेव दर्शनं दातव्यमित्याह—किमकारणमेव रतये दर्शनं न दीयत इति। किं कस्माद्वेतोः। अकारणं पूर्वोक्तेन कारणद्वयेन विनैवेत्यर्थः। रतय इति नामग्रहणेनात्मनः प्राचीनं प्रेमविषयत्वमनुस्मारयतीत्यर्थान्तरसङ्कमितवाच्यध्वनिः। दर्शन न दीयते दृष्टिगोचरोनभवसीत्यर्थः। ननु परिहासार्थमेवास्त्वित्यत्राह—विलपन्त्यैइति। विलापंकुर्वत्यै। पारहासस्यापि नायमवसर इति भावः॥७॥
स्मरसि स्मर ! मेखलागुणै-
रुत गोत्रस्खलितेषु बन्धनम्।
च्युतकेसरदृषितेक्षणा-
न्यवतंसोत्पलताडनानि वा॥८॥
(प्रकाशिका)
अथ कारणमाशङ्कते—
स्मरसीति। उत विकल्पे।च्युतेति विशेषणं गोत्रस्खलनकारिणि मुखे दण्ड इति द्योतनाय। अत्रोहः॥८॥
(विवरणम्)
इत्थं निरस्त्येऽपि गमते दशेनाभावात्पुनरपि गमनमेवाxवार्थ गमने हेतुमाशङ्कते—
स्मरसीति। स्मर ! त्वं गोत्रस्खलितेषु मेखलागुणैःबन्धनम् उत अवतंसोत्पलताडनानि वा स्मरसि। हे स्मर ! गोत्रस्खलितेषु गोत्रस्य नाम्नः स्खलितेषु स्खलनेषु। सपत्नीनामाक्षरग्रहणेष्वित्यर्थः।मेखलाभिरेव गुणैःपाशैः। उतशब्दोविकल्पे। ‘विकल्पे किं किमूत चे’त्यमरः। बन्धनं वेत्यर्थः। अवनंसोत्पलताडनानि अवतंसेन कर्णपुरेण उत्पलेन कुबलयेन यानि ताडनानि तानि वा स्मरसि। ‘पुंस्युत्तंसापतंसौद्वौकर्णपूरेऽपि शेखरे’इत्यमरः। यस्मादेवं दर्शनदानाभावः, तस्मात् तयोरन्यतरस्य स्मरणमाशङ्क इत्यर्थः। गोत्रस्खलनकारिणि मुख एव दण्ड इति द्योतयन्नवतंसोत्पलताडनानि विशिनष्टि— च्युतकेसरदूषितेक्षणानीति। च्युतैःपतितैःअवतंसोत्पलस्यकेसरैःदूषिते पीडिते ईक्षणे नेत्रे यैस्तानि। मुखे दि ताडनेकृते नेत्रयोरवतंसोत्पलकेसरदूषितत्वंभवतीति भावः। रहस्यन्यवधूनामाक्षरग्रहणेसति मया कृतयोरतादृशयोरपराधयोरन्यतरस्य स्मरणेनैव त्वमिदानीं मत्समीपं नोपयासीत्यूहः॥८॥
हृदये वससीतिमत्प्रियं
यदवोचस्तदवैमि कैतवम्।
उपचारपदं न चेदिदं
त्वमनङ्गःकथमक्षता रतिः॥९॥
(प्रकाशिका)
अथवा प्रागपि निःस्नेह एवासीत्याह
हृदय इति। कैतवं धूर्तालापम्। पदं वाक्यम्। अत्रोहपुरस्सरेर्ष्या॥९॥
(विवरणम्)
अथवा हेतुसद्भावे एव द्वन्द्वानां परस्परविश्लेषइति यदुक्तं, तत् स्निग्धानामेव। त्वंतु पूर्वमपिमयि निःस्नेह एवेत्याह—
हृदय इति। त्वं हृदये वससीति मत्प्रियं यदवोचः, तदहं कैतवम् अवैमि। हे रते ! त्वंमेहृदये वससि मनसि स्थितिं करोषिइत्येवरूपं मत्प्रियं मम प्रियमिष्टं यदवोचः अब्रवीः, तदहं कैतवं धूर्तालापमेवावैमि अवगच्छामि। कथमवगच्छसीत्यत्राह—इदमुपचारपदं न चेत्, त्वमनङ्गः रतिः अक्षता कथम्। इदं हृदये वससीत्यादिरूपं वचनम्। उपचारपदमुपचारवाक्यम्। पदशब्दस्यात्र वा(क्या?क्यम्)र्थः। ‘न पदं पदमित्याहुर्वाक्यं हि पदमुच्यते’ इति न्यायात्। उपचारः सम्मानं,सम्मानवाक्यमित्यर्थः।न चेत् तर्हित्वमनङ्गः अशरीरोऽभूः, रतिः पुनरक्षता क्षनरहिता जाता, इदं (कथं, न)कथञ्चिदिव्यर्थः। अयमभिप्रायः—यद्यहे ते हृदयेवसामि तर्हि त्वयि भस्मसाद्भूतेऽपि मम क्षतमात्रेणापि रहितत्वंनोपपद्यते। तसान्मत्प्रसादार्थं प्रयुक्तमेव ते तादृशं वचनामिति अत्रोहस्तत्पुरस्परेर्ष्या च द्योत्यते॥९॥
परलोकनवप्रवासिनः
प्रतिपत्स्येपदवीमहं नव।
विधिना जन एषवञ्चित-
स्त्वदधीनं खलु देहिनां सुखम्॥१०॥
(प्रकाशिका)
सस्नेहया त्वया किं कृतमित्याह
परलोकेति। नवशब्दः पदव्यन्वेषणसौकर्यार्थः।तदानीमेव किं नागतासीत्याह—विधिनेति। मोहं विदधतेति शेष। भोगसाधनेषु
xxx किंतवास्मदनुगमनेनेत्याह—त्वदधीनमिति। खलुर्वाक्यालङ्कारे। देहिनां, न249केवलं ममैकस्याः। अत्रमरणव्यवसायोमरणम्॥१०॥
(विवरणम्)
अस्त्वहं निःस्नेहः , सस्नेहा त्वंतु किं करिष्पसीत्यत्राह—
परलोकेति। अहं परलोकनवप्रवासिनः तव पदवीं प्रतिपत्स्ये। परलोकनवप्रवासिनः परलोकमुद्दिश्यं नवं यथा भवति तथा प्रवासं कर्तुंशीलमस्येति तथा। प्रवासो देशान्तरगमनम्। एतस्माल्लोकात् सद्य एव परलोकं गतस्येत्यर्थः। चिरप्रवासिनो हि पदवीदुरवबोधा स्यात्,नवप्रवासिनस्तु पथिकजनानुयोगादिभिः सुबोधेति नवशब्दस्य ग्रहणम्। पदवीं मार्गं प्रतिपत्स्ये प्रप्स्यामि। मृतं त्वामनुमरिव्यामि सद्यएवेत्यर्थः। तर्हि त्वं तदानीं किं नमृतासीत्यत्राह—एषजनो विधिना वञ्चितइति। एवजनः अहमित्यार्थः। विधिना दैवेन वञ्चितः कृतवञ्चनोजातः। तदानीं मेमोहं विदधतेति शेवः। ननु सुखसाधनेष्वन्नपानादिषु सत्पुकिं तवानेन मरणध्यवसायेनेत्यत्राह—दहिनां सुखं त्वदधीनंखलुइति। देहितां शरीरिणां सुखं त्वदधीनं त्वदायत्तम। खलुशब्दः प्रसिद्धौ।न केवलं त्वदधीनजीविताया ममैव, अपितु सर्वेवामपि सुखंत्वदधीनमिति प्रसिद्धमेवेत्यर्थः। अत्रमरणाख्यो व्यभिचारी। मरणंतु मरणव्यवसाय एवेति दशरूपके॥१०॥
रजनीतिमिरावगुण्ठिते
पुरमार्गे घनशब्दविक्लबाः।
वसतिं प्रिय ! कामिनां प्रिया-
स्त्वदृते प्रापयितुं क ईश्वरः॥११॥
(प्रकाशिका)
सुखस्य तदधीनत्वमुपपादयति—
रजनीति। प्रियेति250 पदच्छेदः॥११॥
(विवरणम्)
अथ सुखस्य तदधीनत्वमुपपादयन्ती तत्पराक्रमाननन्यसाध्याननुस्मृत्य विलपति रजनीत्यादिना श्लोकद्वयेन—
रजनीति। प्रिय ! त्वदृतेकः पुरमांर्गे रजनीतिमिरावगुण्ठिते प्रियाः कामिनां वसतिं प्रापयितुम् ईश्वरः। प्रिय ! हे कान्त !। अनया सम्बुद्ध्यात्वया विना कथमहं जीवामीति व्यज्यते। त्वदृते त्वां विना। कः न कोऽपीत्यर्थः। पुरमार्गे पुरे यो मार्गस्तस्मिन् रजनीतिमिरावगुण्ठिते। रजन्यां रात्रौयानि तिमिराणि तमांसि तैरवगुण्ठिते आवृते सति। अनेनाभिसारिकावृत्तस्यावसरः कामपीडाविरदितानां दुर्गमत्वं च द्योत्यते। प्रियाः कामिनीः कामिनां प्रियाणां वसतिं गृहंप्रापयितुंनेतुम्। अस्यगत्यार्थण्यन्तत्वाद द्विकर्मकत्वमात्रं। ईश्वरः समर्थोभवति। त्वमेवसमर्थ इत्यर्थः।न केवलं पुरमार्गस्य तिमिरावृतत्वमात्रं भयजनकम्, अन्यदपीत्याह—घनशब्दविक्लवाइति। घनस्य मेघस्य शब्देन विक्लवाःपरवशाः।घनागम251नसमयेनिरस्तमाना इति च व्यज्यते। तिमिरावृतत्वाद्भयजनकेषुपुरमार्गेषु भषजनकेषु252घनशब्देषु श्रूयमाणेषुच कामिनीनां कामुकरगृहप्राप्तौ त्वत्सामर्थ्यमेकमेव निमित्तमिति भावः॥११॥
नयनान्यरुणानि घूर्णयन्
वचनानि स्खलयन् पदे पदे।
असतित्वयिवारुणीसदः
प्रमदानागधुना विडम्बना॥१२॥
(प्रकाशिका)
नयनानीति। अधुना इत आरभ्य। विडम्बना हास्यावलम्बनम्। भावशून्यत्वादित्यर्थ। अनयोः पद्ययोस्तत्पराक्रमस्मृतिः॥१२॥
(विवरणम्)
ननु वारुणीमद एवप्रियाःप्रियवसतिंप्रापयिष्यति, किं मयेत्यत्राह—
नयनानीति। त्वयि असति वारुणीमदः प्रमदानाम् अधुना विडम्बना। त्वयि असति अत्यन्तास्तमिते सति। वारुणीमदः। वारुणी मद्यं, तज्जनितो मदः। ‘सम्मोहानन्दसम्भेदोमदिरादिकृतोमद’ इति मदलक्षणम्। प्रमदानां स्त्रीणां विडम्बना हासकारणं, भावशून्यत्वादिति भावः। मदिरामदस्वभावकथनेन हासकारणत्वमेवाभिव्यनक्ति—नयनानीत्यादिना विशेषणद्वयेन। तत्र मदिरापानानन्तरमेव जायमानं स्वभावप्रादौवर्णयति—अरुणानि नयनानि घूर्णयन्निति। अरुणानि मद्यपानेन जनितरागाणि नयनाति विलोचनानि घूर्णयन् भ्रामयन्। अथ तदनन्तरं जायमानं स्वभावमाह—पदे पदे वचनानि स्खलयन्निति। पदे पदे प्रतिपदं वचनानिवाक्यानि स्खलयन्स्खलितानि कुर्वन्। मदिरमदो हि प्रथमंनयपरदयातितःतनातनोति, पुनश्च स्खलितपदानि वचनानि जनयति। नहि तयोरुभयोरपि भावशून्यत्वेतद्दर्शिनां हासादन्यत् किमपि सम्भवतीति भावः॥१२॥
अवगस्य कथीकृतं वपुः
प्रियबन्धोस्तयनिष्फलोदयः।
बहुलेऽपि गते निशाकर-
स्तनुतां दुःखप्रसङ्ग ! मोक्ष्यति॥१३॥
(प्रकाशिका)
विशेषतः त्वत्सुहृदःशोच्याःसंवृत्ता इत्याह—
अवगम्येति। कथीकृतमिति कथा253वशेषीकृतम्। बहुले कृष्णपक्षे। दुःखं कृच्छ्रात्। अत्रोहः॥१३॥
(विवरणम्)
हन्त तव बन्धवोऽपि सम्प्रति शोचनीयाः संवृता इत्याह—
अवगम्येति। अनङ्ग ! निशाकरः तव वपुः कथीकृतम् अवगम्य बहुले गते अपि दुःखं तनुतां मोक्ष्यति। हे अनङ्ग !, इदानीं त्वमेवं संवृत्त इत्यर्थः। निशाकरः चन्द्रः तव वपुः शरीरम्। कथीकृतम्। कथाशब्दादभूततद्भावे च्विप्रत्ययः। कथावशेषीकृतमित्यर्थः। अत एवानङ्गेति सम्बुद्धिरुक्ता। अवगम्य ज्ञात्वा। बहुले कृष्णपक्षे। ‘बहुलः कृष्णपक्षेऽपी’ति भोजः। गते अतीतेऽपि। अपिशब्दः कृष्णपक्षालत्यये तनुतापरित्यागाभावस्य विरोधमाह। दुःखं कृच्छात् तनुतां कार्श्यम्। ‘स्त्रियां तनुः शरीरे स्यात् कृशे भद्रे तनुस्त्रिष्वि’ति नानार्थकोशः।मोक्ष्यति त्यक्ष्यति त्वद्विनाशजनिताद् दुःखात् प्रक्षीणशरीरश्चन्द्रः पुर्वपक्षेऽपि कृच्छ्रेणैव शरीरपुष्टिं प्राप्स्यतीत्यर्थः। त्वद्विनाशस्य दुःखकारणत्वमाह—प्रियबन्धोरिति। प्रियाः इष्टाः बन्धवो यस्य तस्य। श्रियस्य इष्टस्य बन्धोरिति वा विग्रहः। अयं च दुःखे प्रथमो हेतुः। द्वितीयं254 हेतुमाह—निष्फलोदय इति। निष्फलः अफलः उदयो यस्य स तथा। चन्द्रोदयस्य कामिनीकामुकसम्भोगसौख्यं हि फलम्। न च तत् कामेन विना सम्भवतीति निशाकरस्य निष्फरोदयत्वमिति दुःखनिमित्तकं शरीरकार्श्यमिति भावः। नहि दुःखनिमित्तं शरीरकार्श्यं बहूलावसानेऽपि नश्यतीति कृच्छ्रेण कार्श्यपरित्यागोपपत्तिरुह्य॥१३॥
हरितारुणचारुबन्धनः
कलपुंस्कोकिलशब्दसूचितः।
वद सम्प्रति कस्य बाणतां
नवचूतप्रसवो गमिष्यति॥१४॥
(प्रकाशिका)
न केवलं त्वत्सुहृदां, किञ्च त्वत्परिच्छदानामपि नियता शोच्यतेत्याह—
हरितारुणेति। हरितारुणचारुबन्धनत्वं बाणस्यापि धर्मः। दक्षिणावर्तस्तु—सूचिक इति पाठमादृत्य सूचिर्वेधनशल्यमित्याह॥१४॥
(विवरणम्)
न केवलं त्वत्सुहृदामेव शोच्यत्वं, त्वत्परिच्छदानामपीति श्लोकद्वयेनोच्यते। तत्रादौ बाणानां प्राधान्यात्त्त् तेषांशोच्यत्व255माह—
हरितेति। नवचूतप्रसवः सम्प्रति कस्य बाणतां गमिष्यति वद। नवचूतप्रसवः। नवोऽभिनवः चूतप्रसवः चूतपुष्पम्। सम्प्रति एतस्मात् कालादारभ्येत्यर्थः। कस्य बाणतां शरत्वं गमिष्यति प्राप्स्यति वद ब्रूहि। चूतप्रसवोऽद्यप्रभृति निरुपयोगः संवृत्त इति भावः। उद्दीपनत्वातिशयं द्योतयितुं नवशब्दः। नवचूतप्रसवस्य बाणधर्मयोगमाह—हरितारुणचारुबन्धन इति। नवत्वाद्धरितमीषन्नीलमरुणं रक्तवर्णं चारुमनोहरं च बन्धनं वृन्तं यस्य स तथा। बाणोऽपि शिल्पिभिः कृतैर्हरितैररुणैश्चबन्धनैर्युक्तो भवति। चूतपुष्पाणां दर्शनेन विनाप्युद्दीयनत्वमाह—कलपुंस्कोकिलशब्दसूचित इति। कलेन मधुरेण पुँस्कोकिलशब्देन पुँस्कोकिलानां स्वनेन सूचितः ज्ञापितः। नदि चूताङ्कुराखादनेन विना कोकिलालापस्य कलत्वं भवति। तदुक्तं ‘चूताङ्कुराखादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज’ (स. ३. श्लो ३२) इति। कलतरकोकिलालापश्रवणानुमितोदय इत्यर्थः। धन्विनां बाणमोक्षोऽपि तल्लि-
ङ्गभूतेन हुङ्कारेणानुमीयते। कूजनसामर्थ्यप्रतीत्यर्थंपुंस्त्वविशेषणं सैनिकत्वंप्रतीत्यर्थं च॥१४॥
अलिपङ्क्तिरनेकशस्त्वया
गुणकृत्येधनुषो नियोजिता।
विरुनैःकरुणस्वरै256रियं
गुरुशोकामनुरोदितीव माम्॥१५॥
(प्रकाशिका)
अलिपङ्क्तिरिति।अनेकशःअनेकेषु। ‘मङ्गलार्थे257ऽयमिष्यत’ इति वचनात्। करुणंदयनीयम्।उत्प्रेक्षया शोच्यता गम्यते॥१५॥
(विवरणम्)
धनुर्गुणस्यापिशोच्यतामाह—
अलीति। त्वया अनेकशःधनुषः गुणकृत्ये नियोजिता अलिपङ्क्तिः करुणस्वरैःविरुतैः गुरुशोकां माम् अनुरोदिति इव। त्वया भवता अनेकशः बहुशः। बहुषु कार्येष्वित्यत्यर्थः। धनुषः कौसुमस्य चापस्य। गुणकृत्येगुणस्य मौर्व्याःकृत्ये कार्ये। धनुरारोषण इत्यर्थः। नियोजिता समर्पिता। मौर्वीत्वंप्रापितेत्यथैः। अनेन प्राचीनानेकोपयोगकथनेन भविष्यतो निरुपयोगत्वस्यात्यन्तदुःखहेतुत्वमुक्तम्। अलिपङ्क्तिःअलीनां भ्रमराणां पङ्क्तिः। करणस्तरैःकरुणो दयनीयः स्वरो येषां तादृशैः। विरुतैःझङ्कारैः। शोकहर्षादौहि स्वरभेदः प्रसिद्धः ‘द्विधा भिन्नाः शिखण्डितिः’(रघु० स० १. श्लो. ३९) इत्यादिषु। गुरुशोकाम्। गुरुरधिकः शोको दुःखं यस्यास्तादृशीम्। मामनुरोदितीवरुदत्या ममानुरोदनं करोतीव। ‘रुदादिभ्यः सार्वधातुके’ (७. २. ७६) इतीडागमः।
“दर्शनात् क्लिष्टजन्तूनां धर्मशीलस्य चेतसः।
आर्द्रता करुणा तस्या विषयः करुणास्त्रिषु॥”
इति भोजः। उत्प्रेक्षयालिपङ्क्तेःशोच्यता सूच्यते॥१५॥
प्रतिपद्य मनोहरं वपुः
पुनरप्यादिश तावदुत्थितः।
रतिदूत258पदेषु कोकिला259न्
मधुरालापनिसर्गपण्डितान्260॥१३॥
(प्रकाशिका)
तस्मादेवं कुर्या261 इत्याह—
प्रतिपद्यते। तावत्प्रथमम्। उत्थित उद्युक्तः। रत्यर्थादूता रतिदूताः। अत्रौत्सुक्यम्॥१६॥
(विवरणम्)
यदि मद्विनाशादेवम्भूतःमम बन्धवः, तर्हि किं मया कर्तव्यामित्यत्राह—
प्रतिपद्यते। त्वं तावद् मनोहरं वपुः प्रतिपद्यउत्थितः पुनः अपि कोकिलान् रतिदूतपदेषु आदिश। तावत् प्रथमम्। आदौ तव बन्धूनां मध्ये कोकिलानां शुचमपनय, पुनः क्रमेणान्येषामपीति भावः।मनोहरं रमणीयं वपुः शरीरम्। प्रतिपद्य, भस्मरूपंवपुरपहाय पूर्ववदतिरमणीयंशरीरमेवोपादायेत्यर्थः। उत्थितः उत्युक्तः सन्। नैवमौदासीन्यं कुर्या इत्यर्थः। पुनरपि, पूर्ववदित ऊर्व्वमप्यादिशेत्यर्थः। कोकिलान् परभृतान् रतिदूतपदेषु रत्यर्था। दूता रतिदूताः तेषां पदेषु स्थानेषु। कामिनीकामुकयोःपरस्परं घटनरूपेषु कार्येष्वित्यर्थः। तत्र हि कोकिलानामेव सामर्थ्यम्। यथोक्तं रघु-
वंशे—
“त्यजत मानमलं बत विग्रहैर्नपुनरेति गतंचतुरं वयः।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः॥”
(स. ९. श्लो. ४७)
इति। आदिश्च नियुङ्क्ष्व। आदौ कोकिलानां शुचमपनीय तेष्वपि स्वकृत्ये योजितेषु त्वरितगतयस्ते जगतामपि शुचमपनयन्तीति आदौ कोकिलानाज्ञापयेत्युक्तम्। दूतकार्ये कोकिलानां सामर्थ्यंदर्शयति—मधुरालापनिसर्गपण्डितानिति। मधुरेषु मनोहरेष्वालापेषु निसर्गतः स्वभावत एवं पण्डितान् विदग्थान्। अलं तववचनप्रकारशिज्ञाविषयैःप्रवासैरिति भावः। अनेन वाक्येनौत्सुक्यं प्रकारितम्॥१६॥
शिरसाप्रणिपत्य याचिता-
न्युपगूढानि सवेपथूनिच।
सुरतानि च तानि ते रहः
स्मर ! संस्मृत्य न शान्तिरस्तिमे॥१७॥
(प्रकाशिका)
शिरसेति।प्रथमं कुपितायाः शिरसा प्रणिपत्य याचनं, ततः प्रसन्नाया उपगूहनं , ततो रागोद्बोधे सुरतमिति क्रमेण स्मृतिः। तानीत्यनुभूतपरामर्शिना तच्छब्देनाव्यपदेश्यत्वं, बहुवचनेन बहुप्रकारत्वं च द्योत्यते। शान्तिरनुत्सुफता। तस्याश्च कृदमिहितत्वेनान्याङ्गःत्वात् स्मरणस्य भिन्नकर्तृकत्वभ्र262मः स्यात्। संस्मृत्य न शाम्पामीत्यर्थः॥१७॥
(विवरणम्)
इत्थं बहुप्रकारान् प्रलपन् विधाय निजप्रलापमनर्थकमवधार्यपुनः पूर्वानुभूतानतिमधुरान- वाङ्मनसगोचरान् कामानुमावानेव संस्मृत्य प्रलपति—
शिरसेति। स्मर ! ते शिरसा प्रणिपत्य याचितानि सवेपथूनि उपगूढानि च रहः तानि सुरतानि च संस्मृत्य मे शान्तिः नासि। स्मर ! हे मदन !। यस्य सान्निध्यमात्रेणापि जन्तूनां मनोविकारः सम्पद्यते, तेन स्वयमेवं कृतानां सुरतादीनाम् अवाङ्मनसगोचरत्वोपपत्तिरनया सम्बुद्ध्या व्य263ज्यते। कुपितां मामनुनेतुं शिरसा प्रणिपत्य साष्टाङ्गं नमस्कृत्य।त्वया कृताति यानि याचितानि याचनानि। भावे निष्ठा। प्रसीद, सदयं मामवलोकयेत्यादीनि प्रार्थनानीत्यर्थः। तथा सवेपथूनि वेपथुः सात्तिकविकाररूपः शरीरकम्पः तेन सहितान्युपगूढानि उपगूहनानि। अत्रापि भावे प्रत्ययः। रहः रहसि तानि सुरतानि त्वयैव कृतानि तानि पूर्वानुभूतान्यनिर्देश्यानि च। बहुवचनेन कामशास्त्रप्रसिद्धानां करणभेदानामुपादानम्। चकारः समुच्चायार्थः। संस्मृत्य सम्यक् स्मृत्वा। प्रथमं कुपितां मामनुनेतुं प्रणिपत्य याचनं, तदनन्तरं प्रसन्नायां मयि सरागमालिङ्गनं,ततश्च रागस्य समुद्बोधे सति बहुविधानि सुरतानीति स्मरणक्रमोऽत्र विवक्षितः। एवमेतादृशानुभवपात्रीकृताया मम शान्तिरनुत्सुकता नास्ति कथञ्चिदपि न भवति। अत्र शान्त्याः कृदभिहितत्वेन क्रियान्तराङ्गत्वात् स्मरणस्य भिन्नकर्तृकत्वभ्रमः। संस्मृत्य न शाम्यामीत्यर्थः। यदाह महिमा—
“कर्तुरुपाधितयोक्ता कृद्वाच्यतया गतान्यगुणतां वा।
क्त्वो भिन्नकर्तृकत्वभ्रमाय भवति क्रियावचश्चतयोः॥”
इति। संस्मृत्य स्थिताया ममेति वा योजना॥१७॥
रचितं रतिपण्डित ! त्वया
न264वमङ्गेषु ममेदमार्तवम्।
ध्रियते कुसुमप्रसाधनं
तव तच्चारू वपुर्नदृश्यते॥१८॥
(प्रकाशिका)
रचितमिति। आर्तवमृतु265प्रभवम्। ध्रियते अवतिष्ठते। अत्र विषादः॥१८॥
(विवरणम्)
अथ स्वशरीरगतानिकुसुमा266भरणान्यवलोक्य सविषादमाह—
रचितमिति। रतिपण्डित ! त्वया मम अङ्गेषु रचितं नवम् आर्तवम्इदं कुसुमप्रसाधनं प्रियते, तव चारुतद् वपुः न दृश्यते। हे रतिपण्डित ! रतिषु सुरतेषु पण्डित ! विदग्ध !। त्वत्कृतानां कर्मणां कथं विस्मरणं स्यादित्यनया सम्बुद्ध्या व्यज्यते। त्वया स्वहस्तेनैव ममाङ्गेषु रचितं न्यस्तम्। शिरोलङ्कारकर्णावतंसादितां प्रापितमित्यर्थः। नवम् अभिनवम्। अत्र कुसुमाभरणानामभिनवत्वकथनेन क्षणादेव त्वमीदृशीं दशां गतोऽसीति व्यज्यते। आर्तवम् ऋतुप्रभवं, वसन्तपुष्पाभरणमित्यर्थः। इदं दृश्यमानं कुसुमप्रसाधनं कुसुममयं प्रसाधनमलङ्कारः। ध्रियते ममाङ्गेष्वेवावतिष्ठते। ‘धृङ् अवस्थाने” इति धातोरिदं रूपम्।चारु सुन्दरम्। तत् प्रसाधनकर्तृत्वेन मयेदानीमेवानुभूतं वपुः शरीरं न दृश्यते। हा हतास्मीति शेषः॥१८॥
विवुधैरपि267 यत्268सुदारुणै-
रसमाप्ते परिकर्मणि स्मृतः।
तदि269मं कुरु दक्षिणेतरं
चरणं निर्मितरागमेत्य270मे॥१९॥
(प्रकाशिका)
विबुधैरिति। विबुधानां सौम्यत्वस्योचितत्वाद् अपिशब्दः।
परिकर्मणि प्रसाधने271। तत्तस्मात्। दक्षिणेतरमिति, तस्य स्त्रीणां सम्भोग272साधनत्वात्। यथा मेघसन्देशे— ‘वापश्चास्याः कररुहपदैरि’त्यादि। अत्रौत्सुक्यम्॥१९॥
(विवरणम्)
अथार्धरचितस्य चरणालक्तकरञ्जनपरिपूरणस्यावश्यकत्वात् त्वरिततरमागच्छेति सौत्सुक्यमाह—
विबुधैरिति। विबुधैः सुदारुणैःपरिकर्मणि असमाप्ते स्मृतः यत् तत्त्वम् एत्यमे दक्षिणतरम् इमं चरणं निर्भितरागं कुरु। विबुधैर्देवैः। विबुधानां सौम्यत्वस्यैवोचितत्वादपिशब्दो विरोधमाह। विबुधत्वे सत्यपि मृदारुणैरत्यन्तदारुणैः। विबुधानां दारुणत्वमसाध्ये कर्मणि नियोगार्थं (स्मरणात्।) तस्यापि स्मरणस्य प्रसाधनान्तरालेकृतत्वात् सुदारुणत्वम्। तथाविधैःसद्भिः। परिकर्मणि प्रसाधने असमाप्ते समाप्तिमप्रापिते सति स्मृतः चिन्तितोऽसीति यत्, तत् तस्माद्धेतोः त्वमेत्यागत्य दक्षिणेतरं वामम्। इममलक्तकशून्यत्वेन शोच्यतया दृश्यमानं चरणं पादम्। निर्मितरागं निर्भितो विहितः रागः अलक्तकरसो यस्मिंस्तथाविधम्। कुरुविधेहि। अयमभिप्रायः—स्नेहातिशयात् स्वहस्तेनैव ममचरणद्वयमलक्तकरसेन रञ्जयितुं प्रवृत्तस्त्वं दक्षिणचरणरञ्जनानन्तरमेव देवकृतात् स्मरणाद् गतोऽसीति यत्, तस्माद्द्रुततरमागत्य वामचरणमलक्तकरसेन रञ्जयेति। प्रियतमकृतस्य वामचरणस्पर्शस्य विशेषतः स्त्रीणां सुखकरत्वंप्रसिद्धम्। यथोक्तं मेघसन्देशे—‘वामश्चास्याःकररुहपदैरि’त्यादि॥१९॥
अहमेत्य पतङ्गवर्त्मना
पुनरङ्काश्रयि273णी भवामि ते।
चतुरैः सुरकामिनीजनैः
प्रिय ! यावन्न विलोभ्यसे दिवि॥२०॥
(प्रकाशिका)
अथवैतत् कतेव्यमित्याह—
अहमिति। पतङ्गवर्त्मना अग्निप्रवेशेनेत्यर्थःभवामि,वर्तमानसामीप्ये लट्। यावन्न विलोभ्यसे वञ्च्यसे, तावदियमागतास्मीत्यर्थः। अत्र सपत्नीशङ्का। ननु दिव्यत्वाद् दिवीत्यनुपपन्नम्। मरणादृतेऽपि शक्यञ्चप्राप्तुम्। न। दिव्यानामपि शरीरत्यागानन्तरं गतयो भिन्नाः। तस्मात् सालोक्यमनुमरणलभ्यमेव॥२०॥
(विवरणम्)
अथवा वृथा प्रलापैरलं, भर्तुरनुमरणमेव युक्तमिति सपत्नीशङ्क्या सहाह—
अहमिति। प्रिय ! त्वं यावद् दिवि सुरकामिनीजनैः न विलोभ्यसे, तावद् अहं पतङ्गवर्त्मना एत्यपुनः ते अङ्काश्रयिणी भवामि। हे प्रिय ! त्वं यावद् दिवि स्वर्गे सुरकामिनीजनैः स्वर्गस्त्रीभिः न विलोभ्यसे यावन्नात्मवरं नीयसे, तावदहं पतङ्गवर्त्मना पतङ्गानां शलभानां वर्त्मना मार्गेण, अग्निप्रवेशेनेत्यर्थः। एत्यतत्समीपं प्राप्य। पुनः पुनरपि ते तव। अङ्काश्रयिणी अङ्कमुत्सङ्गमाश्रयितुं शीलमस्या इति तथा। भवामीति ‘वर्तमानसामीप्ये वर्तमानवद्वे’(३. ३. १३१)ति लट्। चिरपरिचये सति सुरयुन्दर्यस्त्वां वशीकरिष्यन्ति, तस्मात् पूर्वमेवाङ्काश्रयिणी भवामीत्यर्थः। नन्वस्ति किं सुरसुन्दरीणां तादृशं सामर्थ्यमित्यत्राह—चतुरैरिति। पुंसां चित्ताकर्षणविचक्षणैरित्यर्थः। नन्वत्र श्लोके दिवीति यदुक्तं तदनुपपन्नं, पूर्वमपि मदनस्य दिव्यत्वात्। नाप्यनुमरणे प्रयोजनमपि पश्यामः, आत्मनो दिव्यत्वेन मरणं विनापि स्वर्गाप्राप्त्युपपत्तेः। उच्यते। दिव्यानामपि शरीरत्यागानन्तरं स्वर्गएवावस्थानमिति नियमो नास्त्येव।तस्मात् सुरकार्यमुद्दिश्य
कृतशरीरत्यागस्य स्वर्गप्राप्तिरेवोचितेति सम्भावनामात्रेणैव दिवीत्युक्तम्। नापि दिव्यानामपि भर्तृलोकप्राप्तिरनुमरणेन विना सम्भवति, स्मृतिपुराणादिषु भर्तृलोकप्राप्तेरनुमरणमा274त्रोपायत्वेन प्रतिपादनादित्यलमनेन॥२०॥
मदनेन विनाकृता रतिः
क्षणमात्रं किल जीवतीति275 मे।
वचनीयमिदं व्यवस्थितं
रमण!त्वामनुयामि यद्यपि॥२१॥
(प्रकाशिका)
दोषस्तु तथाकरणेऽपि नापैतीत्याह—
मदनेनेति। इतिशब्दो हेतौ, न तु बचनीयप्रकारवाची। तत्त्वे जीवेदिति स्यात्। व्यवस्थितं शिलालिखितं जातम्। अत्र लज्जा॥२१॥
(विवरणम्)
हन्त ममानुमरणेन भर्तृलोकप्राप्तौसिद्धायामपि क्षणमात्रजीवननिमित्तो लोकापवाददोषःकदाचिदपि नापैतीति सलज्जमाह—
मदनेनेति। रमण ! अहं त्वामनुयामि यद्यपि, रतिः मदनेन विनाकृता क्षणमात्रं जीवति किल इतीदं वचनीयं मे व्यवस्थितम्। रमण ! हे कान्त ! अहमनुमरणेन यद्यपि त्वामनुयामि सद्य एवानुगमिष्यामि। वर्तमानसामीप्ये लट्। तथापि रतिः मदनेन कामदेवेन। विनाकृतेत्येकंपदम्। विरहितेत्यर्थः। तथाभूता सती। क्षणमात्रं कञ्चित्कालमपि जीवति किल। किलशब्दः प्रसिद्धौ। इतिशब्दो हेतौ, न तु वचनीयप्रकारवाची। तथा सति जीविता किलेति प्रयोगः स्यात्। केचित्तु जीवितेत्येव पठन्ति।
जीवतीत्येतस्माद्धेतोरुत्यन्नमित्यर्थः। वचनीयं लोकापवादः। मे व्यवस्थितं, शिलातललिखितं जातमित्यर्थः॥२१॥
क्रियतां कथमन्त्यमण्डनं
परलोकत्वरि276तस्य ते मया।
सममेव गतोऽस्यतर्कितां
गतिमङ्गेनच जीवितेन च॥२२॥
(प्रकाशिका)
अनुम्रियमाणापि पतिमात्मानं च मण्डयति। ततश्च यत् ते मण्डनं प्राप्तकालं , तदपि मे दुर्लभमित्याह—
क्रियतामिति। प्राप्तकाले लोट्। अशक्यत्वे हेतुमाह—सममिति277।समं युगपत्। लोके दि जीवितापायेऽपि क278ञ्चित् कालमङ्गमवतिष्ठते,
इह तु न तथेत्यर्थः। दक्षिणावर्तस्तु स्वयमेवेति पाठमादृतवान्। तन्न चतुरश्रम्। अन्त्यमण्डनस्याशक्यत्वं ह्युपपाद्यम्। तत्र च स्वयङ्गमनस्य नोपयोगः। अत्रापि विषादः॥२२॥
(विवरणम्)
भर्तारमनुमर्तुमुद्यता हि पतिव्रताः पतिमात्मानं च कुसुमचन्दनादिभिरलङ्कुर्वन्तीति नियमाद् यत् ते मण्डनं प्राप्तकालं, तदपि मेविधिवैपरीत्याद् दुर्लभमभूदिति सविषादमाह—
क्रियतामिति। परलोकत्वरितस्य ते अन्त्यमण्डनं मया कथं क्रियताम्। परलोकत्वरितस्य परलोकमुद्दिश्य गन्तुं त्वरितस्य, इहलोकं परित्यज्य त्वरितमेव परलोकं गतस्येत्यर्थः। ते तव। अन्त्यमण्डनं, प्रेतशरीरालङ्करणमित्यर्थः। मया कथं क्रियतां, न कथञ्चिदित्यर्थः। क्रियतामिति प्राप्तकाले
लोट्। अनुमरणकाल एव हि तस्यापि काल इति भावः। अन्त्यमण्डनाशक्यते हेतुमाह—त्वम् अङ्गेन च जीवितेन च सममेवातर्कितां गतिं गतः असीति। अङ्गेन शरीरेण जीवितेन च समं सदैव अतर्कितामनिरूपितां गतिम्। प्रत्यक्षाद्यविष (यां?यं) पदवीमित्यर्थः। गतः प्राप्तोऽसि। सर्वेषां हि मृतानां जन्तूनां शरीरमात्रं तत्रैव तिष्ठति। त्वं तु शरीरप्राणाभ्यां सहैव विनष्टोऽसि। ततः कथमन्त्यमण्डनावकाशइति भावः॥२२॥
ऋजुतां नयतः स्मरामि ते
शरमुत्सङ्गनिषण्णधन्वनः।
मधुना सह सस्मितां कथां
नयनोपान्तविलोकितं च तत्॥२३॥
(प्रकाशिका)
ऋजुतामिति। तां कथां तद्विलोकनं च स्परामीत्यन्वयः। न यतं इति हेतौ शता। तदा कथाप्यन्यैवेति भावः। दक्षिणावर्तस्तु कथामित्यत्र स्मरामीत्यनुषङ्गमाह। न तच्छ्रद्धेयम्। पूर्वम279न्यान्वये सत्यनुषङ्ग। न च पूर्वं ते स्मरामीत्यन्वयः। न हि तथान्वयप्रतीतिः स्वारसिकी। विभक्तिप्रक्रमदोषश्चस्यात्। न च सुहृत्संकथा कटाक्षवीक्षणं च शरर्जुतानयनानुषङ्गिके तेन समकक्ष्यता नेये। तयोरेव हि स्वानुभवसिद्धविविधविलासास्पदत्वेन स्मर्यमाणयोकरुणोद्दीपकत्वं बिवक्षितं, तथा स्मरणं च तच्छब्देन दर्शितम्। अत्रापि स्मृतिः॥२३॥
(विवरणम्)
इत्थमनुमरणे कल्पि280तेऽपि पूर्वानुभूतानतिमनोहरान् भावविशेषान् वचनविशेषानपि संस्मृत्य प्रलपन्ती त्वरितमनुमरणमेव द्रढयति—
ऋजुतामिति। अहं शरम् ऋजुतां नयतः उत्सङ्गनिषण्णधन्वनः ते
मधुना सह सस्मितां कथां तद् नयनोपान्तविलोकितं च स्मरामि। शरं बाणम् ऋजुतामार्जवम् नयतः प्रापयतः। हेतौशता। शरर्जु281तानयनाद्धेतोः उत्सङ्गनिषण्णधन्वनः उत्सङ्गे अङ्के निषण्णं स्थितं धनुर्यस्यतस्य।ते तव मधुना अत्यन्तबन्धुभूतेन मूर्तिमता वसन्तेन सह सस्मितां मन्दस्मितसदितां कथां सल्लाँपम्। तत् तादृशम्। अत्र पर्वानुभूतपरामर्शिना तच्छब्देनानिर्देश्यत्वमुक्तम्। नयनोपान्तविलोकितं नयनस्योपान्तेन नेत्रकोणनेति यावत्। चकारः समुच्चयार्थः। स्मरामि चिन्त यामि। शरस्य वक्रतामपनेतुमङ्के चापं निधायात्यन्तसावधानत्वयोग्ये तस्मिन्नपि काले मधुना सम्भाषणं कुर्वतस्तन्मध्ये च सस्नेहं नेत्रोपान्तेन मामवलोकयतश्च तव तादृशान् भावान् कथमहं विस्मरामि।अविस्मृता च कथंन त्वरितमेवानुमरिष्यामीति भावः॥२३॥
क्व नु ते हृदयङ्गमः सखा
कुसुमायोजितकार्मुको मधुः।
न खलूग्ररुषा पिनाकिना
गमितः सोऽपि सुहृद्गतां गतिम्॥२४॥
(प्रकाशिका)
क्वेति। हृदयङ्गमः’गमश्च’ (३. २, ४७) इति खश्। कुसुमैरायोजितं सम्पादितं कार्मुकं येन। खलुर्जिज्ञासायाम्। अत्र हेतुबलाद् गमने सम्भाव्ये तदभा282वसम्भावनं तद्दर्शनस्येष्टत्वात्। त्वद्गतामिति वक्तव्ये सुहृद्गतामिति वचनं सुहृद्गतां गतिमसावपि गच्छत्विति पिनाकिमनन283स्य हेतुतासंभावनां द्योतयितुम्। तत्र चानुक284ूलमुग्ररुषेति विशेषणम्। अत्र सुहृद्दर्शनौत्सुक्यं पिनाकिन्यसूया च॥२४॥
(विवरणम्)
अथ ‘मधुना सह सस्मितां कथाम्’ (श्लो. २३) इति प्रसङ्गागतं प्रियतमबन्धुभूतं मधुमुद्दिश्यापि प्रलपति—
क्वैति। ते हृदयङ्गमः सखा मधुः क्व नु। ते तव। हृदयङ्गमः हदयं गच्छतीति हृद हृदयङ्गमः। ‘गमश्च’ (३.२.४७) इति खच्। हृदय एव वर्तमानः, अतिप्रिय इत्यर्थः। तथाभूतः सखा मधुर्वसन्तः क्व नु। तुशब्दो वितर्के। इदानीं कुत्र वा गत इत्यर्थः। प्रियतमविरहिताहं यदि तमपि द्रक्ष्यामि, तर्हिमे दुःखं किञ्चिदपि शाम्येदित्यर्थः। न केवलंसखित्वादेव हृदयङ्गमत्वम्, अपितु उपकर्तृत्वाच्चेत्याह—कुसुमायोजितकार्मुक इति। कुसुमैः पुष्पैरायोजितं सम्पादितं कार्मुकं चापं येन सतथा। अदर्शने स्नेहादपायमेवाशङ्क्याह—सोऽपि पिनाकिना सुहृद्गतां गतिं न गमितः खलु। सोऽपि। न केवलं मत्प्रियतमः, अपितु तत्स(खा ? खोऽ) पीत्यपिशब्दार्थः। पिनाकिना। पिनाकोऽस्यास्तीति पिनाकी। अनेन साधनसम्पत्तिरक्ता। सुहृद्गतां सुहृदा बन्धुना गतां प्राप्ताम्। गतिं पदवीम्। न, गमितः प्रापितः। खलुशब्दोजिज्ञासायाम्। अत्र हितुवशात् सुहृन्मार्गप्राप्तिप्रापणे सम्भाव्येऽपि तदप्रापणसम्भावनं तद्दर्शनोत्सुक्यादिति द्रष्टव्यम्। प्रकरणवशादत्र त्वद्गतां गतिमित्येव वक्तव्ये सुहृद्गतां गतिमिति वचनं पिनाकिनस्तद्विनाशने हेतुसद्भावं प्रदर्शयितुम्। अत एवाह—उग्ररुषेति। अत्युग्रकोपेन। अत्युग्रकोपेन हि रिपुजनमुन्मूल्यापि तद्बन्धून(प्यु?नु)न्मूल्य न विरमति। अत्र पूर्वार्धेन सुहृद्दर्शनोत्सुक्यमुत्तरार्धेन पिनाकिन्यसूया च ध्वन्यते॥२४॥
अथ तैः परिदेविताक्षरै-
र्हृदये दिग्धफ285लैरिवार्पि286तः।
रतिमभ्युंपपत्तुमातुरां
मधरात्मानमदर्शयतपरः॥२५॥
प्रकाशकानुराधन अभ्यवपत्तुमात पठनायम्।
(प्रकाशिका)कृतप्र्तावस्य मधोर्वृत्तमाह–
अथेति। तैरिति तथाभूतैरित्यर्थः। परिदेविताक्षरैर्विलापवाक्यैरित्यर्थः। अक्षरग्रहणमर्थात् प्रागेव चित्तद्रुतिहेतुतां द्योतयितुम्। ‘विषाक्ते दिग्धलिप्तका’विति सिंहः। अभ्यवपत्तिरनुप्रहः। स चात्राश्वासनम्। आतुराया287ंदूरावलोकनाक्षमत्वात् पुरोदर्शनम्॥२५॥
(विवरणम्)
इत्थ कृतप्रस्तावस्य मधोः प्रवृत्ति दर्शयति—
अथेति। अथ मधुः आतुरां रतिम् अम्यु288पपनुम् आत्मानं पुरः अदर्शयत्। अथ एवम्भूतविलापानन्तरं मधुर्वसन्तः आतुरां भर्तृवियोगेन दुःखितां रतिं कामवधूम् अभ्यु288पपत्तुमनुग्रदीतुम्। ‘अभ्यु288पपत्तिरनुग्रहः’ इत्यमरः। अनुग्रहश्चार्थादाश्वासनं विवक्षितम्। आश्वासयितुमिति यावत्। आत्मानं स्वशरीरं पुरः अग्रे एवअदर्शयद् दर्शयामास। अतुराया रतेः दुरावलोकनसामर्थ्याभावादग्र एवाविर्भावः। अभ्युपपत्तौ हेतुं प्रदर्शयति—तैः परिदेविताक्षरैःहृदयेऽर्पितः इति। तैः तथाभूतैः, अनिर्देश्यैरित्यर्थः। परिदेविताक्षरैःविलापवाक्यैः। ‘विलापः परिदेवनमि’त्यमरः। भावे निष्ठा। अक्षरग्रहणेनार्थावबोधात् पूर्वमेव हदयद्रवहेतुत्वंद्योत्यते। हृदये हृदि। अर्पितः आहत इत्यर्थः। अर्दित इति वा पाठः। परिदेविताक्षराणामसह्यत्वमुत्प्रेक्षया दर्शयति—दिग्धफलैरिवेति। दिग्धैर्विषलिप्तैः। ‘विषाक्ते दिग्धलिप्तकावि’ति सिंहः। फलैः शरमुखैः। ‘फलं शरमुखेडपि चे’ति भोजः। विषाक्तैः शरमुखैरिवात्यन्तदुस्सहैरित्यर्थः। हृदयार्पितं हिशल्यमत्यन्तपीडाकरं भवति, तत्रापि विषाक्तमिदं हृदयं दहत्येवेति भावः॥२५॥
तमवेक्ष्य रुरोद सा भृशं
स्तनसम्बाधमुरो जघान च।
स्वजनस्य हि दुःखमग्रतो
विवृतद्वारमिवोपजायते॥२६॥
(प्रकाशिका)
तमिति। भृशं पुर्वस्मात्। स्तनसम्बाध289मिति ‘परिक्लिश्यमाने च’ (३.४.५५) इति णमुल्॥२६॥
(विवरणम्)
वसन्तदर्शनानन्तरं रतेर्दुःखाधिक्यमाह—
तमिति। सा तमवेक्ष्य भृशं रुरोद। सा रतिः तं वसन्तम् अवेक्ष्य दृष्ट्वा। भृशमत्यन्तं, पूर्वस्मादभिकमित्यर्थः। रुरोद रोदनं चकार। दुःखाधिक्यमेव प्रकटयति—स्तनसम्बाधमुरो जघान चेति। स्तनसम्बाधमिति ‘परिक्लिश्यमाने च’ (३. ४. ५५) इति णमुल्। स्तनैबाधित्वेत्यर्थः। उरः वक्षःप्रदेशं जघान कराभ्यामाहतवती। स्तनयोर्बाधा यथा भवति तथा वक्षःस्थरमाजघानेत्यर्थः। उक्तमर्थमर्थान्तरन्यासेन समर्थयते—दुःखं स्वजनस्य अग्रतः विवृतद्वारमिवः उपजायते हीति। दुःखं दुःखसामान्यम्। खजनस्य खस्यात्मीयस्य जनस्य, बन्धोरित्यर्थः। अग्रतः अग्रे। विवृतद्वारं विवृतं विघटितं द्वारं यस्य तत्तथा। उपजायते भवति। सर्वं हि दुःखं बन्धुजनस्याग्रे विवृतद्वारमिव भवतीत्यर्थः। अन्तर्भागे निरुद्धं हि वस्तु यथा द्वारे विघटिते सति निरन्तरं निर्गच्छति, तथा मनस्स्थितं दुःखमपि बन्धुजनस्याग्रे प्रालापाश्रुसन्तानादिरूपेण बहिः प्रसरत्येवेति भावः। हिशब्दः प्रसिद्धौ॥२६॥
इति चैनमुवाच दुःखिता
सुहृदं290 पश्य वसन्त ! किं स्थितम्।
तदिदं कणशो विकीर्यते
पवनैर्भस्म कपोतकर्बुरम्॥२७॥
(प्रकाशिका)
इतीति। दुःखिता, दुःखोन्मादादित्यर्थः। स्थितं स्थानम्। किं तिष्ठसीत्यर्थः। पश्यत्युक्तं, स नात्र दृश्यत इत्याह—तदिदमिति। तच्छब्दः सुहृदं परामृशति291, प्रतिनिर्दिश्यमानलिङ्गं च भजते। कणशः अल्पार्थेशस्। प्रवनैरिति बहुवचनेन स इदानीमेव292 सर्वःसंवृत्त इति द्योत्यते(?)। कर्बुरं शबलम्। एतद् दर्शनसौकर्यार्थम्। यावन्न निश्शेषं प्रकीर्यते, तावद्भस्मापि293 पश्येति भावः। अत्र दैन्यम्॥२७॥
(विवरणम्)
उज्जृम्भितदुःखाया रतेः प्रवृत्तिमाह—
इतीति। दुःखिता सा एनमित्युवाच च। दुःखिता सती सा रतिः एनं वसन्तम् इति वक्ष्यमाणप्रकारेण उवाच उक्तवती च। दुःखोन्मादवशादित्थमुवाच चेत्यर्थः। वचनप्रकारानेवाह—सुहृदमित्यादिना। वसन्त ! त्वं सहृदं पश्य। हे वसन्त ! त्वं सुहृदं बन्धुमूतं पश्य। सुहृद्दर्शन त्वरितमेव कर्तव्यम्। नायं कालक्षेपस्यावसर इत्याह—स्थितं किमिति। स्थितमवस्थानम्। भावे निष्ठा। किं किमर्थमवस्थानेन कालविलम्बनं करोषीत्यर्थः। कालक्षेपं मा कुर्वित्यभिप्रायः। स्थित इति पाठे किमर्थं तूष्णीं स्थितो भवसीत्यार्थः। ननु मे सखा न294 तु दृश्यते। अतः कथं पश्येत्युक्तमित्यात्राह—तदिदं भस्म पवनैः कणशः प्रकीर्यते इति। अत्र तदिति तच्छब्देन प्रतिनिर्दिश्यमानलिङ्गः सुहृत् परामृश्यते। ‘शैत्यंहि यत् सा प्रकृतिर्जलस्ये’त्यादिवत्। इदं दृश्यमानं भस्म पवनैर्वायुभिः। अत्र बहुवचनेन भस्मनोऽप्यत्यन्तविनाशकालः प्राप्त इति द्योत्यते। कणशः अल्पार्थे शस्। ‘लवलेशकणाणव’ इति सिंहः। प्रकीर्यते इतस्ततः प्रक्षिप्यते। तव सुहृदयंभस्म-
भावमुपगतो वायुभिः परमाणुतां नीत्वा परितो विकीर्यते। तदपि क्षणमात्रं पश्येत्यर्थः। इदानीं तु दर्शनं सुकरमेवेत्याह—कपोतकर्बुरमिति। कपोतवत्कर्बुरं शबलम्। ‘चित्रकिर्मीरकल्माषशबलै ताश्चकर्बुर.इत्यमरः। कपोतवन्नानावर्णमित्यर्थः। अनेन श्लोकेन दैन्यं प्रकाशितम्॥२७॥
अपि सम्प्रति देहि दर्शनं
स्मर ! पर्युत्सुक एष माधवः।
दयिताखनवस्थितं नृणां
न खलु प्रेम चलंसुहृज्जने॥२८॥
(प्रकाशिका)
अयीति। सम्प्रति को विशेष इत्याह—पर्युत्सुक इति। पृर्वमपि त्वंपर्युत्सुफेत्याह—दयितास्विति। तस्पान्मय्यनपेक्षा सम्भवति, न त्वस्मि295न् सुहृदीति वाक्यशेषः। अत्रापीर्ष्यौत्सुक्ये॥२८॥
(विवरणम्)
अस्तु ते मत्प्रलपेऽनादरः, वसन्ताय तु दर्शनं देयमेवेत्यौत्सुक्यदैन्याभ्यां सह रमणं प्रत्याह—
अयीति। अयि स्मर ! सम्प्रति दर्शनं देहि। अपि स्मर ! हे मदन ! सम्प्रति इदानीम्। दर्शनं देहि, त्वरितमागच्छेत्यर्थः। ननु सम्प्रति को विशेषः। अत आह—एष माधवः पर्युत्सुक इति। एषः दृश्यमानः माधवः वसन्तः। पर्युत्सुकः, त्वद्दर्शनसाभिलाष इत्यर्थः। भवतीति शेषः। यस्मादेष माधवस्त्वद्दर्शनलालसो वर्तते, तस्माद् दर्शनं देदीत्यर्थः। ननु पूर्वमेव त्वंपर्युत्सुकैव। माधवे को विशेष इत्यत्राह—नृणां दयितासु प्रेम अनवस्थितं, सुहृज्जने चलं न खल्विति। नृणां पुरुषाणां दयितासु कान्तासुप्रेम स्नेहः
अनवस्थितम् अस्थिरम्। सुहृज्जने बन्धुजने। प्रेमशब्दोऽत्राप्यनुषज्यते। चलं चञ्चलम् न खलु, स्थिरमेवेत्यर्थः। यस्मात् पुम्भिः स्त्रीषु कृता296 मैत्री चश्चला, बन्धुजनेषु कृता मैत्री तु स्थिरैव, तस्मान्मप्युपेक्षा सम्भवेदपि, न त्वस्मिन् सुहृदीति भावः॥२८॥
अमुना ननु पार्श्ववर्तिना
जगदाज्ञां ससुरासुरं तव।
बिसतन्तुगुणस्य कारितं
धनुषः पेलवपुष्पपत्रिणः॥२९॥
(प्रकाशिका)
सुहृत्त्वे297ऽपि विशेषमाह—
अमुनेति। ननुरवधारणे। पार्श्ववर्तिना सचिवेन सतेत्यर्थः। तवधनुष आज्ञा कारितमित्यर्थः। ‘हृक्रोरन्यतरस्याम्’ (१. ४.५३) इति जगतः कर्मसंज्ञा। विशेषणाभ्यां धनुषो दौर्बल्यमुक्तम्॥२९॥
(विवरणम्)
नन्वन्येऽपि चन्द्रादयः सुहृदो मम सन्त्येव। अस्मिन् वसन्ते को विशेष हत्याशङ्क्याह—
अमुनेति। पार्श्ववर्तिना अमुना ननु ससुरासरं जगत् तव धनुषः आज्ञां कारितम। पार्श्ववर्तिना। पार्श्वेवर्तितुं शीलमस्येति तथा। सचिवपदवीमनुवर्तमानेनेत्यर्थः। अमुना वसन्तेन। ननुशब्दोऽवधारणे। ससुरासुरं सुरैरसुरैश्चसह वर्तमानम्। क्षुद्रत्वादितरेषामनुपादानम्। त्वदीयचापाज्ञानुष्ठाने सुरेष्वसुरेषुवा मनुजेषु तिर्यग्योनिषु वा न कश्चिद् विशेष इति भावः। जगद्जगद्वासिनो जनाः। ‘हृक्रोरन्यतरस्याम्’ (१. ४. ५३) इति जगतः कर्मसंज्ञा। तव धनुषः पुष्पमयत्वादतिमृदुनोऽपीति भावः। आज्ञां नियोगं कारितमनुष्ठापितम्। ससुरासुरः सकलोऽपि लोकः पुष्यमयत्वादतिपेलवस्यापि तव
धनुषो निदेशवर्ती जात इति यत्, तदस्यैव मधोः साचिव्यबलादित्यर्थः। ने केवलं तव धनुषो दौर्बल्यम्, अपितु मौर्व्याअपीत्याह—बिसतन्तुगुणस्येति। विसस्य मृणालस्य तन्तुरेव गुणो मौर्वायस्यतस्यापीत्यर्थः। अलीनामिव बिसतन्तूनामपि गुणत्वप्रसिद्धेरेवमुक्तम्। शराणामपि दौर्बल्यमाह—पेलवपुष्पपत्रिण इति। पेलवानि पुष्पाण्येव पत्रिणः शरायस्य तादृशस्यापि ते धनुषो निदेशवर्ती ससुरासुरो लोकः, न तु तेषु यः कश्चिदिति यत्, तस्यैतत्साचिव्यमात्रहेतुत्वादवश्यमस्मैदर्शनं दातव्यमेवेतिभावः॥२९॥
गत एव न ते निवर्तते
स सखा दीप इवानिलाहतः।
अहमस्य दशेव पश्यमा-
भविषह्यव्यसन298प्रधूपिताम्॥३०॥
(प्रकाशिका)
अथादर्शननिर्वेदादाह—
गत इति। दशावतिः।किं दशा299सादृश्यमित्याह—पश्येति। दक्षापक्षे असह्यविक्षेपे300ण प्रधूपिताम्। अन्यत्र प्रधूपनमनौज्ज्वल्यम्। अत्रात्मनि301र्वेद॥२०॥
(विवरणम्)
इत्थमभिहितेऽप्यकृतनिवर्तने निजरमणे स्वात्मम्यवज्ञां प्रतिदर्शयन्ती वसन्तं प्रत्याह—
गत इति। ते सखा सः गत एव। ते तव सखा सः कामदेवः गतएव। आत्यन्तिकादर्शनं प्राप्त एवेत्यर्थः। कृत एतदवगतमित्यत्राह—न
निवर्तते इति। यस्मादेवंविधे बन्धुजने दर्शनोत्सुके सत्यपि न निवर्तते, तस्मादित्यर्थः। अत्रोपमामाह—अनिलाहतः दीपः इवेति। अनिलेन वायुना आहतः अभिहतः दीपः प्रदीप इव। यथानिलाहतो दीपः पुनर्न निवर्तते, तथायमपीत्यर्थः। आत्मानमप्युपमिनोति—अहमस्य दशा इवेति। अहमस्य कामदेवदीपस्य दशा वर्तिरिव। भवामीति रेषः। न ह्यनिलाहते दीपे वर्तिरपि तेन सह गच्छति। आत्मनो दशासाम्यमपि प्रकटयति—अविषह्यव्यसनप्रधूपितां मां पश्येति। अविषह्येणासह्येन व्यसनेन दुःखेन प्रधूपितां प्रकर्षेण धूपितामनुज्ज्वलाम् अन्तर्ज्वलच्छोकाग्निधूमयुक्तामिति वा। दशापक्षे तु अविषह्येणानिलकृतेन व्यसनेन विक्षेपेण प्रधूपितामित्यर्थः। तादृशीं मां पश्य अवलोकय॥३०॥
विधिना कृतमर्धवैशसं
ननु मां कामवधे विमुञ्चता।
अनपायिनि संश्रयद्रुमे
गजभग्ने पतनाय वल्लरी॥३१॥
(प्रकाशिका)
तेन सहैव किं न गतासीत्याह—
विधिनेति। ‘शसु हिंसायामि’ति धातोः पचाद्यच्302। विशसो हिंसकः। तस्य कृत्यं वैशसम्। विमुञ्चतेति हेतौश्ता। समग्रवैशसं लाभ एवेति भावः। आत्मावशेषादु303पकारिणि विधौकिमसूयेत्याह—अनपायिनीति। कदाचिदप्यविरहि(णी?णि)। पतनाय। ‘तुमर्थाच्चभाववचनात् (२. ३.१५) इति चतुर्थी। खलो विधिः किमेतदपि न जानातीति भावः।अत्र विधिं प्रत्यसूया॥३१॥
(विवरणम्)
ननुकिमर्थं तर्हि परलोकगतेन प्रियतमेन सह तदानीमेव न गतासीत्यत्राह—
विधिनेति। कामवधे मां विमुञ्चता विधिना अर्धवैशसं कृतं ननु।कामवधे काम304स्य कामदेवस्य वधे दहने क्रियमाणे सति। मां विमुञ्चतावधाद् विसृजता। हेतौशता। विधिना दैवेन। अर्धवैशसमर्धहिंसा। ‘शसु हिंसायामि’त्यस्माद्धातोः पचाद्यचि कृते विशस इति पदं सिध्यति। विशसो हिंसकः। ‘नृशंसो विशसः क्रूर’ इति भोजः। विशसस्य कर्म वैशसं हिंसा। ननुरवधारणे। कामवधे मम विमोचनाद्धेतोर्दैवेनार्धहिंसा कृतैवेत्यर्थः। पुरुषस्यार्धं हि पत्नी। न चार्धहतदेहेन किञ्चिदपि प्रयोजनमस्ति। तस्मात् समस्तहिंसैव वरीयसीति भावः। नन्वात्मरक्षणादुपकार एव विधिना कृतः। ततः कथमर्धवैशसं कृतमित्युक्तम्। तत्राह—अनपायिनि संश्रयद्रुमे गजभग्नेबल्लरी पतनायेति। अनपायिनि कदाचिदप्यविरदिणि संश्रयद्रुमे आश्रयभूते द्रुमे। उपघ्नतरावित्यर्थः। गजभग्ने गजेन भग्ने भङ्गं प्रापिते सति। वल्लरीलता। पतनाय। ‘तुमर्थाच्च भाववचनात्’ (२. ३. १५)इति चतुर्थी। पतनं कर्तुमेव समर्थाभवतीत्यर्थः।न ह्याश्रयद्रुमे भग्ने सति लतया305 किञ्चिदपि प्रयोजनमस्ति। तस्मात् तद्वन्मां कामवधे विमुञ्चता विधिना अर्धवैशसमेव कृतमिति भावः। अत्रविधिं प्रत्यसूया प्रकाशिता॥३१॥
तदिदं क्रियतामनन्तरं
भवना बन्धुजनप्रयोजनम्।
विधुरां ज्वलनातिसर्जना-
दनु306 मां प्रापय पत्युरन्तिकम्॥३२॥
(प्रकाशिका)
इतः परं मरणव्यवसायगर्भाउक्तयः—
तदिति। तत् तस्माद्, यस्मादर्धवैशसं दुस्सहतरम्। अनन्तरमवसरप्राप्तम्। विधुरामित्यनु कम्प्यत्वेहेतुः। अतिसर्गोदानम्। अनु पश्चात्। प्रियवियोगविधुराणां सुहृद्वधूनां तत्सकाशप्रापणं हि सुहृदामुचितमिति भावः॥३२॥
(विवरणम्)
अथानुमरणमेव निश्चित्य तदुपकरणसम्पादनाद्यर्थंमाधवं प्रत्याह तदित्यादिभिः सप्तभिः श्लोकैः। तत्र सङ्क्षेपोक्तिरनेन श्लोकेन क्रियते—
तदिति। तद् भवता अनन्तरं बन्धुजनप्रयोजनमिदं क्रियताम्। तद् यस्मादर्धवैशसमसह्यतरं तस्मादित्यर्थः। भवता प्रियतमसहायत्वान्मम बन्धुभुतेन त्वया। अनन्तरमविलम्बितमेव। अनेनावसरप्राप्तिरुक्ता। बन्धुजनप्रयोजनं बन्धुभूतजनस्य मम प्रयोजनभूतम् इदं वक्ष्यमाणंक्रियतामनुष्ठीयताम्। इदंशब्दनिर्दिष्टमेवार्थं सङ्क्षिप्य दर्शयति—त्वं विधुरां मां ज्वलनातिसर्जनात् पत्युरन्तिकमनु प्रापयेति। विधुरां भर्तृवियोगदुःखिताम्। इदमनुकम्प्यत्वेहेतुः। ज्वलनातिसर्जनाद् ज्वलनेऽग्नौ यदतिसर्जनं दानं तस्माद्धेतोः। ‘विश्राणनं वितरणं दानं स्यादतिसर्जनमि’ति भोजः। पत्युः भर्तुः अन्तिकं समीपम् अनु पश्चात् प्रापयनय। विधिवैपरीत्यात् सदगमनाभावेऽप्यग्निप्रवेशोपकरणं सम्पाद्य पश्चादपि भर्तुरन्तिकं मां प्रापय। प्रियवियोगविधुराणां सुहृद्वधूनां प्रियतमसकाशप्रापणमेव हि सुहृदामुचितमिति भावः॥३२॥
शशिना सह याति कौमुदी
सह मेघेन तडित् प्रलीयते।
प्रमदाः पतिवर्त्मगा इति
प्रतिपन्नं हि विचेतनैरपि॥३३॥
(प्रकाशिका)
एतदेव ममाप्युचितमित्याह—
शशिनेति। विचेतनै! करणशून्यैः। शशिप्रभृत्यचेतनवृत्तान्तेनाप्येतत् प्रत्येतुं शक्यमित्यर्थः। दक्षिणावर्तस्तु—पृथग्जनैरिति पाठमादृतवान्॥२२॥
(विवरणम्)
इत्थ सुहृदुचितमर्थं प्रतिपाद्यात्मनोऽपि भर्तृसमीपप्राप्तिरेवोचितेत्येतद् दर्शयति—
शशिनेति। प्रमदाः पतिवर्त्मगाः इति विचेतनैरपि प्रतिपन्नं हि। प्रमदाः स्त्रियः। पतिवर्त्मगाः पत्युर्भर्तुर्वर्त्ममार्गं गच्छन्तीति तथा। इतिशब्दः प्रकारवाची। अयं प्रकारो विचेतनैःविगता चेतना ज्ञानं येभ्यस्तैरपि। ‘प्रतिपज्ज्ञप्तिचेतना’ इत्यमरः। सचेतनेषु का कथा इत्यपिशब्दार्थः। प्रतिपन्नमङ्गीकृतम्। विचेतनानामपि भर्तृमार्गप्राप्तिमेव दर्शयति—शशिनेत्यादिना। कौमुदी शशिना सह याति। कौमुदी चन्द्रिका। ‘चन्द्रिका कौमुदी ज्योत्स्ना’ इत्यमरः। शशिना चन्द्रेण सह याति गच्छति। नहि चन्द्रे गते चन्द्रिका क्षणमात्रमपि307 तत्र तिष्ठति, किन्तु चन्द्रगतं लोकान्तरमेव गच्छतीत्यर्थः। अनेन गते सत्यनुगमनमुक्तम्। मृते सत्यनुमरणं चाह—तडिन्मेघेन सह प्रलीयते इति। तडिद् विद्युत्। ‘तडित् सौदामनी विद्युदि’त्यमरः। मेघेन सहैव प्रलीयते प्रकर्षेण लीना भवति। मेघे विनष्टे तडिदपि विनश्यत्येवेत्यर्थः। इत्थमचेतनैश्चन्द्रिकादिभिरपि प्रतिपन्नं भर्तृलोकगमनंकथं सचेतनाहं न करिष्यामीत्यर्थः॥३३॥
अमुनैव कषायितस्तनी
सुभगेन प्रियगात्रभस्मना।
नवपल्लवसंस्तरे यथा
रचयिष्यामि तनुं विभावसौ॥३४॥
(प्रकाशिका)
इदानीमेव चेदपरोलाभ इत्याह
अभुनेति। एवशब्दो मण्डनान्तरापेक्षाव्यवच्छेदकः। कषायितो भावितः। ‘कषायस्तुवर’ इत्युपक्रम्य ‘भावनायां चे’ति केशवः++308। रचयिष्यामि निधास्यामि। अत्र नवपल्लवसंस्तरोपमानेन विभावसोः परमप्रीतिविषयत्वं ध्वन्यते॥३४॥
(विवरणम्)
तस्मादवश्यकर्तव्यःशरीरत्यागो यदीदानीमेव क्रियते, तर्हिन मे भर्तृलोकप्राप्तिरेव लाभः, अपितु लाभान्तरमप्यस्तीत्याह—
अमुनेति। अहममुना प्रियगात्रभस्मनैव कषायितस्तनी विभावसौतनुं रचयिष्यामि। अमुना पुरोवर्तिना। वायुभिर्नीयमानतया दृश्यमानेनेत्यर्थः। अनेनास्य कालान्तरानवस्थानमिदानीमादानसौकर्यं च द्योत्यते।प्रियस्य गात्रं प्रियगात्रं, तस्य भस्म प्रियगात्रभस्म, तेन।एवशब्दोमण्डनान्तरान्वेषणं परिहरति। कषायितस्तनी।कषायितौभावितो, अनुलिप्तावित्यर्थः, स्तनौयया तथाभूता सती। ‘निर्यासे भावनायां च कषायस्तुवरे रसे’ इति भोजः। अत्र प्रियगात्रभस्मनैवानुलिपतस्तनीत्यनेन प्रियालिङ्गनप्रतिवि309धिर्दर्शितः। प्रियमालिङ्ग्यहि चितायां शयितव्यम्। विभावसौ वह्नौ। ‘सूर्यवह्नीविभावसू’ इत्यमरः। तनुं शरीरं रचयिष्यामि निधास्यामीत्यर्थः। अत्रोपमामाह—नवपल्लवसंस्तरे यथा इति। नवपल्लवसंस्तरे नवैः पल्लवैःकृते संस्तरे शय्यायाम्। यथाशब्दोऽयमुपमाद्योतकः। अग्निपल्लवयोरारुण्यमुपमाहेतुः। अनेनोपमानेनात्रापि प्राचीनसम्भोगसौख्यं द्योत्यते। विभावसोः परमप्रीतिविषयत्वंच ध्वन्यते। अत्र पल्लवानां नवत्वविरेषणेनात्यन्तसौकुमार्यमुक्तम्। प्रियगात्रभस्मनो मण्डनान्तरेभ्यो व्यतिरेकं दर्शयति—सुभगेनेति। सुभगत्वं मनोहरत्वं , तच्च प्रियगात्रकार्यत्वात्॥३४॥
कुसुमास्तरणेसहायतां
बहुशः सौम्य ! गतस्त्वमावयोः।
कुरु सम्प्रति तावदाशु मे
वि310निपाताञ्जलियाचितां311चिताम्॥३५॥
(प्रकाशिका)
कथमेतन्नृशंसं कुर्यामित्याह—
कुसुमेति। तावच्छब्दः क्रमद्योतकः। क्रमश्चावसरः। इदमिदानीं प्राप्तावसरमित्यर्थः। विनिपाताञ्चलि- रन्त्याञ्जलिरित्यर्थः। तेन याचनस्याप्रत्याख्येयत्वमुक्तम्। सम्पदि312 सहायेन विपद्यपि तथा भाव्यमित्यर्थः॥२५॥
(विवरणम्)
नन्वस्तु मृतभर्तृकाणां वधूनां भर्तृसमीपप्रस्थानोपकरणविधानमेव सर्वत्र बन्धुजनप्रयोजनं, तथाप्यहं कथमेतादृशं नृशंसं कर्मकुर्यामित्यत्राह—
कुसुमेति। सोम्य ! त्वं कुसुमास्तरणे आवयोः बहुशः सहायतां गतः। हे सौम्य ! प्रियदर्शंन !। ‘रुचिरः सुभगः सौम्य’ इति भोजः। कुसुममये आस्तरणे शय्यायाम् आवयोः भर्तुर्मम च बहुशोऽनेकशः सहायतां सहायत्वं गतः प्राप्तोऽपि। सुरतोपकरणभूतानामुद्दीपनानां विधानादिति शेषः। अनेन वाक्येन वसन्तस्य सम्पदि सहायत्वमुक्तम्। अत एव विपद्यपि सहायेन भवितव्यमित्याह—त्वं सम्प्रति तावन्मे विनिपाताञ्चलियाचितां चितामाशु करु। सम्प्रति इदानीम्, आपत्समयेऽपि। तावच्छब्दः क्रमार्थः। क्रमश्चात्रावसरप्राप्तिः। अवसरप्राप्तमिदं कुर्या इत्यर्थः। मे मम। विनिपाताञ्जलियाचिताम्।विनिपातो मरणं तत्समये कृतोऽञ्जलिर्विनिपाताञ्जलिः। अन्त्या-
ञ्जलिरित्यर्थः। तेन याचिताम्। अनेन याचनस्याप्रात्याख्येयत्वमुक्तम्। चितां, ‘देहदाहाय काष्ठानां सञ्चयःसाग्निकश्चिताः’। तां कुरु विधेहि। यस्त्वमावयोः सुरतावसरे तदुपकरणविधानेन सदायतामुपगतोऽभूः, तेन त्वया मरणावसरे तदुपकरणविधानेनापि सहायतया भवितव्यमेव। यतः सम्पन्मात्रसदायत्वं खलस्वभाव इति भावः॥३५॥
तदनु ज्वलनं मदर्पितं।
त्वरयेर्दक्षिणवातवीजनैः।
विदितं खलुते यथा स्मरः
क्षणमप्युत्सहते न म313द् विना॥३६॥
(प्रकाशिका)
अन्यदपीत्याह—
तदन्विति। त्वरणे हेतुमाह—विदितमिति। खलुरनुनये। उत्सहते व्याप्रियते, शयनासनादिष्विति शेषः। मदिति पञ्चमी॥३६॥
(विवरणम्)
अन्यच्च किञ्चित् कर्तव्यमस्तीत्याह—
तदन्विति। तदनु त्वंमदर्पितंज्वलनं दक्षिणवातवीजनैः ज्वलयेः। तदतु चिताविधानानन्तरम्। मदर्पितं मय्यर्पितं न्यस्तम्। अर्पणेऽपि स्वस्यैव कर्तृत्वम्। ‘स्वयमेवार्पयेदग्निमि’ति वचनात्। ज्वलनमग्निम्। दक्षिणवातवीजनैः दक्षिणस्य मलयाचलोद्भूतस्य वातस्यानिलस्यवीजनैः सञ्चारणेः। ज्वलयेःज्वलितं विधेहि। त्वरयेरिति पाठे ज्वलनं कृतत्वरं विधेहीत्यर्थः। नन्वग्निः शुष्केन्धनसंयोगे सति क्रमेण स्वयमेव ज्वलिष्यति। किमिति त्वरयेत्यत्राह—स्मरः मां विना यथा क्षणमपि नोत्सहते, तथा ते विदितं खल्विति। स्मरो
मदनः मां विना मया विना।‘पृथग्विनानानामि—’(२. ३. ३२)इति योगविभागाद् द्वितीया। मद्विनेत्येव वा पाठः। ‘पृथग्विने’त्यादिना पञ्चमी। मया विना यथा क्षणमात्रमपि नोत्सहते शयनासनादिषु न व्याप्रियते, तथा ते त्वया। विदितमिति वर्तमाने क्तः। ‘क्तस्य च वर्तमाने’(२. ३. ६७) इति षष्ठी। खलुशब्दोऽनुनये। ‘निषेधवाक्यालङ्कारजिज्ञासानुनये खल्वि’त्यमरः॥३६॥
इति चापि विधाय दीयतां
सलिलस्याञ्जलिरेक एव नौ।
अविभज्य परत्र यन्मया314
सहितः पास्यति ते स बान्धवः॥३७॥
(प्रकाशिका)
यच्च तेऽवश्यकर्तव्यं जलाञ्जलिदानं, तदप्येतत् कृत्वै315व कर्तव्यमित्याह—
इतीति। चा316पिः समुच्चये। इति चापि विधाय एवं च317 कृत्वा। अञ्जलिदाने विशेषमाह—एक एवेति।नावावयोः। अत्र हेतुमाह—अविभज्येति। अत्रानुमरणात् सहभावः। एकस्यैव दानादविभाग इत्युभ318यपप्यभिमतं कामस्य यस्मादित्यर्थः॥३७॥
(विवरणम्)
तवावश्यकर्तव्यंजलाजलिदानमपि मदुक्तमेतत् सर्वंकृत्वैव कर्तव्यमित्याह—
इति चेति। इति चापि विधाय सलिलस्य अञ्जलिः नौएक एव दीयताम्। इतिशब्दः पूर्वोक्तप्रकारवाची। चापिशब्दाभ्यां पूर्वोक्ततकलकर्तव्यसमुच्चयः क्रियते। पूर्वोक्तक्रमेण सर्वमपि विधायेत्यर्थः। सलिलस्या-
ञ्जलिःप्रेततर्पणजलाञ्जलिः। नौआवाभ्याम्। अस्मिञ्जलाञ्जलिदाने विशेषमाह—एक एवेति। नान्येषामिव पृथग् दातव्यमित्यर्थः। दीयतामिति कर्मणि लोट्। आवयोरेकजलाञ्जलिदाने हेतुमाह—ते स बान्धवः परत्र मया सदितः अविभज्य पास्यति यत्। ते तवसः परलोकप्राप्तेरपरोक्षः बान्धवो बन्धुः। स्वार्थोऽण्प्रत्ययः। परत्र परलोके मया सहितः। अत्रानुमरणं सहभावे हेतुः। अविभज्य विभागमकृत्वा। जलाञ्जलेरेकत्वादविभागः। पास्यति पानं करिष्यति। यस्मात् तव बन्धोराविभज्यमानं सहैव पानं चाभिमतं, यस्माच्च तत्रानुमरणमेकजलाञ्जलिदानमेव चोपायः, तस्मादनुमरणोपायकरणमेकजलाञ्जदानं चावश्यं कर्तव्यमेवेति भावः॥३७॥
परलोकविधौच माधव !
स्मरमुद्दिश्यविलोलपल्लवाः।
निवपेः सहकारमञ्जरीः
प्रियचूतप्रसवो हि ते सखा॥३८॥
(प्रकाशिका)
अन्यच्चेत्याह—
परलोकेति। परलोकविधौप्रेतकृत्य इत्यर्थः॥३८॥
(विवरणम्)
प्रेतकार्ये विशेषान्तरमप्याह—
परलोकेति। माधव ! परलोकविधौस्मरमुद्दिश्य सहकारमञ्जरीः निकपेः च। माधव ! हे वसन्त !। परलोकविधौ परलोके विधिः परलोकविधिः तस्मिन्। प्रेतकृत्यइत्यर्थः। स्मरमुद्दिश्य कामदेवोद्देशेन। सहकारमञ्जरीःसहकारस्य चूतस्य मञ्जरीः स्तबकान्। निवपेः। ‘पितृदानं निवापः स्यादि’त्यमरः। निवापाञ्जलौकुसुमस्थाने दद्या इत्यर्थः। न केवलं कुसुममात्रम्,
अपितु पल्लवांश्चेत्याह—विलोलपल्लवा इति। विलोलाश्चञ्चलाः पल्लवा यासु ताः। प्रेतकार्येसहकारप्राधान्ये हेतुमाह—ते सखा प्रियचुतप्रसवो हीति। ते सखा कामदेवः। प्रिया इष्टाः चूतस्य सहकारस्य प्रसवाः पुष्पाणि यस्य स तथा। हिशब्दो यस्मादर्थे। पूर्वं यत् प्रियं, तदेव हि परत्र देयमिति भवः॥३८॥
इति देहविमुक्तये स्थिरां319
रतिमाकाशभवा सरस्वती।
शफरीं हृदशोषविह्वलां320
प्रथमा वृष्टिरिवान्वकम्पत्॥३९॥
(प्रकाशिका)
अथ मरणव्यवसायनिवृत्तेर्वक्ष्यमणाया हेतुमवतास्यति—
इतीति।स्थिरांव्यवासिताम्। प्रथमेति, द्वितीयादीनां प्राणप्रदत्वसाम्याभावात् अन्वकम्पत अकृपायत॥३९॥
(विवरणम्)
इत्थं विलप्य स्थिरमरणव्यवसायायां मदनप्रियतमायां तद्व्यवसायनिराकरणकारणभूतं किमप्यद्भूतमुद्भूतमित्याह—
इतीति। इति देहविमुक्तये स्थिरां रतिम् आकाशभवा सरस्वती अन्वकम्पत। इति उक्ते321न प्रकारेण। देहविमुक्तये देहस्य शरीरस्य विमुक्तये परित्यागाय। स्थिरां कृतनिश्चयाम्। रतिं कामवधूम्। आकाशभवा आकाशाद्भव उद्भवोयस्यास्तादृशी। सरस्वती वाणी। ‘गीर्वाग्वाणी सरस्वती’त्यमरः। अन्वकम्पत अनुकम्पां कृतवती। अनुगृहीतवतीत्यर्थः। अत्राकाशभवेत्यनेन दिव्यत्वमुक्तम्।तस्य च रतेः सत्यत्वप्रतीतिः फलम्। वृष्टिसाम्यं
चानेन प्रतिपादितं, वृष्टेरप्याकाशभवत्वात्। अत्रोपमां दर्शयति—ह्रदशोषविह्वलां शफरीं प्रथमा वृष्टिरिवेति। ह्रदशोषबविह्वलांह्रदस्य जलाशयस्य शोषेण ग्रीष्मकृतेन शोषणेन विह्वलां परवशाम्। शफरीं मत्स्यविशेषस्त्रियम्। प्रथमा ग्रीष्मावसानसमुद्भवा। द्वितीयादीनां प्राणप्रदत्वसाम्याभावात् प्रथमशब्दोपादानम्। उपमेये तु माधववचनापेक्षया प्रथमपदम्। यथा प्रथमा वृष्टिराकाशदेशादतर्कितापाता सती ह्रदविनाशविधुरां शफरीमनुगृह्णाति, तथा भर्तृविनाशविधुरां रतिं सरस्वती चानुगृहीतवतीत्यर्थः॥३९॥
कुसुमायुधपत्नि ! दुर्लभ-
स्तव भर्ता न चिराद् भविष्याति।
शृणु येन स कर्मणा गतः
शलभत्वं हरलोचनार्चिषि॥४०॥
(प्रकाशिका)
सरस्वतीप्रकारमाह—
कुसुमेति। दुर्लभो न भविष्यतीत्यन्वयः। कदा न भविष्यतीत्याह—चिरादिति। दवीयसि काल इत्यर्थः। नचिरादित्येकपदत्वे विवक्षिते विरुद्धार्थप्रतीतिः। कथमेतत् प्रत्येमीत्याह—शृण्विति॥४०॥
(विवरणम्)
तस्याः सरस्वत्याः प्रकारमेवाह—
कुसुमायुधेति। कुसुमायुधपत्नि! तव भर्ताचिराद् दुर्लभः न भविष्यति। कुसुमायुधपत्नि ! कुसुममायुधं यस्य तस्य पत्नी कुयुमायुधपत्नी, तस्याः सम्बुद्धिः कुसमायुधपत्नीति। तव अनुमरणोद्यतायास्ते। भर्ताकान्तः। चिरात् केषुचित् कालेष्वतीतेष्वित्यर्थः। दुर्लभः दुःखेन लभ्योन भविष्यति। सुलभ एवभविष्यतीत्यर्थः। ननु भविष्यतीत्युक्तिमात्रेण को निश्चय इत्याशङ्क्य नाशहेतुमुत्पत्तिहेतुं प्रतिपादयितुकामो नाशहेतुमादाववतारयति—शृण्वि-
त्यादिना। सः येन कर्मणा हरलोचनार्चिषि शलभत्वं गतः तत् शृणु। स कामः। येन कर्मणा यादृशेन कर्मणा। हरलोचनार्चिषि। हरस्य लोचनं हरलोचनं, हरलोचने विद्यमानमर्चिःहरलोचनार्चिः। अर्चिस्तेजः। हरलोचनाग्नावित्यर्थः। शलभत्वंपतङ्गभावम्। गतः प्राप्तःतत् कर्मशृणु। यस्य कर्मणः परिपाकवशान्मदनो भस्मसाद्भूतः, तत् कर्माकर्णयेत्यर्थः॥४०॥
अभिलाषमुदीरितेन्द्रियः
स्वसुतायामकराेत्प्रजापतिः।
अथ तेन निगृद्य विक्रिया-
मभिशप्तःफलमेतदन्वभूत्॥४१॥
(प्रकाशिका)।
तत् कर्माह—
अभिलाषमिति। उदीरितेति णिचा कामस्य प्रयोजकत्वमुक्तम्। तस्य कर्मणः322 कथमीदृश फलप्रसावकत्वं जातमित्याह—अथेति। विक्रियां निगृह्येति, तदनिग्रहे शापानुपपत्तेः। एतदिति हरलोचनार्चिपि शलभत्वम्॥४१॥
(विवरणम् )
तदेव कर्माह—
अभिलाषमिति। प्रजापतिः स्वसुतायाम अभिलाषम् अकरोत्। प्रजापतिर्ब्रह्मा। स्वसुतायां स्वस्य मुतायां सरस्वत्याम। अभिलाषमुपभोगेच्छाम् अकरोत् कृतवान्। ब्रह्मा सृष्टिसमये सरस्वतीं निर्माय तद्रूपलावण्यदर्शनमाेहितस्तदुपभोगाकाङ्क्षांव्यधादित्यर्थः। नन्वत्र कामस्य कोऽपराध इत्यत्राह—उदीरितेन्द्रिय इति। उदीरितानि सङ्क्षोभितानीन्द्रियाणि यस्य
स तथा। अत्रोदीरितेति णिचा कामस्य प्रयोजकत्वमव्यभिचारादर्थत एवायातीति शब्दतः प्रयोगाभावः। नहि कामेन विना कक्ष्विदपीन्द्रियसङ्क्षोभकृद् भवति। अयमेव कामस्यापराध इति भावः। ननु तादृशंकर्मकथमीदृशंफलमजनयदित्यतत आह—अथ तेन विक्रियां निगृह्य अभिशप्तएतत् फलमन्वभूदिति। अथ इन्द्रियक्षोभानन्तरं तेन प्रजापतिना विक्रियाम् इन्द्रियविकारं निगृह्यपरिहृत्य। इन्द्रियक्षोभसमये शापानुपपत्तेस्तन्निग्रहकथनम्। अभिशप्तः. हरकोपाग्निनिस्त्वांदहत्विति शप्त इत्यर्थः। तथाभूतः सन् एतद् हरकोपानलदाहरूपमिदं फलम् अन्वभूदनुभूतवान् ॥ ४१ ॥
परिणेप्यानि पार्वतींयदा
नपस तत्प्रवर्णीकृताे हरः।
उपलब्धसु खस्तदा स्मरं
वपुषा स्वेनं ममग्रयिष्याति323॥४२॥
(प्रकाशिका )
अम्तु तावदू, एतत्प्रत्यापत्तेम्तु को हेतुरित्याह—
परिणेष्यनीति \। तपमेति प्रवणीकरणस्य निरुपायत्वशङ्काविधुनोति। उपलब्धसुखः324 ज्ञातानुकृल्यः325।अनुकुलएवेदानीमस्माकमिति जानन्नित्यर्थः। इति चाहेत्युत्तरश्लोकार्थेबाक्यपरिसमाप्तिः॥ ४२ ॥\।
( विवरणम् )
मदनस्य प्रत्यापत्तावपि हेतुमाह—
परिणेप्यनीति। हरः पार्वतीतपमा तत्प्रवणीकृतः यदा परिणेष्यति तदा उपलब्धसुखः स्मरं स्वेन वपुपा समग्रयिष्यति हरो महादेवः। तपसा पार्वतीकृतेनबहुप्रकारेणतपसा कर्तृभूतेन। तत्प्रवणीकृतः तस्या
पर्वत्याः प्रवणीकृतः प्रह्मीकृतः। पार्व॑तीपरत्व॑ प्रापित इत्यर्थः। प्रवणस्तत्परे नम्र’ इति शाश्वतः। नहि तपसा किञ्चिदप्यसाध्यम। अनेनैवम्भूतं हरं प्रह्नीकर्तुसाधनसम्पत्तिरक्ता। पार्वतीतपेवर्णनरूपस्योत्तरसर्गार्थस्य बिन्दूपक्षेपोऽपि कृतः। यदा परिणेष्यति उदृढां करिप्यति। तथा परिणयोद्वाहोपयमाःपाणिपडिनमि’त्यमरः। तदा उपलब्धसुखः उपलब्ध ज्ञातं सुखमानुकूल्यं येन तथाभूतः सन। अस्माकमनुगुण एवायं मदन इत्यवगम्येत्यर्थः। स्मरं कामदेवस्। स्थेन वपुपा त्वया पुर्वमनुभूतेन शरीरेणैवेत्यर्थः। यथा दर्शनान न्तरं भवती भर्तारं प्रत्यभिज्ञास्यति, तथैवेत्यभिप्रायः। समग्रथिष्यति सम्पूर्णं करिष्यति। यदा परमेश्वरः पार्वतीकृतैस्तपाेभिरूदबुद्भभिलाषस्तां परिणेष्यति, तदा कामाेऽयमस्माकमनुकृलएवेत्यवधार्यजगदीश्वरः प्राचीनेनैव शरीरेण मदनं योजयिष्यतीयर्थः \। ‘इति चाहे त्युत्तरश्लोकस्य पूर्वाधे एवास्य वाक्यस्य परिसमाप्तिः॥४२॥
हान चाह से धर्मचारिणि326’
म्मरशपान्तभवाम्327 सरस्वतीम।
अशानेरमृतस्थ चोभपाे-
र्वशिनश्र्वाम्वुधराश्च माेनवः॥४३॥
(प्रकशिका)
इनीति। इति चाह इत्याह, न केवलंशप्रवान्। स इति प्रजापतिः धर्मचारिणि ! पतिव्रते! त्वत्प्रभावे किं ने संभाव्यमिति भावः। स्मराशापान्तमाभवां स्मरशापप्रदानावसानसंभूताम्। अनेनः बंशिननग्रहस्वभावत्वादप्रायत्निकत्वमनुग्रहवाचोऽस्या द्योत्यते।एवञ्चविशेषण328दानस्या329-
पेक्षितत्वादव्याभिचारिणोऽपि कर्मण330उपादानम्। प्रजापतिः शप्त्वा पश्चात् परिणेष्यतीत्यादिवाक्यरूपां सरस्वतीं चाहेत्यर्थः। तथाकुपितस्य प्रसादमर्थान्तरन्यासेनोपपादयति—अशनेरिति।अशन्य- मृतशब्दौकोपप्रसादयोरपि लक्षकौ। वशिनां कोपप्रभवत्वं331 चोक्तं शाकुन्तले—
“शमप्रधानेषु तपोधनेषु गुढंहि दाहात्मकमस्ति तेजः।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्बतेजोभिभवाद् वमन्ति॥” (अङ्क, २, श्लो, ७)
इति। अत्राम्बुधरवृत्तान्तस्य वशिवृत्तान्तदृष्टान्तत्वेनोपादानात् तत्समकक्ष्यतेति दीपकमिदम्।तेन चार्थान्तरन्यासस्य सङ्करः। दक्षिणावर्तस्तु—स्मरशपान्तभवा332 सरस्वतीति पाठमादृत्य व्याख्यातवान्। तन्नास्माकं हृदयमावर्जयति॥४३॥
(विवरणम्)
वाक्यपरिसमाप्तिमेव दर्शयति—
इति चेति। धर्मचारिणि ! सः इति सरस्वतीम् आह च। धर्मचारिणि ! हे पतिव्रते !त्वत्पातिव्रत्यामाहात्म्यात् सर्वमपि सम्भाव्यमेवेति भावः। सः प्रजापतिः। इति परिणेष्यतीत्यादिपूर्वाेक्तप्रकाराम्। सरस्वतीं वाणीम् आह उक्तवान्। अस्त्यादिपदवत तिङ्प्रतिरूपकमव्ययमिदम्। चशब्दः पूर्वोक्ततपरूपसरस्वतीसमुच्चयार्थः। “उष्णत्वमग्न्यातप सम्प्रयाेगाच्छैत्यं हि यत् सा प्रकृतिर्जलस्ये"ति न्यायेन वशिनामनुग्रहस्वभावत्वमेव दर्शयति—स्मरशापान्तभवामिति। स्मरविषयस्यशापस्यान्ते भवतीति स्मरशापान्तभवा, तादृशीं सरस्वतीं, न तु शापमोक्षं देहीति स्मरप्रार्थनानन्तरभवाम्। अनेन वशिनां प्रसादस्य स्वाभाविकत्वं दर्शितम्। शापप्रदानानन्तरं कृपालोः परमेष्ठिनो
मुखात् परिणेष्यतीत्यादिरूपा सरस्वती च स्वयमेव निर्गतेत्यर्थः। नन्वेवं कुपितस्य प्रजापतेस्तदनन्तरमेव तादृशप्रसादोदयः कथमुपपद्यत इतीमामाशङ्कामर्थान्तरन्यासेन परिहरति—अशनेः अमृतस्य चोभयोः वशिनः अम्बु धराश्च योनयः इति। अशनेः वैद्युताग्नेःअमृतस्य जलस्य च उभयोरपि वशिनाे जितेन्द्रियाः अम्बुधरा मेघाश्च याेनयः उद्भवस्थानानि। अत्र वशिपक्षे तावदशन्यमृतशब्दौदुःखानन्दकारणत्वात् कोपप्रसादयोर्लक्षकौ।वशिनां कोपप्रभवत्वंचोक्तंशाकुन्तले—
“शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोभिभवाद् वमन्ति ॥’’
इति। अत्र वशिवृत्तान्तदृरष्टान्तत्वेनाप्रकृतोऽम्बुधरवृत्तान्त उपात्त इति दीपकमलङ्कारः।
"‘सकृदवृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम्।
सैव क्रियासु बह्नीषु कारकस्येति दीपकम् ॥’’
इति तस्य लक्षणम्। तेन चार्थान्तरन्यासस्य सङ्करः॥४३॥
तदिदं परिरक्ष शाेभने’
भवितव्यप्रियसङ्गमंवपुः।
अपि333 वीतजला तपात्यये
पुनरोघेन हि युज्यते नदी॥४४॥
(प्रकारिक्रा)
अथ कर्तव्यमवतारयति—
तदिति। तत् तस्माद्, यस्माद् भावी तस्य देहलाभः। इदमिति सम्रगुणास्पदत्वं घोतयति। शोभन इत्यामन्त्रणं “मदनेन विनाकृता (श्लो.
२१)इत्पुक्तंबचनीयमप्येबंशीलवत्यां334 त्वयि निरवकाशमिति द्योतयति। भवितव्यप्रियसङ्गमम् उक्तादेव हेतोरवहयं भाविप्रियसङ्गममू। अवश्यभाविनप्रियसङ्गमोत्सबं मा हासीरिति भावः। प्रियसङ्गमस्य भावित्वमुपपादयतिअपीति। बीतजलापीत्यन्वयः। तपात्यथ इत्यनेन प्रकृतेऽपि कालस्य घटयितृत्वं द्योत्यत। एतच्च न प्रतिवस्तु , प्रथमं बिम्बभूतस्य वस्तुनाेऽनुपन्यासात्। नापि सादृश्येनाप्रस्तुतप्रशंसा, हिशब्देनोपपादकस्योक्तत्वात। तस्मात् कैश्चिदभ्युपगतः सादृश्येनार्थान्तरन्यासोऽयम्॥४४॥
(विवरणम्)
इत्थं मदनस्य प्रत्यापत्तिमुपपाद्य कर्तव्यमेवाह—
तदिति। शाेभने! तत् त्वम् इदं वपुः परिरक्ष। शाेभने! है समग्रगुणसम्यन्ने। अनेनामन्त्रणेन मदनेन विनाकृतारतिः इति श्लोकेन त्वया पूर्वोक्तंवचनीयमप्येतादृशगुणविशिष्टायां त्वयिनिग्वकाशमे वेति द्योत्यते।तद् . यस्मात् त्वत्प्रियतमम्य देहलाभाेऽयश्यम्भावी. तस्मादित्यर्थः। इदं समग्रगुणास्पदत्वेन दृश्यमानम्। वपुःशरीरम्। परिरक्ष परितः समन्ताद्रक्ष। शीताेपचारादिभिः सुरक्षितमेवकुरू। सहसा देहत्यागेन प्रियसङ्गमाेत्सवं मा परित्यजेत्यर्थः। परिरक्षणीयत्वे हेतुमाह—भवितव्यप्रियसङ्गममिति। भवितव्यः अवश्यस्मावी प्रियमङ्गमः प्रियेण भत्राी सङ्गमोयस्य तादृशम।प्रियसङ्गमस्यावश्यम्भावित्वमेवोपपादयति—वीतजलापि नदी तपात्यये पुनः ओघेन युज्यते हि। वीतजलावीतानि विशेषेणतानि गतानि जलानि यस्याः सा तथाभुतापि नदी। तपात्यये ग्रीष्मकालावसाने। “उष्ण उष्मागमस्तपः इत्यमरः। अनेन प्रियवियाेगस्येवप्रियसङ्गमस्यापि कालस्यैव हेतुत्वं द्योत्यते। पुनः पुनरपीत्यर्थः। ओघेन प्रवाहेण, न तु जलमात्रेणेत्यर्थः। अनेन पूर्वकृतानामनुभवानामपि पूर्ववदेव प्रत्यापत्तिः सूचिता।
युज्यते संयुक्ता भवति। हिशब्दः उपपादकत्वद्योतकः प्रसिद्धिवाची।335 सादृस्थनिमित्तोऽतर्थान्तर- न्यासोऽत्रालङ्कारः। स तु कैश्चिदेवाचार्यैरभ्युपगतः, न तु र्स्वै। ननुप्रतिवस्तूपमास्तु। मैवम्। प्रथमं बिम्बभूतस्य वस्त्वन्तरस्यानुपादानात्। नापि सादृश्येनाप्रस्तुतप्रशंसा, उपपादकस्य हिशब्दस्यो- पादानात्। तस्मात् साद्दश्येनार्थान्तरन्यास एवायम्॥४४॥
इत्थं रतेः किमपि भूतमदृश्यरूपं
मन्दीचकार मरणव्यवसायवुद्धिम्।
तत्प्रत्ययाच्च कुसुमायुधबन्धुरेना-
माश्वामयत् समभिवृद्धरसैर्वचोभि336॥४५॥
(प्रकाशिका)
उपसंहरति—
इत्थमिति। किमपि भूतमदृश्यरूपभित्यनेनाकाशभाषिते कः प्रत्यय इत्यसंभावनां निराकरोति। अत एवं वक्ष्यति—तत्प्रत्ययाच्चेति। मन्दीचकार , न तु निश्शेषमपानुदत्। अपनुन्ना337 तु सा बुद्धिरन्यथेत्याह—तत्प्रत्ययादिति। चस्त्वर्थे। समभिवृद्धरसेः सौहादस्यन्दिभिः॥४५॥
(विवरणम्)
अकाशवाणीमुपसंहरति—
इत्थमिति। अदृश्यरूपं किमपि भुतं रतेः मरणव्यवसायबुद्धिम् इत्थं मन्दीचकार। अदृश्यरूपमदृश्यं द्रष्टुमशक्यं रूपं शरीरं यस्य तत्तथा। किमपि अनिर्देश्यम्। अनेनाकाशभाषितस्यापि विश्वसनीयता प्रतिपादिता। अत एवं तत्त्ययाच्चेत्युत्तरार्धेवक्ष्यति। भूतं दैवविशेषः। इदमपि विश्वसनीयत्वे हेतुः। रतेःकामदेवभार्यायाः338। मरणव्यवसायबुद्धि मरणे देह—
त्यागे व्यवसायो निश्चयोयस्यास्तादृशीबुद्धिम्। मरणविषयां निश्चयबुद्धिवा। मन्दीचकार अल्पीचकार, न तु निश्शोषमपाचकार। निश्शेषापहरणं तु माधववचनादासीदियाह—कुसुमायुधबन्धुश्चतत्प्रत्ययाद् वचोभिरेनामाश्वासयदिति। कुसुमायुधवन्धुः कुसुमायुध्रस्य कामदेवस्य बन्धुभूतो वसन्तः। चकारस्तुशब्दार्थे। कुसुमायुधवन्धुस्त्वित्यर्थः। तत्प्रत्ययात् तस्मिन् भूतवचसि प्रत्ययाद् विश्वासात्। ‘प्रत्ययोऽधीनशपथझानविश्वासहेतुष्वि’त्यमरः। वचोभिर्वाग्भिः। बहूव चनेन वचसो बहुप्रकारत्वमुक्तम्। कृपालोः परमेश्वर स्यानुचराणां केपाञ्चिद् वचनमेवेदम्। मा वृथा शरीरं विनाशय। अवश्यंप्रियसङ्गमो मरणेन विना भविष्यत्येवेत्यादिरूपैरिति भावः।वसन्तवचसामाश्वासकारित्वमाह—समभिवृद्धरसैरिति। सम्यगभिवृद्धो रसोऽनुरागो येषु तैः। शृङ्गारादौविषेवीर्यें गुणे रागे द्रवे रसः इति सिंहः। सान्द्रसौहार्दस्यन्दिभिरित्यर्थः। मौहाईेहेतुकुमुमायुधवन्धुत्वम्। अत्र कुसुमायुधशब्देन कुसुमसम्पादके वमन्ते वान्धवहेतुरपि सूचितः। सुहृद्वचाे हि विपदि विश्वस्यमिति भावः॥४५॥
अथ मदनवधूरूपप्लवान्तं
व्यसनकृशा प्रतिपालयाम्बभूव।
शशिन इव दिवातनस्य रेग्वा
किरणपरिक्षयधृसरा दिनान्नम्॥४६॥
( प्रकाशिका)
प्रकरणमुपसंहरति—
अथेति। अथशब्दोऽवस्थान्तरद्योतकः। अवस्थान्तरं च करुणस्य स्प सप्रत्याशत्वाद् विप्रलम्भत्वम्। अत एवं च प्रतिपालनम् \। उपप्लवान्तं शपावसानकालमित्यर्थः। रेस्वात्वादेवोपमाने कार्श्य, कार्श्यसाह-
बर्याच्चोपमेये धूसरत्वं प्रतीयते। अत्र सर्गे स्थायी करूणः। तत्र भूयसां ग्रावानां वारिधौकल्लोलाना- भिवोन्मज्जनंनिमज्जनं च दर्शितम्॥४६॥
इत्यरुणगिरिनाथविरचितायां कुमारसम्भवप्रकाशिकायां
चतुर्थः सर्गः।
(विवरणम्)
रतिप्रलापप्रकरणमुपसंहरति—
अथेति। अथ मदनवधूः व्यसनकृशाउपप्लवान्तं प्रतिपालयाम्बभूव। अथशब्दोऽयमवस्थान्तरारम्भं तयति। करूणस्य प्रत्यापंत्याशया विप्रलम्भत्वप्राप्तिश्वात्रावस्थान्तरम्। आकाशवाणीमाधव वचसोरानन्तर्यवाची वायमथशब्दः। मदनवधूः मदनस्य वधूःरतिः।व्यसनकृशाव्यसनैःदुःखशतैःकृशा कृशशरीश सती। उपप्लवस्पोपद्रवस्य। अन्तमवसानकालम्। शापावसानसमयमित्यर्थः। प्रतिपालयाम्वभुत्र प्ररीक्षाञ्चक्रे। अत्रोपमामाह—दिवातनस्य शशिनः रेखा किरणपरिक्षयधूमरा दिनान्तभिवेति। दिवातनस्य अहानि वर्तमानस्य। शशिनश्र्वन्द्रस्य \। रेखा कलेयर्थः। किरणपरिक्षयधूसरा किरणानां रश्मीनां परिक्षेपेण नाशेन हेतुनाधूसरा धूसरवर्णोसती दिनान्तमिव। यथा चन्द्रस्य प्रतिपत्कला विवार्णा कृशाच सती खतेजोवृद्धिकरं दिनान्तं प्रतिपालयति, तथेयमपि भर्तुःशापावसानसमयमित्यर्थः। प्रदोषमिति वा पाठः। अत्र रेखाशब्दप्रयोगेण उपमाने कार्श्यंप्रतीयते, कार्श्यसाहचर्यादुपमेये धूसरत्वं च। अत्र रतेस्तादृशचन्द्रकलोपमानेन प्रियसङ्गमानन्तरभाविनी क्रमेण वृद्धिश्चध्वन्यते॥४६॥
सर्गेऽस्मिन् करुणो रसः स्थिरतरो भावस्तु वारान्निधौ
कल्लोला इव तत्र तत्र बहवः सम्भज्जनोन्मज्जने।
कुर्वाणा बिलसन्ति हन्त नितरां दीना मदीया पुन-
र्बुद्धिस्तस्य तथापि देशिककृपानावैवं पारं मत्ता॥
आश्लेषाशतकादिपद्यरचनादक्षस्य नारायण-
क्ष्मादेवस्य कृतौगिरीशगिरिजाभक्तिप्रवृद्धोदये।
व्याख्यानेऽत्र कुमारसम्भवपदार्थालोचनप्रक्रिया-
निष्णाते स्म चतुर्थएति विरतिं सर्गो निसर्गोज्ज्वलः॥
इति श्रीकृष्णशिप्यनारायणस्य कृतौ
कुमारसम्भवविवरणे
चतुर्थःसर्गः।
तथा समक्षं दहता मनोभवं
पिनाकिना भग्रमनोरथा सती।
निनिन्दरूपं हृदयेन पार्वती
प्रियेषु सौभाग्यफला हि चारुता॥१॥
(प्रकाशिका)
इत्थं प्रासङ्गिकं परिसमाप्याधिकारिकं वृत्तं स्वावसरेऽवतारबति
तथेति। तथाशब्दो रतिवृत्तान्तविच्छिन्नस्यकामदाहप्रकारस्य परामर्शकः। समक्षमिति मनोरथस्यात्यन्तभग्नत्वं339 द्योतयति। रूपं सौन्दर्यम्। हृदयेन निनिन्देति, प्रागपि रूपाभिमानस्योदात्तनायिकायां गृढत्वात्। ‘स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रत ’ इति वचनात्। प्रियेष्विति विषयसप्तमी। सौभाग्यं स्पृहणीयता॥१॥
(विवरणम् )
इथ्यंकामदहनप्रसङ्गागतं रसिप्रलाफ्वृत्तमुपसंहत्याधिकारिकं वृत्तमेव स्वावसरेऽबतारपितुपञ्चमः सर्गोऽयमारभ्यते। तत्र कामदहनानन्तरं पित्रागृहं प्रापिता देवी किमकरोदित्याङ्क्षायामाह
तथेति। मनोभवं तथा समक्षं दहता पिनाकिना भम्नमनोरथा सती पर्वती हृदयेन रूपं निनिन्द। तथाशब्दोऽयं रतिप्रलापवृत्तान्तकथनविच्छिन्नकामदहनप्रकारं कथानुसन्धानार्थं परामृशति। समक्षमिति दहनक्रियाविशेषणम्। आत्मनः प्रत्यक्षंयथा भवति तथा दहतेत्यर्थः। अनेन मनोरथभङ्गस्यात्यन्तिकत्व सूचितम्। दहता भस्मावशेषतामेव प्राप्यता। अनेन दैववशात् पुनरपि जीविष्यतीत्याशया अप्यभावउक्तः। भग्नोभङ्गप्रापितः मनोरथो हरजायात्व-
प्राप्यादिलक्षणः चित्तवृत्तिविशेषो यस्याः तथाभूता। सती भवन्ती पार्वती रूपं सौन्दर्यं हृदयेन निनिन्द मनसा निन्दितवती। अयमभिप्रायः—पूर्व तावत् ‘प्रेम्णा शरीरार्धहरां हरस्य”(स.१.श्लो.५०) इति नारदवचनानन्तरं देव्याः पुरारिविषयो यो मनोरथोऽङ्कुरितः,पुनश्च परिचर्यायां तत्स्वरूपदर्शनेन यश्च संवार्धितः, तदनन्तरम् “उमामुखे बिम्बफलाधरोष्टे ब्यापारयामास विलोचनानि’(स. ३. श्लो. ६७) इत्यत्र यो वा प्रत्यासन्नफलतया कल्पितः, स सर्वोऽपि कामदहनदर्शनानन्तरं भग्नः, पुनश्च किमनया काननचन्द्रिकाकल्पया मे रूपसम्पदेति निजमेव रूपं मनसा निन्दितवतीति। मनसा निनिन्देयस्यायमर्थः—‘स्थिरो निगूढाहङ्कारो धीराेदात्त’ इत्युदात्तनायकलक्षणमुदात्तनायिकायामपि याेजनीयम्। अतो देव्या उदात्तनायिकात्वाद् रूपाभिमानस्य स्वतो निगूढतरत्वान्निन्दनमपि मनसैव, न तु वचसेति। अनया रूपनिन्दया देवस्यारूपहार्यत्वं प्रतिपादितम्। अत एव वक्ष्यति—अरूपहार्यं मदनस्य निग्रहात (स.५.श्लो.५३) इति। निन्दायामुपपत्तिकथनेन निन्दाप्रकारमेवाह—चारुताप्रियेषु सौभाग्यफलाहिइति। प्रियेष्विति विषयसप्तमी। सौभाग्यं स्पृहणीयत्वं फलं यस्याः सा तथा। चारुतायाः प्रियविष्य॑सौभाग्यमेकमेव340 हिफलं, तदभावे कि रूपसम्पदेति भावः। शैलात्मजापि पितुरुच्छिरसाेऽभिलाषं व्यर्थ समीक्ष्य ललितं वपुरात्मनश्च;’(स. ३. श्लो. ७५) इति तृतीयसर्गान्ते प्रकृतो भावोऽनेनोत्थापितः। प्रथमसर्गान्तप्रकृतस्य प्रयोज्यापार्वतनविधेरुपसंहारोऽप्यत्र दर्शितः॥१॥
इयेष सा कर्तुमवन्ध्यकामतां341
समाधिमास्थाय तपोभिरात्मनः।
अवाप्यते तत्342 कथमन्यथा द्वयं `
तथाविधं प्रेम पतिक्ष्चतादृश;॥२॥
(प्रकाशिका)
हत्थं पूर्वप्रस्तुतं प्रयोज्योपावर्तनविधेर्वैफल्यमनुसन्धाय तत्प्रसङ्गेनालैकिकयोर्नायकयोरलौकिक- मन्यदेव प्रयोज्यस्योपावर्तनमवतारयति—
इयेषेति। समाधिं भग्नस्य मनोरथस्य पुनस्समाधानम्। आस्थाय अवलम्ब्य। तपोभिरिति, तेषामतिदुरापेऽपि साधनत्वात्। यदाह मनुः—
“यद् दुष्करं यद् दुरापं यद् दुर्गे यच्च दुस्तरम्।
तत् सर्वेतपसा प्राप्यं तपो हिदुरतिक्रमम्॥”
इति। तथाविधं शरीरार्धप्रदम्।343 तादृशोऽनन्यनारीकः। उक्तञ्च “प्रेम्णा शरीरार्धहरां हरस्य” (स०. १. श्लो. ५०) इति, “अनन्यभाजं पतिमाप्नुहि(स °३.श्लो. ६२) इति च। अनेनोत्साहात्पनो वीरस्य वर्णयिष्यमाणस्योपक्षेपः344॥२॥
(विवरणम्)
अथलोकोत्तीर्णग्रोर्नायकयोस्तथ। विधमेव प्रयोज्योपावर्तनविधिमवतारयति—
इयेषेति। सा समाधिम् आस्थाय तपाेभिःआत्मनः अवन्ध्यकामतां कर्तुम् इयेष। या भग्रमनोरथा सा पार्वती ममाधिंभम्नमनोरथप्रतिसन्धानम् आस्थाय अवलम्ब्य। भग्रमनोरथानां प्रवृत्यनुपपत्तेरित्थमुक्तम्। तपोभिरिति बहुवचनेन वक्ष्यमाणानां बहुविधानां तपसामुपादानम्। मनोरथप्राप्तिपर्यन्तैरित्यर्थः। अत्यन्तदुरापेऽर्थं तपसामेव साधनत्वमुक्तं मनुना—
“यद् दुष्करं यद् दुरापं यद् दुर्गं यच्च दुस्तरम्।
तत् सर्वं तपसा प्राप्यं तपो हि दुरतिक्रमम्॥
इति। अत्रात्मशब्दस्थार्थप्रकरणाभ्यां सिद्धत्वेऽप्यात्मनो नित्यत्वात् तपोभिः शरीरं परित्यज्य जन्मान्तरेष्वपि स्वमनीषितं साधयिष्याम्येवेति
स्थिरनिक्ष्वयत्वं प्रतिपादयितुमुपादानम्। यथोक्तं भागवते ‘ब्रतकृशान्345 शतजन्मभिः स्यात्’346 (स्क. १०. अ. ५२. श्लो. ४३) इति। अवन्ध्यः सफलः कामोऽभिलाषो यस्याः तस्या भावस्तत्ता, ताम्। इयेष इच्छां कृतवती। ‘इषु इच्छायामि’ति धातुः। लौकिकस्य प्रयोज्योपावर्तनविधेस्तादृशफ़लजनकत्वाभावादयं प्रयोज्योपावर्तनविधिरेव तस्या युक्ततर इत्याह—अन्यथा तद् द्वयं कथमवाप्यते इति। अन्यथा लौकिकोपावर्तनमात्रेण। तद् वक्ष्यमाणं द्वयं कथमवाप्यते लभ्यते, न कथञ्चिदित्यर्थः। कि तद् द्वयमित्यत्राह—तथाविधं प्रेम तादृशःपतिश्चेति। तथाविधं प्रेम्णशरीरार्धहराम्’ इति नारदवचनात् स्वशरीरार्धप्रदम। प्रेम स्नेहः। प्रेमा ना प्रियता हार्दं प्रेम स्नेहःइति सिंहः। तादृशः “अनन्यभाजं पतिमाप्नुहि’ इति भगवद्वचनाद अनन्यनारीरतिः। नारदभगवद्वचनयोः कदाचिदप्यन्यथा भावानुपपत्तेः लौकिकस्योपावर्तनविधेस्तत्साधनत्वाभावाच्चदेव्यास्तपश्चरणामिलाष एव युक्ततर इति भावः। अनेन श्लोकेनोत्माहात्मकस्य वीरस्य वक्ष्यमाणस्योपक्षेपः कृतः॥२॥
निशम्य चैनां तपसे कृताेद्यमां
सुनां गिरीश347ंप्रति सक्तमानसाम्।
उवाच मेना परिरभ्य वक्षसा
निवारयन्नी महताे मुनिव्रतात्॥३॥
(प्रकाशिका)
अथ त्रिभिः श्लोकैरुदात्तगु्ण कार्यसाधनं च व्यवसायस्थैर्यमाह—
निशम्येति। निश्षम्य, सखीभ्य इतिशेषः। तपसे कृतोद्यमामिति विषादः। गिरीशंप्रति सक्तमानसामिति अनुरूपाभिनिवेशिनी दिष्टयामे वत्सेति हर्षः। तदुभयानुमावश्च गाढालिङ्गनपम्। तर्हिबिषादानुरूपो निषेधोहर्षानुरूपा वानुज्ञा वचनस्य विषय इत्याह—निवारयन्तीति
किं सर्वथा निवारणमित्याह—महत इति। कष्टात् तपस इत्यर्थः। दक्षिणावर्तस्तु —व्रतस्य मेनाया अनीप्सितत्वाद् वारणार्थानामीप्सितः (१, ४, २७)इत्पपादानत्वं न स्यात्। निवारयन्ती अपगगमयन्तीति348 व्याचष्ट॥३॥
(विवरणम्)
ननु नेच्छामात्रं फलपर्यन्नन्य तपसो हेतुः, अपि तु स्थिरव्यवसायन्वमपीत्युदात्तगुपुणभुतं कार्यसाधनक्षमं च देव्याः स्थिरव्यवसायत्यंवर्णयितुमुपक्रमते—
निशम्येति349। मेना एनांसुतां तपसे कृतोद्यमां गिरीशं प्रति सक्तमानसा च निशम्य वक्षया परिरभ्य महतः भुनिव्रताद् निवारयन्ती उवाच। तपसे तपश्वरितुम्। कृतः उद्यमो यस्या ताम। अत्र हेतुमाह—गिरीशप्रति सक्तमानसामिति। सक्तं मनसंयस्याः ताम्। गिगीशासक्तचित्तामित्यर्थः। पूर्वं सुतायाः तपश्चरणोद्यमः श्रुतः। पुनश्चतद्धेतुजिज्ञासायां गिरीशासक्तचित्तत्वश्रुतमिति क्रमोऽप्यत्र विवक्षित एव। निशम्य सखीमुखादिति शेषः। वक्षसापरिरभ्य उरसा गाढमालिङ्गय। इदं च गाढालिङ्गनं शरीरक्लेशकरतपश्वरणोद्यमश्रवणजनितस्य शाेकस्य, गिरीशसक्ताचित्तत्वश्रवणजनितस्य अनुरूपाभिनिवेशिनी दिष्टया मे वत्सेति मोदस्य चानुभावः। विषादहर्षयोरनुगुणनिषेधमाह—महन इत्यादिना। अत्यन्तदुश्वरान्मुनीनां व्रतात् तपसः प्रतिषेधं कुर्वती सती उवाच। सृताया गम्यमानया चरणक्रियया मुनिब्रतमीप्सितमिति मुनिव्रतशब्दाद ‘वारणार्थानामीप्मितः’ इति पञ्चमी। अत्र कैश्चिन्मुनिव्रतस्य मेनाया अनीप्सितत्वादपादानत्वानुपपत्तिराशङ्किता। तन्मन्दम्। भाष्यादौ कर्तरित्यनुवृत्तेरप्रदर्शितत्वात॥३॥
मनीषितायार्च350गृहेषु देवता-
स्तपः क्ववत्से! क्वच तावकं वपुः।
पदं सहेत भ्रमरस्थ पेलवं।
शिरीषपुष्पं न पुनः पतत्त्रिणः॥४॥
(प्रकाशिका)
मनीषितायेति। अर्चेति ‘आ धृषाद्वे’ति विकल्पितणिचो रूपम्। देवता इन्द्राण्याद्याः। तर्हितप एव ननु श्रेयस्करमित्याह—तप इति। चशब्दसहायाभ्यां क्वशब्दभ्यामैकाधिकरण्यमाक्षिप्यते। तपश्वेदं वपुश्च साध्यत्वेन साधनत्वेन च कर्तुभूतायां त्वयिनान्वयमुपेत इत्यर्थः। आश्रेपमुपपादयति—पदमिति॥४॥
(विवरणम्)
क्लेशेन विनापि मनीषितसिद्धिप्रदं कर्मान्तरमुपदर्शयति—
मनीषितायेति। वत्से ! त्वं मनीषिताय गृहेषु देवताः अर्च। वत्से! बाले!। अनया सम्बुध्द्या मृदुशरीरत्वादत्यन्तदुश्वरे तपस्यनधिकार उक्तः। मनीषिताय इष्टमर्थं लब्धुम्। गृहेषु देवताः प्रतिमारूपेण वर्तमानाः सौभाग्यप्रदा इन्द्रण्याद्याः351। अर्च पूजय। अर्च पूजायामि’त्यस्य धातोः आ धृषाद् वे’ति णिचो विकल्पितत्वादर्चेति रूपम्। ननु तर्हिश्रेयस्करं तप एव किमर्थमुपेक्ष्यत इत्यत्राह— तपः क्वतावकं वपुश्र्व क्वइति। कठिनशरीरैर्मुनिभिरेव कर्तु शक्यं तपः क्वकुत्र वर्तते। तावकं त्वदीयम् अत्यन्तकोमलं वपुश्च क्व अत्यन्तकठिनशरीरसाध्यस्य तपसः प्रकृत्या कोमलस्य तव शरीरस्य च परस्परान्वयो दुर्घट एवेति भावः। परस्परान्वयाभावमेवोपपादयति—पेलवं शिरीषपुष्पं भ्रमरस्य पदं सहेत पतश्रिणः पुनः न इति। पेलवं प्रकृत्या मृदु। भ्रमरस्य भ्रमणस्वभावस्य भृङ्गस्य। इदमपि सहने हेतुः। भ्रमु अनवस्थाने’ इति धातुः। अर्तिकमिभ्रमिचमि—(उ०.३.१३२) इत्यादिना अरच्। चिरावस्थाने तदपि दुःसहमेवेति भावः। पदं पादविन्यासम्। सहेत इति सम्भावनायां लिङ्। पतत्रिणः पक्षिणः। पदमिति अत्रापि योज्यं,
सहेतेति च। यथा भ्रमरवस्थानक्षमं शिरीषपुष्पं पिकाद्यवस्थानं न सहते, तथा कोमलतरं तव शरीरं कठिनररीरसाध्यं तपश्चरितुमक्षममेवेति भावः। अत्र पूर्वार्धेविषमालङ्कारः। क्वचिद् यदतिवैषम्यान्न श्लोषो घटनामियाद’ इति। उत्तरांर्धे तु सादृश्यनिमित्तोऽर्थान्तरन्यासः। तयोश्च संयृष्टि॥४॥
इति स्थिरेच्छामनुशासती352 सुतां
शशाक मेना न नियन्तुमुयमात्।
क ईप्सितार्थस्थिरनिश्चयं मनः
पयश्चनिम्नाभिमुखं प्रतीपयेत्॥५॥
(प्रकाशिका)
इतीति। इत्यनुशासती हेतौशता। अनुशासनेन हेतुनेत्यर्थः। तथापि किन्नशशाकेत्यांह353—स्थिरेच्छामिति।अस्य हेतोः साध्येन व्याप्रिमाह—क इति। प्रतीपयेत् प्रतिलोमं354 कुर्यात्। अत्रापि दीपकार्थान्तरन्यासयोः सङ्करः॥५॥
( विवरणम् )
इत्थंप्रबृत्तस्य जननीवचनस्य स्थिरम्यवसायायां देव्यां वैफल्यमाह—
इतीति। मेना सुताम् इति अनुशासती उद्यमाद नियन्तुं नशशाक। सुताम् आत्मनः पुत्रीम्। इृदमनुशासने हेतुः। इति पूर्वोक्तप्रकारेण। अनुशासतीति हेतौ शता। अनुशासनेन हेतुनापीत्यर्थः। उद्यमाद् मुनिव्रतोद्योगाद् नियन्तुं निवर्तयितुं न शक्ताभुत्। अत्र हेतुमाह—स्थिरेच्छामिति। स्थिरव्यवसायामित्यर्थः। अस्य हेतोः साध्येन355 व्याप्तिं दर्शयति—ईप्सितार्थस्थिरनिश्चयं मनः निम्नाभिमुखं पयश्च कः, प्रतीपयेदिति। ईप्सिते अभीष्टे
अर्थे वस्तुनि स्थिरः अचञ्चलः निश्चयो यस्यतादृश मनः, निम्नप्रदेश प्रत्यभिमुखं कृतप्रवाह “ण्यः जलं च कः प्रतीपयेत् प्रतिनिवर्तयेत. न काेऽपीत्यर्थः। अत्र दीफकार्थान्तरन्यासयाेःसङ्करः॥५॥
कदाचिदासन्नसस्वीमुखेन सा
मनागधज्ञं पितरं मनस्विनी।
अयाचतारण्यानिवासमात्मनः
फलोदयान्ताय तपःसमाधये॥६॥
(प्रकाशिका)
उत्सादृश्यद्वितीयामवस्थां वर्णयति—
कदाचिदिति। कदाचिद अवसरे लब्ध इन्यथः। आसन्नेन्युभयत्र विस्त्रम्भ उक्तः। उभयत्र विस्रब्ध हि मित्रमथेक्रारि। पनोरथतं मनोरथश्च दुर्वार उति जानानम्। मनस्विनी स्थिरचित्ता अत एवाह—फलोदयान्ताय। फलोदय एवावसानमम्य तपस इति निश्चित्येत्यर्थः। तपम्समाधये तपम्यैकाग्रयाय। नच्च ने गृहवासे सिध्येदिति भावः॥६॥
(विवरणम् )
एवम् अङ्करितम्योपाह्य क्रमेण बृद्धि वर्णयितु द्वितीयामवस्थामाह—
कदाचिदिति। सा कदाचिते पितंर फलाेदयान्ताय तपःसमाधये आत्मनः अरण्यनिवासम् आसन्नसखीमुखेन अयाचत। कदाचित् प्रश्नावसरे लब्धे। फलोदये फलप्राप्तावेव अन्ताेऽवमानं यम्य तादृशाय। तपसि यः समाधिः चित्तैकाग्य्रतस्मै। यद्यपि कादाचित्कं मनःसमाधानं गृहावस्थानेऽपि सम्भवेत, तथापि फलोदयपर्यन्ते तपसिमनःसमाधानमरण्यनिवासएव मृलभमिति भावः। अरण्ये कानने निवासम्। आसन्नायाः समीपवतिन्याः संख्या मुखेन। या पितृनियाेगादनवरतम आत्मनः समीप वर्तते,
१, ‘ते’ घ पाठः
xत्रासन्नसखीत्युच्यते। तेन तसाः उभयत्र विस्त्रम्भ उक्तः।उभयत्र वेस्त्रब्धो हि बन्धुरर्थसाधको भवति। अयाचत याचितवती। पितुरभिलाषसाधकत्वे हेतुमाह—मनाेरथज्ञमिति। मनोरथं जानातीति तथा। मनोरथस्वरूपस्य सर्वलोकदुर्वारत्वं जानानमित्यर्थः। देव्याः फलोदयान्ते तपसि सामर्थ्यमाह—मनस्विनीति। स्थिरचित्तेत्यर्थः।
“महाकार्येकृताेद्योगाे विघ्नैराहतमानसः।
प्रारब्धं न त्यजति यः स मनस्वीति कथ्यते॥”
इति वचनात्॥६॥
अथानुरूपाभिनिवेशतोषिणा
कृताभ्यनुज्ञा गुरुणा गरीयसा।
प्रजासु पश्चात् प्रथितं तदाख्यया
जगाम गौरीशिखरं शिखण्डिमत्॥७॥
(प्रकाशिका)
तृतीयामाह—
अथेति। अथशब्दों वनवासोपक्रमद्योतकः। गरीयसा धीरेण। एतच्चतथातोषे हेतुः, तोपश्चानुज्ञायां, सा च गमने,कन्यानां पितृपरतन्त्रत्वात्। प्रजासु जनेषुतदाख्यया गौरीशिखरमित्याख्यया। शिखण्डिमादिति दुष्टसत्त्वाभाव उक्तः। एवमुत्तरोत्तरमुत्साहस्य प्रकर्षावस्थाद्रष्टव्या॥७॥
(विवरणम्)
पितृनियोगपुरस्सरं तपोनुरूपदेशप्राप्तिमाह—
अथेति। अथ सा गुरुणा कृताभ्यतुज्ञा गौरीशिखरं जगाम। अथ याचनानन्तरम्। वनवासोपक्रमद्योतको वायमथरब्दः। गुरुणा पित्रा। कृता
विहिता अभ्यनुज्ञा नियोगो यस्याः सा तथा। इदं तु गमने हेतुः, कन्यकानां356 पितृपरतन्त्रत्वात्। ‘पिता रक्षति कौमार’ इति वच्चनात्। गौरीशिखरं हिमवञ्छृङ्गविशेषं जगाम। अनुज्ञायां हेतुमाह—अनुरूपाभिनिवेशतोषिणेति। अनरूपे आत्मानुरूपे वरे विषये योऽभिनिवेशः अभिलाषोत्कर्षःतेन तोषितुसन्तोषितुंशीलमस्येति तथा। तथातोषे हेतुमाह—गरीयसेति। धीरेणेयर्थः। महान्तो ह्मनुरूपाभिनिवेशेन तुष्यन्ति, नाप्यरण्यनिवासाद् बिभ्यति। गैरीशिखरशब्दस्यान्वर्थतां दर्शयति—पश्चात् तदाख्यया प्रजासु प्रथितमिति।पश्चाद् गौरीनिवासानन्तरंतदाख्यया गौरीशिखरमित्याख्यया नाम्नाप्रजासु जनेषु प्रथितं प्रसिद्धम्। गौरीचिरनिवासेनैव हेतुना जनैः गौर्याःशिखरामिति व्युत्पत्त्यागौरीशिखरमिति गीयमानमित्यर्थः। गौरीशिखरस्य विशेषतो रमणीयत्वमाह—शिखण्डिमदिति। शिखण्डिनो बर्हिणः। भूम्निमतुप्। बहुबर्हियुक्तमित्यर्थः। अनेन केकालापमयूरनृत्तादिषु विकारहेतुषु सत्स्वपि देव्या धीरत्वात् तपोलोपरङ्काया अभावः सूचितः। विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एवं धीराः।’ (स.१.श्लो.५९) इतिवत्। तपःसौकर्यार्थंदुष्टसत्त्वानामभावोऽप्यनेनैवःध्वन्यते। नहि शार्दूलाद्याधिष्ठिते देशे शिखण्डिन- सतद्भयान्निवसन्ति॥७॥
विमुच्य सा हारमहार्यनिश्चया
विलोलयष्टिप्रविलुप्तचन्दनम्।
बबन्ध बालारुणबभ्रुवल्कलं
पयोधरोत्सेधविशीर्णसंहति॥८॥
(प्रकाशिका)
अथ तपस उपक्रमं षड्भिःः श्लोकैर्वर्णयति—
विमुच्येति। अहार्यनिश्चयेति तयादुःस्पर्शवल्कलबन्धनकाल357भाविविशेषणम्। यष्टिशब्देन यष्ट्यकारो हारप्रदेशउच्यते! विलुप्त हृतम्। बभ्रुत्वेन दुःस्पर्शत्वहेतु358भूतमप्रशान्तकषायत्वंनवत्वं द्योत्यते। पयोधरोत्सेधेतदाभोगपिधानाय विस्तारितत्वाद् विशीर्णासंहतिः समूहो यस्य। दक्षिणावर्तस्तु—संहतिः श्लक्ष्णत्वमित्याह। श्रूयते च तपस्विकन्यानामपि शाकुन्तलादौस्तनावरणवल्कलम्। बालारुणबभ्रुत्वं हृतस्तनचन्दनत्वेन हारस्यापि समानम्॥८॥
(विवरणम्)
अथ षङभिश्लोकैःतपसउपक्रमो वर्ण्यते। तत्रादौ तपश्चरणाङ्गभूतं वल्कलबन्धनमाह—
विमुच्येति। सा हारं विमुच्य वल्कलं बबन्ध। हारं परित्यज्य स्तनावरणार्थ वल्कलंवक्षति बद्धवती। इदं तु परिधानवल्कलस्याप्युपलक्षणम्। मनोहरहारपरितयागे दुःस्पर्शवल्कलबन्धने च हेतुमाह—अहार्यनिश्चयेति। अहार्यः अनिवार्यःनिश्चयोऽध्यवसायो यस्याः सा तथा। तथाविधहारपरित्यागस्या- न्यदुष्करत्वं द्योतयितु हारस्य मनोदारित्वमाह—विलोल्यष्टिप्रविलुप्तचन्दनमिति। यष्टिशब्देन अत्र यष्ट्याकारो हारप्रदेश उच्यते। विलोलया चञ्चलया यष्ट्या प्रविलुप्त हृतं चन्दनं येन तत् तथा। कुचतटहरिचन्दनाङ्कितमित्यर्थः। कुचाभोगे वल्कलस्यानौचित्यं द्योतयितुं वल्कलस्य दुस्स्पर्शत्वमाह—बालारूणबभ्रुइति। बालारुणो बालार्कःतद्वद्बभ्रु पिङ्गलवर्णम्। ‘बभ्रुस्यात् पिङ्गले त्रिषु” इत्यमरः। अनेन वल्कलस्य नवत्वं द्योत्यते। तेन चाप्रशान्तकषायत्वादत्यन्तदुःस्पर्शत्वम्। इदं च विशेषणं हारस्यापि समानं, तस्यापि स्तनाङ्गरागारुणितत्वात्। तादृशमपि वल्कलं तादृशेस्तनाभोगे गाढंनिबद्धभित्याह—पयोधरोत्सेधविशीर्णसंहतीति। पयोधरयोः
स्तनयोरुत्सेधेन वर्धनेन विशीर्णा विश्लेषं प्राप्ता संहतिरवयवसमूहोयस्य तत् तथा। पयोधरयोरतिमहत्त्वेन तदाभोगपिधानार्थं वल्कलस्यात्यन्तविस्तारितत्वात् तदवयवानां परस्परविश्लेषोऽपि तदा जात इति भावः। अथवा यौवनारम्भेण प्रतिक्षणं विजृम्भमाणे पयोधरे सति तत्सङ्घर्षवशात् परस्परविश्लिष्टावयवसमूहामिति। उक्तं च शाकुन्तले पयोधरयोस्तथावर्धनं “पओहरवित्थारइत्तअं अत्तणो जोव्वणं उवालहंइति। अनेन तादृशयौवनेऽत्यन्तमसम्भावितं तपस्येकाग्रचित्ततवं प्रतिपाद्यते, तेन च प्रस्तुतस्योत्माहस्याेत्कर्षः। अत एवाेक्तम्—अहार्यनिश्चयेति। अत्र परिवृत्तिरलङ्कारः। परिवृत्तिर्विनिमयोयाेऽर्थानां स्यात् समासमैः’ इति॥८॥
यथा प्रमिद्धैर्मधुरं शिरोरूहै-
र्जटाभिरर्प्यवमभृत् तदाननम्।
न पटपदश्रेणिभिरेव पङ्कजं
सशौवलासङ्गमपि प्रकाशते॥९॥
(प्रकाशिका)
यथेति। प्रसिद्धैश्रूर्णादिभिर्भूषितैः। ‘प्रसिद्धौस्व्यातभूषिताबि’ति सिंहः। यथा मधुरमित्यन्वयः। तत्र प्रतिवस्तुना किमिव हि मधुराणां मण्डनं नाकृतीनामिति न्याय उद्भावितः। अनयाेः परिदवृत्ति- रलङ्कारः॥९॥
(विवरणम्)
तपोनुरूप जटाधारणमपि भङ्गयन्तरेणाह—
यथेति। तदाननं प्रसिद्धैःशिरोरुहैःयथा मधुरम् अभूद, जटाभिरापि एवम्। तस्या आननं मुखं प्रसिद्धैःभूषितैः। प्रसिद्धौस्व्यातभूषितावि’त्य-
मरः। चूर्णकुसुमाद्यलङ्कृतैरित्यर्थः। शिरोरुहैःकेशैःमधुरं मनोहरम्। “स्वादुप्रियौतु मधुरावि त्यमरः359। एवंशब्दस्तथाशब्दार्थं। यथा तपःसमयात् पूर्वंतदाननं भूषितैःकेशैःमधुरमभूत् पुनर्जटभिरपि तथा मधुरमभूदित्यर्थः। किमिव हि मधुराणां मण्डनं नाकृतीनाम् ’ इति न्यायेन। अस्मिन्नर्ये प्रतिवस्तूपमां दर्शयति—पङ्कजं षट्पदश्रेणिभिरेव न, सशौवलासङ्गमपिप्रकाशते इति। षट्पदानां श्रेणिभिः समूहैरेव न केवलंप्रकाशते, अपितुसशैवलासङ्गमपि। शैवलैरासङ्गः सम्पर्कः शैवलासङ्गः, तत्सहितं सशैवलासङ्ग, तथाभुतं सदपि प्रकाशते शोभते। काशृदीप्ताै इति धातुः। अत्रापि पूर्वार्धेपरिवृत्तिर्द्रष्टव्या॥९॥
प्रतिक्षण सा कृतरोमविक्रियां
व्रताय मौञ्जीत्रिगुणां बभार याम्।
अकारि तत्पूर्वनिबद्धया तया
सरागमस्या रशनागुणास्पदम्॥१०॥
(प्रकाशिका)
प्रतिक्षणामिति।प्रतिक्षणं रोमाञ्चकरणं मौञ्च्यस्त्रिगुणत्वेनदुस्सहतरत्वात्।व्रतायेत्यावश्यकत्वमुक्तम्। तत्पूर्वनिवद्धत्वंगगहेतुः।रशनागुणास्पदशब्देन रशनापरिवृत्तिर्द्योत्यिते॥१०॥
(विवरणम् )
व्रतायावश्यकर्तब्य मौञ्जीवन्धनमप्याह—
प्रतिक्षणमिति।सा त्रिगुणां यां मौञ्जीं व्रताय बभार तत्पूर्वनिबद्धया तया अस्याः रशनागुणास्पदं सरागम् अकारि। त्रयाे गुणा आवृत्तयों यस्या-
स्ताम्। यां मौञ्जीमुञ्जलतया360 कृतांमेखलांव्रताय बभार। तत्पूर्वमिति बन्धनक्रियाविशेषणम्। तदेव बन्धनं पूर्वं यथा भवति तथा नितरां बद्धवा। इदम्पूर्वनिबद्धयेत्यर्थः। इदं सरागत्वविधाने361 हेतः। तया मौञ्ज्याअस्याः पार्वत्याःरशनागुणास्पदं काञ्चीगुणस्थानम्। सराममकारि राग आरुण्य, तद्युक्तं कृतम्। प्रतिक्षणं कृतरोमविक्रियां, त्रिगुणत्वेनात्यन्तदुःसहत्वात् क्षणे क्षणे विहितरोमाञ्चामित्यर्थः। अत्र रशनागुणास्पदशब्देन रशनां परित्यज्य तत्स्थाने मौञ्जीबन्धनं द्योत्यत इति परिवृत्तिर्ध्वन्यते।अत्र सरागादिशब्दशक्त्यार्थान्तरमपि व्यज्यते। यथा कश्चित् कामी कयाचिन्नायिकया पूर्वं चिरसङ्गतः सन् अपूर्वया त्र्यधिकगुणयान्यया सङ्गतः सुतरां रक्तो भवति, तत्संयोगे प्रतिक्षणमुद्भूतरोमाञ्चोऽपि भवति, तथास्याः कटिप्रदेशो रशनया चिरसङ्गतः सन् त्रिगुणया तत्पूर्वनिबद्भया विहितरोमाञ्चया मौञ्ज्यानितरां सरागो विहित इति॥१०॥
निसृष्टरागादधरान्निवर्तितः
स्तनाङ्गरागारुणिताच्च कन्दुकात्।
कुराङ्कुरादानपरिक्षताङ्गुलिः
कृतोऽक्षसूत्रप्रणयी तया करः॥११॥
(प्रकाशिका)
निसृष्टेति। निसृष्टस्त्यक्तःरागो लाक्षादिः। कन्दुकस्य पतनसमये स्तनयोरुपरि स्थापितत्वादङ्गरागारुणितत्वम्। अत्र पर्यायः परिवृत्तितुल्पफल362ः॥११॥
(विवरणम्)
कुशादानमक्षमालाघधारणं चाह—
निसृष्टेति। तया करः निसृष्टरागाद अधरात स्तनाङ्गरागारुणितात
कन्दुकाच्चनिवर्तितः कुशाङ्कुरादानपरिक्षताङ्गुलिः अक्षसूत्रप्रणयी कृतः। निसृष्टस्त्यक्तो रागो लाक्षादिर्यस्मात्। इदं करनिवर्तने हेतुः। स्तनतटघटितैरङ्गरागौः कुङ्कुमाद्यनुलेपनैररुणिताद् अरुणीकृतात् कन्दुकाच्च निवर्तितो वारितः। कन्दुकस्यपतनसनये स्तनयोरुपरि स्थापितत्वात् तस्य तदङ्गरागारुणितत्वम्। एतच्च कन्दुकसेवास्वभावादवसेयम्। कुशानां दर्भाणाम् अङकुराः कुशाङ्कुराः। अङ्कुरोऽभिनवोद्भिदी’त्यमरः। तेषां परिस्तरणाद्यर्थःमादानेन परिक्षताःपरितःसमन्तात् क्षता अङ्गुलयो यस्य स तथा। कुशानां क्रूरस्पर्शत्वमङ्गुलिपरिक्षतौहेतुः। अङ्कुरशब्दपादानादत्यन्तक्रुरस्पर्शत्वं363 सूचितम्। अक्षसूत्रमक्षमाला। प्रणयस्नेहः परिचयो वा। ‘प्रणयः स्यात् परिचये याच्ञायां सौहृदेऽपि च’इति वैजयन्ती। अक्षसूत्रेप्रणयाेऽस्यस्तीत्यक्षसूत्रप्रणयी। पार्वती तपस्समये निजकरमधररञ्जनकन्दुकाघातरूपात् कार्यद्वयान्निवार्य कुशङ्कुरादानाक्षमाला364परिवर्तन- रूप कार्यद्वयपरमकरोदित्यर्थः। अत्रैकस्पैव करस्याधरादौ दर्भाङ्कुरादौच क्रमेण वर्तनात् पर्यायोऽलङ्कारः। एकमनेकस्मिन्ननेकमेकस्मिन् वा क्रमेण पर्यायः’ इति। फलतस्तु परिवृत्तरेव, पयाेयस्यात्र वैचित्र्यविशेषाभावात्॥११॥
महार्हशय्यापरिवर्तनच्युतैः
स्वकेशपुष्पैरपि या स्म दूयते।
अशोत सा बाहुलतोपधायिनी
निषेदुषी स्थण्डिल एव केवले॥१२॥
(प्रकाशिका)
महार्हेति। महार्हशव्देनहंसतूलगर्भत्वमुक्तम्। स्वकेशषु-
ष्पैःअर्थादजङ्गानि मृद्गद्भिः। बाहुलतामुपधानंकुर्वती। निषेदुषी दिवस उपविष्टा। स्थण्डिले भूमौकेवले अनास्तृते। अत्र याझवल्क्यः
“स्वप्याद् भूमौशुची रात्रौदिवसं प्रपदैर्नयेत्।
स्थानासनविहारैर्वायोगाभ्यासेन वा तथा॥”(अ. ३.श्लो.५१)
इति॥१८॥
(विवरणम्)
अथ
“स्वप्याद् भूमौशुचीरात्रौदिवसं नियमैर्नयेत्।
स्थानासनविहारैर्बा योगभ्यासेन वा तथा॥”
इति याज्ञवल्क्यवचनसिद्धत्वाद365ब्रतिनामवश्यकर्तव्यं भूमिशयमाह
महार्हेति। या महार्हशय्यापरिवर्तनच्युतैःस्वकेशपुष्पैःअपि दूयते स्म, सा केवले स्थाण्डिलएवनिषेदुषीअशेत। महार्हायाम् अनर्घदुकूलनिर्मितायामतिमृदुलतृलगर्भायां च शय्यायां यत् परिवर्तन परितोवर्तनं, कादाचित्यं विवलमित्यर्थः, तेनच्युतैःपतितैः। स्वकेशुषुप्पैःस्वस्य केशेयानि पुष्पाणि प्रसाधिकाजनैःसाैरभ्यातिशयोद्भावनार्थं निक्षिप्तानि, तैः। शय्यायां पतित्वाशरीरं स्पृशद्भिरित्यर्थात् सिध्यति। किं पुनः पृथिवीगतैःपाषाणप्रमुखैःकठिनद्रव्यैरित्यपिशब्दार्थः। दूयते स्म सुकुमारशरीरत्वात् परिताप॑ प्रापत्। सा केवले अनास्तृते। उत्तरच्छदमात्रेणापि366 रहित इत्यर्थः। स्थण्डिलेभूमौ।न कदाचिच्छय्यायामपीत्येवकारार्थःनिषेदुषी दिवसेप्विति शेष। दिवसेषु स्थण्डिल एवावस्थिता सती निशायां तत्रैवाशेतेत्यर्थः। भूतलशयनेतदुचितमुपधानमप्याह367—वाहुलतोपधायिनीति। प्रशस्तो बाहुर्बहुलता, तामुपदधातीति ‘व्रते’(३, २, ८०) इति णिनिः। “आतो युक् चिण्कृतोः’(७, ३, ३३) इति युक्। अत्र शय्यापसिवृत्तिः॥१२॥
पुनर्ग्रहीतुं नियमस्थया नया
द्वयीषु368 निक्षेप इवार्पितं द्वयम्।
लतासु तन्वीषु विलासचेष्टितं
विलोलदृष्टिर्हरिणाङ्गनास369 च॥१३॥
(प्रकाशिका)
पुनरिति। पुनर्ग्रहीतुम् अर्थात् प्रियसङ्गमसमये। नियमस्थयेति बिलासत्यागे370 हेतुः। द्वयीषु इति पाठः। निक्षेपशब्दोऽत्र द्रव्यपरः। द्वयं निक्षेपत्वेनार्पितमिवेत्यर्थः। अत्र तुल्ययाेगिता॥१३॥
(विवरणम् )
विालासादीनां विराममाह—
पुनरिति। नियमस्थया तया पुनः ग्रहीतुं द्वयीषु द्वयंनिक्षेपः अपिंतमिव। नियमाः शाैचादयः। ‘नियमाः शौचसन्तोषतपोयहुझहुतादयः इति भाेजः। तेषुतिष्ठन्त्या। इदं विलासादेरन्यत्र निक्षेपे हेतुः। पुनः अर्थात् प्रियसङ्गमसमये। ग्रहीतुं स्वीकर्तुम्। द्वयीषुवक्ष्यमाणासु वस्तुद्वयीषु। द्वयंवक्ष्यमाणं वस्तुद्वयम्। अभीष्टकाले समादातुं सत्यवादिनि भ्रमादिरहिते विश्वसनीयेजने धनस्य न्यासाेनिक्षेप इत्युच्यते। निक्षिप्यतेऽसाविति ब्युतपत्त्या तद्धनं च निक्षेपशब्दार्थः। अत्र तु निक्षेपशब्दों द्रव्यपरः, निक्षेपक्रियायाः अर्पणक्रियान्वयानुपपत्तेः371। अर्पितमिव निक्षेपरूपेण न्यस्तमिवेत्युत्प्रेक्षा। कि तद् द्वयं, कासु वा द्वयीप्वित्याशङ्कायामाह372—विलासचेष्टितं तन्वीषु लतासु विलोलदृष्टिः हरिणाङ्गनासु चेति। विलासेन यच्चेष्टितं व्यापारः, तत् तन्वीषु कृशासु लतासु मालत्यादिषु अर्पितम्। विलोला चञ्चलादृष्टिः हरिणाङ्गनासु मृगीषु च अर्पिता। तपस्समये निश्चलशरीरायांनासाग्रदत्तलोचनायां च देव्यां विलासविलोलविलोचनयोरदर्शनं लतासु मृगीषु च तदृर्शनं चात्रोत्प्रेक्षाहेतः॥१३॥
अतन्द्रिता सा स्वयमेव वृक्षकान्
घटस्तनप्रस्नविनी373व्यवर्धयत्।
गुहोऽपि येषां प्रथमाप्तजन्मनां
न पुत्रबात्सल्यमपाकरिष्यति॥१४॥
(प्रकाशिका)
अथ द्वाभ्यां मुनिवृत्ति वर्णयति—
अतन्द्रितेति नन्द्रा आलस्यम्, अनलसेत्यर्थः। वृक्षकान् अल्पार्थे कः। स्वयमेवेति ‘स्वयं दासास्तपस्विन’ इति न्यायाद्, नान्यैः। गुहोऽपीति, विश्वस्यापि पितरौ शिवौ येनैव पुत्रिणौसोऽपीत्यर्थः। अत्र हेतुः प्रथमाप्तजन्मत्वम्374। प्रथममेव वात्सल्यस्य रूढमूलत्वादित्यर्थः। अत्र विराधोऽलङ्कारः॥१४॥
(विवरणम्)
इत्थमुय्क्रान्ततपसों देव्याःसमाधेरुपरमे तत्कालोचितां मुनिवृत्तिं वर्णयाति—
अतन्द्रितेति सा अतन्द्रिता स्वयमेव वृक्षकान् व्यवर्धयत्। अतन्द्रिता अनलसेत्यर्थः। स्वयमेव, न तु परिजनैः। ‘स्वयं दासास्तपस्विन’ इति न्यायादिति मावः। वृक्षकान्,वृक्षशब्ददल्पार्थे कः। बालवृक्षानित्यर्थः। व्यवर्धयद् विशेषेण अवर्धयत्। स्वयमेव बीजावापपुरःसरमुत्तमवृक्षानुत्पाद्यघटोदकेन सिञ्चती तानतितरामवर्धयदित्यर्थः। बालवर्धनोम्रायभूतजलाहरणं भङ्ग्यन्तरेणाह—घटस्तनप्रस्रविनीति घट एव स्तनः घटस्तनः, तस्य प्रस्रवः क्षरतक्षीरं,तद्वती। अत्र स्तनप्रस्रवशब्दौ वक्ष्यमाण- पुत्रवात्सल्यस्फुरणार्थौ। एवम्भुतेषु वृक्षेषुदेव्या वात्सल्यातिशयं भङ्गयन्तरेणाह—गुहःअपि येषां पुत्रवात्सल्यं न अपाकरिष्यतीति। गुहोऽपि, त्रैलोक्यपितरा
वपि पार्वतीपरमेश्वरौयेनैव पुत्रवत्त्वाभिमानमुद्वहतः, सxयुब्रह्मण्योऽपीत्यर्थः। येषां वृक्षाणाम्। सम्बन्धषष्ठी चेयम्। पुत्रवात्सल्यं पुत्रा ममैत इति देव्या वात्सल्यम्। पुत्रेषूचितं वात्सल्यमितत्यर्थः। न अपाकरिष्यति स्वोद्भवानन्तरं न निराकरिष्यति। तत्र हेतुमाह—प्रथमाप्तजन्मनामिति। गुहोद्भवात् पूर्वमेवाप्तंप्राप्तंजन्म यैस्तेषाम्। देव्यास्तद्विषयस्य वात्सल्यस्य नितरां रूढत्वादित्यर्थः। नहि रूढमूलोमहद्भिरपि चाल्यत इति भावः। अत्र वात्सल्यापाकरणामावो गुहं प्रति विरुद्भइति विरोधोऽलङ्कारः॥१४॥
अरण्यबीजाञ्जलिदानलालिता-
स्तथा च तस्यां हरिणा विशश्वसुः।
यथा तदीयैर्नयनैःकुतूहलात्
पुरः सखीनाममिमीतलाेचने॥१५॥
(प्रकाशिका)
अरण्येति। (आरण्यं ? अरण्यवीजं) नीवारादि। कुतूहलात् कियदन्तरमिति झातुमौत्सुक्यात् ।लोचने अर्थादरात्मीये॥१५॥
(विवरणम्)
सर्वभूतदयापरायां वनमात्रनिबासिन्या देव्यां मृगाणामपि विश्वासातिशबमाह—
(आ?अ)रण्येति। हरिणाः तस्यां तथा च विशश्वसु। हरिणाः मृगाः। तथा वक्ष्यमाणप्रकारेण। चशब्दोऽवधारणे, तथैव। विशश्वसुः विश्वासं जग्मुः। तथारब्दाेक्तां विश्वासस्य परमकाष्ठामेव प्रदर्शयति—यथा कुतूहलात् सखीनां पुरः तदीयैः नयनैः लोचने अमिमीतेति। यथा यादृशे विश्वासे सतीर्थः। पार्वतीत्यर्थात् सिध्यति। कुतूहलाद् मद्विलोचनहरिणविलोचनयोः कियदन्तरमिति ज्ञातुं बालस्वभावमात्रजनितादौत्सुक्यात्। सखीनां
आरण्येति’ इति क.ग घ ङ, पुस्तकेषु पाठोदृश्यते। तथा सतिमहाकबिनात्रै-कस्मिन् पद्येवृतभङ्गोऽकस्मात्।कृतः स्यात्।संसृष्टिवेन्दवशास्थयोः। बीजेष्वरण्यसंवन्धस्य। समासत एव लाभात् तद्धितवैयर्ध्येच। आरण्यस्य नविरादेवर्जिमिति विवक्षायां तु तदेव वृत्तवैख्यम
पुरः, न तु रहति। अनेनविश्वासाधिक्यमुक्तम्। लोचने आत्मीये इति शेषः। अमिमीत मानं कुर्यात्, तथा विशश्वसुरिति पूर्वेणान्वयः। विश्वासाधिक्ये हेतुमाह—(आ?अ)रण्यबीजाञ्जलिदानलालिता इति। अरण्यभवानां बीजानां नीवारादीनाम् अञ्जलयः (आ?अ)रण्यबीजाञ्जलयः। अञ्जलयः करसम्युटानि। अञ्जलिपरिमितानामारण्यबीजानां दानेन लालिता इत्यर्थः। अत्राञ्जलिशब्दस्यो पादानमौदार्यंप्रतिपादयितुम्। यावता विश्वासेनात्मीयं नयनं मृगनयनस्योपरि निधाय मध्ये मध्ये कियदन्तरमनयोरिति सस्वीजनं पृष्ट्वामानं कर्तुं शक्यते, नीवारादिदानलालितानां मृगाणां देव्यां तावान् विश्वासो बभुवेति विश्वासाधिक्यमेवात्र प्रतिपाद्यं, न तु मानमपि। यदि देव्याः कदाचिदेवम्भूतमानपेक्षा भवेत्, तहिं तदपि कर्तुशक्यमेवेति भावः। मृगपोषणमपि मुनीनां स्वभावः। यथोक्तं रघुवंशे—‘तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः।’ (सर्ग, ५ श्लो. ७) इति ॥१५॥
कृताभिषेकां हुतजातवेदसं
त्वगुत्तरासङ्गवतीमधीतिनीम्।
दिदृक्षवस्तामृषयोऽभ्युपागमन्
न धर्मवृद्धेषु वयः समीक्ष्यते॥१६॥
(प्रकाशिका)
मुनिवृत्तेःप्रभावमाह—
कृतेति। त्वग् वल्कलम्। उत्तरासङ्गः उत्तरीयम्। अधीतिनीमिति375 अनयाधीतामित्यर्थेइष्ठादिभ्यश्च’ (५. २,८८ ) इतीनिः। कृताध्ययनामित्यर्थः। अत्र विशेषणानि दिदृक्षाभिप्रायाणीति परिकरः।
वु बालैर्वृद्धा उपस्थेया इत्याह—न धर्मवृद्धेष्विति। तद्धि मुख्यं वृद्धवमिति भावः॥१६॥
(विवरणम्)
इत्यमनुहिताया मुनिवृत्तेःप्रभवातिशवयमाह —
कृताभिषेकामिति। मुनयः तां दिदृक्षवः अभ्युपागमन। मुनयः कृतबहुकालतपसो महर्षयः। तां पार्वतींदिदृक्षवः द्रष्टुमिच्छवः। इदं च तत्त्वजिज्ञायुत्वादीनामप्युपलक्षणम्। अभ्युपागमन अभिमुखीकृत्य तत्समीपंप्राप्ताः। तत्वजिज्ञासया तत्समीपमुपगम्यावसरं प्रतीक्षमाणास्तदभिपुखं स्थिता इत्यर्थः। अनेन गुणानुरागात् सदैव तत्रावस्थानंमपि376 दर्शितम्। दिदृक्षाभिप्रायाणि विशेषणान्याह—कृताभिषेकामित्यादिना। कृतः अभिषेकःत्रिषवणस्नानं यया ताम्। अनेन शरीरशुद्धिरुक्ता।सर्ववैदिककर्मणां स्त्नामूलत्वात् स्त्नानस्य प्रथममुपादानम्।
“अस्नाता नाचरेत् कर्मजपहोमादि किञ्चन।
स्नानमूलाः क्रियाः सर्वाःश्रुतिस्मृत्युदिता नृणाम्॥
इति स्मृतेः। स्नानानन्तरं सायम्प्रातरवश्यकर्तव्यस्य हाेमस्याप्यनुष्ठानमाह हुतजातवेदसमिति। हुतो जातवेदा अग्निर्यया या ताम्। अयं तु तपश्चरणङ्गभूतो नैमित्तिको होमः, न तु नित्यः,तस्य विवाहानन्तरमेव विहितःत्वात्। अनेनान्तःकरणशुद्धिरुक्ता॥ वनस्थाेचितकर्मानुष्ठानमाह—त्वगुत्तरासङ्गवतीमिति। त्वग् वल्कलम्। उत्तरासङ्ग उत्तरीयम्। वल्कलोत्तरयिवतीमित्यर्थः येः। इदं तु परिधानवल्कलस्याप्युपलक्षणम्। अनेन सङ्गिनिवृतिद्वारेणान्तःकरणशुद्धिरेव प्रतिपाद्यते। रागद्वेषौहि मानसमातविलपतः। मुमुक्षवोऽप्यधीयीरन् दुरितक्षयकाम्यया’ इत्यादिवचनसिद्धं दुरितक्षयप्रयो
जनमध्ययनमाह—अधीतिनीमिति। कृताध्ययनामित्यर्थः। अनयाधीतमिति ‘इष्टादिभ्यश्र’ (५, २, ८८) इतीनिप्रत्ययः। अनेन दुरितक्षयद्वारेणात्मशुद्धिरुक्ता। एतैश्च विशेषणौर्देव्या दर्शनमात्रस्यापि पापक्षयहेतुत्वगुक्तमिति विशेषणानां दिदृक्षाभिप्रायत्वात् परिकरोऽलङ्कारः। ननु बालौर्वृद्धाएव सेव्याः,अत्र तु विपरीतमेव दृश्यत इत्यत्राह—धर्मवृद्धेषु वयः न समीक्ष्यत दति। धर्मवृद्धेषुं377 शीलवृद्धेषु। वेदोक्तार्थाःनुष्ठानतत्परेष्वित्यर्थः। चतुर्विधं हि वृद्धत्वम्। तत्र वैराग्येणैकं वृद्धत्वम्। यथोक्तं स्कान्दपुराणे—वैराग्येणापि वृद्धस्ते सूनुः पर्वतकन्यके!’ इति। ज्ञानशीलवयोभिस्त्रीणि। यथाेक्तं रामायणे—झानवृद्धैर्वायोवृद्धैः शीलवृद्धैश्चसज्जनैः। कथयन्नास्त वै नित्यम् इति। येषु त्रिविधं वृद्धत्वमृस्याएकैकं वा, तेषु वयो न समीक्ष्यते न
निरूप्यते। वयोवृद्धत्वस्याप्राधान्यादिति भावः। देव्यां तु शीलवृद्धत्वमेव सर्वैरपि विशेषणैःप्राधान्येनोपात्तम्। त्वगुत्तरासङ्गवतीमित्यनेन वैराग्यवृद्धत्वम, अधीतिनीमित्यनेन ज्ञानवृद्धत्वमप्यर्थादुपात्तमिति मन्तव्यम्॥१६॥
विरोधिसत्तवोज्झितपूर्वमत्सरं
द्रुमैरभीष्टप्रसवार्चितानिधि।
नवोटजाभ्यन्तरसम्भृतानलं
तपोवनं तत्र378बभूव पावनम् ॥१७॥
(प्रकाशिका)
विरोधीति। पूर्वशब्देनानादित्वमुच्यते। अभीष्टैः, यद्यदिच्छतितेन तेनेत्यर्थः। प्रसवैः फलपुष्पैः। तत्र गौरीशिखरे। पावनं दर्शना दपीत्यर्थः। एवं गुणानुरागादागच्छत्स्वावसथं379 मुनिषु न केवलं देव्य आश्रममात्रम्. अपित्वेवंगुणविशिष्टं तपाेवनमेव तत्रासीदित्यर्थः॥१७॥
(विवरणम्)
तादृशदेवीनिवासभूतस्यतपोवनस्थापि प्रभावातिशयमाह—
विरोधीति। तत्र पावनंतपोवनं बभूव। तत्र गौरीशिखरे। पावनं दर्शनमात्रेणापि शुद्धिकारमित्यर्थः। तपोवनं न देव्या आश्रममात्रम्, अपितु एवम्भूतगुणविशिष्टत्वात् तपोवनमेव बभूवेति भावः। तपोवनोचितानि विशेषणान्याह—विरोधिसत्त्वोज्झितपूर्वमत्सरमित्यादिता। विरोधिभिः जात्या वैरिभिः सत्त्वैःगजसिंहादिजन्तुभिः उज्झितः त्यक्तःपूर्वमत्सरः अनादिवैरं यस्मिस्तत्तथा। स्पृशति कलभः सैंहीं दष्ट्रांमृणालधिया मुहुरित्यादितपो- वनवृत्तान्तोऽत्र380 द्रष्टव्यः381। गुणानुरागादागच्छतां मुनीनामातिथ्यवेलायां यद्यदभीष्टं।तत्तत् सर्वतपोवनपादपेष्वासीदियाह—द्रुमैरभीष्टप्रसवार्चितातिथीति। द्रुमैःदेवीतपोवनोद्भवैर्वृक्षैः। अत्रार्चने देव्या एवं कर्तृत्वेऽपि वृक्षाणां कर्तृत्वेनोपादानतत्तदवसरे ततदूद्रव्याेत्पादनेन वृक्षाणामेव प्राधान्यद्योतनार्थम्। अभीष्टैरिष्टनरैःकटुतिक्तमधुरादिृद्रव्यविशेषेषु यादृशान्यतिथीनामत्यन्तमिष्टाति, घर्मादिकालविशेषेषुयादृशान्याकाङ्गितालनिच, तादृशौःप्रसवैःफलपुष्यैः। प्रसवः पुष्पफलयोरिति भाेजः। तैरार्चिताः पूजिता अतिथयः आगन्तुका यस्मिस्तत् तथा। सायम्प्रातरवश्यकर्तव्यस्य होमस्य साधनभूतोऽग्निरपि तपश्चरणातिथिसत्कारादिकार्यान्तरव्याकृलयापि देव्यासावधानतया सम्भृतोऽभुदित्याह—नवोटजाभ्यन्तरसम्भृतानलमिति। नवस्याभिनवस्य उटजस्य पर्णशालायाः। ‘पर्णशालोटजोऽस्त्रियामि’ति382 सिंहः। अभ्यन्तरे अन्तराले। अभ्यन्तरं त्वन्तरालम्’ इति सिंहः। अन्तर्भाग इत्यर्थः। सम्भृतः सम्यग्रक्षितः अनलःअग्निर्यस्मिस्तत्तथा।383 वर्षादिभयनिवृत्त्यर्थ नवत्वमुपात्तम्। सम्भृतानलत्वमपि तपोवनानां साधारणो धर्मः। पावनत्वोपपादने हेतुश्च “गावो विप्रास्तथाग्निश्च यस्मिन् देशे प्रतिष्ठिताः।तं देश पावनं विद्याद’ इति वचनात्॥१७॥
यदा फलं संर्वसमा384 समाधिना
न तावना लभ्यममंस्तवाञ्छितम्385।
तदानपेक्ष्य स्वशारीरमार्दवं
नपो महत् सा चरितु प्रचक्रमे॥१८॥
(प्रकाशिका)
अधोत्साहस्य परां काष्ठां वर्णयितुमुपक्रमते—
यदेति। तावता तन्मात्रेण, नपाेमात्रेणेत्यर्थः। आनुषङ्गिकिस्य फलान्तरस्य प्रभावादेर्लाभादवाञ्छितमिति विशेषणम्। स्वशरीरानपेक्षणे386 हेतुः सर्वसमति \। सर्वत्र प्रियाप्रियेषु समा निर्विशेषचित्ता॥१८॥
(विवरणम्)
अथेत्थमुपवाणितस्याेन्साहान्मकस्य वीरस्य387 परां काष्ठां बर्णयिनुमुपक्रमने—
यदेति ।यदा सा तावता समाधिना काङ्क्षितं फल लभ्यं न अमंस्त, तदा स्वशरीरमार्दवम् अनपेक्ष्य महत् तपः चरितुं प्रचक्रमे तावता तावन्मात्रेण। पृर्वाेक्तपरिमाणेनेत्यर्थः। समाधिना तपसा काङ्क्षितं बाञ्छितं हरवरीकरणरूपं फलम्। आनुपङ्गिकाणां प्रभावादीनां फलान्तराणां तावन्मात्रेणैव तपसा लब्धत्वात् काङ्क्षितमिति विशेषणं प्रयुक्तम्।लभ्यं लब्धुं श्क्यं न अमंस्त ने कल्पितवती। तदा असाध्यत्वावगमसमनन्तरम्। स्वस्य शरीरस्य यन्मार्दवं शिरीतीषकुसुमादप्यधिकं सैकुमार्यं, तदपि अनपेक्ष्य अविचार्य महत् कठिनदरीरैरप्यत्यन्तदुश्वरं तपः चरितुं कर्तुं प्रचक्रमे आरेभे। शरीरमार्दवानपेक्षणे हेतुमाह—सर्वसमेति। सर्वत्र शीतोप्णप्रियाप्रियादिषु द्वन्देषुसमा तुल्यबुद्धिः। यदि कङ्क्षितं फल दुर्लभं
भवेत्, तहिं किममानेन देहेनेति निश्चित्यक्रूरे तपासे सावधानचित्ता सा बमभूवेयर्थः॥१८॥
क्लमं ययौ कन्दुकसेवयापि388 या
तया मुनीनां चरितं व्यगाह्मत।
ध्रुवं वपुः काञ्चनपद्मधर्मि389 य-
न्मृदु प्रकृत्या च ससारमेव च॥१९॥
(प्रकाशिका)
तथाविधया तया न केवलंतपः प्रक्रान्तम् ,अपित्ववगाढंचेति सविस्मयमह—
क्लममिति। अत्रेदमूह्ममित्याह—ध्रुवामिति। यद् वपुः390 काञ्चनपद्मधर्मि ,तत् प्रकृत्या मृद्वपि ध्रुवं ससारमेवेत्यन्वयः। काञ्चनपद्मधर्मित्वरय हेतोः ससारत्वेन साध्येन व्याप्तिर्दशिता। अर्थान्तरन्यास- प्रकारक्ष्चायम्॥१९॥
(विवरणम्)
न केवलंदेवी दुश्चरे तपसि निश्चलं मनश्चकार,अपितु नपस्समुद्रावगाहनमेव कृतवतीति सविस्मयमह
क्लमपिति। या कन्दुकसेबय। अपि क्लमंययौतया मुनीनां चरितं व्यगाह्यत। कन्दुकसेवया कौतुकमात्रारब्धया कन्दुकस्य सेवया कन्दुकाघातेनापि नापि क्लमंययौ शरीरसादमगात्, तया मुनीनां कठिनशर्रीराणां महर्षीणां चरितम् अत्यन्तदुश्चरतपश्चरणरूपो व्यापारः व्यगाह्मत अवजगहे। यदत्र देव्या मृदुशरीरयापि स्थिरव्यवसायतया दुश्चरेतपसि प्रवृत्तं, तेनेद
मिदानीं व्यवस्थितमित्याह—यद्वपुः काञ्चनपद्मधर्मि तत् प्रकृत्या मृदु अप ध्रुवं ससारमेवेति। काञ्चनपद्मधर्मोऽस्यास्तीति काञ्चनपद्मधर्मि। काञ्चनमयं पद्मकाञ्चनपद्मम्। तच्च स्वर्गापगादिसमुद्भवम्। तस्य धर्मश्च मनोहरत्वम्। मनोहरं वपुः प्रकृत्या स्वभावतो मृदुत्वेन प्रतीयमानमपिनूनं ससारं शक्तिमदेव। अत्र काञ्चनपद्मधर्मित्वस्य हेतोः ससारत्वेन साध्येन व्याप्तिः प्रदर्शितेत्यर्थान्तरन्यासप्रकारभेद एवायम्॥१९॥
शुचौ चतुर्णा ज्वलतां शुचिस्मिता
हविर्भुजां मध्यगता सुमध्यमा।
विजिदय नेत्रप्रतिघातिनीं प्रभा-
मनन्यदृष्टिः सवितारमैक्षत॥२०॥
(प्रकाशिका)
अथ तपःप्रकारानाह—
शुचाविति। शुचिर्ग्रीष्मः।विजित्य न्यग्भाव्य।प्रभाम् अर्थात् सवितुः। अनन्यदृष्टिर्निश्चलदृष्टिः। सवितात्र पञ्चमोऽग्निरिति पञ्चतपस्त्वमुक्तम्॥२०॥
(विवरणम्)
अथ तपःप्रकारा एव कथ्यन्ते।तत्रादौग्रीष्मकृत तपःप्रकारं दर्शयति—
शुचाविति। सा शुचौज्वलतां चतुर्णा हविर्भुजां मध्यगता नेत्रप्रतिघातिनीं प्रभां विजित्यअनन्यदृष्टिः सवितारम् एैक्षत। शुचौ, शुचिशब्देनात्राव्यवावयविनोः सम्बन्धनियमाद् ग्रीष्मो लभ्यते। शुचिमासे लब्धप्रतिष्ठस्यग्रीष्मस्य तापाधिक्यप्रतीतिश्च फलम्। ज्वलतामिति वर्तमानप्रयोंगेण निरन्तरज्वलनमुक्तम्। तेन तापाधिक्यं ध्वन्यते। चतुर्णां पुरतः पृष्ठे पार्श्वयोश्च स्थापितानाम्। हविर्भुजामग्नीनां मध्यगता मध्यभागं
गतां सती। नेत्रप्रतिघातिनीम् अवेक्षकाणां नेत्राणि प्रतिहन्तुं शीलमस्या इति तथा। तादृशीं प्रभां रश्मिम्, अर्थात् सवितुरिति सिध्यति। विजित्यसतताभ्यासेन न्यग्भाव्य। अनन्यदृष्टिः निश्चलदृष्टिरित्यर्थः। उदयादारभ्यास्तमयपर्यन्तमन्यत् किमप्यनवलेाकयन्ती सती। सवितारं सूर्यम् एैक्षत विलोकितवती। अनेन पञ्चतपस्त्वमुक्तम्। ग्रीष्मे पञ्चाग्निमध्यस्थ’ इति तल्लक्षणम्। तत्र चत्वारोऽग्नयः। पञ्चमस्त्वग्निः सूर्यएव। यथोक्तं माघेन—
“तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते।
पञ्चमः पञ्चनपसस्तपनाे जातवेदसाम्॥” (स०., २, श्लो. ५१)
इति। स्थिरव्यवसायत्वात् तदवस्थायास्तस्याः पीडाभावमाह—शुचिस्मितेति।शुचिनिर्मलंस्मित मन्दस्मितं यस्याः सा तथा। स्वाभाविकं शुचिस्मितत्वंतदानीमपि तथैवावस्थितमिव्यर्थः। पीडायाः सम्भावनां दशयति—सुमध्यभति। कृशावलग्नेत्यर्थः। सा कथमेतादृशींपीडां सहेत, अहाेस्थिरव्यव- सायत्वमस्या इति भावः। अनेन कारणसामग्र्ये सत्यपि कार्यानुत्पत्तिर्ध्वन्यते॥२०॥
नथाभितप्तं सवितुर्गभस्तिभि-
र्मुखं तदीयं कमलश्रियं दधौ।
अपाङ्गयोकेवलमस्प दीर्घयोः
शनैः शनैःश्यामिकया कृतं पदम्॥२१॥
(प्रकाशिका )
तत्र विषाराद्यभावमाह—
तथेति। तथा तेन निश्चल391 (प्र)निरीक्षणप्रकारेण। कमलश्रियं दधौ
उज्ज्वलमेवाभवत्। अपाङ्गेति ससारत्वादाननेऽवकाशमलभमाना392 श्यामिका मृदुतरमपाङ्गमेवा- श्रितवतीत्यर्थः। तच्च शोभावहमेवेति भावः॥२१॥
(विवरणम्)
तादृशे तपसि वर्तमानाया देव्या केवलं पीडाभावो जातः, अपितु प्रसाद हेतुकमौज्ज्वल्यमेवा- भूदित्याह
तथेति। सवितुः गभस्तिभिः तथा अभितप्तं तदीयं मुखं कमलश्रियं दधौसातितुः सुर्यस्य गभस्तिभिः रश्मिभिः तथा पुर्वोक्तप्रकारेण अभितप्तंनितरां तप्र तदीयं मुखं देव्या वदनं कमलस्य पद्मस्य श्रियं शोभाम्। श्रीरिन्दिरायां शोभायाम्” इ(ति?य) जयः। दधौ दधार। यथा कमलं सूर्यरश्मिसंयोगे नितरां शोभते, तथास्या वदनमपीति भावः। न केवलं मनोहरत्वात् तद्वदनस्य कमलसाम्यम्, अपितु सूर्यरश्मिसंयोगे नितरामौज्ज्वल्याच्चेत्यर्थ।वदने निरवकाशा श्यामिका पुनस्तदीयमपाङ्गमे- वाससादेत्याह—श्यामिकया केवलम् अस्य अपाङ्गयोः शनैश्शनैःपदं कृतम् इति। श्यामिकया कालिम्ना। केवलशब्देन ससारे वदने निरवकाशत्वमुक्तम्। अस्य वदनस्य अपाङ्गयोः कटाक्षयोः। तयोरतिमृदुत्वादिति भावः। अपाङ्गयोर्मुखसम्बन्धित्ववचनेन यथा कश्चित् प्रबलेनिजशत्रौ अवकाशमलभमानस्तदीयंकञ्चन पीडयितुमारमभते, तथा श्यामिकापि वदनेऽवकाशमलभमाना तदीयंत्वादपाङ्गयोर्निजश्क्तिं प्रकटयामासेति प्रत्यनीकालङ्कारो व्यज्यते। प्रतिपक्षप्रतीकारा- शक्तौतदीयतिरस्कारः प्रत्यनीकमि’ति सूत्रम्। तयोरपि न झटिति पदं कृतमित्याह—शनैश्शनैरिति। द्विर्वचनेनातिमान्द्यमुक्तम्। तेन च मृदुतरयाेरनयोरपि ससारत्वं ध्वन्यते। पदम् अवस्थानं कृतम्। अपाङ्गयोस्तु सापि श्यामिका शोभावहैव। श्यामिकायास्तदपाङ्गयोर्विशेषेण शो-
मावहत्वमाह—दीर्घयोरिति। अनेन गुणिनां गुणहानिराहिता या रिपुणा सैव गुणान्तरं प्रसूते” इति न्यायो व्यज्यते॥२१॥ `
याचितोपस्थितमम्वु केवलं
रसात्मकस्पोड्डपतेश्चरश्मयः।
बभूव तस्याः खलु393 पारणाविधि-
र्नवृक्षवृत्तिव्यतिरिक्तसाधनम394॥२२॥
(प्रकाशिका)
तत्र शरीरयात्रामाह—
अयाचितेति। अयाचितोपस्थितमम्बु मेघजलम्।रसोऽमृतम्। पारणाविधिः पार समाप्तरावि त्यस्मात् ण्यासश्रन्थों युच्” (३.३.१०७) स्त्रियाम्।व्रतसमाप्तिविधिरित्यर्थः। तथा चोपोपितभोजनं लक्ष्यते। वृक्षाणां वृत्तिर्जीविका तादृशी वृत्तिः। तपोविशेषोऽत्रवृक्षवृत्तिशब्देनोच्यते॥२२॥
(विवरणम्)
तदवस्थाया देव्याःशरीरयात्राप्रकारमाह—
अयाचितेति। तस्याः खलु केवलम् अयाचिताेपस्थितम् अम्बु रसात्मकस्य उडुपतेः रश्मयः च पारणाविधिःबभूव। खलुशब्दों वाक्यालङ्कारे।केवलशब्दः साधनान्तरव्यवच्छेदार्थः।अयाचितमेवोपस्थितं प्राप्तम् अयाचितोपस्थितं , तादृशमम्बु मेघजलम्। रसात्मकस्य अमृस्वरूपस्य। अनेन तद्रश्मीनां णरणाविधिसाधकत्वमुक्तम्। उडुपतेश्चन्द्रस्य रश्मयःकिरणाः। चशब्दस्तदुभय- समुच्चायार्थः। पारणाविधिः ‘पार समाप्तावि’ त्यस्माद् धातोः ‘प्यासश्रन्थो युच्’ इति युचि कृते स्त्रियां पारणारूपसिद्धिः। सैव विधिः व्रतसमाप्तिरित्यर्थः395। तेन चोपोषितभोजनं लक्ष्यते। घर्मकालपर्य-
न्तमुपोषिताया देव्यास्तदवसानसुलभानिमेघजलानि, दिवसावसानपयन्तःमुपोषितायास्तु निशायां निशाकररदमयश्च पारणाविधिर्वभृवेत्यर्थः। कि बहु नेत्याह—वृक्षवृत्तिव्यतिरिक्तसाधनं न इति। वृक्षाणां वृत्तिर्जीविका ,ततेव्यतिरिक्तम् अधिक यत् साधनं फलमूलादि, तन्न पारणाविधिर्वभूवेत्यर्थः अनेनातिदुश्चरो वृक्षवृत्तिरूपस्तपाेविशेषोदर्शितः। अनेन श्लोकेन सर्वर्तु देव्याः शरगीरयात्राविधिरुक्त इति नात्रमेघजलवर्णने काचिदनुपपत्तिः॥२२॥
निकामतप्ता द्विविधेन वह्निना
नभश्चरेणेन्धनसम्भृतेन सा।
तपात्यये वारिभिरुक्षिता नवै-
र्भुवा सहोष्माणममुञ्चर्द्ध्वगम्॥२३॥
(प्रकाशिका)
निकामेति। नभश्चरोवहिरादित्यः। नवैर्वर्षारम्भभाविभिः। तत् प्रागुक्तं मेधाम्वुबार्षिकनुमन्वेयम्। उष्णाणं वाष्पम्। ग्रीष्मोप्णबाष्पाऊष्माणः’ इति सिहः। ऊर्ध्वगमूर्ध्वदेशलक्ष्यमित्यर्थः॥२३॥
(विवरणम्)
इत्थमुपवार्णिते ग्रीष्मकालकृत,तपोXXXXXXXXXसंहरति—
निकामेति। नभश्चरेण इन्थनयम्भृतेन च द्विविधेन वह्निना निकामताप्तातपात्यये नवैः वारिभिःः उक्षिता सा भुवा सह ऊध्वेगम् ऊष्माणम् अमुञ्चत। नभसिआकाशे चरतीति नभश्चरोवद्विरादित्यः। पवतपामि पञ्चमाग्नित्वेन प्रसिद्धत्वादादित्यस्य वहित्यत्वनिर्देशः। तापाधिक्यप्रतीतिश्च
फलम्। इन्धनैः सम्भृतो वर्धितो वह्रिरिन्धनसंभृतः। इत्थं द्विविधेन वह्निना भृशं तप्तासती पुनश्च तपात्यये ग्रीष्मावसाने नवैर्वर्षारम्भसम्भूतैः वारिभिः जलैःउक्षिता सिक्ता च सती सा भुवा सर्वंसहया सह। ऊर्ध्वगम् उर्ध्वं गच्छतीत्युर्ध्वगः; तम्। ऊर्ध्वदश धूमाकारेण लक्ष्यमित्यर्थः। ऊष्माणं बाष्पम्। ‘ग्रीष्मोष्णबाप्पा ऊष्माण’ इत्यमरः। अमुञ्चद् मुक्तवती। ग्रीष्मकाले तप्ता वर्षारम्भे जलैरुक्षिता च सती पृथिवीयथा वाष्पं मुञ्चति, तथेयमपीत्यर्थः। तत्र निकामतप्तत्वं हेतु। तेन च शरीरे ममत्वुद्धिविरहो द्योत्यते, तेन च तपस्येकाग्रत्वम्। अत्र सहाेक्तिसलङ्कारः। “सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्इति॥२३॥
स्थिताः क्षणं पक्ष्मसुताडिताधराः
पयाेधराेत्सङ्गनिपातचूर्णिताः।
वलीषु तस्याःस्खलिताःप्रपाेदिरे
चिरेण नाभिं प्रथमाेदबिन्दवः॥२४॥
(प्रकाशिका)
इयत्पयैन्ते ग्रीष्मंतप उक्त्वा वार्षिक तदाह—
स्थिता इति। अत्र पक्ष्मसु स्थिता इति तेषां घनत्वात्, ताड़िताधरा हति पल्लवसाम्यात्, पयोधरोत्सङ्गनिपातचुर्णिता396 इतितत्काठिन्याद्, वलीषु स्खलिता इति तद्वैषम्यादत्दनुसन्धेयम्। व्यवधानबाहुल्याच्च397चिरेण प्राप्तिः। नाभेः प्राप्तत्वं निम्नत्वात्। प्रथमानामेवैवंभावात् प्रथमशब्दः॥२४॥
(विवरणम्)
इत्थंग्रीष्मकालकृतं तप उपवर्णवार्षिक तपोवर्णयितुमुपक्रमते—
स्थिता इति। प्रथमोदबिन्दवः चिरेण तस्याः नाभिंप्रपेदिरे। प्रथमः
१
ग्रैष्मिकंत्’ ङ.पाठः, ३. त्सेधनि’ ङ. पाठः.न प्राप्तम्।
वर्षारम्भसमयभाविनः। उदबिन्दवः मन्थौदनसक्तुबिन्दुवज्रभारहारवीवध गाहेषु’ (६.३.६०) इत्युदकशब्दस्योदादेशः। उदकविन्दव इत्यर्थः चिरेण महता कालेन। तस्याः नाभिं प्रपेदिरे प्राप्ताः। अत्र नाभेप्राप्यभूमित्वनिर्देशात् तस्याः नितान्तगम्भीरत्वं398 द्योत्यते, तेन च नाभेः सौष्ठवम्। एवमेव सर्वावयवानामपि सौष्ठवप्रातिपादनमुखेन जलबिन्दूनां नाभेश्चिरकालप्राप्तौहेतुमाह चतुर्भिर्विशोषणैः। तत्र शिरसिपतितानां जलबिन्दून नयनप्राप्यनन्तरं तत्र क्षणावस्थानमाह—पक्ष्मसु क्षणं स्थिता इति। अक्षि रोमसु क्षणकालमवस्थिताः। अनेन पक्ष्मणा निबिडत्वमुक्तम्। तच्चसौष्टवद्याेःतकम्। पुनश्च क्रमेणाधरप्राप्तिमाह—ताडिताधरा इति!। पयाेधरयोः कुचयोः; उत्सङ्गे उपरिभागे यो निपातः पतनं, तेन चूर्णिताः चूर्णतां प्राप्ताः। पयाेधराेत्येधनिपातेति पाठे पयोधराेत्सेधःपयोधभोगः। अत्युच्चनास्दथानादतिकठनस्तनततटनिपातेन परमाणुतां प्राप्ता इत्यर्थः। पुनश्च सम्भूय अधोगमनारम्भे वलीषु स्खलिताः। वलीषु वलित्रये स्खाठिताः स्खलन प्राप्ताः। अनेन वलीनां सोपानवद विषमत्वमुक्तम्। अनेन क्रमप्राप्तिवर्णनन अक्ष्यादितत्तदवयवस्थितानां बिन्दूनां क्लेशकरत्वाद् अवश्यंभाविनः करपरिमार्जनस्याभावाे द्योत्यतेतुचित्तैकाग्य्रम। आतपादिशोपिते शरीर प्रथमबिन्दूनामेव तथाप्रप्त्युतेः प्रथमशब्दप्रयोगः॥२४॥
शिलाशयां नामनिकेतवासिनीं
निरन्तरास्वन्तरवातवृष्टिषु।
व्यलोकयन्नन्मिषिनैस्ताडिन्मयै-
र्महानपःसाक्ष्य इव स्थिनाः क्षपाः॥२५॥
(प्रकाशिका)
शिलाशयामिति। निरन्तरासु निबिडधारासु। अन्तरे वाता
(ताडितो व्यथित अधर्ओष्ठो। येस्तथोक्ताः। अनेनाधरस्य पल्लवसाम्यमुक्तम्। पुनश्चाधाेगमनमाह—पयाेधराेत्सङ्गनिपातचुर्णिता इति। एवञ्जातीयककिमपि व्याणयानमत्रपेक्षतं भाति।
यासां ता अन्तरवाता वृष्टयः। उन्मिषितैरक्षिपक्ष्मोद्धाटनैः। साक्ष्ये साक्षिते। समक्षदर्शी साक्षी। साक्ष्यं च आदित्यचन्द्रावनलोऽनिलश्399च! इत्यागमसिद्धम्। व्यलोकयन्निवेत्यन्वयः। एवंविधे महातपसि यत् क्षपाणां साक्ष्यं, तत् तडिदुन्मेषैःस्फुटमिवासीदित्यर्थः॥२५॥
(विवरणम्)
अथ वार्षिकं तपःप्रकारमेवाह—
शिलाशयामिति। महातपस्साक्ष्ये स्थिताः क्षपाः अन्तरवातवृष्टिषु निरन्तराय शिलाशयाम् अनिकेतवासिनीं तां तडिन्मयैःउन्मिषितैःव्यलाेकयन्निव। महत् तपाे महातपः। “आन्महतः—’ (६.३.४६) इत्यादिनात्वम्। तत्र साक्ष्यं साक्षित्वम्। `समक्षदर्शी साक्षी स्यादिति भोजः। तस्मिन् स्थिताः क्षपाः रात्रयः। रात्र्यादीनां कर्मसाक्षित्वमुक्तं महाभारते—
“आदित्यचन्द्रावनलाेऽनिलश्चद्यौर्भूमिरापाे हृदयं यमश्च।
अहश्च रात्रिश्च उभेच सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्॥”
इति। अन्तरवातवृष्टिषुअन्तरे सकलजलधागपतनानामन्तरालेबाता यासां तादृशीषु वृष्टिपु। अनवरतप्रवृत्तमारुतास्वित्यर्थः। अनेन अत्यन्तासह्मत्वमुक्तम्। निरन्तरासु अन्तररहितासु। धाराणां निबिडत्वादनुपलक्ष्यपरस्परविभागास्वित्यर्थः। सन्ततप्रवृत्तास्विति वा। शिलायां शेते इति शिलाशया, ताम्। अनिकेतवासिनीं निकेते गृहे वस्तुं शीलमस्या इति निकेतवासिनी, तथाभूता न भवतीति अनिकेतवासिनी, ताम्। पर्णशालामात्रेणापि रहितेशिलाप्रदेश एव स्थित्वा देव्याः प्रावृषि तपश्चरणम्। निशासु यादृच्छिकं शयनमपि तत्रैवेत्यर्थः। अनेन विलोकनसौकर्यं ध्वन्यते। तथाभूतां तां तडिन्मयैःविद्युद्रूपैः उन्मिषितैःअक्षिप्क्षमोद्धाटनैःव्यलोकयन् अव–
लोकयामासुखि। एवंभूते महातपसि यदागमप्रसिद्धं साक्षित्वंक्षपाणां, तत् तत्कालसुलभै- स्तडिदुन्मेषमयैरवलोकनव्यापारैःस्फुटतामगदिवेत्यर्थः॥२५॥
निनाय चात्यन्ताहिमाेत्किरानिलाः400
सहस्यरात्रीरुदवासतत्परा।
परस्पराक्रन्दिनि चक्रवाकयाेः
पुरो वियुक्तेमिथुने कृपावती॥२६॥
(प्रकाशिका)
अथ शैशिरं तप आह—
निनायेति। सहस्यरात्रीश्चेत्वन्वयः। हिममुत्किरतीति हिमोत्किरः। इगुपध— (३.१.१३५) इत्यादिना कः। सहस्यमासेन शिशिरर्तुरुपलक्ष्यते401 उदवास उदकवासः। उदकस्य ‘पेषपंवासवाहनधिषु च’ (६, ३. ५८) इत्युदादेशः। अत्र मनुः—“आर्द्रवासास्तु हेमन्तेक्रमशो वर्धयंस्तपः”(अ.६.श्लो.२३)इति। चक्रवाकविषयया कृपया स्वायासापरिगणनं द्योत्यते कृपाच तपसाेऽङ्गम्॥२६॥
(विवरणम्)
अथ शारदः शीतोष्णसमकालत्वाद हेमन्तस्य शौत्यधिक्याभावाच्चतत्कालकृतस्य तपसाे विस्मयकरत्वाभावान् तदुपेक्षय शिशिरकालकृतंतपःप्रकारमाह—
निनायेति। सा उदवासतत्परासहस्यरात्रीःच निनाय। उदवासे उदकवासे। ` पेषंवासवाहनधिषु च’ इत्युदकशब्दस्यादादेशः। तत्परा तात्पर्यवती सती सहस्यरात्रीः। सहस्याे हेमन्तान्त्यमासः। तेन शिशिरर्तुरुपलक्ष्यते। हेमन्ते जलाधिवासविधानाभावात्। यथाह मनुः—“आंर्द्रवासास्तु हैमन्त क्रमशोवर्धयंस्तपः” इति। शिशिरकाल-
रात्रीरित्यर्थः। रात्रौ शैत्याधिक्याद् अत्यन्तदुस्सहत्वप्रतिपादनाय रात्रिपदोपादानम्। चकारः पूर्वोक्तिसकलकालसमुच्चयार्थः। निनाय अत्यवाहयत्। ननु कोऽत्र विस्मय इत्यत्राह—अत्यन्तहिमाेत्किरनिला इति। अत्यन्तं हिमम् उत्किरन्ति विक्षिपन्तीति अत्यन्तदहिमाेत्किराः। ‘इगुपधज्ञ- प्रीकितःकः दूति कः। तादृशा अनिला वायवो यासु ताम्तथा। अथ देव्याः तपसोऽङ्गभूतं कृपालुत्वंवर्णयति—पुरः वियुक्ते चक्रवाक्याेःमिथुनेकृपावतीति। पुरः जलेवर्तमानाया आत्मनः पुरोभाग एवं। अनेन कृपाेद्बोधहेतभूते दर्शने सौकर्यमुक्तम। वियुक्ते परस्परावियोगं402 प्राप्ते चक्रवाकयोः मिथुने द्वन्द्वे। ‘स्त्रीपुंसौंमिथुनं द्वन्द्वमित्यमरः। लोकप्रसिद्धश्च रात्रौचक्रवाकयोर्वियाेगः403। कृपावती दयावती। अत्र चक्रवाकविषयायाः कृपायाः प्रतिपादनेन निजायासापरिगिणनं द्योत्यते। दयापरत्वं च तपस्विनां प्रसिद्धम्। दयाया उद्बोधकं हेतुमाह्—परस्पराक्रन्दिनीति। परस्परं चक्रवाकी चक्रवाकं चक्रवाकस्तु चक्रवाकीम् इत्तन्योन्यम्आक्रन्दितुम् आभीक्ष्ण्येन क्रन्दितुं शीलमस्यति तथा॥२६॥
मुखेन सा पद्मसुगन्धिना निशि
प्रवेपमानाधरपत्रशोभिता।
तुषारवृष्टिक्षतपद्मसम्पदां
सराेजसन्तानमिवाकराेदपाम्404॥२७॥
(प्रकाशिका)
मुखेनेति। अधरस्य पत्ररूपणान्मुखस्य पद्मरूपणमार्थमित्येकदेशविवर्तीद405रूपकम्। सरोजसन्तानं सरोजाविच्छेदम्। अत्र शिशिर
कृत पत्राकृतेरधरस्य प्रवेपनम्। मुखस्य सुगन्धित्वंप्रसिद्धम्। कान्तिमत्त्वं चसरोजसन्तानक406रणोत्प्रेक्षाहेतुः407॥२७॥
(विवरणम्)
इत्थमुग्रेतपसि वर्तमानाया अपि देव्या वदनं उज्ज्लमेवाभूदितीममर्थ भङ्ग्यन्तरेणाह—
मुखेनेति।सा निशि पद्मसुगन्धिना मुखेन तुषारवृष्टिक्षतपद्मसम्पदाम् अपां सरोजसन्तानम्408 अकरोद् इव। सा उदवासतत्परत्वाद् उदकेमुखमात्रदृश्या पार्वती। निशि शिशिररात्रौ। अनेन सरोजसन्तानकरणयोग्यता दर्शिता। पद्मसुगन्धिना पद्मवत् सुगन्धिना। शोभनो गन्ध यस्य तत् सुगन्धि। गन्धस्येदुत्पूतिसुमरभिभ्यः’(५.४१२५)इतीत्। मुखस्य सुगन्धित्वंप्रसिद्ध “पद्मिनी पद्मगन्धा स्यादि’त्यादिषु। उक्तञ्च रामायणे—निश्वास इव सीताया वाति वायुर्मनोरमः। इति। तुषारवृष्ट्या हिमजलवर्षेण क्षता नष्ट पद्मसम्पत् पङ्कजसमृद्धिः यासांतादृशीनाम्। अपां जलानाम्। सराेजसन्तानं सरोजानां सन्तानम् अविच्छरेदम् अकराेत् कृतवतीव। तुषारवर्षादितरेषु सरोजेषु विनष्टेषुदेव्या वदनसरोजमेव तदा शिशिररात्रो जले दृष्टमासीत। तेन च देवी कृपावशादपां सरोजसन्ततिविच्छेदाभावार्थमेकं सरोजं निजमुखेनैव कृतवर्तीवेति जनानामुलेक्षा जातति भावः। मुखस्य सरोजः साम्यमेव स्फुटयति—प्रवेपमानाधरपत्रशोभिनेति। प्रवेपमानेन शीतवशात प्रकर्षेण वेपमानेन अधरेणैत्र पत्त्रेण दलेन शोभितुं शीलमस्यति तथा। सरोजपत्त्रं हि वातवशात् कम्प्रंभवति। अतएव’अत्यन्तहिमोत्किरानिला’ इत्युक्तम्। अत्र कम्प्रदलत्वं कप्रस्वरूपत्वंसुगन्धित्वंच सरोजसन्तानोतप्रेक्षानिमित्तम्। अधरस्य पत्त्ररूपणान्मुखस्य पद्मरूपणमर्थादायातमित्येकदेशविवतिं रूपकमिदम् ॥२७॥
स्वयंविशीर्णद्रुमपर्णवृत्तिता
परा हि काष्ठा तपसस्तया पुनः।
तदप्यपाकीर्णमतः प्रियंवदां409
वदन्त्यपर्णेति च तां पुराविदः॥२८॥
(प्रकाशिका)
तपोन्तरमाह—
स्वयमिति। काष्ठा उत्कर्षः।अत्र मनुः—“कालपक्वैःस्वय॑शीर्णैर्वैखानसमते स्थितः”(अ.६. श्लो.२१) इति410। तदपि तादृशंपर्णमपि अपाकीर्णं त्यक्तम्। प्रियंवदा इति पाठः। अपर्णा अपास्तपर्णा। चशब्दः पार्वत्याद्यपेक्षः॥२८॥
(विवरणम्)
अथात्यन्तदुश्चरं तपोन्तरमाह—
स्वयमिति। स्वयंविशीर्णद्रुमपर्णवृत्तिताहि तपसः परा काष्ठा। तया पुनः तद् अपि अपाकीर्णम्। अतः पुराविदः ताम् अपर्णा इति च वदन्ति। कालपाकवशात् स्वयमेव विशीर्णैःपतितैःद्रुमाणां वृक्षाणां पणैःपत्त्रैःवृत्ति र्जीविका यत्र तपसि, तस्य भावस्तत्ता। सा हि तपसः परा काष्ठाहिशब्दः प्रसिद्धौ। प्रसिद्धिश्च’कालपक्वैः स्वयंशीर्णैः वैखानसमते स्थितः’इत्यादिषु मन्वादिवचनेषुच द्रष्टव्या। परा उत्कृष्ठा, उत्कर्षान्तररहितेत्यर्थः। काष्ठा उत्कर्षः। ‘काष्ठोत्कर्षेस्थितौदिशीत्यमरः। तया पुनः। पुनश्शब्दो विशेषमाह। तत् स्वयंविशीर्णद्रुमपर्णमपिअपाकीर्णंत्यक्तम्। अतः पर्णत्यागादेव हेतोः। पुराविदः पूर्ववृत्तान्तवेदिनः। पर्णमस्या नास्तीत्यनया व्युत्पत्त्या तामपर्णेति च वदन्तीत्यर्थः।आभिजात्यादिश्लाघिवन्धुजनोदीरितपार्वत्यादिनामसमुच्चयार्थश्चशब्दः। अपर्णेति वादिनां पुराविरां पर्वतीत्यादिवादिभ्यो।
बन्धुजनेभ्योविशेषमाह—प्रियंवदा इति। प्रियम् इष्टं वदन्तीति तथा। आत्मनैव कृतस्यात्यन्तदुश्चरस्य तपसः स्तुतेस्तेषां विशेषतः प्रियंवदत्वमिति भावः। प्रियंवदामिति वा पाठः। ‘प्रियवशे वदः खच्’ (३.२.३८) ‘अरुर्द्विषदजन्तस्य मुम्’ (६.३, ६७)॥२८॥
मृणालिकापेलवमेवमादिभि-
र्व्रतैस्तदङ्गं411ग्लपयन्त्यहर्निशम्
तपः शरीरैः कठिनैरुपार्जितं
तपस्विनां दुरमधश्चकार सा॥२९॥
(प्रकाशिका)
अथ तपोनिष्पत्तिमाह—
मृणालिकेति।एवमादिभिरेवंप्रकारैः! कठिनैःशरीरैरुपार्जितं तप इत्यन्वयः॥२५॥
(विवरणम्)
अथैवं क्रियमाणस्य तपसःसिद्धिमाह—
मृणालिकेति। मृणालिकापेलवंतद् अङ्गम् एवमादिभिः व्रतैः अहर्निशं ग्लपयन्ती सा तपस्विनां कठिनैःशरीरैःउपार्जितं तपः दुरम् अधश्चकार। मृणालिका बालमृणाली। अल्यार्थे कः। तद्वत्पेलवं मृदु। अनेन हिमजलसम्पर्काद्यसहनत्वमुक्तम्। तद लोकोत्तरम्। अनेन प्रथमसर्ग प्रपञ्चितं सकलमपि सौकुमार्यमनुस्मारितम्। अङ्गंशरीरम्। एवमादिभिः पूर्वोक्तप्रकारैः व्रतैर्नियमैः। अहश्चनिशा च अहर्निशम्। समित्कुशमितिवदेकवद्भावो नपुंसकत्वं च। अत्यन्तसंयोगे द्वितीया।सर्वदेत्यर्थः। ग्लपयन्ती शोषयन्ती। तयस्विनांमहर्षीणाम्। कठिनैःजन्मतःप्रभृति परिचयवशादातपादिसंसर्गसहैःशरीरैः। उपार्जितं सञ्चितम्। तपः दरमधश्चकार ईषत्साधर्म्येणापि
रहितं यथा भवति तथात्यन्तमधःकृतवती।अनेन तपस्सिद्धिकथनेन तपो वर्णनमुपसंहृतमित्यवसेयम्॥२९॥
अथाजिनाषाढधरः प्रगल्भवाग्
ज्वलन्निव ब्रद्ममयेन
बर्चमा।
विवेश कश्चिज्जटिलस्तपोवने
शारीर
बन्धः प्रथमाश्रमोयथा॥३०॥
(प्रकाशका)
अथैवंविधतपःसमुद्रोधितदयोशक्तिसन्धुक्षितनैसर्गिकानुरागस्य तदुभयपराय तस्य सतो
भवस्य परमैन्द्रजालिकस्य छद्मना स्वयमभियोगवृत्तान्तप्रकारंप्रपञ्चयति—
अथेति। आपाढोव्रतिनां दण्डः।अनेन ब्रह्मचर्यं सूच्यते।प्रगल्भवाक् कः कोऽत्र भोः! क्ववर्तते सा तथातपोनिष्ठा पर्वतराजपुत्रीत्यादिप्रगल्भं भाषमाण इत्यर्थः। दक्षिणावर्तस्तु—संस्कृतवागिति व्याख्यायात्र श्रुतिं च412 प्रमाणह। व्रह्म बेदः। व्रह्ममयेन अध्ययनप्रकर्षजनितेनेत्यर्थः।कश्चिदिति लेशतोऽपि प्रत्यभिज्ञासम्भावनां निराकरोति। जटिलो। जटावान्। व्रद्मचारिणोऽपिजटाधारणमस्ति। अत्र मनुः—“मुण्डोवा जटिलोवा स्यादथवा स्याच्छिग्वाजटः” (अ.२.श्लो. २१९) इति। शरीरं वध्नातीति शरीरवन्धः। ‘कर्मण्यण्’ (३,२.१। मुर्तिमानित्यर्थः। प्रथमाश्रमो ब्रह्मचर्यम्। अस्योपक्रमस्य व्याजोपद्दितत्वं स्व यमेवाग्रेप्रकटीकरिष्यति। व्याजश्च देव्या भावपरीक्षार्थम्॥३०॥
(विवरणम्)
अथैवं कृतबहुविधतपःप्रकर्षसन्धुक्षितप्राक्तननैसर्गिकानुरागस्य,
“आयासितानामशरीरबाणैर्नितम्बिनीनां परिदेवितानि।
आत्मार्थमाकर्णयतां हि यूनां समागमो नाम सुखान्तरायः॥”
३. ‘यास’ ङ. पाठः,
इति न्यायेन ‘न कामवृत्तिर्वचनीयमीक्षते’ इत्यादिवचनानि श्रोतुकामस्य भगवतः परमेश्वरस्य व्याजेनाभियोगप्रकारंवर्णयितुमुपक्रमते—
अथेति। अथ कश्चित् तपोवनं विवेश। अथ तपस्सिद्ध्यनन्तरम्। अनेन फलप्राप्तेरासन्नत्वमुक्तम्। कश्चित् कदाचिदप्यदृष्टचरत्वात् प्रत्याभिज्ञागन्धेनापि रहित इत्यर्थः। अनेन अपरिचितत्वकथनेन देवीवृत्तान्तानामज्ञातत्वात् करिष्यमाणानां प्रश्नानां सावकाशत्वमुक्तम्। तपोवनं, देव्या इत्यर्थात् सिध्यति। तपसे वनं तपोवनम्। विवेश प्रविष्टोऽभूत्। अदृष्टचरत्वेन नामगोत्राद्यस्मरणेऽपि वेषविशेषाद ब्रह्मचारिमात्र प्रस्फुटमभूदियाह—अजिताषाढधर इति। धरतीति धरः। ‘धृञ्धारण’ इत्यस्माद् धाताः पचाद्यच् ।अजिताषाढयोर्धर इतिं विग्रहः। अजिनं कृष्णाजिनम्। आषाढःपलाशदण्डः। ‘पालाशोदण्डः आषाढइत्यमरः। अनेन व्राह्मणत्वमपि विज्ञातं, ब्राह्मणानामेव ‘पलाशोदण्डविधानात्। अभ्यागमनवेलायामात्मनिवेदनप्रकारमाह—प्रगल्भवागिति। प्रगल्भाग्रागल्भ्ययुक्ता वाग्वाणी यस्य सतथा। कः कोऽत्र भोः’ क्वबर्तते सा तपसि निष्णाता शैलाधिराजतनयेत्यादि प्रगल्भं भाषमाण इत्यर्थः। प्रगल्भशब्देनात्र वचसोलोकोत्तरत्वमुक्तम्।रूपस्यापि लोकोत्तरत्वमाह—ब्रह्ममयेनवर्चसा तेजसावेदाध्ययनप्रकर्षजनितेनेत्यर्थः। वर्चसालतेजसा ज्वलन्निव दीप्यमान इव। परितः प्रसर्पन्त्याशरीरसुषमया जाज्वल्यमान इवेति भावः। शोभाधिक्यमुत्प्रेक्षाहेतुः। भगवतोब्रद्मचारित्वावलम्बनेऽपि प्राक्तनं जटाधरत्वंतथैवावास्थितमित्याह—जटिल इति। जटावानित्यर्थः। ब्रह्मचारिणामपि जटाधरत्वमुक्तंमनुना—**“मुण्डा वा जटिलो वा स्यादथवा स्याच्छिखाधरः”**इति। तद्रुणानां पृथक् पृथग् वर्णनस्य दुष्करत्वात् समासतोवर्णयति—प्रथमाश्रमः शरीरबन्धः यथा इति। प्रथमाश्रमो ब्रह्मचर्याश्रमः। “ब्रह्मचारी गृहस्थश्चवानप्रस्थोऽथ भिक्षुकः” (मनु. अ. ६.श्लो, ८७) इत्यादिषु स्मृतिषु ब्रह्मचर्याश्रमस्यैव प्राथम्याद् अवलम्ब
नक्रमे प्राथम्याच्च। शरीरं बध्नातीति शरीरबन्धः। ‘कर्मण्यण्’। यथाशब्दोऽयमुत्प्रेक्षाधोतकः। व्रह्मचर्याश्रमः स्वयमेव मूर्तिमानिव लक्ष्यमाण इत्यर्थः। लोकोत्तरप्रभावत्वमुत्प्रेक्षाहेतुः। अत्र भगवतोदेवीहृदयगतस्यनिगूढस्थाप्यभिप्रायस्य श्रोतुकामत्वाद् ब्रह्मयचारित्वावलम्बनम्। युवजनदर्शने हि लज्जया सर्वंन भाषते। अवज्ञया वचनाभावं परिहर्तुं तेजस्वित्वावलम्बनमित्यवसेयम्॥३०॥
नमातिथेयी बहुनपूर्वया
सपर्ययाप्रत्युदियाय पार्वती।
भवन्ति साम्येऽभि413निविष्टचेतसां
वपुर्विशेषेष्वतिगौरवाः क्रियाः॥३१॥
(प्रकाशिका)
तद्विषये देव्याः प्रतिपत्तिमाह —
तमिति। आतिथेयी अतिथिषु साध्वी। ‘पथ्यतिथिवसतिस्वपतेर्ढञ्’
(४.४.१०४) इति ढञ्।बहुमानः श्रद्धा। अतिगौरवाः ‘स्वती पूजायामि’ति समासः॥३१॥
(विवरणम्)
अथ देव्यास्तद्विपयां प्रतिपात्तिमाह —
तमिति। पार्वती वहुमानपूर्वया सपर्ययातं प्रत्युदियाय। अत्र पार्वतीत्यनेन महाकुलोद्भूतत्वादस्यास्त-थाविधातिथिसत्कारप्रावीण्यं ध्वन्यते। बहुमानः श्रद्धा पूर्वं यस्याः तादृश्य। सपर्ययापूजया। ‘पूजार्हणा सपर्या च’इति भोजः। तं ब्रह्मचारिणम्। प्रत्युदियाय प्रत्युज्जगाम। सपर्ययाप्रत्युद्गमनानन्त414रमेव पूजाविधानम्। युक्तं चैतदस्या इयाह —आतिथेयीति। अतिथिषु साध्वी। ‘पथ्यतिथिवसतिस्वपतेर्ढञ्’। ‘टिड्ढाणञ415्-’(४.१.१५)
इयादिना ङीप्। उत्त्कमर्थमथान्तरन्यासेन समर्थयते—साम्ये अभिनिविष्टचेतसां वपुर्विशेषेषुअतिगौरवाः क्रियाभवन्तीति। साम्ये समत्वे अभिनिविष्टं स्थिरं चेतोयेषां तेषाम्। रागद्वेषराहियात् समबुद्धीनामित्यर्थः। अनेन विशेषावगमे हेतुरुक्तः।
“रागाञ्जनमिदमक्ष्णोर्व्यञ्जयति प्रायशो गुणान् विषये।
द्वेषाञ्जनं तु दोषाननुभयसत्किर्व्यनक्ति भूतार्थम्॥
इत्युक्तत्वात्। वपूर्विशेषेषुशरीरविशेषेषु। तजोविशेषयुत्केषु शरीरेष्वित्यर्थः। अतिगौरवाः अत्यन्तगौरवोपेताः। स्वतीपूजायाम’इति समासः। क्रियाःपूजाविधयः। भवन्ति उपपद्यन्त इत्यर्थः।
“यद्यद् विभूतिमत् सत्त्वंश्रीमदूर्जितमेववा।
तत्तदेवावगच्छ त्वंमम तेजोंशसम्भवम्॥’
इति भगवद्वचनाद् महाजनानां महाजनेषुभगवहृद्धापृजाविधावत्यन्तगौरवोपेताः क्रियाः सम्भवन्त्येवेत्यर्थः॥३१॥
विधिप्रयुत्त्कंप्रतिगृह्य416सत्क्रियां
परिश्रमं नाम विनीय च क्षणम्।
उमां स पश्यन् ऋजुनैव चक्षुषा
प्रचक्रमे वक्तुमनुञ्झितक्रमः॥३२॥
(प्रकाशिका)
विधीति।विधितः शास्त्रतः। नामापरमार्थे। अनेनास्य417 सर्वस्यैव418 विर्णिवृ419त्तान्तस्य व्याजोप420गृहितत्वं सूचितम् ऋजुना विलासशून्यत्वाद-
वक्रेण। एतदाकारगुप्तिरबहित्थं421भावः422। क्रमोऽर्थाद्वचनविषयः। स च प्रकटीभविष्यति॥३२॥
(विवरणम्)
** अथ देवीसत्कृतस्य ब्रह्मचारिणो वृत्तमाह—**
विधीति। सः विधिप्रयुत्त्कासत्क्रियां प्रतिगृह्यक्षणं परिश्रमं विनीय च नाम ऋजुना एवचक्षुषाउमां पदयन वत्त्कंप्रचक्रमे। सःव्रह्मचारी विधितः शास्रतः प्रयुत्त्कंविहितां सत्त्कियां पूजांप्रतिगृह्य परिगृह्यक्षणं कञ्चित्कालंपरिश्रमम् अध्वपरिश्रमं विनीय अपनीय। चकारः पूर्वोत्त्क्तसत्क्रियापरिग्रहसमुच्चये।नामशब्दः किलशब्दवदपरमार्थार्थवाची। अविद्यमानाध्यपरिश्रमापनयं कञ्चित्कालम् अभिनीयेत्यर्थः। ऋजुना विलामशून्यत्वादवक्रेण423। एवशब्दोविलासस्यात्यन्ताभावमाह। चक्षुषानेत्राभ्याम।जातावेकवचनम्। उमां पार्वतीं पश्यन्। विलासशून्येन चक्षुषादर्शनमतिप्रवृद्धरागगोपनार्थम्।रागस्वभावानभिज्ञानां बालानां स्वभावोऽनेन प्रकटीकृतः। उक्तं चश्रीकृष्णविलासे—
“परमास्त पुरेव मुग्धमावंप्रथयन्नेव स सन्निधौजनानाम्।
विजनेषुविलासिनीषुतस्य व्यमृजन्नार्जवमीक्षणोक्तिहासाः॥
इति। तथाभूतः सन् वक्तुं प्रचक्रमे आरब्धवान्। नापि रागधिक्यादात्मनः समीहितमेवार्थमादौ424 पृष्टवानित्याह—अनुञ्झितक्रमः इति। अनुञ्झितः अपरित्यत्त्क क्रमो वचनक्रमो येन स तथा।कुशलप्रश्नमारभ्यश्चरणकारणप्रश्नपर्यन्त वक्ष्यमाणोवचतविन्यासक्रमोऽत्र क्रमशब्देन विवक्षितः॥३२॥
अपि क्रियार्थं सुलभं समित्कुशं
जलान्यपि स्नानविधिक्षमाणि ते।
अपिस्वशक्त्यातपसि प्रवर्तसे
शरीरमाद्यंखलुधर्मसाधनम्॥३३॥
(प्रकाशिका)
तत्र तावत् कुशलं पृच्छति —
अपीति। समित्कुशमिति `सर्वो द्वन्द्वोविभाषैकवद् भवती’त्येक425वद्धावः। क्षमाणि योग्यानि। स्वशक्त्या तपसि प्रवर्तनस्यापि प्रष्टव्यतां तपति तस्य समिदादिवदङ्गत्वेनोपपादयति— शरीरमिति॥३३॥
(विवरणम् )
तत्र तावन्मुनिजनेषूचितं कुशलं पृच्छति त्रिभिः श्लोकेः। तत्रादौतपस्साधनसम्पात्तिं पृच्छति—
अपीति। क्रियार्थं समित्कुशं सुलभम् अपि। होमादिक्रियैवार्थः प्रयोजनं यस्य तत्। समिधः कुशाश्चसमित्कुशम्। कुशाः दर्भाः। “सर्वा द्वन्द्वोविभाषैकवद् भवतीत्येकवद्भावः। ‘स नपुंसकम्’ (२, ४.१७) इति नपुंसकत्वम्। सुखेन लभ्यत इति सुलभम्। ईषद्दुस्सुषु कृच्छाकृच्छ्रार्थेषुखल् ’ (३.३. १२६) इति खल। अपिशब्दः प्रश्ने। ‘अपिः समुच्चये प्रश्न’ इति भोजः। तव तपोवन इति शेषः। तव तपोवने होमाद्यङ्गभूतानि समित्कुशादीनि सुलभानि कच्चिदित्यर्थः। समिदादीनि426 तपसःसन्निपत्योपकारकाण्यङ्गानि। अथागदुपरकणामङ्गानामपिसम्पत्ति पृच्छति—जलानि ते स्रानविधिक्षमाणि अपि। जलानि तव आश्रमे वर्तमानानीति शेषः। ते अत्यन्तनिर्वलशरीरयाःतव। स्नानमेव विधिः स्नानविधिः, तस्मिन् क्षमाणि योग्यान्कञ्चित। तव आश्रमे वर्तमानानि जलानि बहूनि निर्मलानि चकच्चिदित्य़र्थः। ‘शत्केयोग्यऽपि च क्षमः’ इति वररुचिः। अथ.
सर्वस्यापि कर्मणः प्रधानभूतस्य शरीरूपस्याङ्गस्य अक्लेशकरे तपसिप्रवृत्तिं पृच्छति—स्वशक्त्या तपसि प्रवर्तसेअपि इति। आत्मशकत्यनुसारेण तपसिप्रवर्तसे कच्चित्। तपसिशरीरस्थापिसमिदादिवदङ्गत्वप्रतिपादनमुखेन स्वशक्त्या तपसि प्रबृत्तेरपि प्रष्टव्यतामुपपादयति—शरीरं खलुआद्यंधर्मसाधनभिति। स्वलुशब्दःप्रसिद्धौ। आद्यभित्यनेन समिदादिव्यतिरेकंदर्शयति। धर्मस्य साधनं धर्मसाधनम्। यथा समिदादीनामङ्गत्वं श्रुतिस्मृतिप्रसिद्धं, तथा शरीरस्य427 प्रधानाङ्गत्वमपि लोके xतिचित्रन्यायेन प्रसिद्धमेवोति भावः। शीर्षत इति हि शरीरमुच्यते। तस्माद रक्षणाभावेतत् सद्य एव शर्षिन। न428 च तदभावे तपश्चते शक्यमिति तपसि तच्छत्त्कयनुसरणमपि प्रष्टव्यमेवेत्यमिप्रायः॥३३॥
अपि त्वदावर्जितवारिसम्भृतं
प्रवालमासामनुबन्धि वीरुधाम्।
चिरोज्झितालत्त्ककपाटलेन ते
तुलां यदारोहति दन्तवाससा॥३४॥
(प्रकाशिका)
अपीति। अनुवन्धि अविच्छिन्नम्दन्तान् वस्ते छादयतीति दन्तवासः। तुलाशब्दयोगे429ऽपि तृतीया रघुवंशप्रकाशिकायां समर्पिता नभसा निभृतेन्दुना तुला430मुदितात्र्केण समारुरोह तद्( स०८.श्लो.१५) इत्यत्र उत्तरार्धे चाटुः।एवमुत्तरत्रापि॥३४॥
( विवरणम् )
अथ देवीसर्वधितानामाश्रमलतानामपि कुशलं पृच्छति—
** अपीति। आसां वीरुधां प्रवालम् अनुबन्धि अपि। आसाम् आश्रमपर्यन्ते दृश्यमानानां वीरुधां लतानाम्। लता प्रताननी वीरुदित्यमरः**
प्रवालं किसलयम् अनुबन्धि अविच्छिन्नं कञ्चित्। ‘सम्बन्धे सन्ततासत्कावनुबन्धः प्रकीर्तितः’ इति भोजः। एतासु लतासुदृश्यमानमिदं किसलयभविच्छेदेन सर्वदा जायते कञ्चिदित्यर्थः। प्रवालानामनुबन्धित्वे हेतुमाह— त्वदावर्जितवारिसम्भृतम् इति। लतासु अत्यन्तस्निग्धया त्वया आवर्जितैःआहृतैःवारिभिःसम्भृतं सम्पादितम्। अथ लताप्रवालानां रमणीयत्वप्रतिपादनव्याजेन देवीचित्तावर्जनार्थं यथार्थत्वादतिमनोहरं प्रियवचनंप्रस्तौति—यत् ते दन्तवाससा तुलाम् आरोहति इति। यत् प्रवालंते तव दन्त वाससा ओष्ठेन।‘ओष्ठाधरौतु रदनच्छदो दशनवाससी’ इत्यमरः। दन्तान् वस्तेआच्छादयतीति कर्मण्यण्। तुलांसाद्दश्यम् आरोहति प्राप्नोति। ननु ‘तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्’ (२. ३. ७२) इति सूत्रेण तुला शब्दयोगे तृतीयाप्रतिषेधात् कथं दन्तवाससा तुलामित्युच्यते। अत्र भोजः—सदृशपदार्थवाची सादृदयमात्रवाची चेति द्वौतुलाशब्दौ।तयोः सद्दापदार्थवाचकतुलाशव्दयोगएव तृतीयाप्रतिषेधः। अत एव कृष्णस्य तलानास्तीत्युदाहृतम्। कृष्णेन सद्दशःकोऽपि नास्तीत्यर्थः। साद्दश्यमात्रवाचकतुलाशब्दयोगे तु तृतीयापीष्यत एव। अतोऽत्रत्यस्य तुलाशब्दस्य साद्दश्यमात्रवाचकत्वाद नोत्कदोषानुषङ्गः। अत्रोपमानभूतस्य प्रवालस्य उपमेयः भूतेनाधरेण सादृश्यप्रातिपादनाद अधरस्य रागाधिक्यंसूचितम्। न चैतद्रागाधिक्यमलत्त्ककयोगजभित्यह—चिरोज्झितालत्त्कत्र्कपाटलेनेति। चिरोञ्झितं चिरकालत्यत्त्कंतपःप्रारम्भसमय ए परित्यत्त्कम् अलत्त्ककंलाक्षारसोयेन तथाभूतेन सतापिपाटलेन रत्त्कवर्णेन। अलत्त्ककलेशस्यप्यभावंद्योतयितुं चिरशब्दः प्रयुत्त्कः। त्वत्परिवर्धिता लताः त्वदधरसदृशानि पल्लवानि किं निरन्तरेण प्रसुवत इति भावः॥ ३४॥
अपि प्रसन्नं हरिणेषु ते मनः
करस्थदर्भप्रणयापराधिषु431।
य उत्पलाक्षेपच लैर्विलोचनै-
स्तवाक्षि432सादृश्यमिव प्रयुञ्जते॥ ३५॥
(प्रकाशिका)
** अपीति। करस्थदर्भपणयापराधिष्वपीत्यर्थः। क्रियार्थं करस्थानां दर्भाणां प्रार्थनम- निष्टंभवेदिति भावः। उत्पलेति बाताक्षिप्यमाणोत्पलबच्चलैरित्यर्थः। अक्षिसादृश्य- मक्ष्यनुकारम्। अक्षिणी अनुकुर्वत इवेत्यर्थः॥३५॥**
(विवरणम्)
अथ तपस्विजनानाम् अवश्यकर्तब्यम अत्यन्तासाध्यं च कोपजयंपृच्छति—
अपीति। ते मनः हरिणेषुप्रसन्नम् अपि।ते तवमनः चित्तं हरिणेषुमृगेषु। विषयसप्तमी चेयम्। हरिणविपये प्रसन्नं कञ्चिदित्यर्थः। स्वतो मनोहरेषु निरपराधेषुदेव्याः प्रसादाभावे हेतुमाशाङ्कते—करस्थदर्भप्रणयापराधिषु इति। करस्थानां होमादिकार्यनिर्वर्तनार्थंदेवीकरस्थितानां दर्भाणां प्रणयात् प्रार्थनाद्धेतोःअपराधिषु अपराधवत्सु। न ह्यवश्यकर्तव्य433कर्मनिर्वर्तनाथम् आत्मना प्रयत्नानीतानां दर्भाणां प्रार्थनया434 जातः कोपः शक्यपरिहारोभवति। तथापि किं तेमनोहरिणेषु प्रसन्नं भवति। अयमेव हि महामुनीनां स्वभावः, यत् सापराधेऽपि जनेदयावत्त्वमिति भावः। अथ मृगाणां मनोहरत्वप्रतिपादनव्याजेन पूर्ववद् देवीचितावर्जनार्थ याथार्थ्यमनोहरं प्रियवचनमाह— ये उत्पलाक्षेपचलैःविलोचनैः तव अक्षिषा दृश्यं प्रयुञ्जते इव इति। ये मृगाः। आक्षेपशब्दो435ऽत्र द्रव्यपरः। आक्षिप्य-
माणम् उत्पलम् उत्पलाक्षेपः , तद्वच्चलौचञ्चलैःविलोचनैःअक्षिसादृश्यम् अक्ष्यनुकरणं प्रयुञ्जत इव। प्रयुञ्जाना इव दृश्यन्त इत्यर्थः।यथा हीनगुणाः केचन महाजनैः सादृश्यमात्रमपिलब्धुं प्रयत्नेन तान् व्यापारवेषाभिरनुकुर्वन्ति, तथेति भावः॥३५॥
यदुच्यते पार्वति! पापवृत्तये
न रूपमित्यव्यभिचारि तद् वचः।
तथाहि न शीलमुदारदर्शने!
तपस्विनामप्युपदेशानां गतम्॥३६॥
( प्रकाशिका )
एवं सर्वत्र मुनिजनोचितं कुशलंपृष्ट्वापरमधूर्तत्तदनुप्रवेशार्थमर्ध्यानि प्रियवचनानि प्रयुङ्त्त्के —
यदिति। पार्वतीस्याभिजनंसम्बोधनम्। पापवृत्तये पापाचरणाय। रूपं नाम शीलानुसारीति यदुच्यते , तत्सत्यामित्यर्थः।त्वय्येव तावदेतत् पश्येत्याह—तथाहीति। शीलंसद्वृत्तम्। शीलंस्वभावे सद्वृत्ते इति सिंहः। अत्र श्रुत्योपपादकत्वं प्रकृतगतमर्थादप्रक्रते पर्यवम्यतीत्यर्थान्तरन्यासप्रकार एवायम्॥३६॥
(विवरणम् )
इत्थं तपस्विज्ञनोचितं कुशलं पृष्टा पुनरपि तदनुप्रवेशार्थमर्थ्यानि प्रियवचनानि तत्कृततपःप्रशंसा मुखेन प्रयुङ्केःत्रिभिः श्लोकैः। तत्रादावेकदेशवर्णनद्वारेण प्रकृतमङ्गवर्णनमेवसमस्तङ्गवर्णनेन प्रपञ्चयति—
यदुच्यत इति। पार्वति ! रूप पापवृत्तये न इति यद् उच्यते, तद् वचः अव्यमिचारि। अत्र पार्वतीति देवीचित्तावर्जनार्थमाभिजात्यप्रतिपादनपरं सम्बोधनम्। सूपं सौन्दर्यम्। ‘अथ रूपं नपुंसकम्। स्वभावाकृतिसौन्दर्यवपुष्यु श्लोकशब्दयोरि ति केशवः। पापवृत्तये पापाचाराय न भवतीति
यदुच्यते। सामुद्रिकसारदर्शिभिरिति शेषः।तद् वचः अव्यभिचारि।व्यभिचारोऽन्यथाभावः।व्यभिचरितुं शीलमस्येति व्यभिचारि।ततोऽन्यदव्यभिचारि।रूपं शीलानुसारीति सामुद्रिकवचनं सय्तमेवेय्तर्थ।ननु कुत एतदवगतमितीमामाशङ्कांदेवी436दृष्टान्तेनैव परिहरति — उदारदर्शने ! तथाहि ते शीलंतपस्विनाम् अपि उपदेश्तां गतम् इति।उदारम् उत्कृष्टं यस्याः।हे रूपवतीत्यर्थः। तथाभावादेव हि हेतोःतव शीलंसदृतम्। “शीलंस्वभावे सदृत्ते’’ इति सिंहः।तपस्विनां मुनीनामपि।न केवलमितरजनानामित्यपि शब्दार्थः।उपदेशताम उपदेश्यत्वं गतं प्राप्तम्।“वेदोधर्ममूलं तद्विदां च स्मृतिशीले’ इदयादिषुस्मृतिषु मदाचारस्यापि वेदवदेव प्रामाण्यस्य प्रतिपादितत्वादिति भावः।रूपवत्यास्तव शीलंमहर्षीणामप्येवं कर्तव्यमित्युपदेशरूपत्वं प्राप्तमिति यत्, तस्माद् रूपं शीलानुसारीति वचनं सत्यमेवेत्यर्थः।उक्तं च नैषधकराव्ये रूपस्य शीलानुसारित्वं—
“न तुटाविषये तवाकृतिने वचोवर्त्मनि ते सुशीलता।
त्वदुदाहरणाकृतौगुणा इति सामुद्रिकसारमुद्रणा॥”
(स० २, श्लो. ५१)
इति। अत्र श्रुत्याप्रकृतगतमप्युपपादनमर्थादप्रकृते पर्यवस्यतीत्यर्थान्तरन्यासस्यैवायंप्रकारभदेः॥ ३६॥
विकीर्णसप्तर्षिवलिप्रभा437सिभि-
स्तथा न गाङ्गैःसलिलैर्दिवशच्युतैः।
यथा त्वदीयैश्चरितैरनाविलै-
र्महीधरः पावितएषसान्वयः॥३७॥
(प्रकाशिका)
** **विकीर्णोति। बलिःपरमेश्वरार्चनम्। तेन तदुपयुत्त्कंकुसुमादिकं लक्ष्यते। दिवश्च्युतैर्दिव्यैरित्यर्थः। सलिलस्य विशेषणाभ्यामुत्कर्षःप्रत्याय्यते। अनाविलैरसड्कीर्णैः॥३७॥
(विवरणम्)
अथ देवीकृतस्य तपसः कुलश्रुद्धिपर्यन्तत्वमाह—
विकीर्णेति। एषः महीधरः त्वदीयैःचरितैःयथा सान्वयः पावितः, दिवः च्युतैः गाङ्गैःसलिलैःतथा न। एष इति पुरोवर्तिनं महीधरं सगौरवं सहस्ताभिनयं निर्दिशति। महीधरः हिमवान् त्वदीयैः त्वत्सम्बन्धिभिः चरितैः आचारैः सान्वयः पितृपितामहमातृमातामहादिवंशपरम्परासहितः सन् पावितः शुद्धिं प्रापितः। दिवः स्वर्गात् च्युतैः पतितैः। दिव्येरित्यर्थः। अनेन पावनत्वापादनसामर्थ्यातिशय उक्तः। गाङ्गैःगङ्गासम्बन्धिभिः सलिलैःतथा न तादृशप्रकारेण न पावितोऽभूत्। “गङ्गा गङ्गेति यन्नाम योजनानां शतेष्वपि। कीर्तितं हन्ति पापानि” इत्यादिषु स्मृतिषु कीर्तनमात्रस्यापि पावनत्वेन प्रसिद्धाया गङ्गाया जलसम्बन्धजनितं पावनत्वमपि हिमवतः एतादृशाचारविशिष्टत्वत्पितृभावजनितात् पावनत्वादत्यन्तपरिहीणमिति भावः। स्वतः पावनानामपि गङ्गाजलानां पावनान्तरसम्बन्धात् पावनत्वाधिक्यमाह—विकीर्णसप्तर्षिबालिप्रभासिभिरिति। विकीर्णैः विक्षिप्तैः सप्तर्षीणां बलिभिः। बलिशब्देनात्र तदुपयुत्त्कानि कुसुमादीनि लक्ष्यन्ते438। तेषां पावनत्वाधिक्यप्रतीतिश्चफलम्। साध्यसाधनभावः सम्बन्धः। परमेश्वरार्चनोपयुत्त्कैः कुसुमादिभिरित्यर्थः। तैः प्रभासितुं शोभितुं शीलमेषामिति तथा। चरितानां पावनत्वाधिक्ये हेतुमाह—अनाविलैरिति। असङ्कीर्णैः, दुराचारलेशेनापि रहितैरित्यर्थः। गङ्गाजलानां तु कदाचिदाविलत्वमपि सम्भाव्यत इति व्यतिरेकध्वनिः॥३७॥
अनेन धर्मःसविशेषमद्य मे
त्रिवर्गसारः प्रतिभाति भामिनि !।
त्वया मनोनिर्विषयार्थकामया
यदेक एव प्रतिगृह्यसेव्यते॥३८॥
(प्रकाशिका)
अनेनेति। सविशेषं पूर्वस्मात्। सारः श्रेष्ठः। भ439ामिनि! दैवसम्पन्ने!। मनसो निर्विषयौअविषयौअर्थकामौयस्याः। प्रतिगृह्यआदृत्य। दक्षिणावर्तस्तु— भामिनि! कोपने! तपसा यंकञ्चित् कामयः मानेव लक्ष्यसे। ततःकामाद् र्धमवलप्रशंस440या मा स्म कुप्येत्युपालम्भगर्भं सम्बोधनमिति व्याचष्ट। तदभिप्रायत्वेमनोनिर्विषयार्थकामत्वं441 त्वपरमार्थं स्यादिति वाक्यमेवेदगुपालम्भपयवसायिस्यात्। तथाशङ्कनीयत्वंन विस्रम्भणीयत्वम्। ततश्चोत्तरवाक्येषु च प्रत्ययाो न भवेत्॥३८॥
( विवरणम् )
अथधर्मस्यैव त्रिवर्गसारत्वंश्रुतिस्मृतिप्रसिद्धमपि त्वत्मेवितरवादद्य मादृशानामपि प्रतीतिगोचरत्वमापन्न यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः इति न्यायादित्याह—
अनेनेति। भामिनि ! अनेन मे अद्य धर्मः त्रिवर्गसारः सविशेषं प्रतिभाति। भामिनि! हेदैवसम्पन्ने!। ‘भाम दैवानुकूल्यं च सौभाग्यं चापि कथ्यते ` इति पुराणकविः। अनेन एतस्माद् वक्ष्यमाणात् कारणाद् मे मम त्रिवर्गसारः। धर्मार्थकामानां त्रयाणां वर्गस्त्रिवर्ग। त्रिवर्गौधर्मकामार्थैः” इत्यमरः। तत्र सारः शेष्ठः। “सारो बलेस्थिरांशे च न्याय्ये क्लीवं वरे त्रिषु” इत्यमरः442। इतिशब्दोऽत्रार्थात् सिध्यति। त्रिवर्गसार इति प्रतिभातीत्यर्थः। सविशेषमिति प्रतिभानक्रियाविशेषणम्। पूर्वस्मात् कालाद् विशेषस-
हितं यथा भवति तथा। प्रतिभातिमनसि स्फुरति। धर्मस्त्रिवर्गसार इत्यद्यमया सम्यङ् निश्चिततमित्यर्थः। अनेनेत्युक्तमर्थमेव प्रदर्शयति— त्वया एक एव प्रतिगृद्य सेव्यते यद् इति। त्वयासारज्ञया एकः धर्म एव प्रतिगृह्य आदृत्य। सेव्यते, कर्तव्यत्वबुद्ध्यासेव्यत इत्यर्थः। कामलोभादिहेत्वन्तरसहितस्य सदाचारस्याप्रामाण्यात् प्रतिगृह्येत्युक्तम्। अत्र सेव्यत इति वर्तमाननिर्देशेन यौवनारम्भसमये443ऽद्याप्यस्खलितासीति द्योत्यते।अर्थकामयोरनादरमप्याह— मनोनिर्विषयार्थकामया इति।मनसोनिर्विषयौ। अविषयौअर्थकामौअर्थश्च कामश्च यस्याः तया। अर्थकामपराङ्मुखयित्तयेत्यर्थः। यस्मात् त्वया यौवनोचितान् कामान पितृगृहगतान्यतिसुलभानि धनान्यप्यनादृत्यधर्म एव साभिप्रायं सेव्यते, तस्माद् धर्मर्थकामानां मध्ये धर्मस्यैव प्राधान्यमिति सम्प्रति मे निश्चयोजात इति भावः॥ ३८॥
प्रयुक्तसत्कारविशेषमात्मना
न मां परं सा444 प्रतिपत्तुमर्हसि।
यदा445सतांसन्नतगात्रि ! सङ्गतं
मनीषिभिः साप्तदीनमुच्यते॥ ३९॥
(प्रकाशिका)
किञ्चित् प्रष्टुकाम आत्मनोयोग्यतां तत्र समर्थवति
प्रयुक्तेति। आत्मना त्वयेत्यर्थः। परमनात्मीयम्। सा प्रतिपतुमर्हसीति पाठः। सा त्वमित्यर्थः। परत्वेन न प्रतिपत्तव्पोऽहमित्यर्थः। अत्र हेतु— यदेति। यदा यस्मात्। साप्तपदीनं सप्तपदोच्चारणजन्यम्। ‘साप्तपदीनं सख्यम्” (५. २. २२) इति निपातनात् साधुत्वम्। सतां सङ्गतमेव सख्यमित्युच्यत इत्यर्थः॥ ३५॥
(विवरणम् )
यथार्थस्तुतिभिरेवमादिभिःदेव्याश्चित्तमावर्ज्यान्यदत्यन्तनिगूढं किमपि प्रष्टकाम-स्तत्रात्मनोयोग्यतामुपपादयति—
प्रयुक्तेति। सा त्वम् आत्मना प्रयुक्तसत्कारविशेषं मा परं प्रतिपत्तुं न अर्हसि। सा या पूर्वोक्तसकलगुणविशिष्टा।आत्माना त्वयैवेत्यर्थः। प्रयुक्तःकृतः सत्कारविशेषःसम्मानविशेषो यस्मिंस्तथाविधम्। मा मां परम् अनात्मीयं प्रतिपतुंकल्पयितुं नार्हसि। यतस्त्वत्कृतैःसत्कारविशेषैरेवाहं त्वदीयो जातः, तस्मान्न परत्वेन कल्पनीयः, अपितु त्वत्परिवारजनत्वेनैव कल्पनीय इति भावः। ननु कथमतिथिसत्कारमात्रादेवात्मीयत्वप्राप्तिरत आह— सन्नतगात्रि! मनीषिभिःसतां सङ्गतं साप्तपदीनम् उच्यते यदा इति। सन्नतं सुन्दरं गात्रं यस्याः। नतं चारुसन्नतमि’ति भोजः। मनीषिभिः विद्वद्भिः। अनेन तद्वाक्यस्य श्रद्धेयत्वमुक्तम्। सतां सञ्जनानां सङ्गतं सङ्गमनम्। परस्परसङ्गममात्रभिव्यर्थः। भावे निष्ठा।सप्तपदोच्चारणजन्यमिति व्युत्पत्त्यासाप्तपदीनमिति सख्यमुच्यते। ‘साप्तपदीनंसख्यम्’ (५. २. २२) इति निपातनात् साधुत्वम्। यदेति यस्मादर्थे। यतः सञ्जनानां परस्परं सङ्गममात्रादेव सख्यंभवतीति मनीविभिरुच्यते, ततः त्वत्कृतसत्कारविशेषोऽहं त्वदीय एवेति भावः। त्वत्कृतैसेवाविशेषैरहंत्वदीय एव जात इति निगूढोऽर्थः॥३९॥
अतोऽत्र किञ्चिद भवतींबहुक्षमां
द्विजातिभावादुपपन्नचापलः।
अयं जनः प्रष्टुमनास्तपोधने!
न चेद्रहस्यं प्रतिबोधयिष्यसि446॥४०॥
(प्रकशिका)
किमिदमद्योपन्यस्तमित्याह—
अतइति। प्रष्टुमनाः, किंविषयः प्रश्न इत्याह— अत्रेति। अत्र तपसि। एवं प्रथमदर्शनक्षण एवकार्यप्रश्नश्चापल्य447पर्यवसायी स्यादित्याशङ्क्याभ्युपगमेनोत्तरमाह— द्विजातीति। ब्राह्मणस्य448 स्वभाभोऽयमिति भावः। स चात्र न बाधक इत्याह— बहुक्षमामिति। न चात्र मेनिर्बन्धः, यत् क्षमाशीलमपि कोपयेदित्याह— न चेदिति। प्रतिबोधयिष्यति, स्वयमेवेति शेषः। अनेनाप्यनिर्बन्धः। निर्बन्धे449 तु प्रतिबोधयेति स्या450त्॥ ४०॥
( विवरणम् )
कुशलप्रश्नादावसङ्गतस्यास्य सरूपप्रतिपादनस्यफलमाह—
अत इति। अतः अयं जनः अत्र भवती किञ्चित् प्रष्टुमनाः। अतः एतस्मात् सख्याद्धेतोः। अयं जन इति पदद्वयमहमित्येतस्मिन्नर्थे। यदाह भोजः— ‘सेदं451शब्दंजनपदमस्मदर्थे प्रयुञ्जते’ इति। प्रश्नस्य विषयं दर्शयति— अत्रेति। अत्र तपसि विषये। किञ्चिद्, न तु बहु। अनेन विनयं दर्शयति। प्रष्टुमनाः प्रष्टुंमनो यस्य स तथा। ‘तुं काममनसोरपि’ इति तुमोमकारलोपः। भवतीति शेषः। सख्यात् सञ्जातविस्रम्भोऽहं तपोविषये किमपि भवतीं प्रष्टुकामाऽस्मीत्यर्थः। न चायमनवसरे प्रश्नस्त्वां कोपयिष्यतीत्याह— बहुक्षमामिति। बह्वीक्षमा यस्याः ताम्। क्षमाभावे कथमेतादृशतपःप्रवृत्त्युपपत्तिरिति भावः। नन्वस्तु बहुक्षमावत्त्वं, तथापि कथं प्रथमदर्शन एव कार्यप्रश्नः क्रियते, कृतो वा प्रश्नःकथं चापलपर्यवसायी न स्यादितीमामाशङ्कां चापलाभ्युपगमेन परिहरति— द्विजातिभावादुपपन्नचापलइति।
तिभावाद्ब्राह्मणत्वाद् उपपन्नं युक्तंचापलंचपलकर्मयस्यसतथा। तेप्ररूढेऽपि सख्ये रहस्यप्रकाशनं बहुदोषावहं, ‘मन्त्रं सुरक्षितमपिच्छन्द्यादाप्तपरम्परा’ इति न्यायाद् , अत आह— तपोधने! त्वंरहस्यं न तत् प्रतिबोधयिष्यसि इति। तपोधने! तप एव धनं यस्याः। रहस्यम् अप्रकाश्यम्। मया प्रष्टुमिष्टमिदं कार्यमिति शेषः। प्रतिबोधयिष्यसिज्ञापयिष्यसि। स्वयमेवेति शेषः। नात्र मे निर्बन्ध इति भावः। सति हि निर्बन्धेप्रतिबोधयेति लोट्प्रयोग एव भवेत्। निर्बन्धो हि क्षमावन्तमपि कोपयति। यथोक्तंरघुवंशे —‘निर्बन्धसञ्जातरुषा’ (स. ५. श्लो. २१) इति। सख्ये महत्यपि अत्यन्तगोपनीयस्यार्थस्य वक्तुमशक्यत्वादहं तु न भवतीं निर्बध्नामि। अतिरहस्यं न चेत् त्वमेव452प्रतिबोधयिष्यसीत्यर्थ॥४०॥
कुलेप्रसृतिः प्रथमस्य वेधस-
स्त्रिलोकसौन्दर्यमिवार्जितं453वपुः।
अमृग्यमैश्वर्यसुखं नवं वय-
स्तपःफलं स्यात् किमतःपरं वद्॥४१॥
(प्रकाशिका)
किमत्र प्रश्नेन प्रतिवचनेन वा। त्वयैवतावदूहितु शक्ययमित्यााङ्क्य जिज्ञासितस्योहागोचरत्व दर्शयति
कुल इति। प्रथमस्य हिरण्यगर्भस्य। ‘यज्ञाङ्गार्थमया सृष्टो हिमवानचलेश्वर’ इति ब्रह्मवचनात्।आर्जितमेकत्र सञ्चितम्। किं क्षेपे। तपःफलं तपसा लभ्यं वाञ्छितम्। एभ्योऽन्यत् तपसोऽस्यफलं न सं भाव्यते, अस्ति चेद् वदेत्यर्थः॥४१॥
(विवरणम् )
ननु किं प्रश्नप्रतिवचनाभ्यां, भवतैव तावदूह्यतामितीमामाशङ्कां स्वजिज्ञासितस्यार्थस्योहा-गोचरत्वंदर्शयन्नपाकरोति त्रिभिः श्लोकैः। तत्रादौ454। देव्या ऐहिकफलाकाङ्क्षानिराकरणद्वारेण स्वजिज्ञसितस्यार्थस्योहागेचरत्वमाह—
कुल इति। तत्र तावत् स्वत एवाभिजात्ययुक्तास्तवेदं तपश्चरणं नविश्वामित्रादिवदाभिजात्य-कामनयेत्याह— प्रथमस्य वेधसः कुलेप्रसूतिः इति। प्रथमस्य वेधसःब्रह्मणः। मरीच्यादीनां सर्गशेषविधायित्वान्नप्राथम्यमिति भावः। कुले वंशेप्रसूतिःउद्भवः। तवेति शेषः। ‘यज्ञाङ्गार्थं मया सृष्टोहिमवानचलेश्वरः’ इति ब्रह्मवचनादचलेश्वरस्य ब्रह्मपुत्रत्वम्। ततश्च तत्पुत्र्यास्तत्कलजातत्वम्। नापि सर्वस्त्री455जनसाधारण्या सौन्दर्याकाङ्क्षया, सोन्दर्यस्य भवत्यांलोकोत्तरतया विद्यमानत्वादित्याह-— वपुःत्रिलोकसोन्दर्यम् आर्जितम् इवेति। त्रिलोकसौन्दर्यं लोकत्रये विद्यमानं सौन्दर्यम् आर्जितम् एकत्र सञ्चितमिव। पञ्चभूतरूपमुपादानमपहाय लोकत्रये विद्यमानं सोन्दर्यसारमात्रमुपादाय तेनैव निर्मितमिति प्रतीयमानामित्वर्थः। अतः परं का सौन्दर्याकाङ्क्षेति भावः।नापि सकलजनप्रार्थनीयधनाकाङ्क्षया , धनस्यापि त्वयिनिरवधिकत्वदित्याह— ऐश्वर्यमुखम् अमृग्यम् इति। ऐश्वर्येण धनेन यत् सुखंदानोपभोगादिलक्षणं, तदपि अमृग्यमचिन्त्यम्। जनानां मनसोऽप्यगोचरमित्यर्थः। तथाच वक्ष्यति—
“अलकामतिवाह्येव वसतिं वसुसम्पदाम्।
स्वर्गाभिष्यन्दवमन कृत्वेवोपनिवशितम्॥’’ (स०६,श्लो. ३७)
इति। नन्वकामनया तपश्चरणमेव परो धर्मः, तस्यैव मुक्तिसाधनत्वात्। किं कामनान्तरविचारणयेतीमामशङ्कां ‘वार्द्धके मुनिवृत्तीनाम् (रघु. स.१. श्लो. ८) इत्यादिवचनविरोधाद् यौवने तस्यानाशङ्कनीयत्वेन परिहरति— वयः नवम्
इति। वयः यौवनम्। नवप्रारब्धमात्रमित्यर्थः। अथवा यौवनापेक्षया तपश्चरणमेवानेन वाक्येन निराक्रियते। तस्माद् युक्तमूहागोचरत्वमित्याह— अतः परं किंतपःफलंस्याद् वद इति। अतः परम् अस्म456दुपन्यस्तादाभिजात्यादेरन्यत्। किं क्षेपे, न किमपीत्यर्थः। वद, अस्य तपसः फलभूतमन्यत् किमपि न मे विचारमार्गमारोहति, अस्ति चेद् वदेत्यर्थः॥ ४१॥
भवत्यनिष्टादपि नाम दुःसहा-
न्मनस्विनीनां प्रतिपत्तिरीदृशी।
विचारमार्गप्रहितेन चेतसा
न दृश्यतेतच्चतलोदरि457! त्वयि॥४२॥
(प्रकाशिका)
अथ स्वयमेवान्यत् सम्भाव्य458 निराकरोति—
भवतीति। ‘अनिष्टाद् भर्तृकृतादित्यर्थ’इति दक्षिणावर्तः। तन्न साधु। कन्यकात्वावगमपुरस्स-रत्वादुक्तेः। अन्यथा ‘अथोपयन्तारमलं समायिना’( श्लो.४५) इति निरवकाशं स्यात्। तस्मादनिष्टादिति सामान्यम्। अनिष्टादपि, न केवलं शङ्कितादिष्टाभावात्। भवनस्य सम्भावनायां नामशब्दः। प्रतिपत्तिः प्रवृत्तिः। तलोदरि! ‘निम्नोदरीत्यर्थः।दक्षिणावर्तस्तु— एतदपि सौन्दर्यवाचि भर्त्रपराधनिवारण परमित्यर्थइति व्याचष्ट। वयं तु स्तुतिमात्रपरमिति। तच्चानिष्टं विचार्यमाणम् अनुपपन्नमेव भवतीत्यर्थः॥४२॥
(विवरणम् )
नन्वनिष्टावाप्त्याबाल्येऽपि तपश्चरणं सम्भवत्येवयथा ध्रुवादीनामित्याशङ्क्य परिहरति —
** भवतीति। दुःसहाद् अनिष्टाद् अपि मनस्विनीनाम् ईदृशी प्रतिपत्तिः**
भवति नाम। दुःसहात् सोढुमशक्याद् अनिष्टाद् अप्रियाद्धेतोः। अनभिभवनीयेन केनचित् कृतादिति शेषः। न पूर्वोक्तचिष्टानवाप्तेः, अपितु अनिष्टावाप्ते459रपीत्यपिशब्दार्थः। मनस्विनीनां स्थिरचित्तानामित्यर्थः। ईदृशीत्वयीदानीं दृश्यमानप्रकारा। प्रतिपत्तिः प्रवृत्तिः ‘प्रतिपत्तिस्तु गौरवे। प्राप्तौप्रवृत्तौ’ इति केशवः। नामशब्दः सम्भावनायाम्। परैः सम्पादितादनिष्टादपि मानिनीनामत्यन्तदुश्चरतपश्चरणसम्भावनास्त्येवेत्यर्थः। तथापि त्वयितदनुपपन्नमित्याह— तलोदरि! तच्च विचारमार्गप्रहितेन चेतसा त्वयि न दृश्यते इति। तलोदरि ! निम्नोदरि !। करतलं हि किञ्चननिम्नं भवति। कृशोदरीत्यर्थः। अनेनापि तदनुप्रवेशार्थं स्तुतिः सामुद्रिकोक्तोवक्ष्यमाणो गुणश्च सूच्यते। तद् अनिष्टम्। चकारः460 पूर्वप्रतिपादितेष्टानवाप्तिसमुच्चयार्थः। न केवलम् इष्टानवाप्तिस्त्वय्यनुपपन्ना, अपितु अनिष्टप्राप्तिश्चेत्यर्थः। विचारस्य मार्गो विचारमार्गः, तदनुसारेण प्रहितेन प्रेरितेन। चेतसा मनसा। त्वयि अनन्तरश्लोकवक्ष्यमाणगुणविशिष्टायां भवत्याम्। न दृश्यते न प्रतीयते। यद्यपि स्त्रीसामान्ये तदुपपत्तिरस्त्येव, तथापि त्वयि नानिष्टस्य लेशोऽप्युपपद्यत इति भावः॥ ४२॥
अलभ्यशोकाभिमवेयमाकृति-
र्विमानना सुभ्रु ! कुतःपितुर्गृहे।
पराभिमर्शोनतवास्ति कः करं
प्रसारयेत् पन्नगरत्नसृत461ये॥ ४३॥
(प्रकाशिका )
अनुपपत्तौहेतुत्रयमाह —
** अलभ्येति। इयमिति ईदृसमग्रसामुद्रगुणा। अत्र कथं शो-**
कामिभवो लभ्यते, न सम्भाव्यत इत्यर्थः। अयं तावदेको हेतुः। अन्यमप्याह— विमाननेति। पितृर्गृहे,न तु भर्तृगृहे।पित्रादिबन्धुमध्यवर्तिन्या इत्यर्थः। कुतः कस्माद् जनात्। परेणाभिमर्शोबलात्कारेण स्पर्शः। नास्ति न तु स्यात्। एतत् प्रतिवस्तुनोपपादयति— कः करमिति। पन्नगरत्नसूतये पन्नगशिरोरत्नचालनाय। ‘षु प्रेरण’इति धातुः। अनेन हिमवत्प्रतापम्यालङ्घ्यत्वमुक्तम्। स्वमहाभाग्याद्बन्धुमध्यगत्वात् परानभिभवनीयत्वाच्च तवानिष्टमनुपपन्नमेवेति समर्थिनम्। दक्षिणावर्तस्तु— अलभ्यौ शोकाभिभवौ यस्या इति विग्रहमुक्त्वाविमाननेत्यादिना शोकस्य, पराभिमर्शेत्यादिना अभिभवस्य चालभ्यत्वपुक्ताभित्याह। तत् तु निपुणैर्विवेचनीयम्। यत् तु तेन ‘सुभ्रूशब्दस्य उवङ्स्थानत्वाद् ‘नेयङ्वङ्स्थानावस्त्री’ (१. ४. ४) इति नदीसंज्ञाप्र462तिषेधेसम्बुद्धौ’अम्बार्थनद्योर्ह्रस्वः, (७. ३. १०७) इति ह्रस्वो न स्यादित्यनुपपत्तिं शङ्कित्वा पाठान्तरं दर्शितं, तत्र वामनः परिहारं दत्तवान् ‘ऊकारान्तादप्यूङ् प्रवृत्तेः’(अधि.५. अध्या.२. सू.४८ ) इति। सूत्रस्य चास्य वृत्तिः— उत ऊङ् विहित ऊकारान्तादपि क्वचिद् भवति, आचार्यप्रवृत्तेः।का463सौप्रवृत्तिः, ‘अप्राणिजातेश्चारज्ज्वादीनाम्(वा०४. १. ६६) इति। अलावुः कर्कन्धुरित्युदाहरणम्। तेन ‘सुभ्रु! किं सम्भ्रमेण’ इत्यत्रसुभ्रुशब्दादूङ्सिद्धो भवति। ऊङित्वसतिसुभ्रुरिति स्यादिति। एवं चोङोऽस्यभ्रुशब्दुसम्बन्ध्युवर्णत्वाभावाद् ‘अचि श्नुधातुभ्रुवां य्वोरियङुवङौ’ (६,४.७७) इत्युवङादेश्स्याभावाद् न तत्स्थानत्वम्। ततश्चन नदीसंज्ञाप्रतिषे464ध इत्यवसेयम्॥ ४३॥
(विवरणम्)
** अनिष्टप्राप्त्यनुपपत्तिमेव विचारमार्गानुसारिणा हेतुत्रयेण प्रतिपादयति—**
‘सुभ्रूःकुतस्तातगृहे विमानना।’ इत्येवंरूपम्।
अलभ्येति। तव इयम् आकृतिः अलभ्यशोकाभिभवा। इयं सामुद्रकोक्तसकलगुणपरिपूर्णतया दृश्यमाना। आकृतिः आकारः। शरीरसंस्थानविशेष इत्यर्थः। लब्धुं465ज्ञातुं न शक्यत इत्यलभ्यः। असम्भावनीय इत्यर्थः। अलभ्यःशोकेन दुःखेन अभिभवः परिभवो यस्याः सा तथा। नरि सामुद्रिकोक्तसकललक्षणपरिपूर्णे जने अनिष्टप्राप्तिःसम्भाव्यत इति भावः। ननु तपश्चरणनिमित्तभावमनुभवता येनकेनचिदवमानविऱशेषेण ध्रुवस्येव गुणवतामपि तपश्चरणं भवेत्, भवति च तेनैवोत्कर्षा466तिशयप्रातिरित्यत्र द्वितीयं हेतुमवतारयति— सुभ्र! पितुर्गृहे विमानना कुतः इति। शोभनाभ्रूःयस्याः, तस्याः सम्बुद्धिरियम्। ननु सुभ्रूशब्दस्य सम्बुद्धौकथं हृस्वान्तत्वं , सुभ्रूशब्दस्य उवङस्थानत्वात्। ’ नेयङुवङूस्थानावस्त्री’ इति हि नदीसंज्ञा प्रतिषिद्धा। तस्माद् ‘अम्बार्थनद्योर्हस्वः’इति ह्रस्वो न स्यादिति। उच्यते। ‘ऊकारान्तादप्यूङप्रवृत्तेः इति वामनसूत्रम्। अस्यार्थः। ‘ऊडुतः’ (४.१.६६) इति विहित ऊङप्रत्ययः क्वचिदुकारान्तादपि भवति। कुत इत्यत्राह— प्रवृत्तरिति। आचार्यप्रवृत्तेरित्यर्थः। ‘अप्राणिजातेश्चारज्ज्वादीनाम्’इति वार्तिक कारवचनादिति भावः। तत्र पुनः अलाबूः कर्कन्धूःइत्याद्युदाहरणम्। अत्र सुभ्रुशब्दाद् अप्राणिजातेरित्यादिना ऊङिसति आचिइनुधातुभ्रवाम्— ‘इत्यादिनोवङादेशस्यामावान्नदीसंज्ञापि (न ?) स्यात्। अस्य (सु?) भ्रूशब्दस म्बन्ध्युवर्णत्वाभावात्। ततश्च ‘अम्बार्थनद्योर्हस्वः’ इति ह्रस्वेसति एङहृस्वात् सम्बुद्धेः’(६.१.६९) इति सुलोपः। ततश्च हे सुभ्रु! इति पदं सिध्यति। ऊङि त्वसति सुभ्रूरित्येव। हे सुभ्रु! हे सुन्दरि!अनया सम्बुद्धादेव्याः सर्वजनेषु कारुप्यार्द्रहृदयत्वंध्वन्यते। हृदयगतं हृक्षिभ्रुवादावभिव्यक्तंभवति। तदुक्तंनैषधकाव्ये — ‘इतीयमक्षिभ्रुवविभ्रमोङ्गितस्फुटामनिच्छां वि-
वरीतुमुत्सका’ (स. ९. श्लो.१) इति। कारुण्यार्द्रहृदयत्वेन च देवीं प्रति जनानामनुरागातिशयः प्रतिपादितो भवति। यथोक्तं रघुवंशे—
“अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत्।
उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित्॥”
(स. ८,श्लो , ८)
इति। तस्माद्देवीस्वरूपनिरूपणावस्थायामेव विमाननाहेतोरभाव इति भावः। पुनरपि विशेषमाह—पितुर्गृह इति। त्वयि अत्यन्तस्निग्धस्य हिमवतो भवने विमानना अवसानः कुतः कस्माद् भवति। भर्तृगृहवर्तिनीनां (नतभ्रु?) सपत्न्यादिसकाशादनिष्ठं सम्भाव्येतापि, न तु सकलबन्धुजनपरिपूर्णपितृगृहवर्तिर्नानाम्। पितुस्त्वयि अत्यन्तस्निग्धत्वं च प्रसिद्धम्। नन्वत्र पराभिभवो हेतुरस्तु इत्याशङ्क्य तृतीयं हेतुमाह— तव पराभिमर्शो नास्तीति। तव तथाविधप्रतापयुक्तस्य पर्वतचक्रवर्तिनः पुत्रास्ते। परेणाभिमर्शः बलात्कारेण स्पर्शः नास्ति न सम्भाव्यते। पराभिमर्शाभावमेव प्रतिवस्तुपमयोपपादयति— कः पन्नगरत्नसूतये करं प्रसारयेदिति। कः, न काऽपित्यर्थः।पन्नगरत्नसूतये पन्नगस्य रतं फणामणिः, तस्य सुतये चालनाय। ‘पूङ् प्रेरण’ इति धातोः क्तिन् प्रययान्तमिदं पदम्। करं हन्तं प्रसारयेत् अमृतं कुर्यात्। यथा जिजीविषुः पुमान् पन्नगफणामणिसमाहरणाय करं न प्रसारयति, तथैव त्वां बलाव्कारेण स्प्रष्टुमपीति भावः। करप्रसारणमात्रमपि न कुर्यात्, किं पुनः स्पर्शनमिति भावः। अनेन हिमवत्प्रतापस्या467त्यन्तदुर्लङ्घ्यत्वमुक्तम्।अभिलाषे सत्यपि प्रतापादस्पृश्यत्वं प्रतिवस्तुना ध्वन्यते। अत्र देव्या महाभाग्ययोगित्वं बन्धुजनमध्यवर्तित्वं पितृगौरवात् परानभिभवनीयत्वं चेति त्रयो हेतवोऽनिष्टप्राप्तभावे प्रतिपादिताः। तस्मान्न तवेदं तपश्चरणमनिष्टप्राप्तिहेतुकमिति468 भावः॥ ४३॥
किमित्यपास्याभरणानि यौवने
धृतं त्वया वार्द्धकशोभि वल्कलम्।
वद प्रदोषे विनिकीर्णतारका
विभावरी यद्यरूणाय कल्पते॥४४॥
(प्रकाशिका)
तदेवमिष्टानवाप्तेरनिष्टावाप्तेश्चासम्भावेन वयोननुरूपं तपः किंहेतुकमित्याह—
किमिति। किं प्रश्ने। इतिर्हेतौ। किं मया कृतमित्याह— वल्कलं धृतमिति। ननु निरभिसन्धिकं तप एव पुरुषार्थः पर इत्याह— यौवन इति। अस्य वयसो नोचितं तप इति भावः। तद्योग्यं च त्वया त्यक्तमित्याह— आभरणान्यपास्येति। अन्यच्च तपोयोग्यं वय इति दर्शयति— वार्धकशोभीति। एवमनुचितपरिग्रहस्त्वया न कर्तव्य इत्यर्थः। अत्र प्रतिवस्तु— वदेति। विनिकीर्णतारका, भूत्वेति शेषः। विनिकीर्णमपास्तम्। अरुणाय अरुणं गन्तुम्। ‘क्रियार्थ—’ (२.३.१४) इत्यादिना चतुर्थी। कल्पते अर्हतीत्यर्थः। यद्येवं भवति, ततो वदेत्यर्थः। तथा न कल्पते, तेन च न वदिप्यसीति शेषः॥४४॥
(विचरणम्)
यस्मादिदं तपश्चरणमिष्टावाप्तर्थेन भवति, नाप्यनिष्टपरिहारार्थे, तस्माद् निरभिसन्धिकतपश्चरणमात्र-मेवात्रावशिष्यते। तत्तु पूर्वमेव किञ्चिदाशङ्क्यपरिहृतमपीदानीसुपपत्तिकथनद्वारेणस्वावसरे दूरतो निराकरोति—
किमिति। त्वया यौवने आभरणानि अपास्य किम् इति वल्कलं धृतम्। त्वया लोकवृत्तज्ञया पूर्वोक्तसकलगुणविशिष्ट्या च। अनेन प्राप्तव्यान्तरनिरपेक्षत्वमुक्तम्। नापि निरभिसन्धिकं वल्कलधारणं च तव युक्तमित्याह—
यौवन इति। अस्य वयसो नोचितं वल्कलधारणामिति भावः। यौवनोचितान्याभरणानि च त्वया परित्यक्तानीत्याह—आभरणानि अपास्येति। मुक्ताकलापादीनि परित्यज्य। किंशब्दः प्रश्ने। इतिशब्दो हेतौ। कस्माद्धेतोरित्यर्थः।न केवलमस्य वयसो योग्यान्याभरणानि परित्यक्तानि, अनुचितपरिग्रहश्च कृत इत्याह— वल्कलं धृतमिति। वल्कलधारणयोग्यं कालान्तरमपि दर्शयति— वार्द्धकशोभीति। वार्द्धके वृद्धत्वे शोभितुं शीलमस्येति तथा। एवमनुचितपरिग्रहः किमर्थं त्वया कृत इति प्रश्नस्य नैवं त्वया कर्तव्यमित्येवार्थः। अत एवाकर्तव्यतमेव प्रतिवस्तुनोपपादयति— विभावरी प्रदोषे विनिकीर्णतारका अरुणाय कल्पते यदि वद। विभावरी रात्रिः प्रदोषे सन्ध्यायाम्। ‘प्रदोषोरजनीमुखमिति सिंहः। विनिकीर्णतारका, भूत्वेति शेषः। विनिकीर्णा अपास्ता तारका नक्षत्राणि यया सा तथा। अत्र आभरणप्रतिवस्तुतया तारकाणां निर्देशः। अरुणाय अरुणं गन्तुम्। ‘क्रियार्थे’त्यादिना चतुर्थी। वल्कलप्रतिवस्तुत्वेनारुणस्योपादानम् , उभयोरप्यारुण्यात्। कल्पते, अर्हतीत्यर्थः। यदि विभावरी प्रदोषसमय एव परित्यक्ततारका भूत्वा अरुणं गन्तुमर्हति, तर्हि वदेत्यर्थः। यस्मात् तथा नार्हति, तस्माद् न वदिष्यसीत्यर्थः॥४४॥
दिवं यदि प्रार्थयसे वृथा श्रमः
पितुः प्रदेशास्तव देवभूमयः।
अथोपयन्तारमलं समाधिना
न रत्नमन्विच्छ469तिमृग्यते हि तत्॥४५॥
(प्रकाशिका)
अथ पुनरपि नायिकाया470 हृदिस्थं वास्तवं कारणमुद्घाटयितुकामः शङ्कावकाशपीडनाय मध्येऽन्यत् कारणमाशङ्क्य परिहरति
दिवमिति। श्रमस्तपः। तद्वृथात्वे हेतुमाह— पितुरिति। दुरवापत्वेन व्याप्ता प्रार्थनेति भावः। अथ वास्तवमुद्घाटयति—अथेति। अथशब्दः प्रश्ने।‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वेथो अथे’ति सिंहः। अलं समाधिना, तथापि तपो न कर्तव्यभित्यर्थः। कुत इत्याह— न रत्नमिति। अत्र हेतुः— मृग्यते हि तदिति। सर्वेणापीति शेषः। अत्र रत्नशब्दस्य स्वजातिश्रेष्ठवाचित्वे471ऽर्थान्तरन्यासोऽयं, पापाणविशेषवाचित्वे तु न तावत् प्रतिवस्तु, तत्रासम्भवलेशस्याप्यसहनात्। अत्र472 च रत्नकर्तृकत्वमन्वेषण473स्यासम्भवीति तन्निषेधोऽपि तादृगेव। तस्मात् सादृश्यादियमप्रस्तुतप्रशंसा।तस्यां त्वसम्भवेऽपि प्रतीयमानाध्यारोपेण वाक्ययोजना घटते।अप्रस्तुतेन चार्थेनप्रस्तुतगतं सर्वप्रार्थनीयत्वकहेतुकमप्रार्थयितृत्वं द्योत्यते। तच्च स्वविरुद्धं प्रार्थनं वाधमानं सत् तद्धेतुकस्य तपसो निषेधमुक्तमुपपादयति॥४५॥
(विचरणम्)
अथ देव्या हृदवगतमेवार्थे प्रष्टुकामोऽपि शङ्कालेशमपि परिजिहीर्युरन्यत् किमपि मध्ये तपः कारणमाशङ्क्य परिहरति —
दिवमिति। तं दिवं प्रार्थयसे यदि श्रमः वृथा। दिवं स्वर्गं प्रार्थयसे अपेक्षसे यदि, तर्हि श्रमः तपः। ‘श्रमु तपसि खेदे च’ इत्यस्माद् धातोर्भावे घञ्। मान्तत्वाद् वृद्ध्यभावः। ‘अभ्यासे शस्त्रविद्यादौ वेदे तपसि च श्रमः’इति भोजः। वृथा निरर्थकः। ‘वृथा निरर्थकाविध्योरि’त्यमरः। ननु प्रतिज्ञामात्रेण नार्थसिद्धिरितीमामाशङ्कां हेतृपन्यासेन परिहरति— तव पितुः प्रदेशाः देवभूमयः इति। तव पितुः हिमवतः प्रदेशाः देवभूमयः स्वर्गाः। नहि स्वर्गस्थितानां स्वर्गप्राप्त्यपेक्षा सम्भवतीति भावः। इत्थं तपसः फलान्तरशून्यत्वं प्रतिपाद्य नायिकाया हृदयनिगूढ़ं474 वास्तवमेव475 तपःकारणं किञ्चिदुद्घाटयति— अथ उपयन्तारम् इति। प्रार्थयस इति शेषः।
अथशब्दः प्रश्ने। ‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ’ इति476 सिंहः। उपयन्तारं भर्तारम्। त्वं भर्तारंकिं प्रार्थयस इत्यर्थः। यद्यपि भर्तृकामनया तपश्चरणं सर्वकन्याजनमाधारणं, तथापि त्वयि तु तन्नोपपद्यत इत्याह— समाधिना अलम् इति। समाधिना तपसा। अलंशब्दोवारणार्थे। ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकमि’ति सिंहः। तपो न कर्तव्यमित्यर्थः। कुतो न कर्तव्यमित्यत्राह— रत्नं न अन्विच्छति इति। नान्विच्छति अन्वेषणं न करोति। नहि रत्नमात्मधारणयोग्यं जनमन्विष्यपर्यटतीत्यर्थः। तत्र हेतुमाह— तद् मृग्यते हि इति। तद् रत्नं मृग्यते अन्विष्यते। हिशब्दोऽवधारणे। मृग्यत एवेत्यर्थः। यथा सर्वप्रार्थनीयं रत्नमात्मधारणयोग्यपुरुषमन्विष्य पर्यटतीत्यसम्भाव्यं, तया कान्तप्रार्थनया तवेदं तपश्चरणमपीति भावः। अत्र सर्वप्रार्थनीयरत्नकर्तृकान्वेषणप्रतिषेधेन तत्सदृशो देवीकर्तृकवरप्रार्थनाप्रतिषेधः प्रतीयत इति सादृश्यादप्रस्तुतप्रशंसेयम्। रत्नशब्दस्य स्वजातिश्रेष्ठवाचित्वे पुनरर्थान्तरन्यासः॥४५॥
निवेदितं निःश्वसितेन सोष्मणा
मनस्तु मे संशयमेव गाहते।
न दृश्यते प्रार्थयितव्य एव ते
भविष्यति प्रार्थितदुर्लभः कथम्॥४६॥
(प्रकाशिका)
अथेत्यं परमार्थप्रसङ्गेन जातविक्रियामुपलभ्य तमेव परमार्थे किञ्चिद् विशदयति—
निवेदितमिति। सोष्मणा इष्टानवाप्तिसन्तापपोष्णेन। यन्मया वरप्रार्थनमत्र प्रतिक्षिप्तं, तदेव तपःकारणमिति सोष्मणा निःशसितेन निवेदितमित्यर्थः। अथ तत्त्वतस्तन्मुखेन श्रोतुकामः477 कामुकः पुनरपि सं-
शयेप्रतिक्षिपति478— मनस्त्विति। तुशब्दो मनस उपपत्त्यनुसन्धानविशेषं479 द्योतयति। संशयमेव गाहते, उपपत्त्यनुसरणेनेति शेषः। अत्र संशयशब्दो वितर्कमाह, यो निश्चयासन्नः। उपपत्तिमाह— प्रार्थितदुर्लभ इति। यत् सर्वप्रार्थ्यं वस्तु, तेनापि यत् प्रार्थ्यते, तत् तस्य दुर्लभं नैव480 भवेदित्यर्थः॥४६॥
(विवरणम्)
इत्थं निजहृदयवर्तिनः परमार्थसतो वस्तुतः प्रसङ्गेन सञ्जातदीर्घनिःश्वासादिविक्रियां नायिकामुपलभ्य तमेव परमार्थे किमपि प्रकाशयति—
निवेदितमिति। सोष्मणा निःश्वसितेन निवेदितम्। ऊष्मणा सहितःसोष्मा। इष्टानवाप्तिसन्तापोष्णेनेत्यर्थः। निःश्वसितेन दीर्घनिःश्वासेन। निवेदितं ज्ञापितम्। वरप्रार्थनमिति शेषः। आशङ्क्य मया परिहृतं वरप्रार्थनमेव तपःकारणमिति तवान्तस्तापोष्णेन दीर्घनिःश्वासेन निवेदितमार्सादित्यर्थः। अथात्मविषयमभिलाषंतन्मुखेनैव श्रोतुकामः परिनिश्चितमेवार्थं संशयविषतामेव नयति—मे मनस्तु संशयमेव गाहते इति। उपपन्नानुपपन्नार्थविवेचनकुशलस्य मम। मनः चित्तम्। तुशब्दोऽन्यचित्तेभ्यो व्यतिरेकं द्योतयति। नहि विवेककुशला दृष्टमप्यनुपपन्नमर्थं तथैवेति निश्चिन्वन्ति। संशयमनुपपत्तिम्। एवशब्द उपपत्तिलेशस्याप्यभावमाह। गाहते प्राप्नोति।सन्तापोष्णदीर्घश्वासानुमानेन वरप्रार्थनमेव तपःकारणमिति सम्यगवगतमपि तत्रोपपत्तिलेशस्याप्यभावाद् मनो मे निश्चयं नोपलभत इत्यर्थः। तामेवानुपपत्तिमाह— ते प्रार्थयितव्य एव न दृश्यते, कथं प्रार्थितदुर्लभः भविष्यति इति। ते सर्वप्रार्थनीयायास्तव। प्रार्थयितव्यः प्रार्थयितुं योग्यः कश्चित्, पुरुष इति शेषः। त्वदपेक्षयाधिकगुणो हि पुरुषस्त्वया प्रार्थयितव्यः। तादृशस्य लोेकत्रयेऽप्यभावादियमुक्तिः। प्रार्थयितव्य एव नास्ति, किं पुनः प्रार्थित-
दुर्लभ इत्येवशब्दार्थः। न दृश्यते, लोकत्रय इति शेषः। प्रार्थितश्चासौै दुर्लभश्चेति प्रार्थितदुर्लभः। प्रार्थितत्वे सति दुर्लभ इत्यर्थः। सर्वप्रार्थनीयया त्वया प्रार्थयितव्यः481। कश्चित् पुरुषो लोकत्रये नोपलभ्यते। अपि च यदि कदाचित् कश्चित् त्वया प्रार्थितो भवेत्, तर्हि तस्य भाग्यातिशय एव तत्र हेतुरिति कुतस्तस्य प्रार्थितदुर्लभत्वम्। ततो न तदर्थं तव तपश्चरणोपपत्तिरिति भावः॥४६॥
अहो स्थिरः कोऽपि तवेप्सितो युवा
चिराय कर्णोत्पलशून्यतांं गते।
उपेक्षते यः श्लथवन्धिनिर्जटाः482
कपोलदेशे कलमाग्रपिङ्गलाः॥४७॥
(प्रकाशिका)
अथ सोष्मणो483 विनिःश्वसितसितस्यैव वलवत्तां मन्यमानस्तं वरमुपालभते—
अहो इति। स्थिरशब्देन स्थैर्यगुणवाचिनापि यद्वृत्तमाहात्म्यात्पापाणप्रख्येऽस्य जडत्वे पर्यवस्यता484 केवलोपालम्भकक्ष्य485ासमारुढा। कोऽपि, ईश्वरो वा भवत्वित्यर्थः। युवा युवत्वाभिमानवञ्चितः। श्लथवन्धत्वं विरहखेदात्। ततश्च कपोललम्बित्वं। ततश्चालकसमाधिः। तथा सेतुकाव्ये— ‘ऴंवालअमलिअपह्नलकपोला’ इति। व कलमाग्रं कलमकणिशम्॥४७॥
** (विवरणम्)**
इत्थमुपपत्त्यप्रभावेन परिहृतमपि वरप्रार्थनया तवश्चरणं प्रत्यक्षप्रमाणसिद्धस्य दीर्घनिःश्वासस्यैव प्राबल्याद् यथार्थप्रेवावधार्य तया प्रार्थ्यमानं वरमुपालभते— अहो इत्यादिभिः स्त्रिभिः श्लोकैः।
अहो इति। तव ईप्सितः युवा कः अपि स्थिरः अहो। तव त्वया। ‘क्तस्य च वर्तमाने’ (२. ३. ७) इति षष्ठी। ईप्सितः इष्यमाणः। वर्तमाने क्तः। युवा युवत्वाभिमानवञ्चित इत्यर्थः। कः अपि यः कश्चनापि, साक्षादीश्वरो वा भवत्वित्यर्थः। स्थिरः जड इत्यर्थः। यद्यपि स्थिरशब्दोऽयं स्थैर्यगुणशालिनि द्रव्यविशेषे प्रसिद्धः, तथापि वक्ष्यमाणवाक्यप्रागल्भ्यात् पाषाणप्रख्ये जडत्वे पर्यवस्यति। अनेनायमुपालम्भयोग्योऽपीति ध्वन्यते। ‘अहो हीति च विस्मये’ इत्यमरः। जडत्वे हेतुमाह— यः कपोलदेशे486 इमाः जटाः उपेक्षते इति। यः युवा कपोलदेशे487 गण्डप्रदेशे। लम्बमाना इति शेषः। इमाः प्रत्यक्षेणैव लक्ष्यमाणाः। जटा उपेक्षते सरभसमागत्य स्वकराभ्यामेव न वध्नाति। कपोललम्बने हेतुमाह— श्लथबन्धिनीरिति। श्लथो विश्लथो बन्धो बन्धनमासामस्तीति488 श्लथबन्धिन्यः, ताः। अत्र विरहपीडया केशेष्वनादरः श्लथबन्धत्वे हेतुः, श्लथबन्धत्वं तु कपोटललम्बने, कपोललम्बनाच्च विरहविधुरप्रोषितनायिकालकसमाधिरिति क्रमोऽत्र प्रतिपादितः। प्रियवियोगेष्वलकानां कपोललम्बनत्वमुक्तं रघुवंशे— ‘शच्याश्चिरं पाण्डुकपोललम्बनान्मन्दारशुन्यानलकां श्चकार।’(स.६.श्लो. २३) इति। न केवलं तदुपेक्षया कपोलयोरनुचितपरिग्रहो जातः, अपितु उचितपरित्यागोऽपीत्याह चिराय कर्णोत्पलशुन्यतां गते इति। चिराय चिरकालम्। ‘चिराय चिररात्राय चिरस्याद्याश्चिरार्थका’ इति सिंहः। कर्णयोराभरणत्वेन कल्पितमुत्पलं कर्णोत्पलं, तेन शून्यतां शून्यत्वम्। गते प्राप्ते। तपःप्रारम्भसमय एव कर्णोत्यलपरित्यागादेवमुक्तम्। कर्णालङ्काराणां कपोलमात्रशोभावहत्वात् कपोलयोरेव कर्णोत्पलशून्यत्वमपि। अनेन कपोलविशेषणेनापि विरहवेदनासमाधिः। त्वयि तु तदुपेक्षिता अपि जटाः किमिव हि मधुराणां मण्डनं नाकृतीनामिति न्यायेन
मण्डनान्तरत्वेनैव पर्यवसिता इत्याह— कलमाग्रपिङ्गला इति। कलमाग्रं शालिशूकं, तद्वत् पिङ्गलाः रक्तवर्णाः। अनेन सुकुमारकेसरशिरीषकुसुमादिरूपकर्णाभरणत्वप्राप्तिर्जटानां दर्शिता॥४७॥
मुनिव्रतैस्त्वामतिमात्रकार्शितां
दिवाकरप्लुष्टविभूषणास्पदाम्।
शशाङ्करेखामिव पश्यतोदिवा
सचेतसः कस्य मनो न दीर्यते489॥४८॥
(प्रकाशिका)
एतदेवोपपादयति —
मुनिव्रतैरिति। पूर्वमेव कृशत्वादतिमात्रश्ब्दः। दिवाकरेति। दिवाकरप्लुष्टत्वं490 विभूषणस्थानानामेव यदुक्तं, तत्र तेषां491 विभूषणधारणकाले वातातपसंसर्गाभावान्मार्दवातिशयो हेतुः। शशाङ्करेखापक्षेविभूषणास्पदं त्रैलोक्यालङ्करणकृत्यम्। ‘प्रतिष्ठा कृत्यमास्पदमि’ति सिंहवचनादुभयार्थआस्पदशब्दः। सचेतस इति। सचेताश्चेद् दीर्येत, न चासौदीर्यते, तस्मात् पाषाणप्रख्यएवासाविति स्थितम्॥४८॥
(विवरणम्)
पाषाणादिवदचेतन एवायं त्वदीप्सितो वर इति यदुक्तंतदेवोपपादयति—
मुनिव्रतैरिति मुनिव्रतैःअतिमात्रकर्शितां त्वां पश्यतः सचेतसः कस्य मनः न दीर्यते। मुनीनां व्रतैर्नियमैःतपोभिरित्यर्थः। अतिमात्रकर्शिताम् अतिमात्रम् अत्यर्थंकर्शितां कृशत्वं प्रापिताम्। पूर्वमेव कृशत्वादविमात्रकर्शितत्वम्। त्वाम् एवम्भूतगुणविशिष्टाम्। पश्यतः अवलोकयतः सचेतसः चेतसा सहितस्य। सचेतनस्येत्यर्थः। कस्य मनो न दीर्यते
स्वयमेव विदीर्णं न भवति। दीर्यत इति कमकर्तरि प्रयोगः। एवम्भूतां त्वां पश्यतां सर्वेषामपि मनो दीर्यत एवेत्यर्थः। सचेता492श्चेत् तस्य मनो दीर्येत, नास्य मनो दीर्यते, तस्मात् पाषाणसदृश एवायमित्यर्थः। अत्र उपमामाह— दिवा शशाङ्करेखामिव इति। दिवा अहनि। शशाङ्कस्य चन्द्रस्य रेखां कलाम्। अत्यन्तकार्श्यं द्योतयितुं रेखाशब्दः। मुनिव्रतप्रतिवस्तुतया दिवाशब्दः। पश्यतो मन इति अत्रापि योज्यम्। दिवा शशाङ्करेखां पश्यतो मन इवेत्यर्थः। निशायामतिमनोरमां शशाङ्करेखाम् अहनि परिधूसरां पश्यन् को वा हन्तेदानीमेतादृशी जातेयमिति न दुयत इत्यर्थः। उपमानोपमेययोः साधारणं धर्ममाह— दिवाकराप्लुष्टविभूषणास्पदामिति। दिवाकरेण आदित्येन आप्लुष्टानि दग्धप्रायाणि विभूषणास्पदानि493 विभूषणानां कटकाङ्गदाद्याभरणानामास्पदानि स्थानानि यस्याः ताम्। तपसा सर्वेषामवयवानां कार्श्यमात्रं जातं, विभूषणस्थनानां पुनः आभरणधारणकाले वातातपादिसंसगाभावेनात्यन्तमार्दवात् पुनः तत्संसर्गे जाते दग्धप्रायततवमेवापन्नमिति भावः। शशाङ्करेखापक्षे तु दिवाकरेण आप्लुष्टं परित्यक्तं विभूषणास्पदं त्रेलोक्यालङ्कारकृतंरकृत्यं यस्याः इति योज्यम्। ‘प्रतिष्ठा कृत्यमास्पदम्’ इत्यमरसिंहवचनादा स्पदशब्दस्योभयाथेतवं द्रष्टव्यम्। दिवाकराप्टुष्टाशाङ्करेखां पयन् पुरुषः तत्समीचीनता- विधानस्याशक्यत्वात् तत्रोपेक्षां करोतीति युक्तम्। खाधीनानुग्रहः त्वदीप्सितः पुरुषः पुनः असिलजगरार्थनीयां तरामात्मप्राथनमात्रेणेताद्सीं पश्यन्नप्युपे- क्षत इति यत्, तदचेतनत्वप्रयुक्तमेवेति युक्तमवास्य पाषाणादिप्रख्यत्वमिति भावः॥५८॥
अवैमि सोभाग्यमदेन वञ्चितं
तव प्रियं यश्चतुरावलोकिनः॥
करोति लक्षं494 रविमस्यचक्षुषो
न वक्न्रमात्मीयमरालपक्ष्मणः॥४९॥
(प्रकाशिका)
तमेव प्रकारान्तरेणोपालभते—
** अवैमीति। मत्सौभाग्यस्य दुर्लङ्घत्वात् सर्वथा मामेवासावभ्युपयास्यतीति सौभाग्यमदः, तेन वञ्चितम्। वञ्चनं च यद्वृत्तेन दर्शितम्। अरालं कुटिलम्॥४९॥**
( विवरणम् )
अथ तमेव वरंप्रकारान्तरेणोपालभते—
अवैमीति। अहंतव प्रियं सौभाग्यमदेन वञ्चितम् अवैमि। तवप्रियं त्वया प्रियत्वेन सङ्कल्पितंपुरुषमित्यर्थः। सौभाग्य495मदेन, सुभगत्वेन यो मदः तेन। मदीयस्य सौभाग्यस्य लोकोत्तरत्वादियं सर्वथापि मामेवाभिसरिष्यतीत्यभिमानेनेत्यर्थः। वञ्चितं कृतवञ्चनम् अवैमि कल्पयामि। ननुकृतो वञ्चितत्वमित्यत्राह — यः अस्य चक्षुषः रविं लक्षं करोति आत्मीयं वत्र्कंन इति। यः प्रियः अस्य लोकोत्तरत्वेन दृश्यमानस्य चक्षुषः नेत्रस्य रविम् आदित्यंलक्षं प्राप्यभूमिं करोति विदधाति। आत्मीयं निजं वत्र्कंवदनं न। लक्षं करोतीति शेषः। यद्यसौसौभाग्यमदगर्वितो नाभविष्यत्, तर्हिलोकोत्तरगुणमेतद् भवदीयं नेत्रमनवरतं तन्मुखावलोकनपरमेवाभविष्यत्। इदानीं तु तपःसिद्धार्थरविमात्रावलोकनपरमासीदित्यर्थः। क्रियाचातुर्यप्रतिपादने चक्षुषो विशेषं दर्शयति — चतुरावलोकिन इति। चतुरं सुन्दरं यथा भवति तथा अवलोकितुं शीलमस्येति
तथा। सवरूपचातुर्यतोऽपि विशेषमाह—अरालपक्ष्मण इति। अरालानि कुटिलानि पक्ष्माणि अक्षिरोमाणि यस्य तस्य॥४९॥
कियच्चिरं श्राम्यसि गौरि! विद्यते
ममापि पूर्वाश्रमसञ्चितं तपः।
तदर्धभागेन लभस्व काङ्क्षितं
वरं तमिच्छामि च साधु वेदितुम्॥५०॥
(प्रकाशिका)
प्रसङ्गाद् वरमुपालम्य कर्तव्यमवधारयन् वरं पृच्छति —
कियदिति। कियत् किंपरिमाणम्। चिरं चिरकालम्। ‘कालाध्वनोः—’(२.३.५) इत्यादिना द्वितीया। पूर्वाश्रमो496ब्रह्मचर्यम्।अर्धभागेन समप्रविभागरूपांशेन। साधु सम्यक्। अत्र प्रकरणे त्रिभिः श्लोकैस्तपस उचितः कुशलप्रश्नः, ततस्त्रिभिरनुप्रवेशार्थातपसः प्रशंसा, तत एकेनानुप्रवेशः, तत एकेन स्वजिज्ञासाकथनं, ततस्त्रिभिःजिज्ञासासमर्थनं, तत एकेन स्वजिज्ञासाकथनं, तत एकेन वास्तवोद्धाटनं, तत एकेन तत्स्थिरीकरणं, तनः प्रसङ्गागतस्त्रिभिर्वरोपालम्भः, तत एकेन कार्योपसंहारपुरस्सरः प्रश्न इत्यनुज्झितक्रमत्वमनुसन्धेयम्॥५०॥
(विवरणम्)
इत्थं चाटुशतैरावर्जितचित्ता देवीं प्रति प्रष्टव्यमेवार्थं पृष्ट्वावचनमुपसंहरति —
कियदिति। गैरि ! त्वं कियच्चिरं श्राम्यसि। गौरि ! हे पार्वति ! कियत् किंपरिमाणं चिरं चिरकालम्। ‘कालाध्वनोरि’ति द्वितीया। श्राम्यसि तपः करोषि। ‘श्रमु तपपि खेदे च’इति धातुः। अलमनेन श्रमेणेति भावः। ननु श्रमाभावे कथमभिमतयसिद्धिः, अत आह—ममापि पूर्वाश्रम-
सञ्चितं तपः विद्यतेइति। ममापि, न केवलंतवैवेत्यर्थः। पूर्वाश्रमसञ्चितं पूर्वाश्रमे व्रह्मचार्याश्रमे सञ्चितम् आर्जितं तपः। विद्यते भवतीत्यर्थः। नन्वस्तु नाम, प्रकृते तु किमायातमित्यत्राह—तदर्धभागेन काङ्क्षितं लभस्व इति।तदर्धभागेन तस्य तपसः अर्धभागेन समप्रविभागरूपेणांशेन।काङ्क्षितमीप्सितम्। वरमिति शेषः। (लभस्व प्राप्नुहि)अलं तवपरिश्रमेण। अस्मदार्जितस्य तपसोऽर्धभागेनापि त्वदीप्सितं वरं प्राप्नुहीत्यर्थः। ननु तर्हिको विलम्बः, अत आह—अहं तं वरं साधु वेदितुम् इच्छामि च इति। तंत्वया मनसा सञ्चिन्त्यमानम्। वरं भर्तारं साधु सम्यग् वेदितुं ज्ञातुम् इच्छामि अभिलषामि च।चकारः समुच्चये। पूर्वं दीर्घनिःश्वासानुमानेन सामान्यतो विदितं497 वरं विशेषतः प्रतिपत्तुमिच्छामीत्यर्थः। अत्र निगूढोऽर्थः—तपश्शब्देनात्र तपस्साधनभूतं शरीरं लक्ष्यते। साध्यसाधनभावश्च सम्बन्धः। ‘शरीरमाद्यं खलु धर्मसाधनम्’इत्युक्तत्वात्। शरीरस्य दिव्यत्वप्रतीतिः तपश्शब्देनो498पादानस्य फलम्। पूर्वाश्रमसञ्चितं पूर्वं जगत्सर्गादौअश्रमेण अनायासेन, मायामात्रेणेत्यर्थः। सञ्चितं सम्पादितं यत् तपः शरीरं तस्यार्धभागेन काङ्क्षितं लभस्व। हे गौरि ! अलं तवानेन परिश्रमेण। मम शरीरार्ध499भागमेव ते दास्यामि। तं वरं शरीरार्धप्रदं भर्तारं वक्ष्यमाणपूर्वपक्षयुक्तिपरिहारक्रमेण ज्ञातुमिच्छामि च। पूर्वपक्षसिद्धान्तक्रमेण व्याख्यायमानमेव हि सर्वंमनोहरं भवतीति साधुशब्दप्रयोगः॥५०॥
इति प्रविश्याभिहिता द्विजन्मना
मनोगतं सा न शशाक शंसितुम्।
अथो वयस्यां परिपार्श्ववर्तिनीं
नि500वर्तितानञ्जननेत्रमैक्षत॥५१॥
(प्रकाशिका)
एवं प्रतारणाकुशलेन परममायिना प्रतारिताया देव्या वृत्तान्तमाह —
इतीति। प्रविश्यातुप्रविश्य।इद501मकथनस्याशक्यत्वे हेतुः। न शशाक, लज्जयेति शेषः। अथो इति शंसनस्याशक्यत्वावधारणानन्तरमित्यर्थः। निवर्तितानञ्जननेत्रं, पूर्वं द्विजाभिमुख स्थितत्वान्नि502वर्तितेन लोचनेन सखीं स्वमनोरथशंसनाय चोदितवतीत्यर्थः॥५१॥
(विवरणम्)
इत्थंकपटवटुना वञ्चिताया देव्यास्तदनुगुणां प्रवृत्तिमाह —
इतीति। द्विज503न्मनाप्रविश्य इति अभिहिता सा मनोगतं शंसितुं न शशाक। द्विजन्मना ब्राह्मणेन। ‘मातुरग्रेऽभिजायन्ते द्वितीयं मौञ्जिबन्धनात्’ (याज्ञ० अ.१.श्लो.३९) इति स्मृत्यनुसारेण द्वेजन्मनी यस्य विद्येते स द्विजन्मा। अनेन ब्राह्मणप्रार्थितस्यार्थस्यानतिक्रमणीयत्वाद् वचनस्यावश्यकत्वमुक्तम्। न केवलमदृष्टवशादेव504वचनस्यावश्यकत्वं, दृष्टवशादपीत्याह—प्रविश्येति।अनुप्रविश्य, पूर्वोक्तेन वचनविन्यासक्रमेणान्तः प्रविश्येत्यर्थः।
यस्य यस्य हि यो भावस्तेन तेन च तंनरम्।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशंनयेत्॥”
इति न्यायेन कपटवटुना वशीकृतत्वमनेन दर्शितम्। अभिहिता उक्ता।ब्राह्मणत्वेन बन्धुत्वे(न चाकथन) स्याशक्यत्वेन वचनस्यावश्यकत्वे सत्यपि सा पार्वती मनोगतमर्थं शंसितुं कथयितुंन शशांक। लज्जयेति शेषः। देव्यास्तात्कालिकमुपायान्तरं दर्शयति—अथो सा परिपार्श्ववर्तिनीं वयस्यां विवर्तितानञ्जननेत्रम् ऐक्षत् इति। अथो शंसनस्याशक्यत्वावश्यकत्वयोरवधारणानन्तरम्। ‘मङ्गलानन्तरा- रम्भप्रश्नकार्त्स्न्येष्वथो अथ’इत्यमरः।
परिपार्श्ववर्तिनीं समीपचारिणीम्। अत्र ताच्छील्यार्थेन प्रत्ययेन सर्वदा समीपवर्तनमुक्तम्। तेन च वयस्याया देवीहृदयगतसर्वाभिप्रायविज्ञानं देव्यास्तदीयवचनकौशलावधारणं च दर्शितम्। वयस्यां सखीम्। विवर्तितानञ्जननेत्रम्, ईक्षणक्रियाविशेषणञ्चेदम्। पूर्वमभिमुखस्थितब्रह्मचारिमुखवर्तित्वात् तस्माद् विवर्तिते परावर्जिते अनञ्जने आदौविरहपीडया पश्चात् तपश्चरणेन चाञ्जनरहिते नेत्रे यथा भवति तथा। ऐक्षत इंक्षितवती। अनञ्जनशब्देनात्र पीडाधिक्यप्रतिपादनद्वारेण सर्वाअपि मत्पीडा वक्तव्या इत्यर्थोध्वन्यते। ब्रह्मचारिमुखाद् नेत्रमाकृष्य सखीमुखावलोकनमात्रेण तां निजमनोरथशंसनाय चोदितवतीत्यर्थः॥५१॥
सखी तदीया तमुवाच वा505ञ्छितं
निबोध साधो ! तव चेत्कुतूहलम्।
यदर्थभम्भोजमिवोष्णवारणं
कृतं तपःसाधनमेतया वपुः॥५२॥
(प्रकाशिका)
सखीति। साधो ! इति साधुष्वकथनीयंनास्तीति द्योत्य506ते। कुतूहलंचेदिति कथितेऽपि कुतूहलनिवृत्तिरेव फलमिति द्योतयाति। वाञ्छितस्य दुरधिगमत्वं द507र्शयता यच्छब्दवाक्या508र्थेन कुतूहलस्योपपद्यमानतापि द्योत्यते। अस्मिन्रर्थे कुतूहलंच तवोपपन्नं, साधुभावादवञ्चनीयश्चासि, तस्माद् वाञ्छितं वक्ष्यमाणं विदित्वास्मन्म509तज्ञोनिष्कुतृहलश्च भवेत्यर्थः। एतद्वाक्यं नैकृतिके तस्मिन्नार्जवसुलभं विस्रम्भं द्योतयद् विस्रम्भभाषितानां घटकतया कविनोपात्तम्॥५२॥
(विवरणम्)
अथ देव्यावचनाय चोदिताया वयस्यायाःप्रवृत्तिं दर्शयति दशभिः श्लोकैः।तत्रादौ कपटवटोर्वञ्चनाचुञ्चुता-मजानती वक्ष्यमाणानां विस्रम्भभाषितानामुपपत्तिं दर्शयति—
सखीति। तदीया सखी तम् उवाच। तदीया पार्वतीसम्बन्धिनी सखी वयस्या। ‘आलिःसखी वयस्या चे’ त्यमरः। तमपरमार्थब्रह्मचारिणम् उवाच उक्तवती। उक्तिप्रकारमेवाह—साधो! तव कुतूहलं चेद् वाञ्छितं निबोध इति। हे साधो ! समचित्त !। नहि साधुषु किञ्चिदप्यकथनीयमस्तीति भावः। नापि साधुर्वञ्चनीय इति च द्योत्यते। तव साधुत्वादवञ्चनीयस्य ते। कुतूहलंकौतुकम्। ‘कौतूहलंकौतुकं च कुतुकं च कुतूहलमि’ त्यमरः।कौतुकमस्ति चेन्निबोध नितरामवगच्छ, सर्वमपि कथयामीत्यर्थः। अत्र कुतूहलमस्ति चेद् निबोधेत्यनेन कुतूहलनिवृत्तिमात्रमेवावधारणस्य फलमिति दर्शयति। सर्वमवधार्य वयमिव त्वमपि दुःखभाजनमात्रं भवेत्यर्थः। बोद्धव्यमेवार्थं सांक्षिप्य दर्शयति —यदर्थम् एतया वपुः तपस्साधनं कृतमिति। यदर्थं यादृशवाञ्छितसिद्ध्यर्थम्। एतया अत्यन्तपेलवगात्र्याअनया। वपुः मृदुतरमात्मशरीरम्। अत्यन्तकठिनशरीरसाध्यस्य तपसः साधनत्वेन कृतं विहितम्। तं वाञ्छितं निबोधेति पूर्वेण योजना। अनेन वाक्येन वा-ञ्छितस्यार्थस्यात्यन्तदुस्साध(न?)त्वमुक्तम्।श्रवणकुतूहलस्योपपत्तिश्च द्योत्यते। एतादृशेतपस्येतादृशस्य शरीरस्यायोग्यतामुपमया समर्थयते —अम्भोजम् उष्णवारणम् इव। अम्भोजं तामरसम्। उष्णवारणम् आतपत्रम् इव। यथा दर्शनावपघ्राणादिभिरुपभोक्तव्यमत्यन्तपेलवमम्भोरुहमातपत्रत्वेन विधीयते,तथैवेदमपीत्वर्थः। पीडाया अत्यन्तदुस्सहत्वमेवात्र हेतुरिति भावः॥५२॥
इयं महेन्द्रप्रभृतीनधिश्रिय-
श्चतुर्दिगीशानवमत्य भा510मिनी
अस्याहार्यं मदनस्य निग्रहात्
पिनाकपाणिं पतिमाप्तुमिच्छति॥५३॥
(प्रकाशिका)
तान्याह—
** इयमिति**। अवमत्येत्यनेन तेषामतिसुलभत्वंद्योत्यते। भामिनी कोपना511। इन्द्रादीनां वरत्वकथने कुप्यतीति भावः। अरूपहार्यमित्यनेन तपस एव तत्र साधनत्वं द्योतयति। पिनाकपाणिमिति वीराभिलाषिण्यो हि कन्यका इति भावः॥५३॥
(विवरणम्)
अथ तान्येव विस्रम्भकथनान्याहावशिष्टैःश्लोकैः। तत्रादौ हृदयगतं वरमेवोद्दिशति—
इयमिति। इयं महेन्द्रप्रभृतीन् चतुर्दिगीशान् अवमत्य पिनाकपाणिं पतिम् आप्तुम् इच्छति। इयम् अतिसुकुमारतया दृश्यमाना,अनेन सहस्राक्षाद्युपयोगयोग्यता निरस्ता। महेन्द्रप्रभृतीन् इन्द्रयमवरुणकुबेरान्,किं पुनरन्यानिति भावः। तेषाम् आधिपत्यतोऽपि त्रिलोकनाथात् पिनाकपाणेः अत्यन्तहीनतां दर्शयति—चतुर्दिगीशानिति। पूर्वादीनां चतुर्णांदिशां क्रमादीशान् स्वामिनः। अवम512त्य धिक्कृत्य,अत्यन्तसुलभांस्तान् परित्यज्येत्यर्थः। पिनाक इति हरवनुषो नाम। ‘पिनाकोऽजगवं धनुरि’त्यमरः। पिनाकः पाणो यस्य तम्। वीरकामिन्यो हि नितम्बिन्य इति भावः ।अनेनास्यास्तत्प्रार्थनैव युक्ततरेति द्योत्यते। वीराग्रेसर एवायं न पाषाणादिवद् जड इति चानेनैव द्योत्यते। पतिं भर्तारं, पिनाकपाणिं पतित्वेन प्राप्तुमि513ञ्छतीत्यर्थः। महेन्द्रप्रभृतीनां सर्वलोकप्रार्थनीयत्वमाह—अधिश्रिय इति। अधिगता प्राप्ताश्रीः ऐश्वर्यंयैःतान्। देवीं विशिनष्टि—भामिनीति।
‘कोपना सैव भामिनी’ त्यमरः। कोपशीलेत्यर्थः। अनेन महेन्द्रादीनां वरत्वकथनमात्रेऽपि कोपशीलत्वमुक्तम्। ननु किं पिनाकपाणिप्राप्त्यर्थं तपश्चरणक्लेशेन, रूपसम्पदा सर्वलोकप्रार्थनीया खल्वेषा। उक्तं च—‘न रत्नमन्विच्छति मृग्यते हि तत्’(स.५.श्लो.४५) इति। तत्र परिहारमाह —मदनस्य निग्रहाद् अरूपहार्यम् इति। मदनस्य कामदेवस्य। निग्रहाद् हननात्। रूपेण सौन्दर्येण हार्यः हर्तुंवशीकर्तुंशक्यो रूपहार्यः, रूपहार्योन भवतीत्यरूपहार्यः,तम्।कामद514हनदर्शनानन्तरं भगवतो रूपहार्यत्वाभावमवधार्य तत्प्राप्तवुपायान्तरमपश्यन्ती तपश्चरणमेव तत्रोपायत्वेन निश्चितवतीत्यर्थः॥
असह्यहुङ्कारनिवर्तितः पुरा
पुरारिमप्राप्तसुखः शिलीमुखः।
इमांहृदि व्यायतपातमक्षिणोद्
विशीर्णमूर्तेरपि पुष्पधन्वनः॥५४॥
(प्रकाशिका)
कथं प्रतिकूलेऽपि प्रेमेत्याशङ्क्य तदेव515हि प्रेमकारणामित्याह—
** असह्येति। व्यायतपातंदीर्घतरपातम्। अक्षिणोदबाधत। दुर्बले हि सर्वःप्रगल्भत इति भावः॥ ५४ ॥**
(विवरणम्)
अथ वक्ष्यगाणानां मदनवेदना516नामतिमहतीनां दग्धे मदनेऽप्युपपत्तिंदर्शयति—
असह्येति। विशीर्णमूर्तेः अपि पुष्पधन्वनः शिलीमुखः पुरा असह्यहुङ्कारानिवर्तितः पुरारिम् अप्राप्तमुखः इमां हृदि व्यायतपातम् अक्षिणोत्। विशीर्णादग्धा मूर्तिःशरीरं यस्य तस्यापि। अपिशब्दः शिलीमुखप्रवृत्तावनुपपत्तिं वक्ति। पुष्पधन्वनः पुष्पमेव धनुः यस्य तस्य कामदेवस्य। शिलीमुखः शरः। ‘अलिबाणौ शिलीमुखावि’ त्यमरः। पुरा कामदहनावस्था-
याम्। असह्येन सोढुमशक्येन हुङ्कारेण कोपोद्रेकजनितेन शब्दविशेषेण करणभूतेन निवर्तितः व्यावर्तितः। पुरारिणेति शेषः। अत एव पुरारिम् अप्राप्तमुखः, पुराणामरिः पुरारिः। अनेन517 हरस्यानभिभवनीयत्वमुक्तम्। अप्राप्तं मुखमग्रंयस्य तथाभूतः सन्। इमां स्त्रीत्वेन बाल्यावस्थया च दुर्वलांपार्वतीम्। हृदि हृदये। अनेन मर्मस्थलपात उक्तः। तेन च वेदनाधिक्यं ध्वन्यते। व्यायतपातमिति क्रियाविशेषणम्। व्यायतः विशेषेण आयतः दीर्घःचिरकालावस्थायी पातः पतनं यथा भवति तथा अक्षिणोत्।‘क्षिणु हिंसायामि’ति धातुः। अत्यन्तमबाधतेत्यर्थः। शरमोक्षानन्तरं हरकोपकृशानुना मदने दग्धे हरमेव लक्षीकृत्य सरभसमभिपतन् मदनबाणो भगवता हुङ्कारमात्रेण निवर्तितः सन् भगवत्परिचर्यार्थंतत्पार्श्ववर्तिनीं दुर्बलामनाथामिमामबाधत। दुर्बलेषु के नाम न प्रगल्भन्त इति भावः॥ ५४॥
तदा प्रभृत्युन्मदना पितुर्गृहे
ललाटिकाचन्दनधूसरालका।
न जातु बाला लभतेस्म निर्वृतिं
तुषारसङ्घातशिलातलेष्वपि॥५५॥
(प्रकाशिका)
अथ चतुर्भिः श्लोकैःपूर्वानुरागचेष्टां वर्णयति—
तदा प्रभृतीति।‘प्रभृतिशब्दयोगे पञ्चमीदृष्टा।सप्तमीप्रयोगस्तु मृग्य’ इति दक्षिणावर्तः।उन्मदना उद्भूतमदना। ललाटिका ललाटाभरणम्। ‘कर्णललाटात् कन्नलङ्कारे’(४.३.६५)इति कन्। दक्षिणावर्तस्तु— अनेनानूढत्वमुक्तम्। ऊढानां तु तिलकमलङ्कारः। वक्ष्यति च ‘विवाह दीक्षातिलकं चकार’(स० ७.श्लो.२४.)इतीत्याह। तदसत्। ऊढाया अपि विरहतापप्रशमाय चन्दनेन ललाटिकैवालङ्कारः, न तु तिलकः,तस्य ललाटव्यापित्वाभावात्। निर्वृतिं ज्वरप्रशमम्। सङ्घातः स्त्यानभावः॥५५॥
(विवरणम्)
अथ चतुर्भिःश्लोकैःपूर्वानु518रागचेष्टाः प्रतिपाद्यन्ते । तत्रादौशरपातानन्तरभवं मदनव्याधिमेवाह—
तदेति । बाला तदा प्रभृति पितुः गृहेतुषारसङ्घातशिलातलेषु अपि जातु निर्वृतिं न लभते स्म। बाला ततः पूर्वंकदाचिदपि अननुभूतमदनवेदना स्वेता दुर्बला चेत्यर्थः। तदाप्रभृति शरपाता519नन्तरकालादारभ्य। पितुः गृहे हिमवत्प्रदेशे। अनेनानवरतप्रवृत्तहिमजलवर्षशीतलस्वभावत्वं सर्वप्रदेशानामुक्तम्। तेन च तत्रापि निर्वृतिलाभाभावाद् मदनवेदनायाः प्रभूतत्वं सूचितम्। स्वतः शीतलेष्वपि हिमवत्प्रदेशेषु शीतलिम्नः परमकाष्ठाधिष्ठितान् प्रदेशविशेषानाह—तुषारेति। त॒षाराणां सङ्घातःतुषारसङ्घातः। तुषारोहिमम्। सङ्घातः समूहः। तुषारसङ्घाताश्च ताः शिलाश्चेति तुषारसङ्गातशिलाः , तासां तलेषुप्रदेशेषु। अपिशब्दः तत्र निर्वृतिलाभाभावस्यानुपपत्तिमाह। अत्र बहुवचनेन यदा तदङ्गसङ्गादेका शिला शीतलतां जहाति, तदा शिलान्तरे शेत इति क्रमेण सकलशिलातलशयनं द्योत्यते। जातु क्षणकालमपि। निर्वृतिंज्वरप्रशमम्। न लभते स्म नोपगतवती। निर्वृतिलाभाभावे हेतुमाह—उन्मदनेति। उद्भूतमदना, अत्र मदनशब्दो520मदनवेदनां लक्षयति। शीतोपचाराणामपि निरर्थकत्वमाह—ललाटिकेति। ललाटिकाचन्दन- धूसरालका। ललाटिका ललाटालङ्कारः ‘कर्णललाटात् कन्नलङ्कारे’ (४.३.६५) इति कन्। टाप्। ‘प्रत्ययस्थादि—’(७.३.४४)त्यादिना अकारस्येकारादेशः। ललाटालङ्कारभूतं चन्दनं ललाटिकाचन्दनं, मदनज्वरशान्तये ललाटे शीतोपचारार्थंनिक्षिप्तं चन्दनमित्यर्थः। तेन धूसराणि ललाटतटघटनमात्रेणैव झटिति भस्मभावमुपगतेन चन्दनेन धूसरवर्णान्यलकानि यस्याःसा तथा॥५५॥
उपात्तवर्णे चरिते पिनाकिनः
सबाष्पकण्ठस्खलितैःपदैरियम्।
अनेकशःकिन्नरराजकन्यका
वनान्तसङ्गीतसखीररोदयत्॥५६॥
(प्रकाशिका)
उपात्तवर्ण इति। वर्णो गीतिक्रमः,
“शुक्लादौब्राह्मणादौ च शोभायामक्षरे तथा।
गीतिक्रमे (स्थि?स्तु)तौवेषे वर्णशब्द उदीरितः॥”
हति हलायुधः।चरिते त्रिपुरदाहादौ। वनान्तेति वनान्तेषु संगीताभ्यासार्थंकृतसख्या521इत्यर्थः। एकान्ते पिनाकिचरित522श्रवणतृष्णया वनान्तगमनम्।अरोदयत् स्वदुःखानुवेधवशात्॥५६॥
(विवरणम्)
विलापमाह
—–
उपात्तेति। इयं पिनाकिनः चरतेउपात्तवर्णे सबाष्पकण्ठस्खलितैः पदैःवनान्तसङ्गीत-सखीःकिन्नरराजकन्यकाः अनेकशः अरोदयत्। इयं तव पुरतो वर्तमाना। पिनाकिनः हरस्य, अत्र पिनाकिपदोपादानेन हरस्यवीराग्रेसरत्वं ध्वन्यते। तेन च त्रिपुरदहनगजासुरा523वमर्दनादिचरितानामा- नन्त्याद्गीतिक्रमसौकर्यं ध्वन्यते। चरिते त्रिपुरदहनादौ। उपात्तवर्णे उपात्तो वर्णोगीतिक्रमो यस्मिंस्तथाभूते सति।
“शुक्लादौब्राह्मणादौच शोभायामक्षरे व्रते।
गीतिक्रमे स्तुतौ वेषे वर्णशब्दः स्मृतो बुधैः॥”
इति हलायुधः। सबाष्पकण्ठस्खलितैः‘बाष्पः कण्ठाद्याश्रयो दुःखवेगः’इति
भोजः। तत्सहितेकण्ठेस्खलितैःस्खलनं प्राप्तैः गद्नदप्रतिहतैरित्यर्थः। पदैः पदमात्रमपि न प्रसरति, किं पुनःगीतिक्रमइति भावः। वनान्तसङ्गीतसखीः वनान्ते यत् सङ्गीतं तत्रसखीः, वनान्ते सङ्गीताभ्यासार्थंकृतसख्या इत्यर्थः।किन्नरराजकन्यकाः किन्नराणां किम्पुरुषाणां राजानः किन्नरराजाः,तेषां कन्यकाः।किन्नराणां खरमाधुर्याधिक्यात्किन्नरपदोपादानम् । यथा रघुवंशे—
“वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किन्नरखरौ।
किं तद् येन मनो हर्तुमलं स्यातां न शृण्वताम्॥”
(स. १५. श्लो. ६४)
इति।राजपुत्र्यादेव्या राजपुत्रीभिरेव सख्यस्यौचित्याद्राजपदोपादानम्। अनेकशः भुहुर्मुहुः। अरोदयत् रोदनं कारितवती।आत्मशोकानुवेधवशादिति शेषः।अयमभिप्रायः—यदा ताबदियमेकान्ते पिनाकिचरितश्रवणतृष्णया वनान्तमुपगम्य सङ्गीताभ्यासव्याजेन काश्चन मनोहरस्वराः किन्नरराजकन्यकाः समानीय प्रसङ्गार्थमादौस्वयमेव त्रिपुरदहनादिरूपं हरचरितं किमपि गातुमारभते तदैव तत्स्वरूपस्मरणोह्बुद्धयाद्विगुणया विरहवेदनया बाष्पगद्गदं रुदती निजशोकदर्शनसञ्जातशोकातिरेकास्ताःसर्वाएव मुहुर्मुहुररोदयत्।पिनाकिचरितं तु न किञ्चिदपिश्रुतवती।अहो विपरीतस्तत्राप्यस्याविधिरिति॥५६॥
न्रिभागशेषासु निशासु च क्षणं
निमील्यनेत्रे सहसा व्यबुध्यत।
क्वनीलकण्ठ ! व्रजसीत्यलक्षवा-
गसत्यकप्ठार्पितबाहुबन्धना॥५७॥
(प्रकाशिका)
त्रिभागशेषास्विति।त्रिभागस्तृतीयाभागः।त्रिभागशेषास्वितिनिद्राया दुर्लभत्वं द्योत्यतेक्षणंनिमील्येति स्वप्नावसर उक्तः। अलक्ष524त्वादिना स्वप्नेप्रत्यक्षभ्रमोद्योत्यते525।क्व व्रजसीत्यनेनउपगूढस्य पलायनोद्यमस्त्रासहेतुः प्रतीयते। त्रासाच्च सहसा विबोधः॥५७॥
(विवरणम् )
निद्रापरिक्षयमीषश्निद्रासमये स्वम्नसमागमं चाह—
त्रिभागेति। इयमिति पूर्वश्लोकादत्रापि कर्तृत्वेनानुषज्यते। इयं निशासु त्रिभागशेषासु क्षणं नेत्रे निमील्यनीटकण्ठ ! त्वं क्वव्रजसिइति सहसा व्यबुध्यत। निशासु रात्रिषु। त्रिभागशेषासु तृतीयो भागस्त्रिभागः,अंशवाचिना शब्देन सह समस्यमानः सङ्ख्याशब्दःपूरणप्रत्ययेन विनापि पूरणप्रत्ययोपेतपदवाच्यमर्थमेव ब्रवीतीत्यवगन्तव्यम्। शतांशः सहस्रौशः इत्यादिप्रयोगदर्शनात्। यथा च ‘तस्मिन्नात्मचतुर्भागे’ (स.१६. श्लो. ९६) इति रघुवंशे। तृतीयो भागः शेषोऽवशिष्टोयासु तादृशीषु सतीषु‚अनेन तत्पर्यन्तं निद्रालेशस्याप्यभावः सूचितः। क्षणं क्षणकालम्, अनेन तत्काले निद्रावसर उक्तः। नेत्रेलोचने। निमील्यस्व526प्नावस्थयेति शेषः। नीलकण्ठेतिसम्बुद्ध्याकालकूटकबलना-दिलोकोपकारनिरतस्य तव अनागसमनाथांच मां परित्यज्य गमनमनुचितमिति ध्वन्यते। क्वव्रजसि क्वगच्छसि, इत्यनेन क्षणमुपगूढमात्रस्य पलायनोद्युक्ततया स्वप्नदर्शनंध्वन्यते।अतिपराधीनत्व527भावनाजनितः संस्कारस्तथा स्वप्नदर्शने हेतुरित्यस्माकमूहः। पलायनोद्यमाच्च त्रासः,त्रासाच्च सहसावबोध इत्यादयश्च सूच्यन्ते। इतिशब्दादूर्ध्वमुक्त्वेति शब्दश्चद्रष्टव्यः, क्वनीलकण्ठेत्यादिशब्दमुक्त्वेत्यर्थः। अत्र निद्राया
———————————
५.‘इ’घ.पाठः,
अतिमान्द्यात स्वप्नजागरावस्थयोःपरस्परसङ्गरात स्वप्न प्रत्यक्षत्वग्रमःतेनच परमाथंसत एव वचसःप्रवृत्तिरिति द्रष्टव्यम्।
xxxxxxx।
xxxx प्रदुद्धाभूत्। स्वप्नावस्थाया विरतौ वाङ्गात्रमेवावशिष्ट प्रि
xxx न तत्र दृष्टोऽभूदियाह—अलक्षवागिति। लक्षशब्द
xत्रयमदिश्य व
xxप्रवृत्तिः तं लक्षयति। अलक्षा लक्षेण रहिता वाग् यस्याः सा तथात्त्का आलिङ्ग
xस्याप्यभावमाह— असत्यकण्ठार्पितवाहुबन्धनेति। असत्येअपरमार्थेसदसद्विलक्षणे कण्ठे इल्यर्थः। शुत्त्किकारजतादिषु मिथ्याज्ञानेषु सदसद्विलक्षणं रजतादिकं विषयः इत्यद्वैतवादिनां मतं,तदनुसारेणेयमुत्त्किः। अन्यथा पुनरलक्षवागितिवदकण्ठार्पित-बाहुबन्धनेत्येव प्रयोगः स्वात्। अर्पितं न्यस्तं बाहूबन्धनम् आलिङ्गनं यया सा तथा। स्वप्नसमागमावस्थायामपि पराधीन एवास्याः प्रियः। कष्टमस्याः विधिवैपरीत्यमिति भावः॥ ५७॥
सदा528 बुधैः सर्वगतस्त्वमुच्यसे
न वेत्सि भावस्थमिमं कथं जनम्।
इति स्वहस्तोल्लिखितश्चमुग्धया
रहस्युपालभ्यत चन्द्रशेखरः॥५८॥
(प्रकाशिका)
एवं स्वप्नेसन्दर्शनमुक्त्वाचित्रेऽप्याह—
सदेति। सदा सर्वगत इति कालतो देशतश्चानवच्छेदकथनेनापद्वावावकाशंनिराकरोति।भावोऽभिलाषः। स्वहस्तेनोल्लिखितश्चित्रे निवेशितः। रहसीति अस्मास्वदृश्यमानासु पश्यन्तीष्वित्यर्थः। अत्रापि प्रत्यक्षभ्रमः। अत्र चतुर्ष्वपि श्र्लोकेषु व्याधिविलापजागरोन्मादाः क्रमाद् दर्शिताः प्राधान्येन, भावाश्चान्येऽपि गुणत्वेन॥५८॥
(विवरणम्)
XXन्मादावस्थांचाह—
त्वंवुधैःसदा सर्वगतः उच्यसे। चित्रनिवेशितः भगवत्यXदास्यथ प्रत्यक्षभ्रमेणात्र त्वंपदप्रयोगपूर्वको व्यवहारः। बुधैः विद्वद्धिXन्वादिभिः। अनन तद्वचनस्य वेदमूलत्वादन्यथात्वशङ्कां निवर्तयति। सदा सर्वदा सर्वेषु कालेषु। अनेन कालतः परिच्छिन्नत्वंनिरस्तम्। सर्वगतः सर्वत्र गतः। अनेन देशतः परिच्छिन्नत्वंनिरस्तम्। उच्यसे कथ्यसे। त्वंदेशकालानवच्छिन्न इति मन्वादिभिः स्मर्यसे इत्यर्थः। नन्वस्तु नाम मे देशकालानवच्छिन्न, प्रकृते तु को विरोधः, अत आह — त्वं भावस्थम् इमं जनं कथं न वेत्पि इति। भावस्थम्। भावोऽभिलाषः, तत्र तिष्ठतीति भावस्थः। ’ सुपि स्थः’ (३.२. ४) इति कः। अभिराषस्य समुद्राकारेण वर्धमानत्वात् तस्मिन्नेव स्थितमित्यर्थः। इमं जनं मां कथं न वेत्सि न जानासि। जानास्येवेत्यर्थः। देशकालाभ्यामनवच्छिन्नस्यतव मदभिलाषाज्ञानादुपेक्षणमिति वक्तुं न युत्त्कम्। तस्माद् निर्दयत्वादेवोपेक्षणमिति भावः।चित्रार्पिते भगवति प्रत्यक्षत्वभ्रमादयमुपालम्भ इति वदन्ती देव्या देवविषयस्य भावस्य परमकाष्ठाधिष्टितत्वमाह— मुग्धया स्वहस्तोल्लिखितः चन्द्रशेखरः रहसि इति उपालभ्यत च इति। मुग्धया मोहमुपगतया। मोहो विपरीतग्रहः। चित्रस्थितेऽपि चन्द्रशेखरे सञ्जातपरमार्थचन्द्रशेखरबुद्धेत्यर्थःस्वहस्तोल्लिखितः आदरातिरायात् स्वहस्तेनैव चित्रे निवेशितः। स्वरूपदर्शनाभिलाषातिशयादिति शेषः। चन्द्रः शेखरः शिरोलङ्कारो यस्य स तथा। अनेन भगवत्स्वरूपसख दर्शनीयत्वमुत्त्कम्। तेन च दर्शनौत्सुक्याधिक्यंसूच्यते। रहसि विजने। अस्माभिरपीयमवस्था निगूढतरमेव दृष्टेत्थर्थः।इतिशब्दः “सदा बुधैरि त्यादिपूर्वोत्त्कक्रविवक्षया प्रयुक्तः। उपालभ्यत निःन्दितोऽभूत्। अनेनोन्मादावस्था दर्शिता। मूर्छावस्था तु बहुशः सञ्जातापिस्नेहाधिक्येन वक्तुमप्यशक्यत्वात् प्रियवयस्ययोपेक्षितेत्यवगन्तव्यम्॥५८॥
यदा हि तस्याधिगमे जगत्पते-
रपश्यदन्यं न विधिं विचि529न्वती।
तदा सहास्माभिरनुज्ञया गुरो-
रियं प्रपन्ना तपसे तपोवनम् ॥५९॥
(प्रकाशिका)
अथैवंबिधनिष्प्रतीकारमदनोन्मा530दितायास्तपासे प्रवृत्तिमाह—
** यदेति। अधिगमे ‘निमित्तात् कर्मयोगे ’ (वा.२. ३. ३६) इति सप्तमी। विचिन्वती चेतसा।विचयनम् अस्माभिः सह। गुरोरनुज्ञयेति विमृश्यकारित्वंद्योन्यते॥५९॥**
(विवरणम् )
अथैवंविधया निष्प्रतीकारया मदनवेदनया समुन्मधिताया अपि देभ्या धैर्यावलम्वपुरस्सरींतपसि प्रवृत्तिमाह—
यदेति। इयं यदा हि जगत्पतेः तस्य अधिगमे विचिन्वती अन्यं विधिं न अपश्यत् , तदा गुरोःअनुज्ञया अस्माभिःसह तपसे तपोवनं प्रपन्ना। इयं पार्वती यदा यस्मिन् काले। हिशब्दो वाक्यालङ्कारे। जगत्पतेः त्रैलोक्यनाथस्य। अनेन तपोव्यतिरित्त्कस्योपायान्तरस्याभावो द्योत्यते। तस्य चन्द्र शेखरस्य अधिगमे पतित्वेन प्राप्तौ। ’ निमित्तात् कर्मसंयोग’ इति सप्तमी। विचिन्वती सकलशास्त्रावगमपरिशुद्धेन निजेनैव चेतसा विचयनमन्वेषणं कुर्वती। अन्यं विधिं तपोव्यतिरित्त्कविधानान्तरम्। न अपश्यद् न दृष्ट वती। तदा विधानान्तरादर्शनकाले गुरोः पितुः अनुज्ञया अनुवादेन। हेतौ तृतीया। गुरुनियोगपुरस्सरमित्यर्थः। अस्माभिः प्रियसखीभिः सदैव गन्तव्यम् इत्थं च तपः कर्तव्यमित्यादिर्गुरोज्ञा अनेन दर्शिता। अनेन
विमृश्यकारित्वंध्वनितम्। तपसे तपश्चरितुम्।तपोवनं तदुचितं प्रदेशम्। प्रपन्नाप्राप्ता॥५९॥
द्रुमेषु सख्या कृतजन्मसु स्वयं
फलं तपःसाक्षिषु ब531द्धमेष्वपि।
न च प्ररोहाभिमुखोऽपि दृश्यते
मनोरथोऽस्याः शशिमौलिसंश्रयः॥६०॥
(प्रकाशिका)
अथ तपसश्चिरप्रवृत्तत्वफलादर्शनं च सनिर्वेदमाह—
द्रुमेष्विति। सख्या स्वयं कृतजन्मसु रोपितेषु। अत एव तुल्यकालत्वात् तपःसाक्षिषु।बन्धो532निष्पत्तिः।एवं प्रकृतव्यतिरेकविवक्ष533या प्रतियोगिनमुक्त्वाप्रकृतमाह—न चेनि। चस्त्वर्थे534।मनोरथस्त्वित्यर्थः। मनोरथः समागमलक्षणं कार्यम्। प्ररोहशब्दः प्रकान्तद्रुमसमाधिना।प्ररोहाभिमुखोऽपि,तिष्टतु तावद् द्विपत्राद्यवस्था। प्ररोहाभिमुख्यंच वीजस्य किञ्चिदुच्छूनता। अद्यापि मनोरथोऽस्या वीजावस्थ एवेत्यर्थः॥ ६०॥
(विवरणम्)
इत्थं चोद्यस्योत्तरं सहेतुकं प्रतिपाद्यातिदुश्चरेऽपि तपसिचिरकालप्रवृत्तत्वं तत्फलादर्शनं च स्वयमेव विस्त्रम्भातिशयात् सनिर्वेदमाह—
द्रुमेष्विति। सख्या स्वयं कृतजन्मसु तपस्साक्षिषु एषु द्रुमेषुफलंबद्धम् अपि। सख्याअस्माकं प्रियवयस्यया। अनेन सौहार्दातिशयः सूचितः। कृतं विहितं जन्म उत्पत्तिर्येषांतेषु। स्वयमेव बीजावापजलाहरणा-
दिपुरस्सरं वनवासारम्भसमकालमेव रोपितेष्वित्यर्थः। अत एवतपस्समकालीनत्वात् तपसः साक्षिभूतेषु।एतावन्तं कालमियमेवमेव तपश्चचारेति जनान् बोधयत्स्वित्यर्थः। एषु उटजाङ्कणे परितो दृश्यमानेषु। अनेन तवापि प्रत्यक्षेयमतिमहती कालान्तरप्राप्तिरिति दर्शयति।द्रुमेषु वृक्षेषुफलं बद्धं सञ्जातम्।न केवलंपुष्पनिष्पात्तिः, अपितु फलनिष्पत्तिरपि जातेत्यपिशब्दा्र्थः। तपस्समारम्भकालेसख्यासमुत्पादितेषु वृक्षेषु फलोत्पत्तिरपि जाता।अहोमहानतीतः काल इति भावः। इत्थं वृक्षाणां प्रकृता535न्मनोरथाद् व्यतिरेकविवक्षया फलनिष्पत्तिमुक्त्वा प्रकृतस्य मनोरथस्य तु प्राचीनावस्थैवेत्याह— अस्याः शशिमौलिसंश्रयः मनोरथश्च प्ररोहामिमुखः अपि न दृश्यते इति । अस्याः अतिमहता तपसा कृशशरीरतया दृश्यमानायाः। अनेन तवापि प्रत्यक्षेयमस्याः समवस्थेति दर्शितम्।शशिमौलिः चन्द्रशेखरः संश्रयः आश्रयो यस्य तादृशो मनोरथः।मनोरथशब्देनात्र हरसमागमलक्षणं तत्कार्यं लक्षयते।चकारस्तुशव्दार्थे।मनोरथस्त्वित्यर्थः। प्ररोहशब्दो लोके वृक्षद्यङ्कुरोत्पत्तौप्रसिद्धः। अत्र तु प्रक्रान्तदुमसमाधिसिद्ध्यर्थःप्रयुत्त्कः।प्ररोहं प्रत्यभिमुखः प्ररोहाभिमुखः। उद्भवोन्मुख इत्यर्थः।प्ररोह्भिमुखत्वंबीजस्य किञ्चिदुच्छ्नतयावस्थानम्।तदपि न दृश्येते।तिष्टतु तावदङ्कुरावस्था द्विपत्राद्यवस्थादयश्चेत्यपिशब्दार्थः।अनेन सम्भोगरूपस्यफलस्यात्यन्तविप्रकृष्टत्वमुत्त्कम्॥६०॥
न वेद्मिस प्रार्थितदुर्लभःकदा `
सखीभिरा536स्नान्तरवीक्षितामिमाम्।
तपःकृशामभ्य537वपत्स्यते सखीं
वृषेव सीतां तदवग्रहक्षताम्॥६१॥
(प्रकाशिका)
एषा च चिन्तास्माकमेव,न त्वस्याः। एषा त्वतिधैर्या538दद्यापि विषादादिभिर्नस्पृश्यते।आरम्भतुल्या- वस्थैव539 भवतीत्यभिप्रायेण स्वावस्थां दर्शयति—
नेति। प्रार्थितो540 दुर्लभश्चेति प्रार्थितदुर्लभः541। प्रार्थनायां दुर्लभ इति सासूयकथनम्। आस्रान्तरे आस्रस्य परिपतनोद्गयोरन्तराल इत्यर्थः।अनेनास्रस्यनिर्विच्छेदत्वं द्योत्यते। अभ्यवपत्स्यते अनुग्रहीष्यति। दृषा इन्द्रः। सीतां हलक्षतां भूमिम्। ‘सीता लाङ्गलपद्धतिरि’ति हलायुधः। तच्छब्देन वृषा परामृश्यते। इन्द्रवर्षविघातशोषितामित्यर्थः॥६१॥
(विवरणम्)
सखीनामस्माकमेवैषाचिन्ता। इयंपुनरति542धैर्यादद्यापि विपादैर्नाभिभूयते इत्यभिप्रायेणातिदीनां निजावस्थामाह—
नेति। प्रार्थितदुर्लभः सः कदा तपःकृशां सखीभिः आस्रान्तरवीक्षिताम् इमांसखीम् अभ्यवपत्स्यते,न वेद्मि। प्रार्थितदुर्लभः प्रार्थितश्चासौ दुर्लभश्चेति प्रार्थितदुर्लभः। सर्वप्रार्थनीययास्मत्प्रियवयस्यया प्रकर्षेण अर्थितोऽपि दुर्लभइति सासूयं वचनमिदम्। सः हरः। ‘भविष्यति प्रार्थितदुर्लभःकथम्’(श्लो०.४६) इत्यादिवचनस्योत्तरमेतत्। कदा कस्मिन् काले। अनुग्रहकालस्त्विदानीमेवातिक्रान्तः।(तपःकृशाम्)। इतः परं किमस्मत्प्रियवयस्ययासौ कारयिष्यतीति भावः। अत एव सखीभिः अस्मदादिभिः। आस्रान्तरवीक्षिताम् आस्राणामन्तरे निपतनोद्गमयोरन्तराले। अनवरतप्रवृत्तानामश्रुबिन्दुनाम् अतिक्षणिकयोर्निपतनोद्गमनकर्मणोर्मध्ये एकस्मिन्बिन्दौपतिते सत्यन्यस्योद्गमनात् पूर्वमित्यर्थः। अनेनाश्रूणामविच्छिन्नता ध्वन्यते। वीक्षितं दृष्टाम् इमां
सखीम् अभ्यवपत्स्यते अनुग्रहीप्यति। ‘अभ्यवपत्तिर543नुग्रह’इत्यमरः। इतिशब्दोऽत्र द्रष्टव्यः। न वेद्मिन जानामि। कदा अनुग्रहीप्यतीति न जानामीत्यर्थः। अनुग्रहे सन्देह एवास्माकमिति भावः। अत्रानुरूपामुपमां दर्शयति— वृषा तदवग्रहक्षतां सीतामिव इति। वृषा वासवः। तच्छब्देन वृषैव परामृश्यते। तस्यावग्रहः तदवग्रहः। तेन क्षतां शोषिताम्। इन्द्रकृतेन वर्षप्रतिबन्धेन शोषितामित्यर्थः। सीतां हलक्षतां भूमिमिव। ‘सीता लाङ्गलपद्धतिरि’त्यमरः।वर्षकारित्वमिव व544र्षप्रतिबन्धकत्वमपिप्रसिद्धं मघोनः। यदुक्तं शुकसन्देशे —
“वीरः स्वे यो व्यतनुत पदे वृष्टिहीने किलाज्ञां
मोघां मेघोदरभिदुरया बाणवृष्ट्यामघोनः”(पू. भा. श्लो.२७)
इति। यथा प्रार्थितोऽपि दुर्लभप्रसादो वृषा निजप्रसादमात्रलभ्यस्य वर्षस्य विनाशेन शोषितां सस्यैकशरणैर्जनैः आस्त्रान्तरवीक्षितां वर्षैकनिमित्तसस्याद्यभावेन कृशतया लक्ष्यमाणांलाङ्गलक्षतत्वात् प्रत्यासन्नबीज545वापकालांवसुन्धरां प्रसादाभिमुखः सन् सम्यगनुगृह्नाति, तथेमां कदा परमेश्वरोऽनुग्रहीष्यतीति भावः। तथाभूतवसुन्धरोपमया देव्या अस्माकमेव दुःखाभिभवः, न तु देव्या इति ध्वन्यते। यथा हलक्षता भूमिः इन्द्रप्रसादमात्रशरणा, तथैवेयं परमेश्वरमात्रशरणा। वयं तु देवीमात्रशरणा इति चानेन वाक्येन द्योत्यते॥६१॥
अगूढसद्भावमितीङ्गितज्ञया
निवेदितोनैष्ठिकसुन्दरस्तया।
अपी546दमेवं परिहास इत्युमा-
मपृच्छदव्यञ्जितहर्षलक्षणः॥६२॥
(प्रकाशिका)
एवमत्यार्जवादतिविवृतरहस्यम् अतिकातरं च सखीवचनमाकर्णितवतः प्रभोर्वृत्तमाह—
अगूढेति। सद्भावः परमार्थःदक्षिणावर्तस्तु— तद्भावमिति पाठमादृत्य तच्छब्देन गौरीपरामर्श547इत्याह।अगूहने हेतुमाह — इङ्गितज्ञयेति। तच्चेङ्गितं निवर्तितानञ्जननेत्रेक्षणम्।नैष्ठिकश्चासौ सुन्दरश्चेति समासः। नैष्ठिकउपकुर्वाणश्चेति548द्विविधो ब्रह्मचारी। तयोर्यावज्जीव549ब्रह्मचारी नैष्ठिकः। सुन्दरशब्देन कामुकत्वं लक्ष्यते। परस्परविरुद्धमिदं नैष्ठिकत्वं सुन्दरत्वंचेति चित्रमिदं देव एव सम्भाव्यमिति भावः। अपिः प्रश्ने। इदं सखीवचनम्। एवमित्थम्। परिहासः केलिः। ‘द्रवकेलिपरीहासा’इति सिंहः। अव्यञ्जितं गूहितं हर्षलक्षणं रोमाञ्चादि येन। अयं च प्रश्नोदेवीमुखेन श्रोतुमौत्सुक्यात्॥६२॥
(विवरणम्)
इत्थमत्यार्जवादतिविवृतरहस्यवृत्तान्तमतिकरुणं च सखीवचनमाकर्णयतोऽपि तमेव वृत्तान्तं तन्मुखेनैव श्रोतुकामस्य कामुकस्य भगवतोवृत्तमाह —
अगूढेति। इङ्गितज्ञया तथा अगूढसद्भावम् इति निवेदितः नैष्ठिकसुन्दरः इदम् एवम् अपि परिहासः इति उमाम् अपृच्छत्। इङ्गितमभिप्रायं जानातीतीङ्गितज्ञा, तया ।‘निवर्तितानञ्जननेत्रमैक्षत’(श्लो.५१) इत्यत्र देव्या हृदयगतमभिप्रायमवगच्छन्त्येत्यर्थः। इदं परमार्थस्यागूहने हेतुः। तया सख्या। अगूढसद्भावमिति निवेदनक्रियाविशेषणम्। अगूढो550 विवृतः सद्भावः परमार्थो यथा भवति तथा निवेदित इत्यर्थः। इति पूर्वोक्तप्रकारेण निवेदितः ज्ञापितः नैष्ठिकसुन्दरः। नैष्ठिको नैष्ठिकबह्मचारी। उपकुर्वाणो नैष्ठिकश्चेति द्विविधो ब्रह्मचारी। तत्र गृहस्थाद्याश्रमेष्वपि य उपकरोति सउपकुर्वाणः। यस्तु ब्रह्मचार्याश्रममात्रेण निष्ठांप्राप्नोति स नैष्ठिकः।
“नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसन्निधौ।
तदभावेऽस्य तनये पत्न्यांवैश्वानरेऽपि वा॥”
(याज्ञ. अध्या. १. श्लो.४९)
इत्यादिस्मृत्यनुसारेण यावज्जीवं ब्रह्माचार्याश्रम एव स्थित इत्यर्थः। नैष्ठिकश्चासौ सुन्दरश्चेति नैष्ठिकसुन्दरः। सुन्दरशब्देनात्र कामुकत्वंलक्ष्यते। परस्परविरुद्धं नैष्ठिकत्वं सुन्दरत्वंच परमेश्वर एवोपपद्यते। को वासाविति तासां विचारोऽनेन ध्वन्यते। इदं सखीवचनम् एवम्। अपिशब्दः प्रश्ने। परिहासः। ‘द्रवकेलिपरीहासा’ इति सिंहः। अपिशब्दोऽत्रापिद्रष्टव्यः। इति उक्तप्रकारेण उमां पृष्टवान्। तया एवं निवेदितो ब्रह्मचारी किमिदं सखीवचनम् एवं भूतार्थमेव आहोस्वित् परिहासइत्युमां पृष्टावानित्यर्थः। भवत्या रूपसम्पदं श्मशाननिलयस्य हरस्य स्वरूपं च विचारयतो मम परिहासमात्रपरमिदं वचनमिति प्रतिभातीति प्रश्नाभिप्रायः। इदं च वक्ष्यमाणानां हरनिन्दानामुपोद्धातत्वेन कृतम। ननु कथमात्मविषयमभिलाषम-तिविस्तरेण श्रुतवतः कामुकस्य हर्षानुत्पत्तिः। दर्षोत्पत्तौवा कथं न रोमाञ्चाद्यनुदयः, तदुदये वा कथं न तासां शङ्काङ्कुराविर्भाव इतीमामाशङ्कां परिहरति—अव्यञ्जितहर्षलक्षण इति। अव्यञ्जितानि गूहिताति हर्षस्य लक्षणानि रोमाञ्चादिचिह्नानि येन स तथा। हर्षस्तूत्पन्नः। तत्कार्याणि रोमाञ्चादीन्यप्युत्पन्नानि। परममायिनः कपटवटोः तद्गोपने कः प्रयास इति भावः॥ ६२॥
अथाग्रहस्ते मुकुलीकृताङ्गुलौ
समर्पयन्ती स्फटिकाक्षमालिकाम्।
कथञ्चिदद्रेस्तनया मिताक्षरं
चिरव्यवस्थापितवागभाषत॥६३॥
(प्रकाशिका)
अथावश्यव551क्तव्यत्वेन कथञ्चित् तत्रोद्यममाह —
अथेति। अग्रहस्तेऽक्षमालार्पणंजपविरामगद्योतकम्। तस्य मुकुलीकृताङ्गुलित्व-मर्पणसौकर्याय552। चिरव्यवस्थापितवाग् व्रतार्थं चिरसंयतवाक्। ततश्चकथञ्चिद्वचनम्। मितभाषित्वं553तूत्तमनायिकाधर्मः॥६२॥
(विवरणम्)
अथ शापभयादवश्यकर्तव्ये वचने सति लज्जापरतन्त्राया अपि देव्याः परिहासशङ्कनिरासार्थंकथञ्चिद् वचनोद्योगमाह —
अथेति। अथ अद्रेः तनया मिताक्षरं कथञ्चिद् अभाषत। अथ प्रश्नानन्तरम् अद्रेस्तनया पार्वती।मिताक्षरमिति भाषणक्रियाविशेषणम्। अक्षरशब्दः शब्दवाची। मितानि परिमितानि अक्षराणि शब्दा यथा भवन्ति तथाभाषत। शब्दानामेवात्र परिमितत्वंनार्थस्येति भावः। मितभाषितत्वम् उत्तमनायिकाधर्मः। कथञ्चित् कथमपि। मौनव्रतपरित्यागभीत्यालज्जापारतन्त्र्याच्चेति भावः। अभाषत उक्तवती।जपमध्ये वचनस्य विशेषतोऽप्ययुक्तत्वाद् वाग्विसर्गार्थंजपविरामोद्योगमाह — अग्रहस्ते स्फटिकाक्षमालिकां समर्पयन्ती इति। अग्रहस्ते हस्ताग्रे। स्फटिकाक्षमालिकां स्फटिकमयीमक्षमालिकां जपमालाम्। समर्पयन्ती सम्यगर्पयन्ती। अर्पणप्रकारमेवाह— मुकुलीकृताङ्गुलाविति।मुकुलीकृताः मुकुलाकारतां प्रापिताः अङ्गुलयो यस्मिंस्तस्मिन्। अत्र स्वभावोक्तिः। अनेनाग्रहस्तविशेषणेन अक्षमालार्पणसौकर्यंद्योत्यते, तात्कालिकं हरमनोहरणं च।व्रतारम्भसमयादारभ्य तत्कालपर्यन्तं देव्या वाग्विसर्गाभावमाह —चिरव्यवस्थापितव्रागिति।चिरं चिरकालंव्यवस्थापिता संयता वाग् यया सा तथा ॥६३॥
यथा श्रुतं वेदविदां वर ! त्वया
जनोऽयमुच्चैःपदलङ्घनोत्सुकः।
तपःकिलेदं तदवाप्तिसाधनं
मनोरथानामगतिर्नविद्यते॥६४॥
(प्रकाशिका)
तत्प्रकारमाह—
यथेति। श्रुतमिति ‘यदा हि तस्याधिगमे’(श्लो.५९) इत्यादि वाक्यम्। वेदविदां वरेति अस्यार्थस्य परमस्पृहणीयत्वं तपसश्च दुरवापसाधनत्वं च जानासीति द्योतयति। उच्चैःपदशब्देन परमेश्वरो विवक्षितः। लङ्घनं प्राप्तिः। किल अपरमार्थे, परप्रतीत्यपेक्षः।यथा त्वया सखीमुखाच्छ्रुतं, तथायं जनः सर्वोत्तरवस्तुप्राप्स्युत्सुकः, तपश्चेदं तत्साधनमित्यर्थः।कथमयमलोकगोचरस्ते संरम्भ इत्याह — मनोरथानामिति। अगतिरगोचरः॥६४॥
(विवरणम्)
वचनप्रकारमेवाह—
यथेति। वेदविदां वर ! त्वया यथा श्रुतं, तथा अयं जनः उच्चैःपदलङ्घनोन्मुखः। वेदं वेदार्थं विदन्तीति वेदविदः तेषां वर ! श्रेष्ठ !।अनया सम्बुद्ध्या मदभिलषितस्यार्थस्य परमस्पृहणीयत्वं तपसो दुष्प्रापार्थसाधनसामर्थ्यं च त्वमेव जानासीति द्योत्यते। तस्मात् किञ्चिदेवात्र वक्तव्यमित्यर्थः। त्वया यथा श्रुतं, सखीमुखादिति शेषः। तथायं जनः उच्चैःपदलङ्घनोन्मुखः। उच्चैःपदम् उक्तंपदम्। तच्चात्र परमेश्वरवधूपदं विवक्षितम्। तस्य लङ्घनं प्राप्तिः। तत्र उन्मुखः उद्यक्तः। भवतीति शेषः। ननु अत्यन्तदुर्लभमेव मन्द-
भाग्यया त्व554या तादृशं स्थानमित्यत्राह— इदं तपः तदवाप्तिसाधनं किल इति। इदं मया क्रियमाणम्। तपः तदवाप्तिसाधनं तस्य परमेश्वरवधूपदस्य प्राप्तौसाधनम्। किलशब्दोऽपरमार्थे। अनेनैव तपसासाधयिष्यामीति मे मनोरथः। नानेन तपसास्यास्तादृशार्थप्राप्तिर्भविष्यतीतीदानीं सर्वे जना मन्यन्त इति परप्रतीत्यनुसारेणायं किलशब्दः। ननु कथमत्यन्तदुःसाधेऽर्थेतव तादृशोमनोरथ इतीमामाशङ्कामर्थान्तरन्यासेन परिहरति—मनोरथानाम् अगतिः न विद्यतेइति। मनोरथानां मनोराज्यानाम् अगतिः अविषयः न विद्यते न लभ्यते। नहि लोके मनोरथानामविषयः कश्चिदप्यर्थो विद्यत इत्यर्थः। अत्यन्तमन्दभाग्यायास्तव कथंतादृशपदप्राप्त्युपपत्तिः। नाप्यत्यन्तदुःसाधत्वेन निश्चितमर्थमुद्दिश्यकश्चिदपि लोके प्रवर्तते। तस्मात् परिहासपरमेवेदं सखीवचनमिति खलुभवता विवक्षितम्। तदनुपपतन्नमेव‚मनोरथस्य सर्वविषयत्वोपपत्तेरित्यार्थान्तरन्यासस्याभिप्रायः॥६४॥
अथाह वर्णीविदितोमहेश्वर-
स्तदर्थिनी त्वं पुर555एववर्तसे।
अमङ्गलाभ्यासरतिंविचिन्त्य तं
तवानुवृत्तिं न तु556कर्तुमुत्सहे॥६५॥
(प्रकाशिका)
अथैवं देवीमुखेन उपलब्धवृत्तान्तस्य देवस्यपुनरपि ‘क्रुद्धसुप्तमत्तानां भावज्ञानमि’ति वचनादेनां कोपयित्वाभावं परीक्षिप्ये।कोपकषायितायाश्चमुखविकारानतिमधुरान् द्रक्ष्यामीति मन्य557मानस्य विटवर्गचूडामणेर्वृत्तमाह—
अथेति।अथशब्दस्य तदादित्वादाहेति लट्। ‘तदादौ चे’ति भोजसूत्रम्। वर्णीव्रह्मचारी। महेश्वरो विदितः ज्ञायमानः। त558महं जाना
मीत्यर्थः। पुर एव मद्दर्शनात् प्रागेवारभ्य।‘आदिरग्रंपुरः पूर्वंप्रथमं प्राक्पुरा स्मृतमि’ति हलायुधः। यदि मम त्वदृर्शनं प्रागेवाभविष्यत्, तर्हितदर्थिनी त्वंनाभविष्य इति भावः।अमङ्गलानि चिताभस्मादीनि, तेषामभ्यासे रतिः प्रीतिर्यस्य। अहं तु, तच्छीलं विचि559न्त्यामङ्गलोत्सुकायस्तवानुवृत्तिं न चिकीर्षामीत्यर्थ॥६५॥
(विवरणम्)
इत्थं निजविषयमभिलाषंदेवीमुखादेव सम्यगवगतवतोऽपि ‘क्रुद्धसुप्तमत्तानां भाव- ‘ज्ञानमि’तिवचनाद् भावपरीक्षायाः कोपे सत्येवाग्रसुकरत्वात् कोपेन विवृतभावामेनां पुनरपि परीक्षिप्ये। कोपकपायितायाश्चास्या मुखविकारानतिमनो560हरानवलोकयिष्यामीनि मन्वातस्य विटवर्ग- चूडामणेःकपटवटोःप्रवृत्तिमाह—
अथेति।अथ वर्णी आह। अथ देवीवचनादेव परमार्थज्ञानानन्तरम्। वर्णी ब्रह्मचारी आह। अथशब्दस्य तदादित्वात्‘तदादौचे’ति भोजसूत्रानुसारेणाथशब्दयोगाद् भूतार्थेलट्।उक्तवानित्यर्थः। उक्तिप्रकारमेवाह—विदित इत्यादिना। महेश्वरः विदितः। विदित इति वर्तमाने कर्मणि क्तः। महेश्वरमहं जानामीत्यर्थः। त्वंपुरः एव तदर्थिनी वर्तसे। पुर एव अस्मदर्शनात् प्रागेवारभ्य। ‘आदिरग्रंपुरः पूर्वंप्रथमं प्राक् पुरा स्मृतमि’ति हलायुधः। यदि तव मदृर्शनं प्रागेवाभविष्यत्, तर्हि त्वंतदर्थिनी च नाभविष्यइति भावः। तदर्थिनी ,तच्छब्देनात्र महेश्वरःपरामृश्यते। तमर्थयितुंप्रार्थयितुंशीलमस्या इति तथा। अहोते मन्दभाग्यत्वमिति भावः। यद्यपि मया पूर्वे‘ तदर्धभागेन लभस्वकाङ्क्षितम्’(५०) इत्युक्तं, तथाप्यहमस्मिन्नर्थेतव चित्तवृत्तिमनुसर्तुं नशक्नोमीत्याह—अहम् अमङ्गलाभ्यासरतिं तं विचिन्त्यतव अनुवृत्तिं कर्तुंन तु उत्सहे। अमङ्गलानां चिताभस्मादीनाम् अभ्यासे निरन्तरानुलेपनादौ रतिः श्रद्धा यस्य। तं
विचिन्त्यपुनः पुनर्निरूप्य। तवानुवृत्तिम् अनुसरणं कर्तुम्। तुशब्दोऽवधारणे। नैवोत्सहे नैव शक्नोमि। यद्यपि इष्टातुसरणमेव सख्यानुरूपं, तथाप्यमङ्गलाभ्यासरतेस्तस्य सर्वमङ्गलायास्तव च परस्परसङ्घटनयोग्यताविरहात् तत्स्वरूपपरमार्थवेदी नाहमस्मिन् विषये तवानुसरणं बाङ्मात्रेणापि कर्तुं शक्नोमीत्यर्थः। महति सङ्कटे पतिष्यतां बन्धूनां ततो निवारणमेव हि सख्यस्य महत् फलमिति भावः॥६५॥
अवस्तुनिर्बन्धपरे! कथं नु ते
करोऽयमामुक्तविवाद्दकौतुकः।
करेण शंभोर्वलयीकृताहिना
सहिष्यतेतत्प्रथमावलम्बनम्॥६६॥
(प्रकाशिका)
अननुवृत्तिं प्रपञ्चयति—
अवस्त्विति। अवस्तुनिर्बन्धोऽसाराभिनिवेशः।करविशेषणाभ्यां परस्पराननुरूपत्वमुक्तम्। तत्प्रथमशब्देन दुस्सहत्वमुपपादितम्। पाणिग्रहणमेव तावदतिदुस्सहमित्यर्थः॥६६॥
(विवरणम्)
परस्परसङ्घटनयोग्यताविरहादनुवृत्तेरयोग्यत्वमेव प्रपञ्चयति सप्तभिः श्लोकैः। तत्रादौविवाहसमय एव तावदग्निसाक्षिकं पाणिग्रहणमेवातिदुःसहम्। तिष्ठतु तावदन्यत् सर्वमित्याह—
अवस्त्विति। अवस्तुनिर्बन्धपरे! ते अयं करः शम्भोः करेण तत्प्रथमावलम्बनंकथं सहिष्यते। अवस्तुनिर्बन्धपरे! अवस्तुनि असारे यो निर्बन्धोऽभिनिवेशः तस्मिन् तत्परे। अनया सम्बुद्ध्यास्यनिर्बन्धस्यात्यन्तमनुचितत्वमुक्तम्। त्वदपेक्षयात्यन्तमसार एवायं महेश्वर इति भावः। ते तव
अयम् अतिसुकुमारतथा दृश्यमानः करः। अनेन करस्य स्वरूपतो रमणीयत्वमुक्तम्। शम्भोः करेण तत्प्रथमावलम्बनं तदेव प्रथममादिमं यस्य तोदृशमवलम्बनं ग्रहणम्। समन्त्रमाद्यंपाणिग्रहणमित्यर्थः। कालातिपाते सति परिचयवशात् कथञ्चिदपि सह्यंभवतु नाम, न पुनः प्रथमग्रहणमितिभाव561ः। कथं सहिष्यते न कथञ्चिदित्यर्थः। अत्रासहने करस्यैव कर्तृत्वप्रतिपादनेन त्वत्करस्तत्करदर्शनमात्रेण स्वयमेव भीत्या सहसा निवर्तिष्यत इति प्रतिपादितम्। तेन चात्यन्तभयान562कत्वंसूचितम्। तस्मादलं तव तत्पाप्तिप्रयासेनेति भावः। देवीकरस्य विवाहसमये विशेषतो रमणीयत्वमाह— आमुक्तविवाहकौतुक इति। आमुक्तम् अर्पितं विवाहकौतुकं विवाहार्थं कौतुकं यस्मिन्। कौतुकबन्धनं गृह्यप्रसिद्धम्। तस्य मनोहरत्वमुक्तंरघुवंशे—‘अथ तस्य विवाहकौतुकं ललितं बिभ्रत एवं पार्थिवः’ (सर्गः८. श्लो. १) इति। शम्भोः करस्य भयानकत्वमाह—वलयीकृताहिना इति। वलयीकृताः वलयतां प्रापिताः अहयः सर्पा यस्मिंस्तेन। अनेन वेषतोभीषणत्वमुक्तम्। इदमसहनत्वेहेतुः। तस्मात् तत्प्राप्तिप्रयासस्त्वया न कर्तव्य इत्यर्थः॥६६॥
त्वमेव तावत् परिचिन्तय स्वतः563
कदाचिदेते यदि योगमर्हतः।
वधूदुकूलं क्564वच हसंलक्षणं
क्565वचाजिनं शोणितबिन्दुवर्षित566त् ॥९७॥
(प्रकाशिका)
अथान्यदप्येवमेवेत्याह—
त्वमिति। त्वमेव तावत् परिचिन्तय। तिष्ठत्वितरदृष्टिरिति शेषः। तावत् सम्भ्रमे। ‘यावत्तावन्ननु पुरा अङ्ग ही हन्त सीमिति। सम्भ्रमार्था’
इति भोजः567।स्वतः कदाचिदिति पाठः। स्वतोनिसर्गतः कदाचिदापत्कालेऽपि। एते इति बुद्धिस्थे।‘यदिः पक्षान्तरेऽपि चे’ ति सिंहः। अयोगितां च दर्शयति—वधूदुकूलमिति। हंसलक्षणं रोचनादिलिखितहंसमिथुनसनाथपर्यन्तम्। ‘क्वचाजिनं शोणितबिन्दुवर्षि तदि’ति पाठः। अत्र स्वरूपतो विशेषणतश्चसम्पादितेन वैषम्येण दुकूलाजिनयोः प्रस्तुतमिथुनविषये श्लेषो न घटत इति ‘क्वचिद् यदतिवैषम्यान्न श्लेषो घटनामियादि’ति विषमालङ्कारः। वधूशब्देन विवाहकाल एव भाविनीयमयोग्यतेति सूचितम्॥६७॥
(विवरणम्)
इत्थम् अतिदुःसहत्वात् प्रथमं करग्रहणस्याशक्यत्वमुक्तम्। अथ विवाहारम्भ एव यन्मङ्गलार्थंविहितं वसनपरिधानं, तत्र वसनयोःपरस्परविरुद्धतामाह—
** त्वमेवेति**। एते कदाचित् स्वतः योगम् अर्हतःयदि, त्वमेव तावत् परिचिन्तय। एते बुद्धिस्थे वक्ष्यमाणे वस्तुनी। कदाचित् आपत्कालेऽपि। लोकत्रये त्वदुचितपुरुषान्तररहितेऽपीत्यर्थः। स्वतः निसर्गतः। अनेन रागतः प्रवृत्तिरुक्ता। योगं परस्परघटनम्। अर्हतः तत्र योग्यतां प्राप्नुतः। यदि शब्दः पक्षान्तरे। तावच्छब्दः सम्भ्रमार्थः। ‘यावत्तावन्ननु पुरा अङ्ग ही हन्त सीमिति। सम्भ्रमार्था’इति भोजः। परिचिन्तय समन्ताद् विचारय ।वक्ष्यमाणे दुकूलाजिने परस्परघटनयोम्ये इति यदि ते पक्षस्तर्हितिष्ठतु तावदस्मादृशां बन्धुजनानां दृष्टिः, त्वमेव ससम्भ्रमं विचारयेत्यर्थः। कार्यातिपाते विचारस्य निष्फत्वात् तावदित्युक्तम्। प्रकृतं वैषम्यमेव स्वरूपतो विरोषणतश्च प्रतिपादयति — हंसलक्षणं वधूदुकूलं568 च क्क शोणितबिन्दुवर्षितद् अजिनं च क्वइति। हंसलक्षणं हंसा राजहंसा लक्षणं चिह्नं यस्य तादृशम्। गोरोचनादिलिखितहंसमिथुनसनाथपर्यन्तभागमित्यर्थः। वध्वा दुकूलं वधूदुकूलम्। वधूर्नवोढा। वधूः स्त्रीमात्रभार्ययोः। नवोढयोषास्नुषयोरि’ति केशवः। अत्र. वधूशब्द
प्रयोगेण विवाहसमयभाविनीयमयोग्यतेति सुचितम्।शोणितस्य बिन्दून् कणान् वर्षितुं शीलमस्येति तथा। विवाहकाले नवीनवसनपरिग्रहस्यावश्यकत्वात्। तत्कालविशेषणं चेदं, कालान्तरे पुनरजिनस्य शुष्कतया शोणितबिन्दुवर्षशीलाभावात्अजिनं चर्मच क्व। अतिमहदनयोरन्तरमिति भावः। अत्र दुकूलाजिनयोः परस्परसङ्घटनयोग्यताविरहाद् विषमा569लङ्कारः॥६७॥
चतुष्कपुष्पप्रकरावकीर्णयोः
परोऽपि को नाम तवानुमन्यने।
अलक्तकाङ्कानि पदानि पादयो–
र्विकीर्णकेशासु परेतभूमिषु॥६८॥
(प्रकाशिका)
अथ परिणीतायास्तद्गृहगमनेऽप्यनौचित्यंदर्शयति —
चतुष्केति। चतुष्कं मण्डपविशेषः। वक्ष्यति च— ‘नार्यश्चतुष्काभिमुखीमनैषुः’(स.७.श्लो.९)इति। चतुष्कगतपुष्पप्रकरन्यस्तयोरित्यर्थः परोऽपि, तिष्ठतु मादृशोजन इत्यर्थः। पदान्यवस्थानानि। ‘पदंव्यवसितिस्थानत्राणलक्ष्माङ्घ्रिवस्तुषु’इति सिंहः। परेतभूमिषु श्मशानेषु। ता हि तस्य गृहा इति भावः॥ ६८॥
(विवरणम्)
विबाहानन्तरं भर्तृगृहप्राप्तावप्यनौचित्यमाह—
चतुष्केति। परः अपि कः नाम तवपादयोः पदानि परेतभूमिषु अनुमन्यते। परोऽपि शत्रुरपि। तिष्ठतु तावदस्मादृशोबन्धुजन इति भावः। को नाम्, नकोऽपीत्यर्थः। तव पादयोः स्वतएवसुकुमारयोश्चरणयोः।पदानि स्थानानि। ‘पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुष्वि’त्यमरः। परे-
तभूमिषु श्मशानेषु। कर्तुमिति शेषः। अनुमन्यते अनुमनन करोति, अनुवदतीयर्थः। श्मशाननिलयो हि हरः।ततस्तव सुकुमारयोरेतयोः पादयोरवस्थानं श्मशानभूमिषु भविष्यति। तत् तु शत्रुजनोऽपि नानुमन्यते।किं पुनरत्यन्तबन्धुमूतोऽहम्।तस्मादहं न तवानुवृत्तिंकर्तुमुत्सहेइति भावः।देवीपादयोः पूर्वावस्थानप्रदेशस्य भविष्यदवस्थानप्रदेशानां श्मशानभूमीनां च परस्परमत्यन्तविलक्षण-स्वरूपत्वंप्रतिपादयति— चतुष्केत्यादिना।तत्रतावद् देवीपादविशेषणद्वारेण पूर्वावस्थानप्रदेशस्य-मनोहरत्वमाह चतुष्कपुष्पप्रकारावकीर्णयोरिति। चतुष्कं मण्डपविशेषः। ‘चतुप्क॑ सचतुस्तम्भं विवाहे स्नानमण्डपमि’ति भोजः। तद्गते पुष्पप्रकरे कुसुमसमूहे अवकीर्णयोः न्यस्तयोः।स्वत एवात्यन्तनिर्मलेषु स्थलेषु मृदुतराणि कुपुमानि विकीर्य तत्र न्यस्तयोरित्यर्थः।अङघ्रिविन्यासप्रतिविम्बानामपि रमणीय-त्वमाह—अलत्ककाङ्कानीति। अलक्तको लाक्षारसोऽङ्कोयेषु।अनेन तेषां शमशानमूमिष्वयोग्यत्वमुक्तम्।श्मशानविशेषणेनैव भविष्यदवस्थानप्रदेशस्यात्यन्तनिन्द्यत्वमाह— विकीर्णकेशास्विति। विकीर्णाविक्षिप्ताः केशाः प्रेतकेशा यासु।अत्र पूर्वोत्तरावस्थानप्रदेशयोः स्वरूपतो विशेषणतश्चातिवैषम्यं प्रतिपादितम्॥ ६८॥
अयुक्तरूपं किमतःपरं वद
त्रिनेत्रवक्षःसुलभंतवापि यत्।
स्तनद्वयेऽस्मिन् हरिचन्दनाङ्किते570
पदं चिताभस्मरजः कारेष्यति॥३९॥
(प्रकाशिका)
तथा तवतदङ्गसङ्गोऽप्यतिबीभत्स इत्याह—
अयुक्तेति।प्रशंसायां रूपप।अयुक्तेषु प्रशस्तमित्यर्थः।
त्रिनेत्रवक्षस्सुलभम्, एतदेव हि तत्रसुलभावति भावः। तथापि एवं भुवनलोभनीयाया अपीत्यर्थः। पदं स्थानम्॥६९॥
(विवरणम्)
भर्तृगृहप्रवेशानन्तरभावी तदङ्गसङ्गोऽपि तथातिवीभत्सइत्याह—
अयुक्तेति। त्रिनेत्रवक्षःसुलभं चिताभस्मरजः तवअपि अस्मिन् स्तनद्वयेपदं करिष्यति यद्, अतः परं किम् अयुक्तरूपं वद। त्रिनेत्रस्य हरस्य वक्षसिसुलभंसुखेन लभ्यम्। नहि तस्य वक्षस्यन्यत्किमपि लभ्यमस्तीत्यर्थः। चितायां यद् भस्म तस्य (रजः) चूर्णम्। तवापि लोकत्रयलोभनीयाया अपीत्यर्थः। अस्मिन् अत्यन्तकोमलेस्तनयोर्द्वये। पदं स्थानं करिष्यतीति यद्, अतः परम् अस्माद् अन्यत् किम् अयुक्तरूपम्। प्रशंसायां रूपप्। अत्यन्तमयुक्तमित्यर्थः। स्तनतटाधि571ष्ठानयोग्यमेवार्थमाह— हरिचन्दनाङ्कित इति। हरिचन्दनं रक्तचन्दनम्। अथवा कल्पवृक्ष एव। ‘सन्तानः कल्पवृक्षश्चपुंसि वा हरिचन्दनमि’त्यमरः। तेन अङ्किते मुद्रिते। कल्पवृक्षपङ्कानामपि वक्षसिधारणमुक्तं शाकुन्तले—‘आमृष्टवक्षोदरिचन्दनाङ्के’ति। अनेनेन्द्रादीनामेवत्वत्पतित्वमुचितमिति ध्वन्यते। हरिचन्दन- पङ्कसङ्गमयोग्येतव स्तनद्वये हरालिङ्गनसङ्क्रान्तं चिताभस्म पदं करिष्यितीति यत् तस्मादन्यत्किमयुक्तम्। न किमपीत्यर्थः॥६९॥
यदृढयावारणराजभा572र्यया।
विलोक्य वृद्धोक्षमाधिष्ठितंत्वया
महाजनः स्मेरयुखोभविष्याति॥७०॥** `
(प्रकाशिका)
एवं दाम्पत्य573निर्वाहदशायामनैचित्यंदिङ्मात्रेण प्रदर्श्य स्मरणं नाटयन् प्रागेव कथनीयं कि़ञ्चिन्मया विस्मृतमित्याह—
इयमिति। इदंशब्देन बुद्धिस्थं बिडम्बनास्वरूपं परामृश्यते। अन्यां प्रागुक्तेभ्यो विलक्षणा। ‘अन्यस्त्वसदृशे भिन्न’इति सिंहः। पुरतो भर्तृगृहगमनोरम्भ574एवेत्यर्थः। अनेन सम्भ्रमादात्मनो वचने क्रमव्युत्क्रमं सूचयति।विडम्बना हासकारणमित्यर्थः। अत्र कायेरूपं हेतुमाह— यदित्यादिना वाक्येन। यस्मादेवं भविष्यति, तस्पाद् विडम्बनया भवितव्यमित्यर्थः। विडम्बनास्वरूपंतु ऊढ़येत्यादिनानुवादभागेनार्थतो दर्शितम्। ऊढया बाल्यात् प्रभृति पितृगृह इत्यर्थः। वारणराजभार्ययाकरिणीमतल्लिकया। वृद्धोक्षमिति। सोऽपि कियच्चिरकालजीवीति केनापि न ज्ञायत इति भावः। निपातनाच्च साधुत्वम्। अधिष्ठितमारूढम्। महाजन ओषधिप्रस्थवास्तव्यः। दक्षिणावर्तस्तु—‘ऊढया परिणीतया व्रारणराजहार्ययेतिपाठः। विवाहानन्तरं गजराजवाह्ययेत्यर्थ’ इत्याह॥७०॥
( विवरणम् )
इत्थं विवाहसम्भोगाद्यारम्भसम्भाविनीमनौचितीं दिङ्मात्रेण दर्शयित्वा। प्रागेव वक्तव्यं किमपि वस्तु मया विस्मृतमिति स्मरणमभिनीयाह —
इयं चेति। ते पुरतः इयं च अन्या विडम्बना। पुरतः पूर्वम्। पतिगृहप्रस्थानवेलायामेवेत्यर्थः। अनेन पूर्वमेव वक्तव्यमिदं मया विस्मृतमिति व्यज्यते। अतिकष्टानामनिष्टानां वचनस्थावश्यकत्वात् तेषामहमहमिकया परिस्फुरणमस्य परिहासमात्रफलस्य विस्मरणे हेतुरिति च विडम्बनापदेन
ध्वन्यते। इयमित्यनेन बुद्ध्यारूढं वक्ष्यमाणं विडम्बनास्वरूपं परामृष्टम्। चशब्दः पूर्वोक्तसमुच्चयार्थः। अन्यापूर्वोक्तेभ्यो विलक्षणा। ‘अन्यस्त्वसदृशेभिन्ने’इत्यमरः। विडम्बना, हासकारणम्। अस्यहासकारणस्य हासरूपेण कार्येण हेतुना हासकारणोत्पत्तिमेव द्रढयति— वारणराजभार्यया ऊढया त्वया वृद्धोक्षमधिष्ठितं विलोक्य महाजनः स्मेरमुखः भाविष्यति। वारणानां राजा वारणराजः। न तु सामान्यवारणः। तस्य भार्याकरिणीमतल्लिका। न सामान्यकरिणी तया।पितृगृहावस्थाने बाल्यात् प्रभृति विवाहावसानपर्यन्तमूढया। त्वया तादृशवाहनयोग्यया। वृद्धोक्षंवृद्धश्चासावुक्षा चेति वृद्धोक्षः। स तु कियच्चिरकालजीवीति केनापि न ज्ञायत इत्यर्थः। अत्र वृद्धोक्षपदस्य ‘अचतुरा’दिसूत्रेण निपातनात् साधुत्वम्। स्वत एव उक्षा, तत्रापि वृद्धः। पूर्वंतु करिर्णाश्रेष्ठेति पूर्वोत्तरवाहनयोरत्यन्तवैलक्षण्यमनेन ध्वन्यते। अधिष्ठितम् आरूढं विलोक्य दृष्ट्वामहाजनः ओषाधिप्रस्थवास्तव्यो लोकः। तेपामन्यथैव पूर्वंपरिचयात् सद्यएवतदन्यथात्वदर्शने परिहासस्यावश्यम्भावात् स्मेरमुखः स्मेरं मुखं यस्य स तथा भविष्यति। यद् यस्माद् ओषधिप्रस्थवास्तव्यो जनः स्मेरमुखो भविष्यति, तस्मात् करिणीवाहनोः चितायास्तव वृद्धोक्षाधिरूढत्वरूपं हासकारणं भविष्यत्येवेत्यर्थः॥७०॥
द्वयंगतं सम्प्रति शोचनीयतां
समागमप्रार्थनया पिनाकिनः।
कला च सा कान्तिमती कलात्म575न-
स्त्वमस्य लोकस्य च नेत्रकौमुदी॥७१॥
(प्रकाशिका)
किं बहुना, त्वमीदृग्गुणापि सम्प्रति शोचनीया संवृत्तेत्याह—
द्वयमिति। द्वयमित्यादिवाक्येन सामान्येनोपक्रम्य किं च किं
चेत्याकाङ्क्षायां कला चेत्यादिना विशेषेणोपसंहारः। सम्प्रतीति पूर्वं त्वेकमेव शोचनीयतां गतमिति वक्तुंशक्यम्, इदानीं तु द्वयमपीत्यर्थः। समागमप्रार्थनया कृतया क्रियमाणया च। तत्र कृतया कला क्रियमाणया च त्वमित्यर्थः। सेतितच्छब्देन प्रसिद्धतयार्थःपरामृश्यते। सा कला या प्रसिद्धेति स्फुटत्वेन प्रती576तेः।दक्षिणावर्तस्तु—‘सेत्यनेन पूर्वकालशोचनीयत्वंसूचितमि’त्याह।सा कला चेति त्वंचति चान्वयः। विशेषणाभ्यां तुल्यकक्ष्यत्वमुक्तम्। तुल्यकक्ष्यतया च बुद्धिस्थया द्वयमित्युपक्रमः॥७१॥
(विवरणम्)
एवम्भूतानिबहूनि वक्तव्यान्यतः परमपि सन्त्येव।किमनेन टुरुपन्यासक्लेशेन सर्वथापि त्वंशोचनीयः संबृत्तेत्याह—
द्वयर्मिति। पिनाकिनः समागमप्रार्थनया सम्प्रति द्वयं शोचनीयतां गतम्। पिनाकिनः पिनाकिशब्दश्रवणमात्रेण तवायं वीराग्रेसरत्वभ्रम इति भावः। यच्चात्र कैश्चित् पिनाकिपदप्रयोगो न दोषप्रकरणोपयोगी, तस्मात् कपालिन इत्येव वक्तव्यमित्युक्तं, तदप्यनेन परिहृतम्। ‘अत्रिमुनिलोचनदूषिकायां पीयूषदीधितिरिति ग्रथितोऽनुराग’इत्यत्र पीयूषदीधितिपद-प्रयोगवदत्रापिपिनाकिपदप्रयोगोपपत्तेरुक्तत्वात्। समागमः सङ्गमः। समागमाय प्रार्थना समागमप्रार्थना, तया। सम्प्रति इदानीं द्वयं वक्ष्यमाणं वस्तुद्वयं शोचनीयतां शोच्यत्वं गतं प्राप्तम्। किं तर्हितद् द्वयमित्यत्राह—कलात्मनः कान्तिमती सा कलाच अस्य लोकस्य नेत्रकौमुदी त्वंच इति। कलात्मनः कला एव आत्मा स्वरूपं यस्यतस्य चन्द्रस्य। लऴयोरविरेषात् कऴात्मन इति च प्रतिभाति। अनेन स्वरूपतो मनोहरत्वम्उक्तम्। कान्तिमतीति प्रशंसायां भूम्निच मतुप्। मनोहरबहुतरकान्तियुक्तेत्यर्थः। अनेन विशेषतो मनोहरत्वं प्रतिपादितम्। सा लोकप्रसिद्धा। कलाषोडशो
भागः। ‘कला तु षोडशो भाग ’ इत्यमरः। अस्य लोकस्य लोकत्रयवासिनो जनस्य। नेत्राणां कौमुदी चन्द्रिका। ‘चन्द्रिका कौमुदी’त्यमरः। कौमुदीव दर्शनमात्रेण नेत्रानन्दकारिणीत्यर्थः।अत्रापि त्वमित्यनेन स्वरूपतो रमणीयत्वं , नेत्रकौमुदीत्यनेन विशेष577तो रमणीयत्वं च प्रतिपादितम्। अनेनोभयोरपि गुणसाम्यप्रतिपादनेन पूर्वमेव द्वयमिति तुल्यतयोपक्रमस्यबुद्धिस्थेनगुणसाम्येनयुक्तत्वमुपपादितम्। इतः पूर्वं चिताभस्मकपालादिमध्यवर्ति शशिकलात्मकंवस्त्वेकमेव शोचनीयतां गतमिति सम्प्रतीत्यनेनोक्तम्। पिनाकिनः समागमप्रार्थनैवद्वयोरपि शोचनीयत्वप्राप्तौहेतुः। पूर्वकृतया प्रार्थनयैकम्, अन्यत्पुनरिदानीं क्रियमाणयेत्येव भेदः॥७१॥
वपुर्विरूपाक्षमलक्ष्यजन्मना
दिगम्बरत्वेन निवेदितं वसु।
वरेषुयद् बालमृगाक्षि ! मृग्यते
तदस्ति किं व्यस्तमपि त्रिलोचने॥७२॥
(प्रकाशिका)
एतदेवोपपादयति—
वपुरिति। अलक्ष्यं देशकालजात्यादीभिर्जन्म यस्य तस्य भावस्तत्ता। अस्तीति शेषः। वरेषु जामातृषु। यादिति गुणजातं परामृश्यते। वालमृगाक्षीतिविरूपाक्षानईन्वं द्योत्यते। मृग्यते578अर्थात् कन्याबन्धुभिः। तदिति रूपाभिजनसमृद्धिलक्षणसम्पन्नत्वम्। व्यस्तमेकैकमित्यर्थः। त्रिलोचनशब्देन लक्षणशून्यत्व- मुक्तम्। ‘हानिवदाधिक्यमप्यङ्गानां विकार’ इति वचनात्॥७२॥
(विवरणम्)
शोचनीयत्वमेव हेतुभिरुपपादयति—
वपुरिति। बालमृगाक्षि! वरेषु यद् मृग्यते, त्रिलोचने तद् व्यस्तमपि किमस्ति। बालोमृगो बालमृगः। बालमृगस्य अक्षिणी इव अक्षिणी यस्याः सा तथा। अक्ष्णोः शोभाधिक्यप्रतिपादनार्थंबालपदोपादानम्। अनेन विरूपाक्षानर्हत्वं द्योत्यते।वरेषु भर्तृषु। यत् सोन्दर्यादिकं गुणजातम्। मृग्यते अन्विष्यते। वधूभिः तद्बन्धुभिश्चेति शेषः।त्रिलोचने हरे तद् गुणजातं व्यस्तंविभक्तम् एकैकमपि अस्ति किम्।
“कन्या कामयते रूपं माता वित्तं पिता श्रुतम्।
बान्धवाः कुलमिच्छन्ति मृष्टान्नमितरे जनाः॥”
इत्यादिवचनानुसारेण सौन्दर्याभिजात्यमहालक्षणलक्षितत्वादीनि यानि गुणजातानि वधूभिस्तद्बन्धुभिश्च विवाहसमयात् प्रागेवान्वित्यन्ते, तेष्वेकमपि किं त्रिलोचने विद्यते। एकस्यैकदेशोऽपि नास्तीत्यर्थः। नास्तित्वमेवोपपादयति—वपुरित्यादिना। वपुः विरूपाक्षं, शरीरं ललाटे लोचनसद्भावाद् विकृतरलोचनम्। भवतीति शेषः। अलक्ष्यजन्मना, अस्तीति शेषः। देशकालजात्यादिभिरलक्ष्यं लक्षयितुं ज्ञातुमशक्यं जन्म यस्य तस्य भावस्तत्ता। अयं कस्मिन् देशे जातः, कस्मिन् वा काले, कस्यां वा जातौ, को वास्य पिता, का वा मातेति केनापि न ज्ञायतइत्यर्थः। प्रसिद्धतर ब्राह्मणादिदेशजातानामेव हि सम्बन्धयोग्यता। तथा कस्मिन् काले जन्मास्येति वृद्धैरपि न ज्ञायते। अनेन वृद्धभ्योऽपि वृद्धतरत्वमुक्तम्। तेन च तरुणीरमणीयत्वं निरस्तम्। यथाहुः—‘डिण्डीरपिण्डपरिपाण्डरगण्डमुण्डं चण्डालवत् परिहरन्ति नरं तरुण्यः’इति। ‘ऊनषोडशवर्षास्त्रीपूर्णविंशेन सङ्गता। उत्तमं जनयेत् पुत्रम्’इत्यादिवचनविरोधजनिता बहुविधा दोषाश्चानेनैव सूचिताः। तथा जात्या कीदृशोऽय-
मिति निर्णयाभावेऽपि न कैश्चिदपि कन्या दीयते। न च मातापितृगतया जात्यास्यापि जातिः परिच्छेत्तव्या। अस्य579 मातापित्रोरप्यलक्षितत्वात्। ननु वृद्धत्वादयः सर्वेऽपि दोषा वसुमत्तया परिहिृयन्ते। यथोक्तं —
“सकुलीनः स विद्वांश्चस युवा स विचक्षणाः।
स एव सुभगो यस्तु धनधान्यसमृद्धिमान्॥”
इति। तस्माद् वसुमत्तायां सत्यां किमन्यैर्गुणैरितीमामाशङ्कां वसुमत्त्वनिरासेन परिहरति—दिगम्बरत्वेन वसु निवेदितमिति। दिगेवाम्बरं यस्य स दिगम्बरः। तस्य भावस्तत्त्वं, तेन। वसु धनम्। ‘देवभेदेऽनले रश्मौ वसूरत्ने धने वसु’ इत्यमरः। निवेदितं ज्ञापितम्। अनर्घवसना हि धनिनः। निर्धनास्तु जीर्णवसनाः। अस्य तु जीर्णवसनस्याप्यभावेन वसुमत्ता दूर580निरस्ता। तस्मादस्येदृशीधनसम्पत्तिरिति तद्गतं दिगम्बरत्वमेव निवेदयतीति किमस्माकमस्य वसुमत्तानिरासप्रयासेनेति भावः। त्रिलोचतशब्देनात्रलक्षणशून्यत्वमुक्तम्। न्यूनाङ्गत्वस्येवाधिकाङ्गत्वस्यापि सामुद्रिकवेदिभिरङ्गदोषपक्षे निक्षिप्तत्वात्। यथोक्तं—‘हानिवदाधिक्यमप्यङ्गानां विकारः’इति॥७२॥
निवर्तयास्मादसदीप्सितान्वनः
क्वतद्विधस्त्वं क्व च पुण्यलक्षणा।
अपेक्ष्यतेसाधुजनेन वैदिकी
श्मशानशूलस्य न यूपसात्क्रिया॥७३॥
(प्रकाशिका)
अथ कर्तव्यमवधारयति—
निवर्तयेति। तद्विधस्तादृशः। अपेक्ष्यते इष्यते। वैदिकीति सत्कियाया अलोकिकत्वद्योतकेन विशेषणेन देव्या अपि विशिष्टोपयोगयोग्यत्वंद्योत्यते। श्मशानशूलस्य वध्यारोपणशलस्य॥७३॥
(विवरणम् )
यद्यप्तावेवंविधस्तर्हिकिं कर्तव्यमित्याकाङ्क्षायां कर्तव्यमुपदिश्यवचनमुपसंहरति—
निवर्तयेति। त्वम् अस्माद् असदीप्सिताद् मनः निवर्तयंइति। अस्माद इदानीं क्रियमाणात्। असदीप्सिताद् असतः अकुशलोदर्कादीप्सितादभिलापात्। मनः चित्तं निवर्तय व्यावृतं कुरु। विरूपाक्षविपयमभिलापं तव चिरकालपरिवर्धितमपि मदुक्तयुक्तिपुरस्यरमस्याकुशलोदर्कत्वं
अस्पष्टं पुटम्
नि581कुञ्चितभ्रूलतमाहिते तया
विलोचने तिर्यगुपान्तलोहिते॥७४॥
(प्रकाशिका)
देव्यावृत्ता582न्तमाह—
इतीति। द्विजाताविति तस्यशापाद्यविषयत्वद्योतनात् कोपस्यात्मदाहकत्वंद्योत्यते। प्रवेपमानाधर-लक्ष्यकोपयेत्यादिना कामुकस्य मनोरथसिद्धिरुक्ता। निकुञ्चितमाभुग्रम्। तिर्यगाहिते पार्श्वापवृत्तेकृते॥७४॥
(विवरणम्)
इत्थमपरमार्थव्रह्मचारिणा सपरिहासमभिहिताया देव्यावृत्तमाह—
इतीति। द्विजातौ इति प्रतिकूलवादिनि तया विलोचने तिर्यग् आहिते। द्विजातौ ब्राह्मणे। अनेनास्य वटोः शापाद्ययोग्यत्वंप्रतिपादितम्। यथोक्तं भागवते भगवतैव—‘विप्रंकृतागसमपि नैव दुह्यतमामकाः! (स्क. १०. अ. ६४. छा. ४१) इति। अनेनास्य शापाद्यविपयत्वप्रतिपादनेन कोपस्यात्मदाहमात्रफलपर्यवसानं ध्वन्यते। अत एवाधरस्पन्दादीनांवहुविधानां कोपचिह्नामुद्भवः। इतिशब्देन ‘विदितोमहेश्वरः (श्लो. ६५) इत्यादि पूर्वोक्तंहरनिन्दावचनं विवक्षितम्। प्रतिकूलं वदितुं शीलमस्येति तथा। तया पार्वत्याविलोचने आत्मनोनयने। तिर्यगित्याधानाक्रियाविशेषणं , तिरश्चीने यथा भवति तथा आहिते विहिते। ब्राह्मणे प्रतिकूलवादिनि सति पार्वती तस्य शापाद्य नर्हत्वादात्मनोनयनद्वयंकोपवशात् तन्मुखान्निवर्त्यतिर्यक्प्रसारितकनीनिकं चकारेत्यर्थः। एतदपि कोपचिह्नंब्रह्मचारिविषयानादरद्योतकंच। पुनरपि कोपसूचकं क्रियाविशेषणमाह—निकुञ्चितभ्रूलतमिति। निकु-
ञ्चितेआभुग्नेभ्रुलते प्रशस्ते भ्रुवौ(यस्मिन् कर्मणि तद्) यथा भवति तथा। अनेन भ्रूभङ्गप्रतिपादनेन कामुकस्य मनोरथसिद्धिरुक्ता। कोपस्यानुभावान्तरमप्याह—प्रवेपमानाधरलक्ष्यकोपयेति। प्रवेपमाने प्रकर्षेण वेपमाने कम्पमाने अधरे लक्ष्यः लक्षयितुं शक्यः कोपो यस्यास्तया। पुनरप्यनुभावान्तरमाह—उपान्तलोहिते इति। उपान्ते अपाङ्गे लोहिते रक्ते। अनेन नेत्रविशेषणेनापि कामुकस्य मनोरथस्फूर्तिर्ध्वन्यते॥ ७४ ॥
उवाचचैनं परमार्थतोहरं
ने वेत्सि नूनंयतएवमात्यमाम्।
अलोकसामान्यमचिन्त्यहेतुकं
द्विषन्तिमन्दाश्चरितंमहात्मनाम्॥ ७५ ॥
(प्रकाशिका)
दिजातित्वादेव प्रतिवचो देयमित्याह—
उवाचेति। नूनं निश्चये। कथं न वेद्मीत्याह— यत इति। एवमिति द्वेषगर्भम्। उपपादयति—अलोकेति। सामान्यं साधारणम्। मन्दा मूढाः। स्वमान्द्याज्ज्ञातुमशक्येन लोकोत्तरेण583 महच्चरितेन (दो?द्वे)षविषयत्वं584 व्यप्तमित्यर्थः॥ ७५॥
(विवरणम् )
यद्यपि द्विजातित्वादत्तौनशापादिविषवस्वथापि प्रतिवचनविषयोभवत्येवेति मन्वानाया देव्याःप्रतिवचनप्रस्तावमाह—
उवाचेति। एनम् उवाच च। एनं ब्रह्मचारिणम् उवाच च उक्तवती च। न केवलंकोपचिह्नैरेव तन्मनोरथं पूरयामास, अपि तु585वाचा चेति चशब्दार्थः।तत्र ब्रह्मचारिणा पूर्वाभिहितानां हरनिन्दावचनानां परिहारोऽपि586
वक्तव्यः। तत्रादौ यत्तावदुक्तं ‘विदितोमहेश्वरः’(श्लो.६५) इति, तदेव परिहरति—त्वंहरं परमार्थतः न वेत्सिनूनमिति। हरं महेश्वरं। परमार्थतः तत्वतः न वेत्सिन जानासि। नूनंशब्दोनिश्चयार्थः। त्वंहरमापातत एव जानासि, न तु परमार्थत इत्यर्थः। नन्वहं कथं न जानामीत्यत्राह—त्वंमाम् एवम् आत्थयतः इति। मां तत्स्वरूपस्यदुर्ज्ञेयत्वमवगच्छन्तीं मां प्रतीत्यर्थः। ‘अमङ्गलाम्यासरतिम्’(श्लो. ६५) इत्यादिपूर्वोक्तप्रकारं हरनिन्दावचनमेवंशब्दार्थः। आत्थेति ‘ब्रुवःपश्चानामादित आहो ब्रुवः’(३.४.८४) इति लटि व्रुव आहादेशः। यतःयस्मात्कारणात्। यस्मान्मामेवमात्थ, तस्मात् त्वंवत्स्वरूपंपरमार्थतो नजानामीत्यर्थः। ननु कथमेवम्भूतेन निन्दावचनेन स्वरूपाज्ञानानुमानमित्याशङ्क्यमहाजन -निन्दायास्तत्स्वरूपज्ञानेन व्याप्तिंदर्शयति—मन्दाःमहात्मनां चरितं द्विषन्ति इति। मन्दाः मूढाः। परमार्थज्ञानहीना इत्यर्थः। महात्मनां महाजनानां चरितं व्यापारं द्विषन्ति। निन्दन्तीत्यर्थः। निन्दायामुपपत्तिमाह—अलोकसामान्यमिति। लोकेषु सामान्यं साधारणं न भवतीत्यलोकसामान्यम्। लोकोत्तरगित्यर्थः। अत एवाह— अचिन्त्यहेतुकमिति। अचिन्त्यःचिन्तयितुमशक्योहेतुर्यस्य तत्तथा। महतामेवम्भूतस्यानुष्ठानस्यकिं प्रयोजनामिति कैश्चिदपि587 ज्ञातुमशक्यमित्यर्थः। अवाज्ञानसगोचरं महतांचरितम्। तस्मात् तदेकदेशदर्शनेन महाजननिन्दावचनं तत्स्वरूपाज्ञानादेवेत्यर्थः। तस्माद् ‘विदितोमहेश्वर’ इति वचनमनुपपन्नमेवेति भावः॥७५॥
विपत्प्रतीकारपरेण मङ्गलं
ननिषेव्यतेसूतिमशुत्सुकेन या।
जगच्छरण्यस्य निराशितःसतः
किमा588सिराशेपहतात्मवृत्तिभिः॥७९॥
(प्रकाशिका)
कस्तर्हितस्य परमार्थइत्याह—
विपरिति। इष्टा589र्जनानिष्ट590परिहारार्थं मङ्गलाचरणमित्यर्थः। तदुभयमप्य591स्य नापेक्षितमित्याह—जगदिति। निराशिषः प्राप्तीच्छारहितस्य। आशा हानोपादानेच्छा, तयोपहतान्तःकरणानां प्रवृत्तिभि- र्मङ्गलाचरणरूपाभिस्तादृशस्यकिं प्रयोजनमित्यर्थः। जगच्छरण्यत्वेनविपदभाव592 उक्तः।निराशिष्टेना- वाएव्यावार्य उक्तः।अनेनामङ्गलाचरणदोषो देवस्य परिहृतः॥७६॥
(विवरणम्)
‘यत्पुनरमङ्गलाभ्यामरसिम् (श्लो.६५) इत्युक्तं, तदप्ययुक्तमित्याह—
विपदिति। विपत्प्रतीकारपरेण भूतिसमुत्सुकेत वा मङ्गलं निषेव्यते।विपदाम् आपदांप्रतीकारः प्रतिक्रिया तस्मिन् परेण तत्परेण। भूतिः सम्पत् तस्यां समत्सुकेन सम्यग् उत्सुकेव सश्रद्धेन।वाशब्दो विकल्पे। मङ्गलं सत्कर्म निषेव्यते नितरांसेव्यते। इष्टानिष्टप्राप्तिपरिहारकामोहि मङ्गलचरणेऽविकारीत्यर्थः। अस्य तु तदुभयकामनाविरहाद् मङ्गलाचरणं निस्प्रयोजनमेवेत्याह— जगच्छरग्यस्य निराशिषःसवःआभिः आशोपहतात्मवृत्तिमिःकिम् इति।जगतां लोकत्रयवासिनां जनानांसरण्यस्य त्वमेव रक्षितेति शरणत्वेन प्राप्तुंयोग्यस्य। ‘शरणं गृहरक्षित्रोरि’त्यमरः। अनेन विपदभाव उक्तः। आशीरमिलापः। ‘अशीरुरगदंष्टायां शुभवाक्याभिलापयोरि’ति वैजयन्ती। निरभिलापस्येत्यर्थः। अनेनावाप्तव्यस्य कस्यचिदप्यभाव उक्तः। सतः एवम्भूतस्यसतः। आभिः जन्मजरामरणादिरूपविपदम्भोधिनिमग्नैर्जनैःक्रियमाणत्वेन दृश्यमानामिरित्यर्थः। अतएव अशोवहतात्मवृत्तिभिःआशया
____________________
५.‘भिरिति। आ’ घ. पाठः
हा593नोपादानेच्छया उपहता दूषिताः आत्मानः अन्तःकरणानि येषाम्। ‘आत्मा देहमनोबुद्धिक्षेत्रज्ञपरमात्मसु’ इति भोजः। तेषं वृत्तिभिः मङ्गलाचरणरूपैर्व्यापारैः। किं, न किमपि प्रयोजनमित्यर्थः। निराशस्यभगवतः प्राप्तव्यपरिहार्ययोरभावात् किं मङ्गलाचरणैरिति भावः॥७६॥
अकिञ्चनः सन् प्रभवः सम्पदां
त्रिलोकनाथः पितृसद्मगोचरः।
स भीमरूपः शिव इत्युदीर्यते
नसन्तियाथार्थ्यविदः पिनाकिनः॥७७॥
(प्रकाशिका)
अकिञ्चन इति। किञ्चन द्रव्यं यस्य नास्ति सोऽकिश्चनः। सम्पदामिन्द्रादिसम्बन्धिनीनाम्। पितृसद्मगोचरोयस्य। अनेन‘अव स्तुनिर्वन्ध’ (श्लो,६६) इति परिहृतम्॥७७॥
(विवरणम् )
अथ परमेश्वरस्यापरिच्छेयद्यत्वप्रतिपादनेनावस्तुनिर्वन्धपरत्वमात्मनःपरिहरति—
अकिञ्चन इति। पिनाकिनः याथार्थ्यविदः न सन्ति। पिनाकिनः वीराग्रेसरस्य हरस्य। नाहमसाराभिनिवेशपरेति भावः। याथार्थ्यं परमार्थं विदन्तीति याथार्थ्याविदः। न सन्ति नभवन्ति। लोकत्रय इति शेषः। त्रैलोक्ये कः पुमान् पिनाकिनं वस्तुत्वावस्तुत्वाभ्यां परिच्छिनत्तीत्यर्थः। ‘नायं गुणः कर्मन सन्न चासद्’इत्यादिभागवतवचनादिति भावः। अपरिच्छेद्यत्वमेव प्रपञ्चयति—अकिञ्चन इत्यादिना। अक्रिञ्चनःसन् सः सम्पदांप्रभव इति उदीर्यते। किञ्चन द्रव्यं यस्य नासि सोऽकिञ्चनः। दरिद्र इत्यर्थः। तथाभूतः सन्नपि भवन्नपि। सम्पदाम् इन्द्रादिसम्बद्धानामै-
श्वर्याणाम्। प्रभवः उद्भवस्थानमिति। उदीर्यते, पुराणादिष्विति शेषः। कर्मणां कर्मफलप्रदो हर इति पुराणादिप्रसिद्धिरनेन वाक्येन दर्शितेत्यवसेयम्। ‘दिगम्बरत्वेन निवेदितं वसु’ (श्लो. ७२ ) इत्यप्यनेनैव पराहृतम्। यथा दिगम्बरत्वेन दरिद्रत्वानुमानं, तथा बहुधनप्रदत्वेन धनाढ्यत्वानुमानस्यापि शक्यत्वात्। तस्मादपरिच्छेद्यएवपिनाकीति भावः। ‘अलक्तकाङ्कानि पदानि’ (श्लो. ६८) इति यदुक्तं तत् परिहरति—त्रिलोकनाथः सः पितृसद्मगोचरः इति। त्रयाणां लोकानां नाथः त्रिलोकनाथः तथाभूतः सन्नापि।सः हरः पितृसद्मगोचर इत्युदीर्यते। पितृणां सद्म पितसद्मश्मशानं,सएव गोचरोविषयोयस्य स तथा। श्मशानानिलय इत्यर्थः। त्रिलोकनाथो वा श्मशाननिलयोवा हर इति को वा परिच्छिन्द्यादिति मावः। ‘करेण शम्भोः’ (श्लो. ६६) इत्यादि यदुक्तं, तन्मनसि निधायाह—भीमरूपः सशिव इति। भीमं भयङ्करं विषधराभरणादिभिः594 स्वरूपतश्च भयानकं रूपं यस्य, तथाभूतः सन्नपि शिवइत्युदीर्यते शान्तस्वरूप इति कीर्त्यते। मायामात्रनिर्भितं हि भगवतः शरीरम्। तस्माद् भीमरूपो वा शिवो वेति को वा जानीयादिति भावः॥७७॥
विभूषणोद्भासि पिनद्धभोगि वा
गजाजिनालम्बि दुकूलधारि वा।
कपालि वा स्यादथवेन्दुशेखरं
न विश्वमूर्तेरवधार्यते वपुः॥७८॥
(प्रकाशिका)
विभूषणोद्भासीति। कपालि ब्रह्मशिरःकपालधारि। तदुक्तं—
“जगत्सिसृक्षासमयेषु वेधसां प्रणामलोलानि शिरांसि xxx
जगद्विराxxxxलशेषतां गतानि तिष्ठन्तिजटासु धर्जदे॥”
इति। विश्वमूर्तेः सर्वात्मनः। लौकिकालौकिकयोः सोम्यासोम्ययावाकतरेणालङ्कृतंवपुरिति नियमेन न ज्ञातुंशक्यत इत्यर्थः। अनेन ‘त्वमेव तावत् परिचिन्तय’(श्लो.६७)इत्यादि परिहृतम्॥७८॥
(विवरणम्)
अपि चपरमेश्वरस्यशरीरावलम्वनमपिभक्तानुग्रहार्थमेव। तस्मादलौकिकेन वालौकिकेन वा सौम्येन वा असौम्येनवा केनालङ्करेणालंङ्कृतं कीदृशंवा बपुरिति नियमेन न ज्ञातुं शक्यमित्याह—
विभूषणेति। विश्वमूर्तेःवपुः न अवधार्यते। विश्वमेव मूर्तिः यस्य तस्य। त्रैलोक्यात्मकस्पेत्यर्थः। अनेन प्रपञ्चस्यपरमेश्र्वरविवर्तत्वमुक्तम्। वपुःशरीरम्। नावधार्यते कीदृशमित वा केना595लङ्कृतमिति वा न ज्ञायत इत्यर्थः। अनेन ‘वपुर्विरूपाक्षम्’ (श्लो. ७२) इत्यपिपरिहृतम्। वपुषो विरुपाक्षत्वेनैवव्यवस्थानुपपत्तेरुक्तत्वाद् भूषणानामप्यनियतत्वमाह— विभूषणेत्यादिना। विभूषणोद्भासिपिनद्धभोगिवा स्यात्। विभूषणैःकटकमकुटादिभिरलङ्कारैःउद्भासितुं शोभितुं शीलमस्येति तथा। पिनद्धा बद्धाः भोगिनः सर्पायस्मिंस्तादृशंवा वपु स्यात्। वाशव्द विकल्पे। विमूषणोद्भासित्वेन पिनद्भभोगित्वेन वा ननिश्चेतुं शक़्यमित्यर्थः। अनेन ‘करेण शम्भोः’(श्लो. ६६) इत्याद्येव स्पष्टतया परिहृतमित्यवसेयम्। तथा गजाजिनालम्बि दुकूलधारि वा। गजस्याजिनं चर्मआलम्वितुं परिधातुंशीलमस्येति तथा। दुकूलंधर्तुंशीलमस्येति टुकूलधारि। अलौकिकेन गजाजिनेन वा लौकिकेन दुकूलेन वालङ्कृतं भगवतो वपुरिति तत्त्वतो ज्ञातुं को वा समर्थ
इत्यर्थः। अनन ‘वधूदुकूलक्व च हंसलक्षणम्’ (श्लो.६७) इत्यादि परिहृतxxकपालxx अथवाइन्दुशेखरम्। कपालि xxx कपालधारि। तx
“जगत्सिसृक्षासमयेषु वेधसां प्रणामलोलानि शिरांसि पदयोः।
जगद्विरामेषु कपालशेषतां गतानि तिष्ठन्ति जटासु धूर्जटेः॥ ”
इति। इन्दुः शेखरः शिरोलङ्कारो यस्य तादृशंवा स्यात्। अनेनानुक्तः कपालधारित्वदोषोऽपि स्वेनैवाशङ्कयपरिहृतो वोदितव्यः॥७८॥
तदङ्संसर्गभवाप्य कल्पते
ध्रुवं चिताभस्मरजो596ऽपि शुद्धये।
तथाहि नृत्ता597भिनयक्रियाच्युतं
विलु598प्यते मौलिभिरम्बरौकसाम्॥७९॥
(प्रकाशिका)
तदङ्केति। कल्पते समर्थं भवति। विलुप्यते हियते। अम्बरौकसां देवानाम्। अनेन ‘अयुक्तरूपं किमतः परम् ’ (श्लो६९) इत्यादि परिहृतम्॥७९॥
(विवरणम्)
‘स्तनद्वयेऽस्मिन् हरिचन्दनाङ्किते ’ (श्लो. ६९) इत्यादि यदुक्तं, तत् परिहरति—
तदङ्गेति। चिताभस्मरजः अपि तदङ्गसंस्पर्शम् अवाप्य शुद्धये कल्पते ध्रुवम्। चितायां श्मशाने यद् भस्म तस्य रजः। तस्य परमेश्वरस्य अङ्गस्य शरीरस्य संस्पर्शम् अवाप्य संप्राप्य। शुद्धये शुद्धिं कर्तुं कल्पते समर्थंभवति। ‘कृप्सामर्थ्य’ इति धातुः। शुद्धिकरं भवतीत्यर्थः। ध्रुवं नात्र सन्देहः। कथं न सन्देहः, अत आह— तथाहि नृत्ताभिनयाक्रियाच्यु-
तम् अम्बरौकसां मौलिभिः विलुप्यतेइति। तथाहीत्युपपादकं वाक्यम्। तत्र प्रकारवाची तथाशब्दः शुद्धिसम्पादनसामर्थ्यंपूर्ववाक्योक्तं परामृशति। हिशब्दो हेतौ। ‘हि हेताववधारणे’इत्यमरः। तथाभावाद्धेतोरित्यर्थः। नृत्ते नर्तने योऽभिनयः। रामादिस्वरूपमाभिमुख्येन नयतीत्यभिनयः। स एव तत्स्वरूपव्यञ्जकत्वाद् व्यञ्जक इति चोच्यते। ‘व्यञ्जकाभिनयौसमौ’इत्यमरः। तस्य क्रिया करणं , तेन च्युतं पतितम्। चितामस्मरज इति अत्राप्यनुषज्यते। अम्बरमेव ओकः गृहं येषां तेषां देवानाम्। मौलिभिः किरीटैः कर्तृभिः। ‘चूडा किरीटं केशाश्च संयता मोलयस्त्रय’इयमरः। विलुप्यते हिृयते। प्रणामसमय इति शेषः। यदि चिताभस्मरजः परमेश्वरशरीरस्पर्शलाभात् पावनं नाभविष्यत् , तर्हि तस्य नृत्तसमये पतितमेतदमराः किरीटैर्नाहरिष्यन्नित्यर्थः। तम्मात् तदङ्गसंसर्गपावनं यच्चिताभस्म स्वत एव प्राप्तुमशक्यत्वाद् दिविषदो नृत्ताभिनयक्रियाच्युतमाकाङ्क्षन्ति तस्य तदङ्गसंसर्गेणैव प्राप्तौ भविष्यन्त्यांया मम भाग्यसम्पत् तामियत्तया परिच्छेतुं न बृहस्पतेरपि बुद्धिःप्रभवतीतिभावः॥७९॥
असम्पदस्तस्य वृषेण गच्छतः
प्रभिन्नदिग्वारणवाहनोवृषा।
करोति पादावुपन599म्यमौलिना
विनिद्रमन्दाररजोरूणाङ्गुली॥८०॥
(प्रकाशिका)
असम्पद इति।‘प्रभिन्नोगर्जितो मत्त’ इति सिंहः। उपनम्येति पाठः। अनेन‘इयञ्चतेऽन्या’(श्लो,७०) इत्यादि परिहृतम्॥८०॥
(विवरणम् )
‘विलोक्य वृद्धोक्षमधिष्टितम्’(श्लो.७०) इत्यादि यदुक्तं, तत् परिहरति—
असम्पद इति। वृषा उपगम्य असम्पदः वृषेण गच्छतः तस्य पादौमौलिना विनिद्रमन्दार-रजोरुणाङ्गुलिकरोति इति। वृषा इन्द्रः600। उपगम्य स्वस्थानात् तत्समीपं प्राप्य। अनेन भक्त्यतिशयः सूचितः। सम्पदस्य नास्तीत्यसम्पत् , तस्य। अत एव वृषेण उक्ष्णावाहनेन गच्छतः तस्य परमेश्वरस्य पादौचरणौ। मौलिना तत्पादप्रणतेन किरीटेन। विनिद्राणां विकसितानां मन्दाराणां कल्पवृक्षपुष्पाणां रजोभिः रेणुभिररुणा रक्तवर्णा अङ्गुलयोययोः तादृशौ। करोति विदधाति। वाच्छितार्थप्रदानां कलयवृक्षाणां महेन्द्रेण शिरसि धृतानि कुसुमानि यस्य प601दाङ्गुलीररुणीकुर्वन्ति, तस्य वृषेण सञ्चरणं न सम्पदभावादिति भावः। किमर्थंतर्हिवृषेण सञ्चरणमिति चोद्यंपुनः ‘अलोकसामान्यमचिन्त्यहेतुकम्’ (श्लो. ७५) इत्यनेनैव परिहृतमित्यवगन्तव्यम्। परमार्थतस्तु परमेश्वरस्य चरितानि विषयतृष्णा न कर्तव्येति लोकशिक्षार्थमेव। तदुक्तमाचार्यैः—
“महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालंचेतीयत् तव वरद ! तन्त्रोपकरणम् \।
सुरास्तां तां सिद्धिं दधति तु भवदभ्रूप्रणिहितां
नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति॥”
इति। कीदृशस्तर्हिहरापेक्षया महेन्द्र इत्यत्राह—प्रभिन्नदिग्वारणवाहन इति। प्रभिन्नो मत्तः। ‘प्रभिन्नोगर्जितो मत्त’ इत्यमरः। दिग्वारणो दिग्गजः ऐराक्तोवाहनं यस्य स तथा। स्वत एव गजः, तत्रापि दिग्गजः, पुनश्च मत्त इति वृद्धोक्षमत्तदिग्गजयोर्यद्यपि महदन्तरं ; तथापि दिग्वारण-
वाहनो वृषा वृषवाहनस्य चरणौ नमति। ततो न वृषवाहनत्वंपरिहाप्तास्पदम्॥८०॥
विवक्षता दोषमपि च्युतात्मना
त्वयैकमीशांप्रति साधु भाषितम्।
यमामनन्त्यात्मभुवोऽपि कारणं
कथं स लक्ष्यप्रभवो भविष्यति॥८१॥
(प्रकाशिका)
एवं त्वदुक्तं सर्वमसमीचीनम्। किञ्चित्तु घुणाक्षरन्यायेन समीचीनमापतितमित्याह—
विवक्षतेति। च्युतात्मना स्खलितबुद्धिना। एकशब्दस्य सामान्यवाचिनोऽपि विशेषे602 पर्यवसानं, हेतुरूपोत्तरवाक्यबलात्। कथमिति, त्वदुक्तमलक्ष्यजन्मत्वमेवोपपन्नमित्यर्थः॥८१॥
(विवरणम्)
यद्यपि ‘विदितो महेश्वरः’(श्लो.६५) इत्यादि603 भवदुक्तं वाक्यं सर्वमप्यसमञ्जसं जातम्। किञ्चित्त तत्रघृणाक्षरन्यायेन समञ्जसमापन्नमित्याह—
विवक्षतेति। दोषं विवक्षता अपि त्वया ईशंप्रति एकं साधु भाषितम्। दोषमेव वक्तुमिच्छतापि त्वया परमेश्वरमुद्दिश्य एकं वस्तु सम्यगुक्तम्। दोषविवक्षायामपि गुणवचने हेतुमाह— च्युतात्मनेति। च्युतः स्खलितआत्मा बुद्धिर्यस्य तेन। तव बुद्धिमान्द्यमेवात्र हेतुरिति भावः। एकमेव साधु भाषितमित्यत्रयद्यप्येकशब्दः सामान्यवाची, तथाप्युत्तरवाक्यबलादलक्ष्यजन्मत्वे विशेषे पर्यवस्यति। कथमेकस्य वचसः साधुत्वमित्यत्राह— यम् आत्मभुवः अपि कारणमामनन्ति, स कथं लक्ष्यप्रभवः भविष्यति इति।
यं परमेश्वरम् आत्मभुवः ब्रह्मणः। यश्चराचरात्मकमिदं विश्वं सृजति, तस्यापीत्यपिशब्दार्तः। कारणं स्रष्टारम्। आमनन्ति। ‘म्नाअभ्यासे’ इति धातुः। श्रुतयो वदन्तीत्यर्तः। अनेन तदर्थस्यान्यथाभावाशङ्का निरस्ता। लक्ष्यः प्रमाणगोचरः प्रभवो जन्म यस्य तथाविधः। कथं भविष्यति न कथमपीत्यर्थः। जगत्सर्गात् पूर्वमेवोत्पन्नो हि ब्रह्मा जगतस्तदुपज्ञत्वात्। तथाविधस्य ब्रह्मणोऽपि कारणभूतस्य भगवतः प्रभवः केन लक्ष्यते। तस्माद् भवदुत्त्कमलक्ष्यजन्मत्वमेव तस्योचितम्। तच्च सर्वकारणस्यास्य गुण एवेति भावः॥८१॥
अलं विवादेन यथा श्रुतस्त्वया
तथाविधस्तावदशेषमस्तु सः।
ममात्र भावैकरसं मनः स्थिरं604
न कामवृत्तिर्वचनीयमीक्षते॥८२॥
(प्रकाशिका)
अथ पुनरपि तत्प्रतिवचनवैरस्यमाश्ङ्कयं वाग्वि605वाद निषेधति606 —
** अलमिति। तथाविधस्तथाप्रकारः। तावदवधारणे। तथाविध एवेत्यर्थः। अशेषमिति क्रियाविशेषणम्। साकल्येनास्त्वित्यर्थः। अत्र अस्मिन्। भावोऽभिलाषः,तत्रेकरसं पक्षपाति। कामवृत्तिः कामस्वभाव इत्यर्थः॥८२**॥
(विवरणम्)
इत्थं देवी तदुत्त्कंदेवगतमखिलमपि दोषं परमार्थनिवेदनेन परिहृत्य पुनरपि तद्वचनोद्योग-माशङ्कयबहुप्रलापस्य तपोविरोधित्वात् तद्वचनस्य द्वारमेवाबृणोति—
** अलमिति। विवादेन अलम्। विरुद्धो वादो विवादः तेन। अलं**
पार्याप्तम्। विवादोमास्त्वित्यर्थः। ननुवादस्य स्वरूपनिर्णयफलत्वात् तस्य चाद्याप्यभावात् कथं वाद607निषेधः, अत आह— सः त्वया यथा श्रुतः अशेषं तथाविधःतावदस्तु इति। त्वया वेदविदां वरेण। अनेन तदुत्त्कस्य प्रामाण्योपपत्तिरनूदिता। यथा येन प्रकारेणं। श्रुतः शास्त्रादिति शेषः। अशेषमिति क्रियाविशेषणम्। साकल्येनास्त्वित्यर्थः। तथाविधः तथाप्रकारः। तावच्छब्दोऽवधारणे। तथाविध एवास्त्वित्यर्थः। परमेश्वरस्त्वदुत्त्कप्रकार एव साकल्येन भवतु , विवादेनालमिति भावः। ननु यदि भवत्यामदुत्त्कप्रकारत्वमेव विरूपाक्षस्यानूदितं , तर्हितस्प्राप्तिमात्रफलात् तपसो विरम्यतामत आह— मम मनः अत्र स्थिरम् इति। अत्र परमेश्वरे स्थिरं निश्चलम्। दोषःशतश्रवणैरप्यचञ्चलमित्यर्थः। तत्र हेतुमाह— भावैकरसमिति। भावोऽभिलाषः, तत्रैकरसं पक्षपाति। हरविषयाभिलाषमात्रतत्परमित्यर्थः। भावैकरसं मनः स्थिरमिति पाठः। भावैकरसस्थिरम् इति पाठेभावैकरसम् अत एव स्थिरं चेति विग्रहः ।ननु कथमत्यन्तनिन्द्येजने तवाभिलाषः, अत आह— कामवृत्तिःवचनीयं न ईक्षते इति। कामस्य वृत्तिः कामस्वभाव इत्यर्थः। वचनीयं दोषं नेक्षते न विचिन्तयति।
“ रागाञ्जनमिदमक्ष्णोर्व्यञ्जयति प्रायशो गुणान् विषये।
दोषाञ्जनंतु दोषाननुभयसत्त्किर्व्यनत्त्किभूतार्थम्॥ "
इति न्यायादिति भावः॥ ८२॥
निवार्यतामालि ! किमप्यसौ608 वटुः
पुनर्विवक्षुःस्फुरितोत्तराधरः।
न केवलं यो महतो विभा609षते
शृणोति तस्मादपि यःस पापभाक॥८३॥
(प्रकाशिका)
एवमुत्त्केऽपि तस्मिन्610 वचनोद्यमं दृष्ट्वासखीमाह—
निवार्यतामिति। बटुः यथाप्रतिपन्नग्रथनशीलः। “पट वट ग्रथन’इति चौरादिकाद्धातोः वटयतेरौणादिक उप्रत्ययः। बदुर्वाचाटइत्यर्थः। स्फुरितं स्फुरणं , तदुत्तरं तद्भूयिष्टमधरं यस्य। एतद्विवक्षुत्वेलिङ्गम्। अत्र हेतुः— न केवलमिति। विभाषते परिवदति।
“गुरोर्यत्र परीवादो निन्दा चापि611 प्रयुज्यते।
कर्णौतत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः॥
हति वचनादि यमुत्त्किः॥८२॥
(विवरणम्)
इत्थमनूदितेष्वपि सकलेषुदोषेषुकपटवटौपुनरपि वचनोद्योगं दृष्टा कोपाविष्टा सखीमाह—
निवार्यतामिति। आलि! असौ वटुः निवार्यताम्। आलि! हे सखि !। आलिःसखी वयस्या चे त्यमरः। असौदृश्यमानः वटुः यथाप्रतिपन्नार्थग्रथनशीलः। “पट पट ग्रथनं इति चौरादिकाद्धातोः वटयतेरौणादिकं उप्रत्ययः। वाचाट इत्यर्थः। अत एव निवार्यताम आश्रमाद्बहिर्भागे निस्सार्यताम्। नाहमस्य दर्शनं सहे इति भावः। नन्वसावत्र तिष्ठतु , किमनेन तवेक्यत्राह —पुनः किमपि विवक्षुः इति। पुनः पुनरपि। मया तदुत्त्कदोषेऽङगी कृते612ऽपीत्यर्थः। अथवा पूर्वंबहवो दोषा उत्त्कापुनरपीत्यर्थः। विवक्षुः
अधरशब्दस्य अर्श्चर्चादित्वं कल्प्यम्।
वक्तुमिच्छु।ननु विवक्षुत्वे कि प्रमाणमिःत्यत्राह— स्फुरितोत्तराधर इति।स्फुरितं स्फुरणं , तदुत्तरं तद्भूयिष्ठम् अधरं यस्य सतथा।यस्मादस्याधरःस्फुरति , तस्माद् विवक्षुरेवायमिति भावः।ननु प्रलपत्वसौवाचालः, को दोष इत्याशङ्कयाह— यः महतः अपभाषते केवलंसन, यः तस्मा” च्छृणोति सः अपि पापभाग् इति ।यः महतः महाजनान् अपभाषते परिवदति।न केवलम् स एव पापभाग्, अपितु यस्तस्माच्छृणोति महाजननिन्दकात् पुरुषाद् महाजननिन्दावचनं शृणोति , सोऽपि पापभाक्।पापं भजतीति पापभाग्।भवतीति शेषः।यथा वक्तुस्तथा श्रोतुरपि पापभाक्त्मस्त्येवेत्यर्थः।
“गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते।
कर्णो तत्र पिधातव्यौगन्तव्यं वा ततोऽन्यतः॥
(मनु० अ.२. श्लो.२००)
इति वचनादिति भावः।स तस्मादपि पापभागिति वा योजना।वक्रपेक्षया श्रोतुः पापाधिक्यमस्तीयर्थः। ननु कथं श्रोतुः पापाधिक्यम्।श्रूयताम्।श्रोतरि श्रवणोत्सुके सति वत्त्कासविस्तरं वदतीति लोकखभावः।नेत्रवत्र्कविकारादिभिः श्रोतुः कोपावगमे सति ततोऽधिकं न वदतीति दुर्जनानां स्वभावः।तस्माच्छ्रोतुरपि वचनस्य कारयितृत्वमंवश्यं613 भवत्येवेति कारयितृत्वश्रोतृत्वजनितयोर्दोषयोः सम्भूय सम्भवाद् दोषाधिक्योपपत्तिः॥८३॥
इतो गमिष्याम्यथवेति वादिनी
चचाल सां614 च स्तनभिन्नवल्कला।
स्वरुपमास्थायच तां कृतस्मितः
समाललम्वे वृषराजकेतनः॥८४॥
(प्रकाशिका)
अत एवाह—
** इतइति। चचाल गन्तुमारेभे। स्तनेति गमनरभसात् स्तनच्युतबोत्रिकावल्कला। समाललम्बे जग्राह। कृतस्मित इत्यनेन प्रकृतस्य प्रकरणार्थस्य नर्मपरत्वमुज्जीवितम्। चशब्दाभ्यां क्रियायौगपद्यलक्षणः समुच्चयालङ्कारः। वृषराजकेतन इत्यनेन भगवत्परिजनपरिच्छदादेरपि तत्राविर्भावो ध्वनितः615॥ ८४॥**
(विवरणम् )
इत्थं कोपाधिक्याद् ब्रह्मणनिरासाय सखीं नियुत्त्कवत्याः पुनरीषत्कोपप्रशमे सति “गन्तव्यं वा ततोऽन्यत’ इति स्मृत्यनुपारिणी। देव्याःपरमार्थस्मरणपुरस्मरीं प्रवृत्तिमाह—
इत इति। अथवा अहम् इतः गमिष्यामि इति वादिनी सा चचालच। वृषराजकेतनः स्वरूपम् आस्थाय कृतस्मितः तां समाललम्बे च। अथवेति पक्षान्तरे। तच्चात्र—
“सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम्।
पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वा॥”
इति वचनानुसारेण पूर्वश्लोकोत्त्कब्राह्मणनिरासापरितोषसूचकम्। इतः अस्मात् प्रदेशाद् गमिष्यामि इति वादिनी। ‘बहुलमाभीक्ष्ण्ये’(३.२.८१) इति णिनिः। इत्थं पुनः पुनर्वदन्तीत्यर्थः।किं ममानेन ब्राह्मणनिरासप्रयासेन। अहमेव परमेश्वरपरिवादपरस्यास्य वटोःसकाशाद् दूरतो गमिष्यामीति पुनः पुनरुत्त्कवेत्यर्थः। सा पार्वती चचार त्वरितं गन्तुमारेभे च। वृषाणां राजा वृषराजः केतनं ध्वजाचिह्नंयस्यस तथा। अनेन भगवत्परिजनपरिच्छदानां पूर्ववदेव तत्राविर्भावो ध्वन्यते। स्वरूपमास्थाय बटुवेषं परित्यज्यआत्मनोरूपमवल616म्व्येर्थः। कृतं स्मितं मन्दस्मितं येन तथाभूतः सन्। अनेन प्रकतस्य प्रकरणार्थस्य नर्मपरत्वप्रतिपादनेन कोपप्रशमनं ध्वनितम्। तां पार्वतीं
समाललम्बे जग्राह च। अत्रचशव्दाम्यांकियायौयपद्यलक्षणः समुच्चयालङ्कारः प्रतिपाद्यते।देव्याः प्रयाणे सरभसत्वमाह— स्तनभिन्नवल्कलेति स्तनाद् भिन्नं च्युतं वल्कलंयस्याः सा तथा। गमनसंरम्भवशात् स्तनगलितस्तनाचरणवल्कलेत्यर्थः॥८४॥
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि-
र्निक्षेप617 एव पदमद्धृतमुद्धहन्ती।
मार्गाचलव्यतिकराकुलितेव सिन्धुः
शैलाधिराजतनया न ययौ न तस्थौ॥८५॥
(प्रकाशिका)
एवमतर्कितोपनतदर्शने देवे देव्या वृत्तमाह—
तमिति। सरसं स्वेदार्द्रम्। निक्षेप इति निमित्तसप्तमी। पदं चरणम्। सिन्धुर्नदी। उद्धृतमेवेत्यन्वयः अतःउत्त्कं— न ययौ न तस्थाविति। गमनायोद्धृतस्य618 पदस्य पुरतो नियमनाभावाद् यानस्य निवृत्तिः, तत्रैवानवस्थाप619नाच्च स्थानस्येत्यवसेयम् अत्र नायिकागतानां सात्त्विकानां सम्भोगभाविनां भावानां पूर्वं ‘विवृण्वती शैलसुतापि भावम्’( स.३श्लो. ६८ ) इत्यादिना दर्शितोदयानां पुनः स्वावसरे सप्नुन्मीलनं कृतम्। व्रीलो620हर्षादीनां च व्यभिचारिणां तथा नायकगतानां च ‘हरस्तु ‘किञ्चित् परिवृत्तधैर्यः’ (स.३.श्लो.६७ ) इत्यादिना सूचितानां पुनः ‘अव्यञ्जितहर्षलक्षणः’ (स.५.श्लो.६२) इत्यादिभिः पदैः सूचनमात्रं621 कृतम्। एवमेभिरुत्तम्भितषरस्परास्थाबन्धलक्षणः सम्भोगशृङ्गार इतः प्रभृति क्रमात् प्रकर्षपदवीमधिगच्छन्ननुसन्धेयः॥८५॥
(बिवरणम्)
इत्यxxxxसाक्षादेव दृष्टे मनोरथप्रियतमे देव्यावृत्तमाह —
तमिति। शैलाधिराजतनया तं वीक्ष्य न ययौ न तस्थौ। शैलानामधिराजश्चक्रवर्ती, तस्य तनया। तं परमेश्वरं वीक्ष्य साक्षादेवावलोक्य ने ययो। ‘इतो गमिष्याम्यथवेति वादिनी चचाल’(श्र्लो.८४) इति यद् गमनमारब्ध, तन्नकृतवती। प्रियतमावलोकनकौतुकहर्षादिवशादिति शेषः। नापि यथासुखमेव तमवलोकयन्ती तस्थावित्याह—न तस्थाविति। नापि तत्रैवावस्थानं वितेने। लज्जयेति शेषः। ननु कथं गमनावस्थानयोरुभयोरपि युगपदेव निषेधोपपत्तिरत आह— पदंनिक्षेपे उद्धृतमेव उद्वहन्तीति। पदं पादम्। निक्षेप इति निमित्त622सप्तमी। प्रदेशान्तरे निधानं निक्षेपः। पूर्वंगमनारम्भे प्रदेशान्तरार्पणार्थंयत् पदमुद्धृतं, तत् तथैवोद्वहन्तीत्यर्थः। अत्र पुरतो निधानाभावाद् गमननिषेधः , पूर्वस्थाने निधानाभावात् स्थितिनिषेध इत्यवसेयम्। अनेन स्तम्भो नाम सात्त्विकविकार उत्त्कः। ‘स्तभोऽस्मिन् निष्त्र्कियाङ्गता’ (दशरूपकम्, प्रका. ४. श्र्लो. ५) इति। सात्त्विकान्तराणामप्युत्पत्तिमाह— वेपथुमतीत्यादिना। वेपथुःशरीरकम्पः तद्वती। सरसाङ्गयष्टिः सरसा स्वेदार्द्राअङ्गयष्टिः प्रशस्तमङ्गंयस्याः सा तथा। न ययौन तस्थाविति यदुत्त्कं, तत्रोपमां दर्शयति—मार्गाचलव्यतिकराकुलिता सिन्धुः इव इति। मार्गेप्रवाहमार्गेयोऽचलव्यतिकरः नदीपर्यन्तवर्तिना तत्प्रवाहविलुप्तमूलेन अतर्कितपतनेन शैलेन सम्पर्क, तेनाकुलिता परवशीकृता। सिन्धुः नदीव। सापि623 हिन गच्छति, नापि गमनोद्यमाद् विरमति। अत्र प्रकरणे नायिकागतानां ’ विवृण्वती शैलसुतापि भावम्’ इत्यनेन दर्शितोदयानां व्रीलाहर्पादीनां व्यभिचारिणां समुन्मीलनं स्वावसरे कृतम्। हरस्तु किञ्चित्परिवृत्तधैर्यःइत्यादिना दर्शितोदयानां नायकगतानां सात्त्विकानां व्यभिचारिणां च भावा-
नाम् ‘अव्यञ्जितहर्षलक्षण’ इत्यादिना समुन्मीलनंच कृतमिति द्रष्टव्यम्। xतश्च परस्परानुरागनिश्चयोत्तम्भितः परस्परास्थानिबन्धनः सम्भोगशृङ्गरः xमादितः परं प्रकर्षपदवीमारोहतीत्यवसेयम्॥८५॥
अद्यप्रभृत्यनवमाङ्गि624! तवास्मि दासः
क्रीतस्तपोभिरितिवादिनि चन्द्रमौलौ।
अह्नाय सा नियमजं क्लमसुत्ससर्ज
क्लेशः फलेन हिपुनर्नवतां पि625धत्ते॥८६॥
(प्रकाशिका)
अथ प्रकृतस्य प्रयोज्योपा626वर्तनविधेःफलयोगं दर्शयति—
** अद्येति। तपोभिः क्रीतो दास इत्यन्वयः। अह्नाय शीघ्रम्। क्लमक्लशौ पर्यायौ। फलंजनयन् क्लेशःस्वस्य प्रत्यग्रतां पिधत्ते छादयति। प्रमुषितो भवतीत्यर्थः॥८६॥**
इ्यरुणगिरिनाथविराचितायां कुमारसम्भवप्रकाशिकायां
पञ्चमः सर्गः।
(विवरणम् )
अथ प्रकृतस्यापि महतः प्रयोज्योपावर्तनविधेस्तदुचितं फलयोगंदर्शयति—
अद्येति। अनवमाङ्गि! अहम् अद्यप्रभृति तव तपोभिः क्रीतः दासः अस्मि। चन्द्रमौलौइति वादिनि सा नियमजं क्लमम्अह्नायय उत्ससर्ज। अनवमम् उत्कृष्टम् अङ्ग यस्याःतस्याः सम्बुद्धिः अनवमाङ्गीति। अद्यप्रभृति एतस्माद् दिवसादारभ्य। अनेन दास्यस्य निरवधिकत्वमुत्त्कम्। ननु
कुलक्रमागता धनक्रीताश्चेति द्विविधा दासाः।तदुभयाभावे कथं दासत्वम, अत आह— तपोभिःक्रीत इति। क्रीतः स्वीकृतः।डुक्रीञ्द्रव्यविनिमये’इत्यस्माद्धातोः क्तः।अत्र तपसो मूल्यत्वेनोप़ादानम्।क्रीतदासा हीतरदासापेक्षया नितरामात्मायत्ता भवन्तीत्यभिप्रायः।चन्द्रमोलौइति वादिनि सति सा।नियमजं नियमोव्रतंतस्माज्जातं नियमजम्।क्लमं क्लेशम् अहायसद्यः।‘द्राग् झटित्यञ्जसाहाय’ इत्यमरः।उत्ससर्ज अत्याक्षीत्।उत्त्कमर्थमर्यान्तरन्यासेनोपपादयति—क्लेशः पुनः फलेन नवतां पिधत्ते हि इति।क्लेशः सर्वकर्मानुष्ठानजनिता पीडा।पुनः फलोत्पत्त्यनन्तरम।फलेन उत्पन्नेनेति शेषः।नवतां प्रत्यग्रतां पिधत्ते अच्छादयति, हिशब्दः प्रसिद्धौ।प्रत्यग्रं हि दुःखं सदैव चेतसि स्फुरति।कालान्तरप्राप्तौतुप्रमुषितं भवति।फलोत्पत्त्यनन्तरं तु बहुकालप्राप्त्यभावेऽपि न चेतसि स्फुरति।लोकप्रासिद्धश्चायमर्थ इति भावः॥८६॥
सर्गःपञ्चमएषवञ्चनपटोर्मायावटोश्चेष्टितै-
रुन्मीलत्कमनीयकोमलरसो लोकोत्तरार्थाोदयः।
बुद्धिर्मेपुनराकुलाभणितिरप्यत्यन्तहीना तथा-
प्यस्मद्देशिकगौरवादहमिमां व्याख्यामिहाख्यातवान्॥
श्रीमद्भागवतप्रबन्धरचनादक्षस्य नारायण-
क्ष्मादेवस्य कृतौगिरीशगिरिजाभत्त्किप्रवृद्धोदये।
व्याख्यानेऽत्र कुमारसंम्भवपदार्थलोचनप्रक्रिया-
निष्णाते बत पञ्चमोऽयमगमत्627 सर्गोनिसर्गोज्ज्वलः॥
इति श्रीकृष्णशिष्यस्य नारायणस्य कृतौ
कुमारसम्भवविवरणे
पञ्चमः सर्गः
____
शुद्धिपत्रम् ।
अशुद्धम् शुद्धम्
मवे मेव
स्व स्वा
शास्थ शावंशस्थ
वर्जि र्वीज
व्यम् प्यम्
रु रू
हृि ह्रि
]
-
“तेषु मुद्रितकोशपाठः,” ↩︎
-
“‘तत्रा’ ख पाठः,” ↩︎
-
“’ नेति ह, पाठः‚.” ↩︎
-
“‘ति। आश्रितेष्विति पाठे त्रि’ ङ.पाठः. " ↩︎
-
“‘व’ ङ.पाठः, " ↩︎
-
“वृत्तिः ङ पाठः,” ↩︎
-
“हसैव, क. ख. ग. पाठः.” ↩︎
-
“‘न्ती’ख.पाठः” ↩︎
-
“‘चञ्चल’घ. ङ, पाठः,” ↩︎
-
“विमुद्रितकोशपाठः. " ↩︎
-
“त्कर्तृकस्य’ ख.ग. घ.पाठः, " ↩︎
-
“ग्निषु ङ. पाठः, " ↩︎
-
“‘च’ख. पाठः,” ↩︎
-
“नाम ख, ग, घ.पाठः.” ↩︎
-
“‘निषे’ ङ, पाठः.” ↩︎
-
“‘व सम्पदा’ क.ख. ग.पाठः.” ↩︎
-
“‘रैः कटाक्षैः’ मद्रितकोशपाठः” ↩︎
-
“‘तमुत्क्षे’ घ. पाठः.” ↩︎
-
“‘णाद् भ्रु’ ख. पाठः.” ↩︎
-
“‘ह’।ङ पाठः” ↩︎
-
“‘मि’ मुद्रिकोशपाठः” ↩︎
-
“च ख. ग. घ. द. पाठः” ↩︎
-
“‘ति॥ घ. पाठः,” ↩︎
-
“‘कया’ ष. पाठः” ↩︎
-
" ‘ग्रा’ घ, पाठः.” ↩︎
-
“ग्रा घ.पाठः,” ↩︎
-
" ‘हुः’ घ. ड. पाटः.” ↩︎
-
“‛चल’ घ. ङ,पाठः” ↩︎
-
“‘सुरताप’,” ↩︎
-
“‘त’मुद्रितकोशपाठः.” ↩︎
-
" ‛न’ ङ. पाठः.” ↩︎
-
“‛वत्त्वा’ क, पाठः, " ↩︎
-
“‘स प्र ङ. पाठः” ↩︎
-
“‛प’ क. ग. घ. पाठः,” ↩︎
-
“‛णमनादे’ ङ, पाठः। " ↩︎
-
“पीपत्क ङपाठः.” ↩︎
-
“‘यिध्यामी ख.घ. पाठः” ↩︎
-
“स्वाद्यंक. ग पाठः” ↩︎
-
" ध्या घ पाठः,” ↩︎
-
" धे घ.पाठः,” ↩︎
-
" ‘ठम्‛ मुद्रितकोशपाठः” ↩︎
-
“तार्थेमुद्रितकोशपाठः” ↩︎
-
“‛इ‛ख. ग. ध, पाठः” ↩︎
-
“‘दीनि च द्योत्यन्ते’ क, ग. पाठः,” ↩︎
-
" ‘कx त’ मुद्रितकोशपाठः” ↩︎
-
“‘स्तह’घ.पाठः,” ↩︎
-
" ‘त्य’ घ. ङ.पाठः" ↩︎
-
“‘दिष्ट’ ग.घ.पाठः” ↩︎
-
“‘त्य’ग.घ.पाठः,” ↩︎
-
“‘द्विषामी’” ↩︎
-
“‘मेतदेव’मुद्रितकोशपाठः” ↩︎
-
" ‘भवस्य’" ↩︎
-
“‘साध्यो’ मुद्रितकोशपाठः” ↩︎
-
“‘र्थ्य’ग. ङ. पाठः” ↩︎
-
“‘त’ङ. पाठः” ↩︎
-
" ‘न हा’घ.पाठः" ↩︎
-
“‘ध्वन्यते’क.ख. पाठः,” ↩︎
-
“‘ति ।’ङ.पाठः” ↩︎
-
“‘ति। त्वं हि’ङ. पाठः” ↩︎
-
“‘नेन’ङ. पाठः” ↩︎
-
“‘ति वचनात्’ख.पाठः” ↩︎
-
“‘यः’ङ. पाठः” ↩︎
-
“‘तुः’ङ.पाठः” ↩︎
-
“‘ति सिंहः।’ङ.पाठः.” ↩︎
-
“‘रस्योः’ङ.पाठः.” ↩︎
-
“‘रः बाजाङकुरः। अ घ. ङ. पाठः. " ↩︎
-
“त्युप ख. पाठ.” ↩︎
-
“‘बतासि’ मुद्रितकोशपाठः.” ↩︎
-
“‘कार्यसि’मुद्रितकोशपाठः” ↩︎
-
“‘स चास्याः’ङ.पाठः” ↩︎
-
“‘वानु’ङ.पाठः. ग’ ङ.पाठः.” ↩︎
-
“‘धेः प्रतिकूलवर्ती।’” ↩︎
-
“‘धा’ मुद्रितकोशपाठः” ↩︎
-
“‘त’ङ.पाठः” ↩︎
-
“‘मिति।वि’ङ.पाठः” ↩︎
-
“‘कैः — म’ घ. ङ.पाठः” ↩︎
-
“‘मदेवस्य’ङ.पाठःपस्समा’ङ. पाठः.” ↩︎
-
“‘दे’घ.ङ.पाठः.” ↩︎
-
“‘रवि’घ.ङ.पाठः” ↩︎
-
" ‘गुप्तां दि’मुद्रितकोशपाठः. गन्धस्य वह इति पचाद्यजन्तेन वहशब्देन विग्रहो न्याय्यः।” ↩︎
-
“‘स्यायाम्।प्रि’ख. पाटः” ↩︎
-
“‘च्याः’ ङ.पाठः” ↩︎
-
“‘सि’मुदिकोशपाठ” ↩︎
-
“‘अक्रमम्।’ङ.पाठः” ↩︎
-
“‘तीति स’ङ.पाठ” ↩︎
-
“‘xधत्वे’घ.पाठः” ↩︎
-
“‘वम् इ’ क. ख.ग. घ. पाठः” ↩︎
-
“‘म इ’ङ. पाठः” ↩︎
-
“‘तं नू’ क.ख.ग.घ.पाठः” ↩︎
-
“‘द्यः’मुद्रितकोशपाठः” ↩︎
-
“‘त’क.ख.ग. घ.पठः” ↩︎
-
“‘रघ’ङ.पाटः” ↩︎
-
“‘त्रापि स’ङ.पाटः,” ↩︎
-
“‘त्रं’मुद्रितकोशपाठः” ↩︎
-
“‘क्षः।अ’ख.घ. ङ.पाठः” ↩︎
-
“‘म्यात्’ क. पाठः.” ↩︎
-
“‘ति सिंहः।’ङ.पाठः” ↩︎
-
“‘पमा’ घ.ङ.पाठः” ↩︎
-
“‘त्यनेन’ ङ.पाठः” ↩︎
-
“‘र्थः क्रि’ ख.ग.घ.पाठः” ↩︎
-
“‘रञ्जय’ क. ग.पाठः” ↩︎
-
“‘यं पु’ङ.पाठः” ↩︎
-
“‘मिनीज’ख.पाठः” ↩︎
-
“‘च्छ्व’ग. पाठः” ↩︎
-
“वसरवि क. ख.ग. पाठः” ↩︎
-
“विनाशम् क.पाठः” ↩︎
-
“‘दी र क. ग. घ. पाठः।” ↩︎
-
“मन्दम ङ. पाठः” ↩︎
-
" ‘पक्त्वा’ ग. घ. पाठः" ↩︎
-
“‘द्नतौहे’ ग पाठः” ↩︎
-
" हे ङ पाठः" ↩︎
-
“रमाह क. ख. ग. पाठः.” ↩︎
-
“नमा ख. ग. पाठः” ↩︎
-
" त्तं कृतवा ख पाठः" ↩︎
-
" षणप्रः ख.ग.घ. पाठः." ↩︎
-
" रसात् प’ मुद्रितकेशपाठः." ↩︎
-
“भु’ मुद्रितकोशपाठः” ↩︎
-
" मसस्फु घ पाठः’ " ↩︎
-
" म्र स्त ग पाठः" ↩︎
-
“षुली ख पाठः” ↩︎
-
“नेन त्व क पाठः” ↩︎
-
" ख्यभाग्यमा क पाठः’" ↩︎
-
" नी घ पाठः।" ↩︎
-
“द्भिसाधा क ख ग ङ पाठः” ↩︎
-
“, ले ङ पाठः, " ↩︎
-
“तं तत्स्व क पाठः” ↩︎
-
“न स्तुत्यथमवागमन, ना ख ग घ पाठः” ↩︎
-
“भङ्गप्र’ क ख ग पाठः” ↩︎
-
“भङ्गे चि ख ग पाठः” ↩︎
-
“ली तर्ज घ ङ पाठः " ↩︎
-
“वा ङ पाठः” ↩︎
-
““म्भ मुद्रितकोशपाठः” ↩︎
-
" यादे ङ पाठः " ↩︎
-
“ति सिंहः ङ पाठः” ↩︎
-
“‘प. त प’ मुद्रितकोशपाठः.” ↩︎
-
“‘त्र प्र’ घ. ङ. पाठः.” ↩︎
-
“‘षत्वाद्ध’ ङ. पाठः.” ↩︎
-
“तमिति” ↩︎
-
“पि छन्दोबि’ " ↩︎
-
" ‘को मा! " ↩︎
-
“ब्देन तृ!” ↩︎
-
“श प” ↩︎
-
““यान्यस्मिन् " ↩︎
-
“स’ मुद्रितंकोशपाठः” ↩︎
-
“कृष्णत्व’ मुद्रितकोशपाठः” ↩︎
-
" तमूगचर्मषाससमि’ ख घ पाठः” ↩︎
-
“प्रवृ घ पाठः” ↩︎
-
“यो मुद्रितकोशपाठः” ↩︎
-
" लक्ष्मीगल’ मुद्रितकोशपाठः” ↩︎
-
" ‘रसः” ↩︎
-
“र” ↩︎
-
“‘दः क्षेत्रइ’” ↩︎
-
“‘क्षर’” ↩︎
-
" न्धप्रध्व” ↩︎
-
“‘प मनया ध्यातृ’” ↩︎
-
“‘चावल’” ↩︎
-
“ष्यम्” ↩︎
-
" ‘ति पदं प्रत्ययहे’" ↩︎
-
“‘स्यानु’” ↩︎
-
“‘माभिभू ‘” ↩︎
-
“प” ↩︎
-
“‘षित्सस्त्री’” ↩︎
-
" ‘षाल’" ↩︎
-
“‘न्ती वर्ध” ↩︎
-
“कपुष्पापे” ↩︎
-
“‘पर्याप्तपु मुद्रितकोशपाटः” ↩︎
-
“नी मुद्रितकोशपाठः” ↩︎
-
“मौर्वी द्वितीयामि’ मुद्रितकोशपाठः” ↩︎
-
“‘यां मौ” ↩︎
-
“तोऽपि हि” ↩︎
-
“तोपि हि” ↩︎
-
" रवृ" ↩︎
-
“ना” ↩︎
-
“लभूषणसमुचितवि” ↩︎
-
" ‘षणवि " ↩︎
-
“हीपदमाद’ " ↩︎
- ↩︎
-
“केन ख घ. ङ पाठः” ↩︎
-
" द्योतया” ↩︎
-
" ग्रैमुद्रितकोशपाठः" ↩︎
-
" ‘द्ध’ ख घ ङ.पाठः" ↩︎
-
“न ख घ ङ.पाठः” ↩︎
-
“वः।क्र क पाठः” ↩︎
-
" द्र च घ पाठः" ↩︎
-
“सदा क. ख. पाठः” ↩︎
-
" यस्तत्र क ख पाठः" ↩︎
-
“पातपू मुद्रितकोशपाठः” ↩︎
-
" “र्थतु” ख ङ.पाठः" ↩︎
-
" रः कृ.ङ.पाठः" ↩︎
-
“तश्यमे’ मुद्रितकाेशपाठः” ↩︎
-
" लो मुद्रितकोशपाठ," ↩︎
-
“त्रेण पुंड. पाठ;” ↩︎
-
“क्ष्यःमुद्रितकाेशपाठः” ↩︎
-
“इव ङ पाठः” ↩︎
-
“बद्धदृ ङ पाठः” ↩︎
-
“‘लुप्तधै मुद्रित कोशपाठः” ↩︎
-
" ने कि" ↩︎
-
“स्फुरद्बा मुद्रितकोशपाठः " ↩︎
-
“चीकृताचाः मुद्रितकोशपाठः” ↩︎
-
“देवदृ ख ग ङ. पाठः” ↩︎
-
“पि, न ङ.पाठः” ↩︎
-
“शि ख पाठः” ↩︎
-
“न ख शा क ख प पाठः” ↩︎
-
“शीरु ङ पाठः” ↩︎
-
" नां क. पाठः” ↩︎
-
“त आह” ↩︎
-
“दम्य” ↩︎
-
" तृतीयला" ↩︎
-
“भ्रु घ पाठः” ↩︎
-
“स्था प्रद घ पाठः” ↩︎
-
“क्रोधं प्र मुद्रितकोशपाठः” ↩︎
-
“क्रोधमि क पाठः” ↩︎
-
“भू मुद्रितकोशपाठः,” ↩︎
-
“‘शा’ ख पाठः” ↩︎
-
“‘शमज ख पाठः” ↩︎
-
" च्छे ख ग घ पाठः" ↩︎
-
" ‘मध्य ल’ मुद्रितकाशपाठः," ↩︎
-
“‘ति न’ङ, पाठः,” ↩︎
-
" ‘सा मा’ ङ, पाठः," ↩︎
-
“‘ङ्गः’मुद्रितकोशपाठः,” ↩︎
-
“‘वस्य शोः’ क. पाठः.” ↩︎
-
“‘व म’ ख. पाठः.” ↩︎
-
“‘स्य नै’ख. पाठः,” ↩︎
-
" ‘कत्व’ क.ख. पाठः." ↩︎
-
“‘सर्वाकृ’ ख. घ, पाठः.” ↩︎
-
" ‘नाशान्तव्य’ ख. घ. पाठः," ↩︎
-
“‘ते। विबो’ कृ. पाठः.” ↩︎
-
“‘धस्या’ङ. पाठः.” ↩︎
-
“‘शा प’ ख.पाठः,” ↩︎
-
“‘गवल्लोच’ ख, घ, ङ. पाठः,” ↩︎
-
“मुद्रितकोशपाठः” ↩︎
-
“‘लभस्मसात्कृता’ घ. पाठः, ‘लेन भस्मसाद्भूता’ख.पाठः.” ↩︎
-
“‘स्मसद्भूत’ ङ.पाठः.” ↩︎
-
“‘धनकरं’ ङ.पाठः.” ↩︎
-
“‘ति। अत्य’ख. पाठः.” ↩︎
-
" ‘दनन्त’ ख.घ. ङ.पाठः." ↩︎
-
“‘व च पु’ ग. ङ. पाठः.” ↩︎
-
“‘व च विललाप।’ ग.पाठः, ‘वविललाप।’ ख.ङ.पाठः.” ↩︎
-
“‘क्षा॥’ घ. ङ. पाठः.” ↩︎
-
" ‘वि’ मुद्रितकोशपाठः." ↩︎
-
“‘मं’ ङ. पाठः.” ↩︎
-
“‘शयनार्थे म’ क. ख. ग. पाठः.” ↩︎
-
" ‘बी’ङ.पाठः." ↩︎
-
“‘रः।न दी’ क.ख. ग. पाठः.” ↩︎
-
“‘रस्वभावत्वं’ ख. घ.ङ.पाठः.” ↩︎
-
“‘त एवाह’घ.पाठः.” ↩︎
-
“‘म्भवा’ ख. ग. ङ. पाठः.” ↩︎
-
“‘रेक’ घ. ङ. पाठः.” ↩︎
-
“‘न म’ घ.पाठः.” ↩︎
-
“‘तिच्छे’ख. घ. पाठः.” ↩︎
-
" ‘मस’क. ख.ग.पाठः" ↩︎
-
“‘षु मेघश’ ख.ग.पाठः.” ↩︎
-
“‘थाशे’ ख. घ. ङ.पाठः.” ↩︎
-
“‘यहे’ङ. पाठः.” ↩︎
-
“‘ता’ ख.ग. घ.ङ. पाठः.” ↩︎
-
“‘नै’ मुद्रितकोशपाठः.” ↩︎
-
“‘र्थेषु इप्य’ख. पाठः.” ↩︎
-
“‘ति’मुद्रितकोशपाठः.” ↩︎
-
" ‘ला’ मुद्रितकोशपाठः." ↩︎
-
“‘तान्’ मुद्रितकोशपाठः.” ↩︎
-
“‘र्यादित्या’ग.घ. पाठः.” ↩︎
-
“‘कस्त्व भ्र’ क.ग. पाठः.” ↩︎
-
“‘विद्यते’ ङ. पाठः.” ↩︎
-
“‘स्वयम’ मुद्रितकोशपाठः.” ↩︎
-
“‘तुभः’ क. ग. पाठः.” ↩︎
-
“‘मान्य’ ङ. पाठः.” ↩︎
-
“‘सि’” ↩︎
-
“‘स्यदा’” ↩︎
-
“‘मि’” ↩︎
-
“‘हि’मुद्रितकोशपाठः.” ↩︎
-
" ‘ने। द’ ङ.पाठः." ↩︎
-
“‘गध’ क.ग. पाठः.” ↩︎
-
“‘य’ मुद्रितकोशपाठः.” ↩︎
-
“‘णोपा’क.पाठः.” ↩︎
-
“‘वितेति’ मुद्रितकोशपाठः.” ↩︎
-
“‘कान्तरि’ मुद्रितकोशपाठः.” ↩︎
-
“‘ति यु’ क.पाठः.” ↩︎
-
“‘कि’ ख. ग. घ. पाठः.” ↩︎
-
“‘मन्व’ क. ग. पाठः.” ↩︎
-
“‘थि’ क.‘लि’ ङ.पाठः.” ↩︎
-
“‘रासनजुं’क. ख. ग. पाठः.” ↩︎
-
“‘दसंभा’ क. ख. ग. पाठः.” ↩︎
-
“‘नेत्यस्य हेतुतां द्यो’ क. ख. ग. पाठः.” ↩︎
-
“‘रुपमु’ घ. पाठः.” ↩︎
-
“‘शरेरि’” ↩︎
-
“‘ह’ मुद्रितकोशपाठः.” ↩︎
-
“‘या अव’ क. ग. पाठः.” ↩︎
-
“‘धंप’ ङ. पाठः.” ↩︎
-
“‘दः’ मुद्रितकोशपाठः.” ↩︎
-
“‘ति, नि’ ङ. पाठः.” ↩︎
-
" ‘दमेव सवशम सं’घ.पाठः." ↩︎
-
“‘पि तावत् पश्येर्धः’ङ.पाठः” ↩︎
-
“‘नात्र दृ’ङ.पाठः.” ↩︎
-
“‘स्यसु’ ङ.पाठः.” ↩︎
-
“‘ता तु’ङ. पाठः.” ↩︎
-
“‘त्त्वे वि’ क.ख. ग.घ. पाठः.” ↩︎
-
“‘नेन धूमिताम्’ मुद्रितकोशपाठः.” ↩︎
-
“‘शया सा’ ङ. पाठः.” ↩︎
-
“‘प’ख, ग.घ. ङ.पाठः.” ↩︎
-
“‘त्मवि नि’ ग. पाठः.” ↩︎
-
“‘चि। वि’ ख. गा.ङ. पाठः.” ↩︎
-
“‘षणादु’ ख. घ.ङ. पाठः.” ↩︎
-
“‘मदे’ घ. ङ. पाठः.” ↩︎
-
“‘तायाः कि’ ङ. पाठः.” ↩︎
-
“‘न्ननु’ मुद्रितकोशपाठः.” ↩︎
-
“‘पिति’ ङ.पाठः.” ↩︎
-
“भोजोऽभ्योवा भवेत्।” ↩︎
-
“‘नि’ घ.ङ.पाठः.” ↩︎
-
“‘प्रणिपा’ मुद्रितकोशपाठः.” ↩︎
-
“‘तश्चिताम्’ मुद्रितकोशपाठः.” ↩︎
-
“‘द्यपि स’क. पाठः.” ↩︎
-
“‘मां वि’ मुद्रितकोशपाठः.” ↩︎
-
“‘तं मया’ मुद्रितकोशपाठः.” ↩︎
-
“‘त्वा क’ख. पाठः.” ↩︎
-
“‘अपिः’ घ. पाठः.” ↩︎
-
“‘तत्रकृ’ख.पाठः.” ↩︎
-
“‘मप्युभ’क. ग. पाठः.” ↩︎
-
" ‘तां’मुद्रितकोशपाठः." ↩︎
-
“‘क्लयां प्र’ मुद्रितकोशपाठः.” ↩︎
-
" ‘क्तप्र’ क.ख.ग. पाठः." ↩︎
-
“णः फलप्रः घ पाठः” ↩︎
-
" नियाेजयि’ " ↩︎
-
“स्व” ↩︎
-
“ल्य” ↩︎
-
" “याचितः स्मः" ↩︎
-
" वाधिदां सा " ↩︎
-
" ण दा" ↩︎
-
" स्यो" ↩︎
-
“मिः ख पाठः” ↩︎
-
" भा ख पाठः" ↩︎
-
“. ‘पदा स ख ग घ ङ पाठः न्न चास्मा ङ पाठः” ↩︎
-
“रविपीत’” ↩︎
-
“त्या च त्व " ↩︎
-
“‘द्ध घ.ङ. पाठः.” ↩︎
-
“मुचारितार्थपदैर्व मुद्ठितकोशपाटः” ↩︎
-
“‘अनु’ क पाठः” ↩︎
-
" मभा घ. ङ.पाठः " ↩︎
-
“ङ्ग शो! ङ, पाठः,” ↩︎
-
“यमे घ पाठः” ↩︎
-
“‘रुपतां’ मुद्रितकोशपाठः” ↩︎
-
“वा मुद्रितकोशपाठः " ↩︎
-
" र्धदम्’ ख ग घ पाठः” ↩︎
-
“पकः क पाठः” ↩︎
-
" शा श” ↩︎
-
“स्याम् घ पाठः” ↩︎
-
" शप्र मुग्रिकोशपाठः" ↩︎
-
" ‘श’" ↩︎
-
" ‘म्येत्यादिना" ↩︎
-
" ताःसन्ति गु" ↩︎
-
“‘न्द्राद्याः’ घ पाठः” ↩︎
-
“‘ध्रुबेच्छा’ मुद्रितकोशपाठः” ↩︎
-
“त्वुत्क त्थि’ घ पाठः” ↩︎
-
" स्त्रोतः कु घ पाठः" ↩︎
-
" श्ये म्या घ पाठः" ↩︎
-
““न्याना घ पाठः” ↩︎
-
““न्धका घ पाठः” ↩︎
-
“शर्वत्त्बोहे घ पाठः” ↩︎
-
“ति सिंहः। घ पाठः” ↩︎
-
“ञ्जमे घ पाठः” ↩︎
-
“गवि’ घ पाठः” ↩︎
-
“स्तुफलम् क ख ग पाठः” ↩︎
-
“दुःस्प क. पाठः " ↩︎
-
" शादा ख ग घ पाठः” ↩︎
-
" नप्रसि घ पाठः" ↩︎
-
" पि बिर घ पाठः" ↩︎
-
“‘मप्युपधानमाह” घ पाठः” ↩︎
-
" द्वयेऽपि नि" ↩︎
-
“मृ ह ! मुद्रितकोशपाठः” ↩︎
-
“‘गहे’ क ख ग घ पाठः” ↩︎
-
" यानु घ पाठः" ↩︎
-
“‘काङ्कक्षायाः घ पाठः” ↩︎
-
“स्त्रवणैर्व्यव’ मुद्रितकोशपाठः” ↩︎
-
" ‘ममाप्त’ ख पाठः" ↩︎
-
" नीम् अ क ग पाठः" ↩︎
-
" ने द ख घ पाठः" ↩︎
-
“षुधर्मशी’ ख पाठः” ↩︎
-
“च्च मुद्रितकोशपाठः” ↩︎
-
“‘पतत्सु मु’ ख घ पाठः” ↩︎
-
" दि द्र" ↩︎
-
“व्याम्’ घ पाठः” ↩︎
-
“त्यमरः।’ घ पाठः” ↩︎
-
“था। अत्र व घ पाठः” ↩︎
-
“पृर्वतपःसमारधि’ मुद्रितकोशपाठः,” ↩︎
-
“‘काङ्क्षितमुद्रितकोशपाठः” ↩︎
-
“‘वेक्षणहे क ख पाठः” ↩︎
-
“र्यकख ग पाठः” ↩︎
-
“लीलया’” ↩︎
-
“निर्मित मृदु मुद्रितकोशपाठः” ↩︎
-
" पुः प्रकृत्या का क ख पाठः नध क पाठः" ↩︎
-
“लनि ख ग पाठः, लदृष्टिनि घ पाठः,” ↩︎
-
" द्वदने’ ख.घ पाठः" ↩︎
-
“किल पा,” ↩︎
-
" “नः मुद्रितकोशपाठः." ↩︎
-
“‘प्तिविधिरे’ क. ख ग. पाठः” ↩︎
-
“कमाह ङ पाठः” ↩︎
-
“च्चिरे ख पाठः” ↩︎
-
“भी ङ” ↩︎
-
“लानिलौ व क. ग पाठः” ↩︎
-
“सा मुद्रितकाशपाठः,” ↩︎
-
“‘र उप " ↩︎
-
“र वि’ घ पाठः” ↩︎
-
“कवियो ख ग घ पाठः” ↩︎
-
““न्धा मुद्रितकोशपाठः” ↩︎
-
" दम्। स ङ पाठः” ↩︎
-
“नात्प्रकरणहतुः " ↩︎
-
" कारणम” ↩︎
-
" न्धाः" ↩︎
-
“दां मुद्रितकोशपाठः” ↩︎
-
“‘ति। देव्या ता’ ङ पाठः” ↩︎
-
“‘तैःस्वम’मुद्रितकोशपाठः.” ↩︎
-
“‘धरः’ ग, परः,” ↩︎
-
“‘पि नि! मुद्रितकोशपाठः. " ↩︎
-
" ‘नम् ! आगमनान’ घ. पाठः, " ↩︎
-
" ‘ञउ’घ.पाठः” ↩︎
-
“‘परिगृ’ मुद्रितकोशपाठः” ↩︎
-
“‘न स’ क. ख. ग, घ. पाठः” ↩︎
-
" ‘स्यैष्यतिकाले घ’ ङ.पाठः" ↩︎
-
" ‘र्णनीयवृ’ क. ग.पाठः" ↩︎
-
“‘पहि’ख. घ, पाठः” ↩︎
-
" ‘त्थ क’ख. पाठः" ↩︎
-
“‘वः॥ स च क्र’क. ग. पाठः” ↩︎
-
“‘णेत्यर्थः।’ घ पाठः” ↩︎
-
“‘वादौ’क. ख. ग.पाठः” ↩︎
-
" ‘ति क्ष’ ङपाठः" ↩︎
-
“नि सुलभानि त’क. ख. ग. पाठः” ↩︎
-
“‘स्य च प्र’ घ. पाठः” ↩︎
-
“‘न त घ. पाठः’” ↩︎
-
“‘ग तृ’ ङ.पाठः” ↩︎
-
“‘ल मेत्य’ ङ. पाठः” ↩︎
-
“‘हारिषु’, " ↩︎
-
“‘क्षि।प्रच’ मुद्रितकोशपाठः” ↩︎
-
" ‘व्यनि’ घ. पाठः” ↩︎
-
“‘नायां जा’ घ. पाठः” ↩︎
-
" ‘ब्दो द्र’घ, पाठः" ↩︎
-
" ‘वीवीक्षणद’ ख. पाठः" ↩︎
-
“‘हा’मुद्रितकोशपाठः” ↩︎
-
“‘न्ते। पा’ घ. पाठः.” ↩︎
-
“‘का’ ग पाठः.” ↩︎
-
“‘सा’ ग. घ. पाठः, ‘सायां’ क. ङ. पाठः” ↩︎
-
“‘त्वमप’पाठः. " ↩︎
-
“‘ति सिंहः।’ घ. पाठः.” ↩︎
-
“‘येऽप्य’ घ.पाठः.” ↩︎
-
“‘सं’ घ. पाठः.” ↩︎
-
“‘तः’मुद्रिसिकोशपाठः” ↩︎
-
“‘वक्तुमर्हसि’मुद्रितकोशपाठः” ↩︎
-
“‘ल’ ङ. पाठः.” ↩︎
-
“‘णस्व’ ङ. पाठः.” ↩︎
-
“‘न्धं प्र’ क. ग. पाठः.” ↩︎
-
“‘दिति स्या’ ख. पाठः.” ↩︎
-
" ‘दं ज’ घ. पाठः.” ↩︎
-
“‘तत् प्र’ घ. पाठः.” ↩︎
-
“‘बोदितं मुद्रितकोशपाठः.” ↩︎
-
“‘दौऐ’ घ. पाठः. " ↩︎
-
" ‘स्त्रीसा’ घ. पाठः.” ↩︎
-
“‘स्मा’ घ. पाठः.” ↩︎
-
“‘कृशोद’ मुद्रितकोशपाठः.” ↩︎
-
“‘व्यः’ क. ख. ग. पाठः. " ↩︎
-
“‘ष्टप्राप्ते’ घ. पाठः. " ↩︎
-
“‘रः सम्पादि’ घ.पाठः. " ↩︎
-
“‘च’ मुद्रितकोशपाठः,” ↩︎
-
“‘निषे’ घ. ङ. पाठः.” ↩︎
-
“‘क्वा’ ङ. पाठः.” ↩︎
-
" ‘ज्ञानिषे’ ङ. पाठः. " ↩︎
-
“ब्धूम् उपलब्धूु ज्ञा’ घ. पाठः.” ↩︎
-
“‘र्पप्रा’ कु.ख. ग. पाठः.” ↩︎
-
“‘भावस्या’ घ. पाठः” ↩︎
-
“‘भूतनि’ घ. पाठः.” ↩︎
-
“‘ष्य’ मुद्रितकोशपाठः " ↩︎
-
“‘काह’ ङ. पाठः, ‘विधाना’ स. घ. पाठः.” ↩︎
-
" ‘चकत्वे’ ख. घ. क. पाठः” ↩︎
-
" ‘त्रर’ ड.पाठः.” ↩︎
-
“‘कृतमन्वेषणमस’ ङ. पाठः” ↩︎
-
“‘यगतं नि’ ड. पाठः.” ↩︎
-
" ‘व कि’ क. ग. घ. पाठः” ↩︎
-
“‘त्यमरः ।’ ङ. पाठः.” ↩︎
-
" ‘मः पु’ ख. पाठः.” ↩︎
-
“‘प्रक्षि’ ग. घ. ङ. पाठः.” ↩︎
-
“‘धावनं वि’ ख. घ. पाठः.” ↩︎
-
“‘न भ’ ङ. पाठः.” ↩︎
-
“‘नीयः क’ ख. घ. ङ. पाठः.” ↩︎
-
“‘लम्बिनी’ मुद्रितकोशपाठः” ↩︎
-
“‘णो नि’ क.ग. ङ. पाठः” ↩︎
-
“‘तास्य कैवोपा’ ङ पाठः.” ↩︎
-
“‘क्ष्या न स’ ख. ग. घ. पाठः.” ↩︎
-
“‘ले इ’ घ. पाठः.” ↩︎
-
“‘ले ग’ घ. पाठः.” ↩︎
-
“‘भिति’ क. पाठः.” ↩︎
-
“‘दूयते’ मुद्रितकोशपाठः.” ↩︎
-
“‘रकरप्लु’ घ. ङ. पाठः” ↩︎
-
“‘षां भू! घ. ङ. पाठः,” ↩︎
-
“‘तनश्चे’ ख, पाठः.” ↩︎
-
“‘नि क’घ. पाठः.” ↩︎
-
“‘क्ष्यंचिरम’मुद्रितकोशपाठः” ↩︎
-
“‘ग्येन’ क. ख. ग. पाठः.” ↩︎
-
“‘मं’ डः. पाठः,” ↩︎
-
“‘तं तं व’ क.ख.पाठः.” ↩︎
-
“‘नात्रोपा’ख.पाठः.” ↩︎
-
“‘र्धमे’ख. ध. पाठः,” ↩︎
-
“‘वि’मुद्रितकोशपाठः” ↩︎
-
“‘दं क’क. ख. ग, पाठः.” ↩︎
-
“‘द्वि’घ. ड. पाठः” ↩︎
-
“‘जातिना’ घ. पाठः” ↩︎
-
“‘व,दृ’ घ.पाठः.” ↩︎
-
" ‘वर्णिनं नि’ मुद्रितकोशपाठः" ↩︎
-
“‘तयति।’ङ. पाठः” ↩︎
-
" ‘द्योतय’ङ. पाठः" ↩︎
-
“‘क्येन’क. ख. घ. .पाठः.” ↩︎
-
" ‘त्सुमन्त्रो नि’घ. पाठः. ‘त्समानो नि’ख. पाठः," ↩︎
-
“‘मानिनी’ मुद्रितकोशपाठः” ↩︎
-
“‘नशीला।’ ङ.पाठः.” ↩︎
-
“‘वाक्यान्या’घ, पाठः,” ↩︎
-
“‘मित्य’क. पाठः” ↩︎
-
" ‘देवद’ क. ख. पाठः." ↩︎
-
“‘व प्रे’घ. पाठः” ↩︎
-
“‘नादीना’ घ. पाठः” ↩︎
-
" ‘तान’ क. ख. ग. पाठः." ↩︎
-
“‘तनान’ क.ख. ग. पाठः” ↩︎
-
“‘तनान’ क.ख.ग.पाठः” ↩︎
-
" ‘व्दोवे’ क.ग. घ.पाठः" ↩︎
-
“‘ख्याभिरित्य’ख. ग.घ.पाठः” ↩︎
-
" ‘ते’घ, पाठः" ↩︎
-
“‘रविम’घ. पाठः.” ↩︎
-
" ‘क्ष्येत्यादि’ग. पाठः," ↩︎
-
" ‘ति ।व्र’क.ग. पाठः" ↩︎
-
" ‘निद्वाव’ग.घ. पाठः‚" ↩︎
-
“‘ता’ ख.पाठः‚” ↩︎
-
" ‘यदा’ मुद्रितकोशपाठः" ↩︎
-
“‘त’मुद्रितकाशपाठः,” ↩︎
-
“‘न्मथिता’ङ.पाठः.” ↩︎
-
“‘दृष्टमे’मुद्रितकोशपाठः,” ↩︎
-
" ‘द्धंनिष्पत्रम्। ए’ग, ‘द्ध निष्पत्रम्। प्र’ ङ.पाठः." ↩︎
-
" ‘क्षाप्र’घ. पाठः" ↩︎
-
“‘र्थः।’ ख. पाठः,” ↩︎
-
“‘तमनो ङ’. पाठः.” ↩︎
-
“‘रस्नोत्तरमीक्षि’ मुद्रितकोशपाठ;” ↩︎
-
“‘भ्युपप’मुद्रितकोशपाठः,” ↩︎
-
“‘र्याद्या’ग. पाठः” ↩︎
-
“‘वेत्य’ड.पाठः.” ↩︎
-
“‘तश्चासौ दु’ङ.पाठः.” ↩︎
-
“‘भः।अथवा प्रार्थिते प्रार्थ’पाठः” ↩︎
-
“‘पि’ ग.घ.ङ.पाठः.” ↩︎
-
“‘स्त्व’क.ख.ग.घ.पाठः. " ↩︎
-
“‘पयःप्र’ ख. पाठः.” ↩︎
-
" ‘ज्ञा’घ.पाठः. " ↩︎
-
“‘यी’मुद्रितकोशपाठः.” ↩︎
-
" ‘मृश्यत इ’ख. पाठः.” ↩︎
-
“‘ति ब्रह्मचारी द्विविधः । त’ङ.पाठः.” ↩︎
-
“‘वं’ ङ. पाठः.” ↩︎
-
“‘ढोबिशेषेण वि’ ङ. पाठः” ↩︎
-
“‘कर्तव्येराति क’ङ.पाठः” ↩︎
-
“‘र्थम्। चि’ङ.पाठः.” ↩︎
-
“‘तं चोत्त’क. ख. ग. घ.पाठः.” ↩︎
-
“‘म’ख.पठः,” ↩︎
-
“. ‘नरेव’,” ↩︎
-
“‘च’मुद्रितकोशपाठः” ↩︎
-
" ‘न्वान’ङ.पाठः" ↩︎
-
“‘तंजा’ङ.पाठः” ↩︎
-
“‘वार्यतवा’ ’ ङ.पाठः” ↩︎
-
“‘धुरा’ख.ग.घ.पाठः” ↩︎
-
“‘वः। स क’घ. पाठः” ↩︎
-
" ‘वहत्यं’क. पाठः" ↩︎
-
“‘यं’” ↩︎
-
" ‘कलहं’" ↩︎
-
" ‘गजाजि’" ↩︎
-
“‘च॥’ मुद्रितकोशपाठः.” ↩︎
-
“‘जः। क’क.ख.ग. घ. पाठः” ↩︎
-
“‘लं क्क’क.ङ.पाठः.” ↩︎
-
“‘ममल’ घ.पाठः” ↩︎
-
“‘स्पदे प’ मुद्रितकोशपाठः.” ↩︎
-
“‘दिषु यो’ ठ. पाठः.”
↩︎**इयं च तेऽन्या पुरतोविडम्बना -
" ‘हा’ मुद्रितकोशपाठः" ↩︎
-
“‘स्मद’ क. घ. पाठः.” ↩︎
-
“‘म्म इत्य’ ड. पाठः.” ↩︎
-
“‘व्रतस्त्व’ मुद्रितकोशपाठः,” ↩︎
-
“‘तीयते।द’ ङ.पाठः.” ↩︎
-
" ‘षणतो’ ङ.पाठः." ↩︎
-
“‘ते क’ क.ग. पाठः.” ↩︎
-
" ‘त्र’क. ख. ग. पाठः." ↩︎
-
“‘रनि’ क.ख. ग.पाठः.” ↩︎
-
“‘वि’ मुद्रितकोशपाठः.” ↩︎
-
" ‘त्तमा’ ग.घ. पाठः." ↩︎
-
“‘णच म’ ग. घ. पठः” ↩︎
-
“‘त्वं ख्यातमि’ घ. पाठः.” ↩︎
-
“‘तवाच चे’ क. ख. ग, पाठः” ↩︎
-
“‘हि’ घ. पाठः.” ↩︎
-
“‘पि न ज्ञातु श’ घपाठः.” ↩︎
-
" ‘मै’ मुद्रितकोशपाठः." ↩︎
-
" ‘ष्टानि’ .ग. घ. पाठः" ↩︎
-
“‘ष्टप्राप्तिप’ ग. घ. पाठः.” ↩︎
-
" ‘पि तस्य’ ङ.पाठः." ↩︎
-
" ‘वः। अ’ क. ग. पाठः," ↩︎
-
“‘दा’ क.पाठः.” ↩︎
-
" ‘भिःरू’ क.घ.पाठः." ↩︎
-
" ‘नालङ्कारणाल’ क. ख.पाठः." ↩︎
-
“‘जो विशु’” ↩︎
-
" ‘त्या’" ↩︎
-
“‘लि’ मुद्रितकोशपाठः” ↩︎
-
“‘ग’ मुद्रितकोशपाठः.” ↩︎
-
" ‘देवेन्द्रः’ ख. घ. पाठः." ↩︎
-
“‘पा’ घ. पाठः.” ↩︎
-
“षप ग. घ. पाठः” ↩︎
-
“‘दिकं भः’ घ. पाठः.” ↩︎
-
“‘तं’मुद्रितकोशपाठः.” ↩︎
-
“‘ङ्कथविवा’ क. पाठः.” ↩︎
-
“‘धयति’क. पाठः.” ↩︎
-
“‘झ विवा’घ. पाठः.” ↩︎
-
“‘यं’” ↩︎
-
“पभाः मुद्रितकोशपाठः.” ↩︎
-
“न् प्रतिवःग.घ. ङ. पाटः” ↩︎
-
“न्थ!इ. पाठः.” ↩︎
-
" दोषाङ्गीकारे कृ वा घ. ड. पाठः.’ क. पाठः." ↩︎
-
" ‘मप्यव घ, पाठः, " ↩︎
-
" बालाःमुद्रितकोशपाठः." ↩︎
-
“१, ‘त एव॥‘इ. पाठः. " ↩︎
-
“‘मेवात’ घ. पाठः.” ↩︎
-
“‘पणाय प’ मुद्रितकोशपाठः.” ↩︎
-
“‘स्य पु’ क. ग. पाठः.” ↩︎
-
" ‘स्थाना’ क. पाठः.” ↩︎
-
“‘डा’ ङ.पाठः.” ↩︎
-
" ‘मत्र. कृ’घ. पाठः." ↩︎
-
“‘विदवस’ ख. घ. पाठः.” ↩︎
-
“‘पि न’ घ. पाठः.” ↩︎
-
“‘वनताङ्गि’ " ↩︎
-
" ‘वि’ मुद्रितकोशपाठः.” ↩︎
-
" ‘ज्यस्योपा’ क. ख. ग.पाठः." ↩︎
-
“‘पि निरगात्’ घ. पाठः.” ↩︎