[[नीलकण्ठविजयः Source: EB]]
[
[TABLE]
॥ श्रीः ॥
श्रीमन्नीलकण्ठदीक्षितप्रणीतः
॥नीलकण्ठविजयः॥
प्रथमाश्वासः।
वन्दे वाञ्छितलाभाय कर्म किं तन्न कथ्यते।
किं दंपतिमिति ब्रूयामुताहोदंपती इति॥१॥
दृष्ट्वा कौस्तुभमप्सरोगणमपि प्रक्रान्तवादा मिथो
गीर्वाणाः कति वा न सन्ति भुवने भारा दिवः केवलम्।
निष्क्रान्ते गरले द्रुते सुरगणे निश्चेष्टिते विष्टपे
मा भैष्टेति गिराविरास धुरि यो देवस्तमेव स्तुमः॥२॥
** १.** अस्मिन् श्लोके कविर्नीलकण्ठः स्वेष्टदेवतामर्धनारीश्वरं स्तौति। वन्द इत्युक्ते कर्माकाङ्क्षापूरकं पदं किम्? तद्वक्तुंन शक्यते। दपतिमित्युक्ते अपशब्द।दंपतीइत्युक्ते व्यक्त्यैक्यव्याघातः॥
** २.**एतत्सच्छायं विष्णुपरं पद्यमिदम्—
नक्राक्रान्ते करीन्द्रे मुकुलितनयने मूलमूलेऽतिखिन्ने
नाह नाहं न चाहं न च भवति पुनस्तादृशो मादृशेषु।
इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते
मूलं यः प्रादुरासीत्स दिशतु भगवान्मङ्गलं संततं न॥
अपि च—
लीढालीढपुराणसूक्तिशकलावष्टम्भसंभावना–
पर्यस्तश्रुतिसेतुभिः कतिपयैर्नीतेकलौ सान्द्रताम्।
श्रीकण्ठोऽवततार यस्य वपुषा कल्क्यात्मनेवाच्युतः
श्रीमानप्पयदीक्षितः स जयति श्रीकण्ठविद्यागुरुः॥३॥
यः संरम्भः कृतिविरचने दुष्कवीनामभेद्यो
यच्चैकाग्र्यंतदुचितपदान्वेषणे वित्तवृत्तेः।
लभ्यं तच्चेदपि कवयतामन्ततस्त्रीण्यहानि
स्यादेवं किं सरसकविताराज्यदुर्भिक्षयोगः॥४॥
अथवा किमिति स्मरामि दुष्कवीनधुना।
सकलभुवनैकमङ्गलशङ्करगुणवर्णनप्रवृत्तेन।
न स्मरणीयाः कुधियो लोकायतिका इव व्रतस्थेन॥५॥
** ३.**श्रुतेरुपबृंहणतयैव पुराणानां प्रामाण्यम्। सत्येवं पुराणानुरोधेन श्रुतीरन्यथा नयन्ति केचित्। तादृशो विमतस्थान्खण्डयितुमप्पय्यदीक्षितरूपेण धूर्जटिरवनाववततार। श्रीकण्ठाचार्यप्रणीतस्य ब्रह्मसूत्रभाष्यस्य शिवार्कमणिदीपिकाख्या अभ्यर्हिता व्याख्या श्रीमदप्पय्यदीक्षितेन अकारि। तस्य भ्रातृपौत्र एवास्य ग्रन्थस्य कर्ता नीलकण्ठः॥
** ४.**ग्रन्थकृदयं मधुरानगरीं शासितवतस्तिरुमलनायकाख्यस्य भूपतेरमात्य आसीत्। तेन च तस्य बहुकार्यव्यासङ्गं सुगम एव। तथा च ग्रन्थनिर्माणे तस्यावकाशो मृग्य आसीन्महाकवित्वसंपन्नस्यापि। तथैव सत्कवीनामन्येषामपि। बह्ववकाशवता तु कवित्वं नास्ति। कवयितुं परं ते प्रयस्यन्ति। कुकाव्यानि च कर्णारुंतुदानि निर्मिमते। अत एव सत्कविकृतयो विरला जाताः॥
कति कवयः कति कृतयः
कति लुप्ताःकति चरन्ति कति शिथिलाः।
तदपि प्रवर्तयति मां
शंकरपारम्यसंकथालोभः॥६॥
देवानामपिदैवतं गुरुमपि प्राचां गुरूणामिह
श्रीमन्तं मदनान्तकं कथमपि स्तोतुं कृतो निश्चयः।
तेनत्वां त्वरयामि भारति बलात्कृष्टापि दुष्टे पथि
**प्रासेनोपहतापि जातु कुपिता मा स्म प्रसादं त्यजः॥७॥ **
मन्तव्याः कवयः कतीह बहुमन्तव्या रसज्ञाः कती–
त्येतावत्त्वलसः करोमि कवयो हृष्यन्तु रुष्यन्तु वा।
आवात्स्यायनतन्त्रमाश्रुतिशिरःसिद्धान्तमुच्चावचा
विद्या यत्प्रभवा जयन्ति भुवि तां वन्दे गिरां देवताम्॥८॥
चौर्येण प्रणयेन चापहरतःपल्लीषु गव्यान्यपि
स्त्यायन्ते चरितानि चेत्कविकुलोद्गीतानि गाथाशतैः।
त्रैलोक्योद्भटकालकूटकबलीकारप्रकारं पुनः
स्तोतुं के प्रथमेऽपि नाम कवयो दूरेऽधिकारस्तु नः॥९॥
** ७.** हे भारतीति संबोधनम्। प्रासः शब्दालंकारः कुन्तश्च। प्रसादःकाव्यगुणविशेषः अकोपनत्वं च॥
८. ग्रन्थारम्भेस्मरणीया यद्यपि बहवः कवयः सहृदयाश्च, तथापि सर्वेषां मूलभूताया वाग्देव्या ध्यानेन तद्गतार्थं स्यादिति मत्वा तामेवास्मिन् पद्येनमस्यति। वात्स्यायनतन्त्रं कामशास्त्रम्। श्रुतिशिरांसि उपनिषदः तेषां सिद्धान्तः वेदान्तशास्त्रम्॥
अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु।1
कलिवर्षेषु गतेषु ग्रथितः किल नीलकण्ठविजयोऽयम्॥१०॥
अस्ति किल समस्तसुरासुरस्तोमवन्दितचरणारविन्दस्य भगवतो महेन्द्रस्य स्थानं, आस्थानममृतान्धसां, आयतनमाश्चर्याणां, आकरो रत्नानां, अवधिर्वैषयिकानन्दस्य, किमपरमगोचरे गिराममरावती नाम नगरी। तत्र च निरालम्बे नभसि वर्तमानतया सर्वपथीनद्वारतया च पुनरनपेक्षितमूलशिलानिवेशनायासं, अनाकाङ्क्षितप्रतीहार रचनाप्रयासं, असंपादितशृङ्गसंबाधं, असंभावितपरिखामण्डलं, आचार इति केवलमभिनिर्वर्तितो नवः प्राकारः। प्रासादः पुनरस्ति वैजयन्त इत्यभूमिरारोहणोपयोगविधुरश्च। सर्वतोऽप्रतिहतचाराणां पौराणाममृता स्वादसुहिता नामभ्यवहार्येण किंप्रयोजनम्। अपि च पुनरभिलषितमणिकनकभूषणाम्बरसंदायिषु मन्दारादिशाखिषु न किं चिदस्ति क्रेतव्यं विक्रेतव्यं चेति संज्ञामात्रशरण्याः पण्यवीथिकाः। किंच निरन्तरशिवध्याननिर्धूतकल्मषाः, निरतिशयतपोविशेष शोषिताः, वीतरागभयक्रोधमत्सराः, विषयपराङ्मुखाः, भुवि परमर्षय इति प्रथामागताः पण्डिता एव प्रणयिनो वारमृगीदृशाम्। अश्वमेधयाजिन इति, अग्निचित इति, मासोपवासिन इति, मांसवर्जिन इति, राजसूययाजिन इति, रणदुर्मदा इति, अन्नदा वयमभयदा इति शंसद्भिरपदानानि, संपतद्भिरितस्ततोऽप्य ज्ञातमुखैर्जातुचिदवनिवासिभिर्जनैर्बलादपह्रियमाणेषु विमानेषु्,आक्रम्यमाणेषु मन्दिरेषु, आकृष्यमाणे च बलादप्सरो गणे, नकश्चिदभिमन्यते ममेदमिति मन्दिराणि विमानानि मणिभूषणानि कलत्राणि वा नगरवासी जनः। किचेदमपरमदेवतया न सुधाशनाः, अलाभादेव न तृणाशनाः, पवनाशना एव परिशेषात्कामदुघा गावः, पराक्रमिणो मतङ्गजाः, वातरंहसश्चवाजिन इति सकलपुरविलक्षणं लक्षणम्।अपि च —
मूल्यंतत्किल वेश्मनां द्विजमुखे भक्त्यात्र यद्दीयते
वेश्यानां च पणः स एव सवने या दक्षिणा ऋत्विजाम्।
पद्या सैव विशङ्कटा भवति या पद्यात्र तीर्थाम्भसां
द्वारं तत्र च तद्यदत्रकरणद्वारं पिधेयं नृणाम्॥११॥
अस्ति स्वादयितुं सुधास्ति वसितुं वासो नभश्चारिणां
धर्तुं सन्ति च भूषणानि शतशो न त्वस्ति धीर्जीवितुम्।
येनान्यानुपजीव्यसर्वविभवे कर्मैकलभ्ये पदेऽ–
प्यायस्यन्ति वृथैव सेवक इति स्वामीति दुर्मेधसः॥१२॥
इदं च परमाद्भुतमुत्प्रेक्षितं तस्यां, यत्किल विविधतपःप्रबन्धनिस्तन्द्रतया विस्मृतलोकतन्त्रेषु, चिरविधृतब्रह्मचर्यजीर्णतया कालमृत्युषु कन्दर्पस्य ब्रह्मर्षिहतकेषु भूतलादागत्य प्रसक्तेषु क्रीडितुमप्सरोभिः, पर्णशालां प्रविशाम इति प्रविशत्सु केलीगृहं, विस्रंसय जटामिति वेणीमालम्बमानेषु, अपनय वल्कलमित्यपनेतुकामेषु कुचदुकूलानि, न लोहितं कुर्यादिति निषेधत्सुनखक्षतानि, आः कष्टमसंमतोऽयं पन्थाः शिष्टानामिति पिहितकर्णेषु चुम्बनभेदप्रस्तावनायां, निवीतधारणव्यग्रेषु नीवीमोचनावसरे, मन्त्रजपमुखरेषु मणितावसरे आः स्मृतमद्यव्यतीपात इत्यन्तरा गन्तुकामेषु, अनुयुञ्जानेषु पुनः पुनरार्तवदिनानि शपथपूर्वकं, अतिक्रामति निषेकलग्नमित्यसहमानेषु बाह्यसुरतव्यापारविलम्बं, अवधीरयत्सु पुरुषायितं, असंमन्यमानेषु बन्धभेदान्, विगायत्सु वीटिकोपसेवनमप्यनुचितोऽयं काल इति, आनन्दमूर्च्छावसर एव निभृतमनुसंदधानेषु मन्त्रलिङ्गानि परवशरतान्तनिद्रावसर एव यावत्सन्निपातं च सहशय्येति परिहरत्सुपर्यङ्कशायिकां, द्वितीयसुरतारम्भ एव देहि मे कमण्डलुमिति त्वरमाणेषु मन्दाकिनीगमनाय, विहसन्ति विषीदन्ति विलज्जन्तेविस्मयन्ते च रम्भादिमेनकान्ता देववारकान्ताः॥
प्रसजति महोत्सवे वा प्रचलति रथ्यासु तत्र शक्रे वा।
निम्नानि पूरयन्ते पवनमये तालवृन्तपवनेन॥१३॥
किं बहुना—
दुःखानां क्षतिरित्यबोधहतिरित्यानन्दविष्फूर्तिरि–
त्यन्तर्वाणिविकल्पजालजटिलान्मोक्षादपिज्यायमी।
यैषाऽविप्रतिपन्नसौख्यलहरीसंपातसंपादिनी
तत्सौन्दर्यविवेचने कवयतां मौनं क्षमं ह्रीमताम्॥१४॥
** १४.**मोक्षविषये बहुधा विप्रतिपतिः शास्त्रेषु प्रथिता। स्वर्ग तु ‘यन्न दुःखेन संभिन्नंन च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च तत्सुखं स्व पदास्पदम्॥’ इति सर्वेऽपि तन्त्रकारा ऐककण्ठ्येन प्रब्रुवन्ति। अन्तर्वाणिः शास्त्रवित्॥
आनीता वसुधातलात्सुकृतिनस्तस्यां हरेःशासना-2
दुन्मीलन्मणिकिङ्किणीकलकलस्वाने विमाने स्थिताः।
दृष्ट्वा व्योम निरास्पदं सचकितव्याघूर्णमानेक्षणा
न स्थातुं नच वा ततोऽवतरितुं प्रागल्भ्यमाबिभ्रते॥१५॥
मन्दानिलव्यतिकरच्युतपल्लवेषु
मन्दारमूललवलीगृहमण्डपेषु।
पुष्पाणि वेणिवलयेषु गलन्ति तस्यां
साह्यं वहन्ति सुरवामकसज्जिकानाम्॥१६॥
गायन्ति चाटु कथयन्ति पदा स्पृशन्ति
पश्यन्ति गाढमपि तत्र परिष्वजन्ते।
कल्पद्रुमानपि समेत्य सुपर्वकान्ता
मुग्धा द्रुमैस्तदितरैश्चिरविप्रलब्धाः॥१७॥
अस्ति च तामधिवसन्, वसन्त इव ऋतूनां, वासुकिरिव फणाभृतां, चन्दन इव वृक्षाणां, चन्द्रमा इव ऋक्षाणां, राजा सुपर्वणां, राजा त्रिविष्टपस्य, राजा त्रयाणां जगतां, राजा विध्यण्डमण्डलस्य, कर्ता शताश्वमेधानां, संहर्ता वृत्रासुरस्य, रम्भादिविविधरम्भोरुसंसदहंप्र थमिकासंभुज्यमाननवयौवनश्रीः, अपर्युषित यौवनोन्मेषसंभावनीयमदनमदारम्भ सीमायाः कौमारहरः सदा शचीदेव्याः, काव्यागम भरतगान्धर्वरहस्यस र्वकषमनीषावि–
** १६.**प्रियागमनवेलाया मण्डयन्ती मुहुर्मुहुः। केलीगृहं तथात्मानं सा स्याद्वासकसज्जिका॥
शेषनिरवद्यविद्याधरीलोकनखमुखमुखरितविपञ्चिकानिनादप्रपञ्चितोदारनिजभुजापदानसमाकर्णेनसमुद्गीर्णपुलकनिर्वर्णनजनितामर्षजल्पाकनिखिलदिक्पालवदनावलोकनसफलीकृतसहस्रलोचनः, चतुर्मुखमुखवलय विहारिभारतीपरिगृहीतवेतालिकाधिकारः, पक्षपातासहिष्णुतयेव परिहृतशैलेन्द्रपक्षमण्डलः, चन्द्रचूडचरणा रविन्दपरिचरणानन्दसाम्राज्यधुरंधरः पुरन्दरो नाम॥
श्लथे नीवीबन्धे सति रहसि यत्पाणिवलना-
न्नवोढाः पाणिभ्यामपि पिहितसप्ताष्टनयनाः।
सहस्रस्याप्यक्ष्णां युगपदपिधानाक्षमतया
पुनस्ताभ्यामेव स्वमपिदधते लोचनयुगम्॥१८॥
अपि च—
लभ्यन्ते श्रुतिपाठशुष्कवदना विप्राः पदे वेधसो
वैकुण्ठे तुलसीवनानि सुलभान्यार्द्राणि शुष्काणि च।
प्रेता भूतगणाश्च सन्ति शतशः स्थाने भवानीपतेः
रत्नान्यप्सरसः सुधेति तु पदे यस्यैव लब्धुं क्षमम्॥१९॥
विधातुं कर्माणि व्यवसितवती यत्पदफला-
न्यसूयान्धा मध्ये श्रुतिरपि किमासीद्भगवती।
अनुष्ठेयं कर्म स्वयमनभिसंधाय फलमि-
त्ययं वन्ध्यः पन्था यदनुपदमेव प्रकटितः॥२०॥
पक्षपात एकस्मिन्नधिका प्रीतिरन्यस्मिन्न्यूना च। राज्ञा हि निष्पक्षपातेन भवितव्यमिति धर्मः। अत एवेन्द्रः पुरा शैलेन्द्राणां पक्षं चिच्छेद। उत्सन्नपक्षत्वे च पुनः पक्षान्न ते पातयिष्यन्ति। एवं पक्षपातासहनमाविष्कृतमिन्द्रेण॥
किं बहुना—
लब्धुं तत्पदमूर्जितं शतमखी तस्यैव नालं भवे-
द्रष्टुं तद्दयिताजनं दशशती तस्यैव नालं दृशाम्।
वक्तुं तत्पुरभोगभाग्यमखिलं तस्यैव नालं गुरु-3
र्मच्चेतोगतमद्भुतं कथयितुं नालं ममैवोक्तयः॥२१॥
स कदाचिदस्वप्नोऽप्याचार इति बोधितः प्रातरमरवैतालिकैः, आलोक्य निर्मलं पौलोमीकपोलदर्पणं, अभ्यर्च्य कामधेनुं, आसाद्य विविधविद्याधरीविलासपिशुनकुसुमशयनीयलोभनीयलतामन्दिरनिरन्तरोपान्त भुवं अधःपरिवर्तमानविकर्तन बिम्ब निरर्गलनिर्गलदूर्ध्वमुखमयूखसंसर्गा दुष्णीकृतामन्तरन्तः उपर्युपरि शीतलां भूतलासंस्पर्शेऽपि पुराणपुरुषचरणारविन्दसंबन्धादेव भुवनपावनीममरधुनीं, निर्वर्तितनियमाभिषेच नःसिद्धचारणगन्धर्वसेविते सैकते तस्याः दहराकााशपरिपूजितदिव्यलि ङ्गाकृतिप्रतिष्ठाप्य चिन्तामणिमयं किमपि पारमेश्वरं लिङ्गं, अनुसंधाय तत्र नखलिखितशरच्चन्द्रचन्द्रिकासारसुन्दरं भगवन्तं मदनान्तकं, अभिषिच्य दिव्यापगासलिलैः, अनुलिप्य रोहिणीरमणहरिणमदयङ्कानुषङ्गिणा हरिचन्दनेन,समभ्यर्च्य गाङ्गेयविकचगाङ्गेयपङ्कजैः, आराध्य सुरभिघृतधारानुबन्धिना दिव्यधूपेन निसर्गचलितरश्मि–
प्रतिष्ठाप्येति॥ अत्र परमेश्वरस्य आवाहन ध्यान – अभिषेक – गन्ध – अर्चन – धूप –दीप नैवेद्य – प्रदक्षिणनमस्कार – पुष्पाञ्जलि – स्तोत्ररूपा उपचाराः कण्ठत उक्त्ताः।अथ उद्वाहन,हृदय मानस्य तस्य पुनर्ध्यानच समनन्तरप्रतिपादिते॥
मालाकलापेन रत्नदीपेन च, साङ्गाय सायुधाय सावरणाय साभरणाय च निवेद्यसद्यःसमाहृतनिष्पीडितेन्दुमण्डलनिष्यन्दमानापर्युषिता न्यमृतानि, प्रदक्षिणीकृत्य प्रणिपत्य प्रसाद्य पञ्चभिः प्रसूनाञ्जलिभिः स्तुत्वा श्रुतिशिरोभिः, कृत्वा विसर्जन, अथ स्मृत्वा चिरन्तनमात्मनि, विलासवीथीविहारकौतूहलेन निर्गत्य बहिः, इतस्ततोनिरन्तरालमिलदाशीर्व चोमुखरगीवार्णमुनिसंघसंकुलं,अतिकोमलाङ्गुलिदला घातशोधितमृदङ्गनादभङ्गिभिः अधर निवेशितापनीतवेणुभिः असकृदास्फालिताकृष्टवीणगुणाभिः आकुञ्चितऋजूकृतभ्रूलतमाविष्कृ तलुप्तसिराबन्धकन्धरमन्तरेव कलमधुरमारब्धगीतिभिः द्विस्त्रिरास्फालितसव्यचरणमृदुगणित ञ्जीरमञ्जुलाभिरप्सरोभिरारप्स्यमानतौर्यत्रिकं, अत्युद्भटवेत्रिवेत्रलताघातविद्रावितवीथीभवदमर मण्डलं, अभितोऽपि दृष्टिगोचरसंनिधापितकरितुरगपर्यङ्किकादिनानाविधवाहनग्रामालोक्यसेना मुखं, आलोकमात्रविदितेङ्गितैराधोरणैरुपस्थापितमर्णवनिमग्नमैनाकपक्षग्क्षणाभ्यर्थनायागतं हिम वन्तमिवोन्नतमवदातं च कंचिदारुह्य मतङ्गजं, अङ्गजराज्यसौभाग्यदेवतयेव शरीरिण्याताम्बूल करण्डधारिण्या मेनकया, मदनमदकदुष्णसौवर्गकामिनीकटाक्षसंसर्गनिवारणायेव मणिचामरो पवीजनकुशलारम्भया रम्भया च सविलासमध्यासितचरमभागः, पुरोभागचलदलघुजङ्घालकरि तुरगसंघजङ्घाजवद्रवदमरभटकोटिसमर्दशिथिलहारमर्दनजनितमुक्तापरागसंबन्धादिवधवलीकृतेन ससंभ्रमवलदम्बरचरनितम्बिनी–
स्वर्गे भवानां सौवगीणा कामिनीना कटाक्षससर्गः सौवर्गकामिनीकटाक्षससर्गः।
लोकविकीर्यमाणमन्दारकुसुमबृन्दनिःसरन्मकरन्दधारानिरासायेव मुकुटमुपर्युपरिधार्यमाणेनसर्वतः प्राल म्बमुक्तासरकदम्बशालितया नमन्ततो निहितकुपितविधुन्तुदविकटदन्तक्षतविव रक्षरदमृतधारासहस्रमण्डितेन मण्डलेनेव शशाङ्कस्य महतातपत्रेण सफलयन्ननिमेषदृष्टिसृष्टिमम्भोजसंभवस्य, गन्धर्वकुलवाद्यमानबहु विधातोद्यनेनादकबलीकृताशावकाशतयेव संकुलचलितसेनासंघसं कटोन्मुक्तसिंहनादधारापथे निर्जगाम तारापथे॥
मञ्जीरैर्नटनार्भटीमुखरितैः स्वर्वारवामभ्रुवां
मन्दस्निग्धरवैश्च किन्नरकरव्यापारितैर्मर्दलैः।
श्लाघाश्लोकशतैश्चचारणगणप्रोद्गीयमानैस्तदा
नादब्रह्ममयीव तत्र रुरुचे3 नासीरसीमा हरेः॥२२॥
अपि च—
अग्रे पश्चादुभयत इति त्यक्तलोकव्यवस्थे
दिष्ट्यातस्मिन्नपि परिणते सर्वतः संमुखीने।
सभ्रूभङ्गंनयनवलनं सस्मितं द्रष्टुकामा
भूयोऽप्यग्रे सुरपरिबृढास्तस्य पुञ्जीबभूवुः॥२३॥
गच्छन्नेव स नभसि, भसितावकुण्ठितसर्वाङ्गसङ्गलब्धपरभागभासुराभिरभिव्याप्य हृदयमधिकतया बहिर्निर्गमिष्यतः कोपानलस्य ज्वालाभिरिव पाटलाभिर्जटाभिरभिभवन्तमिव
** मुकुटमुपर्युपरि।** उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते॥इति द्वितीया॥
तटित्वन्तमभिनवं शारदाम्भोदं, अपि च त्रिभुवनमुनिलोकवैलक्षण्यबोधिन्या शापमूलतपोलाभसंभवया कीर्त्येव त्रिपुण्ड्ररेखयापरिकर्मित ललाटमण्डलं, अतिप्रचण्डनिजतपोऽनलज्वालाकलापपरिप्लोषमलिनितैः प्रतिशापाक्षरैरिव पारिकाङ्क्षिणां रुद्राक्षमणिभिरभिवेष्टितं, सोदरशशाङ्कसंदेशहारिकाभिस्तारकाभिरिव कर्णपुटाभ्यर्णलग्नाभिः स्फटिकाक्षगुलिकाभिरभिशोभितं, अगृहीतोत्तरासङ्गंअङ्गीकृतकौपीनमात्रपरिधानं, आस्फोटयन्तमनुपदं, अवरुन्धन्तमध्वनि मिलन्ति सिद्धवधूकुलानि, त्रासयन्तमिव कातरान् तर्जयन्तमिव शुनासीरभटानपि, गर्जन्तमिव, गायन्तमिव, नृत्यन्तमिव, स्खलन्तमिव, हसन्तमिव, हृदयारविन्दकुहरविहरदुन्मत्तशेखरभावनानैरन्तर्यादुन्मत्तमिव, स्वयमप्यवाप्तसमस्तकामतयाकिंचिदप्यनादृत लोकतन्त्रानुविधानं, त्रिलोचनावतारमप्यत्रिलोचनावतारसोदरं, अनसूयागर्भसंभवमप्यत्यन्तकोपनं, अतिकठिन तपोविशेषपरितोषितगौरीप्रसादसमासादितामपिकयापि विद्याधरकन्यया प्रार्थनामात्रादेव शापभीतया प्रणिपत्य समर्पितां कामपिकनकारविन्दमयीमम्लानमालिकामानयन्तं, आपतन्तमग्रत एवनिरर्गलमभिमन्त्र्य मुक्तमिव पाशुपतं शरमनतिलङ्घनीयतेजसंदुर्वाससं नाम तापसमद्राक्षीत्। जानन्नपि तमनतिक्रमणीयतेजसं
त्रिभुवनेति॥इतरेषां मुनीनां कोपेन तपःक्षय दुर्वाससस्तु कोपेतपोवृद्धिरिति प्रसिद्धिः। पारिकांक्षी वाचयमो मुनिरित्यमर। उत्तरासङ्गपरिधानम्।उन्मत्तपुष्प शेखरे यस्यउन्मत्तशेखरः शिव। त्रिलोचनावतारमपि परमशिवस्यावतारभूतमपि। अत्रेःलोचनात् अवतारो यस्य चन्द्र तस्य सोदरम्।अनसूया अत्रिपत्नी दुर्वाससोमाता॥
दुर्वाससं, जानन्नपि जगदेव निखिलमपलपितुमन्यथयितुं च नैपुण्यं ब्राह्मणस्य, जानन्नपि मुनिकुलन्यक्कारपरिणतां गतिं नहुषस्य, शिष्योऽपि बृहस्पतेः, शीलितमर्मापि धर्मशास्त्रेषु, परिचर्यारतोऽपि निसर्गत एव ब्राह्मणानां, आ चतुराननादा च कीटपतङ्गेभ्यस्तुल्यवदेव प्रभवन्त्या भगवत्या भवितव्यताया विलासेन त्रिभुवनाधिपत्यमदान्धीकृतलोचनो धीमानपि सहस्रलोचनो न तं प्रत्यवरुरोह, न तरामुपचचार गिरा, न तमां च प्रणनाम। अपि च न केवलं तमवजज्ञे, अपि तु पुनरसंभावितेनापि तेन वितीर्यमाणामादाय सावज्ञमेकेन पाणिना मालिकां, पश्यत एव महर्षेः, अनुपनीय मकुटतटीमनाघ्राय चान्ततः स्कन्ध एव सिन्धुरस्य निवेशयामास। निवेशितमात्रा च सा निसर्गनिरवग्रहेण वेतण्डेन शुण्डयाकृष्य निष्पिपिषे॥
पश्यन् पदाग्रमृदितां महता गजेन
मालां प्रसादपरिपाकमयीं मृडान्याः।
हस्तेन हस्तमभिहत्य स नित्यकोपः
कोपारुणं मुनिरधारयदक्षिकोणम्॥२४॥
वीरभद्र इव क्रुद्धे वीरमाहेश्वरे मुनौ।
इतिकर्तव्यतामूढमिन्द्रमैक्षन्त देवताः॥२५॥
तदनु च—
यावत्सान्त्वयितुं तदन्तिकभुवं धावन्ति मन्दीभव–
त्काकुव्याकुलगद्गदस्तुतिवचोगुम्फा निलिम्पाः स्वयम्।
तावद्देवपतिं शशाप कुटिलक्रूरभ्रमत्तारक-
भ्रूभङ्गव्यतिषङ्गदत्तभुवनातङ्को मुनिः शाङ्करः॥२६॥
येयं त्रैलोक्यराज्यश्रीस्त्वदालम्बेन चेष्टते।
सैवाद्य त्वदमित्राणां वशमापद्यतामिति॥२७॥
आलम्ब्य दैन्यमसकृत्पदयोर्निपत्य
संप्रार्थितां मघवता स्तुवता ततोऽयम्।
शापान्तमाह कथयन्निव लोकरीत्या
गोविन्द एव कुशलानि करिष्यतीति॥२८॥
तदनुयथागतं गते दुर्वाससि, तावता वैभवेन विनिर्गतोऽप्यतर्कितोपनततदीयशापसमुत्सारितोत्साहः, समग्रेण मण्डलेन निर्जिहानो राकाशशाङ्क इव राहुमुखे पतितः, सुरपतिः अभितःप्रमार्यमाणरोषविषादमन्दाक्षशबलकटाक्षसहस्रनियमितव्यापारममुखरमुरजमनाहतपटह अक्कणितवीणादिवादित्रं अवसन्नकिन्नरीगानमप्रवृत्तरम्भादिनृत्तसंरम्भं अवसितवैतालिकलोककोलाहलं अप्रसक्तवेत्रिहाहारवं अनाशङ्कितभटसिंहनादं अस्तंगतान्योन्यसंकथं असंभावितपीठमर्दकविदूषकालापं, अश्वहेषितेऽपि सातङ्कसादिकुल, अङ्घ्रिविन्यासशब्देऽपि सापराधसौविदल्लजनं, अपनीतमातङ्गघण्टावलयं, आबद्धमिव मूकमिव बधिरमिव मुग्धमिव प्रसुप्तमिव विकलमिव शून्यमिव विन्यस्तमिव
किंचिदून पीठमर्दो हास्यप्रायोविदूषकः। इति प्रतापरुद्रीये॥
सौविदल्लाःकञ्चुकिन इत्यमरः॥
चित्रफलके, निखिलमपि विबुधबलमाकर्षन्नेव केवलं, आगत्य पुनर्नगरं, आवेद्य वृत्तमिमं गुरवे वृत्तान्तं, अन्तःपुरं प्रविश्य, दुरन्तचिन्तानुबन्धनियन्त्रितः शयनागार एव जजागार तां रजनीम्। अथ तदानीमेव गूढनिहितचारनिवेदिततापसशापवृत्तान्तसमाकर्णनलब्धान्तरेण मन्त्रिणा भार्गवेण समादिष्टाः, हृष्टाश्च चिरनिरीक्षितरन्ध्रलाभेन, दर्शयिष्यन्तो दृढपरिचितानि समरकौशलानि, सफलयिष्यन्तः साधितानि सहास्राणि, समुल्लिखन्तो वैरनिर्यातनप्रकारान्, अपनेष्यन्तश्चिरनिरूढमपयशोमालिन्यं अभिनन्दन्तो दुर्वाससं, आवेदयन्तः परस्परमभ्यग्रदृष्टानि शुभनिमित्तानि, विवृण्वन्तो वीरवादान्विभजन्तः प्रतिसैन्यानिसैनिकानां, अवरुन्धन्तश्चारजनसंचारं, आसूचयन्तो गन्तव्यपदमाप्तवर्गेषु केवलं, आदिशन्तश्च घण्टापनयनमनेकपानां, अङ्गदासंघट्टनमश्वोरसानां, अनुच्छ्रयणं ध्वजानां, अवादनं वादित्राणां, अक्ष्वेलनं च योधानां, अभिवन्द्य पुरोधसं, अनुमान्य योधमुख्यान्, आमन्त्र्य गुरुजनं, अनुज्ञाप्य मौहूर्तिकान्, भावयन्तः प्राचीनान् महासुरान्, पठन्तश्चतेषामेव वेदापहरणवसुधानिमज्जनादीनि प्रचण्डानि चरितमङ्गलानि, प्रस्थाय दानवाः कतिचिदतिचिरोपरुद्धकण्डूलदोर्मण्डलतया कालविपाकपचेलिमया शक्तिमत्तया च, पर्यवसाययितुमिव भूधरानङ्गुलिस्फोटेन,
तां रजनीं जजागार।‘कालाध्वनोरत्यन्तसंयोगे’इति द्वितीया॥
** अश्वानामुर इवअश्वोरसम्।** अग्राख्यायामुरस इति टच्। उरः शब्दो मुख्यवाची॥
परिक्षेप्तुमिव मुखमारुतेन सप्त सागरान्उन्मूलयितुमिव समूलमेव पातालं, उत्क्षेप्तुमिव दूरमन्तरिक्षं व्यत्यासयितुमिव विध्यण्डमण्डलं निर्वापयितुमिव चन्द्रार्कदीपिकां, दग्धुमिव दहनमपि भङ्क्तुमिव प्रभञ्जनमपि, बन्द्धुमिव पाशिनमपि, हन्तुमिव दुर्दान्तमन्तकमपि, संनह्यन्त्या किंचिदप्यज्ञातकार्यविशेषतया महामात्रकरचलनमात्रपरिज्ञातगन्तव्यदिशा, गगन एव नित्यनिवासेन कदाप्यनागतां मन्दाकिनीं संभावयितुमापतता पत्येव वाहिनीनां, महत्या सेनया साकमागत्य शाखानगरममरावत्याः युगपदाहन्यमानपटहादिबहुविधवाद्यनिर्घोषपोषितकरिलोकबृंहितोपबृंहितभटकोटिसिंहनादकोलाहलेन बोधयामासुरनाशङ्कितपरिभवातङ्कसुखशयितानमृताशनान्॥
क्रुध्यद्दानवयोधनिर्दयकरव्यामर्दभीमध्वन-
न्नानातोद्यनिनादकातरपरिक्रन्दद्दिगन्तद्विपम्।
जातं प्रातरतर्कितागतमहातङ्कप्रसङ्गक्षण-
प्रक्षुभ्यत्पुनरुद्भटामरचमूनीरन्ध्रमैन्द्रं पुरम्॥२९॥
अपि च —
संरुन्धन्ति द्विषन्तो नगरमिति समायान्ति रुष्टाः पथीति
प्राकारान्तः प्रविष्टा इति चलति रणो दारुणः संप्रतीति।
जीवग्राहं4 गृहीतःसुरपतिरिति च स्वैरमज्ञातमूलाः
सङ्घे सङ्घेप्रजानां नवनवमभवन् भिन्नभिन्नाः प्रवादाः॥३०॥
तत्क्षणं च युगविगमसमयसंभिद्यमानसप्तार्णवीनिनादशङ्कावहेन कोलाहलेन नागराणामवबुध्य विद्विषामभिषेणनं, अनुल्लङ्घनीयतापसशापानुसंधानकुण्ठीकृतोद्यमोऽपि कण्ठीरव इव करिलोकबृंहितेन परिज्वलितमन्युः, शतमन्युः उत्थाय शयनीयात्, उत्प्रेक्षितसमरसंरम्भया शचीदेव्या ससंभ्रमस्नेहसाध्वसोद्वेगमुपसृत्य स्त्रीस्वभावसुलभेन कातर्येण ‘मानद, मा कुरु साहसमेवंविधं, प्रेष्यन्तां प्रेषणीयाः’इत्यभ्यर्थ्यमानोऽपि तामवधूय, परिजनवधूकरोदस्तविस्रंसमानसंव्यानपल्लवः, संरम्भशिथिलपदक्रमः समागम्य चकितसमुद्बुद्धदौवारिकजनोद्धाट्यमानकवाटिकामूलपुञ्जीभवदनुक्षणायातचारवृत्तान्तसमावेदनसंनह्यत्कुब्जवामनजननिरन्तरालिन्दमन्तःपुरद्वारं, अनादृत्य किङ्करकरावलम्बनं, अनालोक्य निहितामप्यग्रतो मणिपादुकां, अनादिश्य सैनिकागमनं, अनाकाङ्क्ष्यवैनीतकानयनं, अङ्घ्रिभ्यामेव परिक्रामन्, अनाकर्णयन्निवृत्तिविज्ञापनान्यध्वनि मिलतां सैनिकानां, आकुञ्चिताभ्यां भ्रूलताभ्यामाकम्पितेन च मुखेन केवलमाकर्णयन्वचनानि चाराणां, अतिसंभ्रमोपसृत्वरमनिवर्त्यसमरसंरम्भमग्रत एव चलन्तमात्मजं जयन्तमवरुध्य शपथशतैरन्तःपुररक्षणाय निवेशयन्नालयद्वारि, निःसरन्नपि बहिस्ततोऽप्यतित्वरितमालयबाह्यकक्ष्यासमानीतामाबध्य कक्ष्यां, आद्यवीथीमुखोपनीतामादाय
‘यत्मेनयाभिगमनमरौतदभिषेणनम्’इत्यमरः।
‘परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम्’इत्यमरः।
कक्ष्या कच्छपुटापरपर्याया काञ्ची।
दम्भोलिं, अर्धपथोपनीतमवमुच्य वारवाणं, अधिगोपुरसदेशमा नीयमानमारुह्य मातलिसनाथं रथं, अतिलङ्घ्यसंकुलचलदमर भटसंघसंकट दुर्गमं गोपुरद्वारं, अतिक्रम्य निजमपि नासीरं अवगाहमानो दानवचमूं, अलङ्घनीयवचनैरहंप्रथमिकाप्रतिज्ञातविजयैर्दिक्पतिभिर्निरुध्यमानः, चन्द्रोदयारम्भसमुज्जृम्भितसागर इव वेलानियन्त्रितः, क्षणादुद्गीविकाभिलक्ष्यमाणदुर्निग्रहसमराग्रहः शरीरेण केवलमवातिष्ठत सेनामुखे॥
भीमं भीमेन तस्याथ सैन्यं सैन्येन विद्विषाम्।
समगच्छत कल्पान्ते सागरेणेव सागरः॥३१॥
किंच —
यावज्ज्यावलयावलीढशिखरक्रूरप्रकारध्वन–
च्चापव्यावृतपाणिभिः स्थपुटितं नासीरमासीद्भटैः।
तावद्देवपतिः क्व दानवपतिः क्वेति प्रवृत्तैः क्रुधा
सेनारक्षिभिरेव तत्र महते युद्धाय बद्धा मतिः॥३२॥
तदनुशुनासीर एव स्वनासीरमुपेयुषि, चिरभुक्तभर्तृपिण्डानृण्यसंपादनावसरलाभसंभावितोत्साहतया तृणीकृत्य जीवितानि विमतबलानीव, विधूय समरभयं विकोशानीव शस्त्रास्त्रमण्डलानि, विस्मृत्य भर्तृविमाननाः कादाचित्कीः पुत्रदारपरिभवानिव, मनागप्यनपेक्ष्य जयश्रियमनुपतन्तीमिव मित्रवरूथिनीं,
वेला समुद्रतीर कालश्च।
अयातिष्ठत ‘समवप्रविभ्यः स्थ’इत्यात्मनेपदम्।
समगच्छत ‘समो गम्मृच्छिभ्याम्’इत्यात्मनेपदम्।
होष्यन्तः शरानलार्चिषि शरीराणि, चेष्यन्तः शरदिन्दुसुन्दराणि यशःकन्दलानि, महिषानिव मतङ्गजान्, सारमेयानिव सैन्धवान्, पांसुकणानिव पदातिगणान्, मशकानिव महारथिकान्, कुसुमविहारानिव कुन्ततोमरमुद्गरप्रहारान्, पटवासवृष्टिमिव बाणवृष्टिमपि मन्यमानाः, हन्यमाना अपि हर्षाट्टहासमुखराः, नखरायुधा इव हरिणार्भकेषु, नागान्तका इव राजिलेषु, दन्तावला इव कदलीवनेषु, दावानला इव जीर्णशल्मलीगुल्मेषु, निःशङ्कमवगाहमाना दानवेषु, प्रहरन्तः परश्वधैः, कृन्तन्तः कुन्तैः, निपातयन्तः कृपाणिकाभिः, अभिघ्नन्तः शतघ्नीभिः खण्डयन्तो भिण्डिपालैः, अवकिरन्तः शरजालैः, अपविध्यन्तः शक्तिशूलैः, क्षिण्वन्तः क्षेपणिकाभिः, अवबध्नन्तः पाशैः, अभिमृद्नन्तः परिघैः, आकर्षन्तो लाङ्गलैः, आविध्यन्तो मुसलैः, अपहरन्तो जयध्वजान्, अवभिन्दन्तो वारवाणान्, विच्छिन्दन्तो धनुर्गुणान् विस्रंसयन्तः सारथीन्, प्रवर्तयन्तो रक्तवाहिनीः, परितोषयन्तः कटपूतनाः, लिम्पन्तः शरीराणि रक्तधाराभिः, आवेष्टयन्तः करेष्वान्त्रमालिकाः, परिक्रामन्तोमुण्डमण्डलेषु, परिस्खलन्तः कबन्धेषु, अपश्यन्तः पुत्रानपि रणे हतान्, अतृप्यन्तो यूथंयूथमपि निपात्य प्रतिभटान्, अप्रतिभटा विबुधटाःसाफल्यमनैषुरक्षिसाहस्रममरपतेः। आदिश्य च ततः शतमन्युरन्तकमग्रतः सेनामुखे, पार्श्वयोरस्यपवनपावकौ, पृष्ठतः स्वस्य पुण्यजनेश्वरं, अन्तिक एव धनदमाहवशूरान्
कटपूतनाः पिशाचविशेषाः।
सभाजयितुं, अध्वनि शिबिरे च विद्विषामपांपतिं, आयुधक्षतान् भिषजयितुमाश्विनेयौ, निशीथयोधिनीनां वैरिवरूथिनीनां निशैव माभूदिति सन्ततवासरभावाय सहस्रभानुमप्यभितः प्रकाशितुं, प्रतीक्षमाणोऽपि जयश्रियं, परिशङ्कमानश्चेतसि तापसशापविपाकमाकस्मिकं, किमप्यलीकनभोविभागसीमाधिपत्यलक्षणांलक्ष्मीमुद्दिश्य कलहायमानयोरमरासुरवाहिन्योरज्ञानविजृम्भितोपालम्भसंभवमट्टहासमिव परमेष्ठिनोघनस्तनितमनभ्र एव दारुणमशृणोत्। प्रहितोऽपि सेनामुखे पवनः पदे पदे यदावेद्यमावेदयितुमाववृते तदेव तस्य प्रतिकूलपवनलक्षणं दुर्निमित्तं परिणेमे। अस्रंसत च करादस्य दम्भोलिः, तदप्यायुधविस्रंसनमशनिपतनं चेति द्वेधा बभूव दुश्शकुनम्॥
अत्रान्तरे रणहतोभयसैन्ययोध-
निर्भिन्नमण्डलतया तपनः समन्तात्।
उद्दामदानवधनुर्गलदुत्प्रबन्ध-
नाराचदारिततया च शनैस्तिरोऽभूत्॥३३॥
अतिप्रबन्धादिषुजालवृष्टेरपक्रमाच्च द्युमणेरकाण्डे।
** आसीत्तमिस्रा जयदा रिपूणां पचेलिमा भाग्यपरम्परेव॥३४**
तत्क्षणं च पुनरनुक्षणोपचीयमानममरबलं, अपक्षीयमाणमात्मबलं च निरीक्षितुमप्यतितिक्षवः, तरक्षव इव बुभुक्षिताः, दन्दशूका इव दण्डघट्टिताः, बलिबाणशम्बरजम्भनमुचिविरोचनमुखा महासुराः सरभसमवमुच्य वारवाणं, अवबध्यगोधाङ्गुलित्राणं, अपिनह्य निषङ्गमक्षयशरपूरितोत्सङ्गं, अधिरुह्य शताङ्गमायोजितखरतुरङ्गं, आबध्य निटिलेषु भ्रुकुटीविभङ्गं, आसेव्य वीरपाणं, आलम्ब्य संशप्तकव्रतं, अनुज्ञाप्य परस्परं, आपूरयन्तो दिङ्मुखानि गुणध्वनिभिः, अवभ्रंशयन्तो गगनतलादुडून्यट्टहासैः, विसंज्ञयन्तः खड्गविच्छुरणेन वीक्षितुमागतानि सिद्धचारणमण्डलानि, विस्मापयन्तः समरसंरम्भेणैव कर्मन्दिनमपि कलहानन्दिनं, उत्सारयन्तः पादातमूरुवेगेन, परिचूर्णयन्तो रथान्परिघाभिघातैः, विद्रावयन्तो हयान् करतालिकाभिः, विधूर्णयन्तोमतङ्गजानङ्गुलीयन्त्रणेन, संवर्तमारुतावर्तितसागरगर्त दुर्दर्शवक्त्रविवरोल्लसल्लेलिहाननिजरसनावलोकनजनितसाध्वसध्वस्तचेतनमासाद्य सेनामुखे निविष्टमन्तकं, अपहृत्य तदीयमेव कालदण्डममोघं अभिहत्य तेनैव तं, आदिमं जयसापेदिरे॥
कालदण्डहतस्यास्य कण्ठे प्राणा जुघूर्णिरे।
अन्तकं यद्धतं नेतुमन्तकोऽन्यो न विद्यते॥३५॥
पार्श्वतस्तस्य परे केचिदतिचिरोपरोधसंवर्धितप्रतिघानलव्यतिकरविशेषभाषणज्वालाकलापदुरापमपि परिवृत्य जातवेदसं, प्रशमय्य परुषहुंकारभयकरैर्मुखमारुतैरस्य दुःसहं ज्योतिः, अपकृष्य वाहनं मेषमग्रचरणग्राहं, आहृत्य शक्तिमपि बलादस्य हस्ततलान्, ‘अरे रे लब्धोऽयमन्नहरः क्रतुभुजां हव्यवाहो नाम।
** संशप्तकास्तु** समयात्मंग्रामादनिवर्तिन।
निर्जरापशदः, तदद्य निर्वापयतैनमुदकुम्भैः, निक्षिपतैनमापूपिकानां वशे महानसेषु, मैवं मैवमुद्बोधयतैनमुचि तैर्मुखमारुतैः, हस्ते कुरुत चैनमद्यैव दग्धुममरावतीं, परित्यजत रे रे बालिशाबाडवोऽयं शिखां प्रदर्शयति’ इति परिहसन्तः परिक्षिपन्तस्तर्जयन्तस्ताडयन्तश्चपलाययामासुरसुरभटाः। ततः समित्याहितमसुरभटैस्तदत्याहितमालक्ष्य सख्युराशुशुक्षणेः, क्षणेन सज्जीभूय भूयसा वेगेन सव्यापसव्यानि संचरन्मण्डलानि, चण्डलाघवोत्क्षिप्ततरुकाण्डपण्डसाहिण्डमानोपलखण्डताण्डवोद्दण्डं, अतिसंभ्रमभ्रमितपां सुमांसलतृगपूलमंघसंगतकङ्कगृध्रवायसादिहङ्गमं, अतिविशङ्कटशंकरशिरोघटितविकटजटाजूटसंकटभ्रमदभ्र रिमरिज्जलनिर्झरझलझलघोषभीण्णझकारसुखरितनभोविभागं, आलम्ब्य युगविगमोचितं रूपं, आपतन्नसुरबले, विघूर्णयन् जीर्णपर्णमिव दिक्षु विदिक्षु चाश्वीयं, अवचूर्णयन् रथषण्डमारण्यमिव तरुकाण्डं अवकिरन्नुपलखण्डानिव मदोच्चण्डानपि वेतण्डान्, अन्धीकुर्वन्पदातिजातं, अवरुन्धन् सेनापतीन्, परावर्तयन्नस्त्रशस्त्राणि, प्रभञ्जयन्नज्जसैव जयध्वजान्, परिस्खलयन्महासुररानपि, संवर्त इव मारुतः समरसीमनि सर्वतोऽप्यक्रमेण पराचक्रमे। यावदित्थमस्पन्दत गन्धवाहःतावदावर्तितलोचनो विरोचनः, प्रकटितसमराडम्बरः शम्बरः मावष्टम्भो जम्भः, समरमदोल्बणो बाणः, संग्रामैकरुचिर्नमुचिः अतिबली च बलिःआलक्ष्य वक्त्राणि
बाडवःब्राह्मणःऔर्वाग्निश्च। ‘अत्याहित महाभीतिः’इत्यमरः।
अश्वीय अश्वसमूहः। पराचक्रमे उपपराभ्यामित्यात्मनेपदम्।
परस्परं, ईषदिव स्मयमानाः, विस्मयमानाः पराक्रमे विबुधानामिदमूचिरे। हन्त कथममरा अपि पराक्रमन्ते तेषु च दूत्योचितसंचारमन्थरः श्वा मातरिश्वा॥
संरुन्धते निभृतमन्तरपि द्विजा य-
मन्नं यमाहुरपि कीटसरीसृपाणाम्।
यो जायते शिथिलशूर्पपरिभ्रमैर-
प्योजायते5 कथमसावपि गन्धवाहः॥३६॥
अथवा नैनावदस्मिन्नभिनिवेष्टव्यमस्माभिः। अनुकूल एव खल्वयमस्माकमाशुगानलज्वालासंधुक्षणे सर्वथापि॥
यचेष्टतेऽवकाशेषु ये चाप्येनं समाश्रिताः।
निरुन्धीमहि तान् सर्वानीरन्ध्रे शरपञ्जरे॥३७॥
इति कतिपये दैत्या वात्यानिबर्हणकौतुका-
द्धनुरनुगुणं यावज्ज्यावल्लिभिः सह युञ्जते।
प्रसभमभितस्तावत्सावज्रदैत्यभटोज्झिता
दिशि दिशि जगत्प्राणप्राणच्छिदो न्यपतञ्छराः॥३८॥
वाय्वर्कशक्रवरुणानलदैवतान्य-
प्यस्त्राणि निर्जरवरैरभिमन्त्रितानि।
ईशांवभूवुरसुरेषु न शासनानि
राज्यच्युतस्य नृपतेरिव नागरेषु॥३९॥
दनुजभुजविकृष्टकोदण्डदण्डोपसंपातुक–
ज्वलदनलदुरापनाराचधारासमीराहताः।
युगविगमसमुच्चलच्चण्डचण्डीशभूषोरग–
प्रतिभयमुखवातजातां दशामुज्जगुर्निर्जराः॥४०॥
प्रचण्डे च वलति पवमाने, तूलवदुत्सार्यमाणेषु दूरत एव वारिधरेषु, सागरानपि शोषयतस्तस्य सनीडमागन्तुमनीहमानेषु6 च यादोगणेषु, स्वात्मैकशेषतया भग्नचेताः प्रचेताः, प्राकृतलोकसाधारणस्तटस्थ एव बहिरवतस्थे। अपि च रिपुचमूसमूहसमुत्सृज्यमानशरवर्षधर्पितेषु वर्मसु, भिद्यमानेषु चर्मसु, कर्मदेवाः ‘कस्मादयमस्माकमाकस्मिको बुद्धिविपर्ययः, कस्मै वयमसुरैर्युध्यामहे, कस्य हेतोर्वध्यामहे, बुध्यामहे न हेतुमस्मिन्नायासे, के नो देवाःके च नो दानवाः, सभृत्य तपांसि दुश्चराणि संप्राप्ता वयममरपदं, केन शक्या निग्रहीतुं, केन शक्या अनुग्रहीतुं, अधिष्ठास्यति यः स्वर्गं, अतिथयस्तस्य वयं भवाम’ इति कृतनिश्चयाः संमन्त्र्य परस्परं संघशोऽपचक्रमुः समन्ततोऽपि समरमुखात्। अथ ये केचिदाहवमखे हुतशरीरा दनुजवीरा देवभावमापद्य दिवमारूढा गूढाभिसंधयस्ते किल सहृदया इव कंचित्कालमहृदया एव परिक्रम्य, परिज्ञातमर्माणः सर्वतो निर्वापयामासुरतर्किता एव गीर्वाणबलम्।अपसरतः कर्मदेवान्, अभिघ्नतो दैत्यदेवान्, आपततः शरानाशीविषानिव दृष्टिविपान, उत्सर्पतो विशृङ्खलमसुरभटानुल्लङ्घितिवेलानिव कल्लोलान्महोदधेः,अप्रभवतः सेनापतीन्, अप्रतिपत्तिमूढमपि पश्यन्तः स्वामिनं, अपश्यन्तस्त्रातारं, अवशा देवमुनिशापतेजसा प्रविश्य हृदयानि प्रक्षोभ्यमाणाः, स्तब्धा इव, मुग्धा इव, दग्धा इव विषानलैः, दिग्धा इव मोहनचूर्णैः, लुब्धाः परं जीवितेषु, लब्धामपि जयश्रियं चिरादीपद्विवेकसुनियन्त्रणेन क्षणिकदुर्मन्त्रणेन विनाशयन्तः, पश्यन्तोऽप्यचक्षुषः, शृण्वन्तोऽपि बधिराः, जानन्तोऽपि जडाः, परिगृहीता इव दुर्यशसा, परिष्वक्ता इव भाग्यविपर्ययेन, विस्मृत्य कुलशीलानि, विसृज्य निःशेषमपत्रपां अवरोप्य निषङ्गं, आवेशयन्तः पृष्ठतो बुद्धिंअवमुच्य जयायुधानि, आददाना भिक्षाकपालानि पाणिभिः, आसर्गादा च महाप्रलयादध्वरहविभिरेव द्विजन्मनाम विश्रान्तपरिपुष्टतयेव प्राप्ते समरे सायुधाश्च, सवाहनाश्च सैकता इव सेतवः, सर्वतोऽपि विजघटिरे विबुधभटाः॥
धावद्दैवतयोधयूथपदवीसंरोधकौतूहल-
क्रामड्डामरघोरवैरिपरिषन्नासीरसीमोद्भवैः।
भेरीभांकरणैरमर्त्यनगरीसंवर्तमौहूर्तिकैः
संभ्रान्ताः प्रतिपेदिरे युधि निवृत्ताशा दिगीशा दिशः॥
वल्मीकेष्वहयोवसन्ति मुनयो घोराः समीराशनाः
कान्तारेषु च कन्दरेषु लवणे सिन्धौ क्व वातस्थितिः।
आक्रान्ते भुवने परैस्तृणमपि स्प्रष्टुं न शक्यं मया
किं कर्तव्यमिति व्यलीयत जवाद्दैत्या शुगेष्वाशुगः॥४२॥
अनन्तरमित्थमतर्कितमनिमित्तमपध्वंसमानमसुरबलमभितोऽपि विप्रकीर्णमिव भुवि निपत्य गगनतलं परिव हदिवभिन्नमर्यादमर्णवस्रोतः, शतशः परीक्षितमपि सौहार्देसहस्रशोगृहीतजयमपि समरसंमर्दे, कदाप्यशिक्षितायुधग्रहमिव अनाकर्णितसंग्रामसंकथमिव, वायसयूथमिव, वानरानीकमिव, केरलसैन्यमिव, ग्रामपालकजालमिव, करतालिकामात्रकातरममर्त्यबलमप्यालोकयन्, दशभिः शतैरक्ष्णांवासवः स्वयमेवमा लोचयामास। अहो दुर्वाससो ब्राह्मण्यं, अहो निगमागमप्रामाण्य अहो पाशुपतेषु माहात्म्यं, अहो दुर्निमित्तेषु याथार्थ्यं, अहोकर्मपरिणतेः प्राबल्यं, अहो देहिषु श्रियश्चाञ्चल्यं, अहो पुरुषकारस्य वैफल्यं, अहो परमेष्ठिनः कौशल्यं, आहवो नाम कियानयं, असुरा नाम कियन्त इमे, कीदृशाः पलायन्ते, कीदृशाःपराक्रमन्ते, किं बन्धुभिः, किं सचिवैः, किं बलेन, किं धनेन,किमनेन दम्भोलिना, किमन्ततोऽपि मया, कथं दृश्यादाराःकथं दृश्याः पौराः, किमितोनिहतेन जीवितेन, किं करिष्यतिविपरीतो विधिरितोऽपि, न चिकीर्षामि सौवर्गमाधिपत्यं, जिहीर्षाभिदानवानामौद्धत्यं, यावदीदृशोऽहं न कस्यचिदृष्टिगोचरे पतेयं तावदस्मिन्नेव समरे तनुं त्यजामीति सन्नह्यपुरश्चरन् शचीपतिरशृणोदन्तरिक्षगां वाणीम्॥
अहो ते शक्र धीमान्द्यमग्रे भाव्यं किलान्यथा।
अन्तर्धेहि रणादस्मादन्तर्धेहि च मद्गिरम्॥४३॥
इत्याकाशगिरा शक्रोमत्या च क्रूरया स्वया।
यावड्डोलायते तावदागत्याबोधयद्गुरुः॥४४॥
हन्त कथमेतदमरपते धीमतोऽपि ते दुर्व्यवसितम्। अविदितं न ते वेदितव्यं, अवशेषितं वा गुरूणामुपासनं, किं न जानासिभवितव्यतां, किं वाभिमन्यसे जयश्रियो नैयत्यम्।ननु श्रूयत एव पुराणेषु भवता, यत्किल मालिसुमालिसङ्गरे महति परिवर्तमाने पराचीने पतगपतौ भगवतापि पराववृते। अन्धकेन किलेदमधिष्ठितं त्रैलोक्यम्,विध्यण्डान्येव कियन्ति विजितानि तारकेण। तदलमनुस्मर शापान्तवचनमत्याश्रमस्य मुनेः। भवेयुरपि कदाचिदन्यथा भाषितानि महेश्वरस्य, न तु जातु माहेश्वराणाम्। यत्पुरोदितं गोविन्द एव कुशलानि करिष्यतीति महर्षिणा, तदनूदितमग्रे भवितव्यमन्यथेत्यधुना परमेष्ठिना। तदेहि कंचित्कालमन्तर्हिता एव क्वचिदावसाम इत्यनुशिष्य शिष्यमन्तर्धाप्य स्वयोगमायया तिरोदधे स्वयमपि देशिको देवतानाम्॥
विद्राणे वरुणे गते हुतवहे वैवस्वते मूर्च्छिते
सद्यो लोचनगोचरादपगते संक्रन्दनस्यन्दने।
संवर्तव्यतिषक्तसप्तजलधिस्रोतःप्रभूतध्वनि-
स्फारः कोऽपि बभूव दानवबले हर्षाट्टहासध्वनिः॥४५॥
चकितपलायितस्खलितमूर्च्छितनिष्पतित-
क्षतविबुधानुधावननिषेधिमहारथिकम्।
विजहि जहीहि पाहि निगृहाण गृहाण हरे-
त्युपचितनादमेदुरमवर्तत दैत्यबलम्॥४६॥
अपिच —
आवृत्यावर्तयन्तो दिशि दिशि तुरगान्वारणान्वारयन्तो
मुष्णन्तो भूषणानि प्रसभमभिनिपत्यायुधान्याहरन्तः।
घ्नन्तःसंतर्जयन्तः पथि पथि विबुधान्मुक्तकेशान्दिगीशा-
नभ्येत्यामन्त्रयन्तः प्रजहसुरसुराः सर्वतो निर्विशङ्कम्॥४७॥
किंच —
शस्त्राशस्त्रिक्षतपतिसुता लोकशोकावलुप्त-
प्राणस्त्रैणव्रजमशरणध्वस्तलुप्तापणान्तम्।
धावद्देवप्रवरसमरोदन्तयाथार्थ्यबोध-
भ्राम्यत्पौरं नगरमभवज्जर्जरं निर्जराणाम्॥४८॥
ततो मुहूर्तादेव मूर्ताइव कोपानलविस्फुलिङ्गा मुनेर्बलिमुखा मखद्विषःपराक्रमेण महता परिक्रामन्तस्तिरोहिते मरुत्वति द्रागेव रणमूर्धनि पलायित इति प्रमीत इति प्रविष्टोऽमरावतीमिति च तादात्विकैः प्रवादभेदैस्तत्वमनवबुध्यमाना अपि, भवतु नाम सर्वथैव वयं प्रविशेम तावदमरावतीं, परिशोधयेम ततः प्रवृत्ति शचीपतेः, अपहरेम सुरकामिनीः, अवस्कन्देम कोशमन्दिरं, अधितिष्ठेम सुधर्मां, आक्रामेम त्रैलोक्यमिति
४८. शस्त्रेण शस्त्रेण प्रहृत्य प्रवृत्तमिदं युद्धं शस्त्राशस्त्रि। स्त्रीणां समूहः स्त्रेणम्।
कृतनिश्चयाः, कल्पद्रुमा बलेः, कामधेनुर्बाणस्य, हास्तिकं नमुचेः, अश्वीयं शम्बरस्य, चिन्तामणिर्जम्भस्य, विलासिन्यो विरोचनस्य, वारुणं पदमस्य, वायवीयं तस्य, वैश्रवणीयममुष्य, वैश्वानरीयमेतस्य, प्रविष्टं प्रवेष्टुः, अपहृत्य लब्धमपहर्तुः, प्रहृत्य लब्धं प्रहर्तुः, आलोकितुरालोकितं, उपायवक्तुरर्धं, उत्तरसाधकस्य तदर्ध, समसमयप्रवृत्तयोस्तु साधारणं वस्तु, परतस्तु यथारुचि परस्परच्छन्देनेति समयबन्धेन पर्यवस्थाप्य पताकिनीं, आरुह्य मतङ्गजानत्युन्नतान्, आलोकयन्तो नगरोपशल्यानि, प्रशंसन्तः प्राकारदुर्गसामग्रीं, परिहसन्तो बुद्धिलाघवं प्रतिद्वन्द्विनां, निर्दया विपक्षजातीयेषु निर्विशङ्का दुर्गगुल्मेषु, ग्राहयन्तो वधूदर्श, घातयन्तः पुरुषदर्शं, आकर्णयन्तः कर्णामृतान्याक्रन्दितानि नाकसदां, हसन्तो दर्शदर्शमशरणान्वध्यमानान्, कुप्यन्तो दयालुषु, कुतूहलिनो दारुणेषु, विसर्जयन्तो नैर्ऋतीयान् जात्यभिमानेन, विद्रावयन्तः कर्मदेवानट्टहासैः, उन्माथयन्तो गोपुरद्वारं, उल्लङ्घयन्तः प्राकारं, अपश्यन्तः शरणागतान्, अशृण्वन्तो याच्ञाक्षराणि सुरर्षीणां, आज्ञापयन्तो जिह्वाच्छेदममरमौहूर्तिकानां, चरणावकर्तनं चाराणां, चपेटाघातं मौहूर्तिकानां,अङ्गुलिच्छेदमक्षरलेखिनां, आस्यविदारणममात्यानां, भञ्जयन्तःप्रतिमा देवतानां, अपमार्जयन्तः सुरपराक्रममालेख्यसमर्पितं, अशरणहन्यमानरक्तधारावसिक्तंअग्रचरणग्राहमाकृष्यमाणमुनिजनशरीर-
हस्तिनां समूहः हास्तिकम्। ग्रामान्तमुपशल्य स्यादित्यमर। वधूमिव दृष्ट्वा वधूदर्शम्।पुरुषमिव दृष्ट्वा पुरुषदर्शम्। दर्शं दर्शं पुनः पुनर्दृष्ट्वा।
संसृष्टं, अनुपददह्यमानदेवतागारधूमधूपितं अपकृष्यमाणकुलपालिकाजनाहन्यमानमुखवाद्यनादमेदुरं, अपहृतसर्वस्वदीनजनाक्रोशज याशीर्वचोमुखरं, आकस्मिकपतदशनिनिर्घोषनिर्वर्तितलोहयन्त्रनिनादमङ्गलं, अभितःपतदुल्कासहस्रदीपमालापरिष्कृतमनुप्रविश्य नगरं अभिवन्द्य पुरोधसं भार्गवं, अपक्रान्तहर्यक्षमेरुगुहासधर्मांसुधर्मामध्यासांचक्रिरे। आसीनाः क्षणममरसभान्तरे, परिष्वज्यमानाः परस्परं, प्रशस्यमाना वन्दिमागधैः, अभिनन्द्यमानाःकुलवृद्धैः, अनुगृह्यमाणा भार्गवेण, निष्क्रम्य ततो बहिरचिरपरिगृहीतविजयेन्दिरापरिरम्भसंभृ तकुचकुम्भकुङ्कुमक्षोदैरिव सेनारजोभिरभिरञ्जिताः, निरङ्कुशचंक्रम्यमाणविशृङ्खलदैत्यसंघवाहावलोन्मुक्तहाहारवमालक्ष्य सर्वतो नगरं, उल्लोलजलधिकल्लोलहल्लोहलशमनशीलया वेलयेव तनीयस्या विरमतेति कयाचिदेवाज्ञया चिरलब्धसुस्थमिव पर्यवस्थाप्य नगरं, क्षणादाघोषयामासुरास्कन्दनोपरमजयकाहलीम्।आदिष्टाश्च दिक्पालपदेष्वसुरवराः स्वयमनतिक्रामन्तो धर्ममौशनसं, अनुल्लङ्घमाना बलेः शासनं, अनुवर्तमाना हिरण्याक्षदर्शितां सरणि, अवलुम्पन्तो वैदिकं पन्थानं, अप्रमत्ताः स्वं स्वमधिकारमनुपालयांचक्रिरे॥
देवद्विषश्चिरतरं निरयेषु मग्ना-
नुत्तार्य दैवतपदेषु निवेशयन्तः।
रक्षोघ्नमन्त्रकुशलाञ्छतशो महर्षीन्
प्रत्यक्षिपन्नरकवेश्मसु दैत्यदूताः॥४९॥
ब्रह्मर्षयोऽपि दनुजेन्द्रसभां प्रविष्टा
मन्त्राक्षराणि मघवादिपदाङ्कितानि।
ऊहेन दानवपदान्युपवेशयन्तो
हर्षाय पेठुरसुरेन्द्रपुरोहितानाम्॥५०॥
विद्वांसः प्रथमेऽभवन्विवसनाः सौत्रान्तिकाः साधवो
मुख्या माध्यमिकास्त्रिलोकगुरवश्चार्वाकतन्त्रे स्थिताः।
पाषण्डा निगमागमव्यसनिनः कालः कलिः शाश्वतो
दैत्ये शासति देवराज्यमजनि त्रैलोक्यमित्थं तदा॥५१॥
अपक्रान्तश्च तदा शचीपतिः, अभिगम्य सह सर्वैः सुपर्वभिरखिलभुवनसुन्दरं मन्दरं शैलमनुज्ञया बृहस्पतेः अन्तर्हित एव कतिचिदतिवाहयामास वर्षगणान्॥
इति श्रीमद्भरद्वाजकुलजलधिकास्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक-
शतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षित-
सोदर्यश्रीमदाच्चान्दीक्षितपौत्रेण नारायणदीक्षितात्मजेन
श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन
विरचिते श्रीनीलकण्ठविजये चम्पूकाव्ये
प्रथम आश्वासः॥
**५०.**ऊहो नाम प्रकृतावन्यथा दृष्टस्य मन्त्रस्य विकृतावन्यथाभावः। यथा —प्रकृतावाग्नेयचरुनिर्वापे विनियुक्तस्य ‘अग्नये त्वा जुष्टं निर्वपामि’ इति मन्त्रस्य विकृतौ सूर्यचरौ ‘सूर्याय त्वाजुष्ट निर्वपाम’ इत्यूह। एवं ‘इन्द्राय स्वाहा वरुणाय स्वाहा प्रजापतये स्वाहा’ इत्यादिमन्त्राणा ‘हिरण्याय स्वाहा बलये खाहा नमुचये स्वाहा’ इत्यादिविपरिणामेन ब्रह्मर्षिभिरूहः कृत॥
५१. विवसनाः(दिगम्बरा) सौत्रान्तिका माध्यमिकाश्च बौद्धविशेषाः॥
द्वितीयाश्वासः।
ततः शतमखादयो युधि विरोधिभिर्निर्जितां
श्रियं पुनरभीप्सवः ऋतुभुजो भुजोपार्जिताम्।
विचित्रमणिसुन्दरं विपुलकन्दरं मन्दरं
समेत्य तपसानयन्निमिषवत्सहस्रं समाः॥१॥
तत्र च वसतां तपोधनानामध्वरहविर्भागमपहरत्सु दूतमुखेन दानवेषुअकाले वा यष्टुमयज्ञेन वा रहसि प्रदातुमभ्यर्थनयाप्यसंमन्यमानेषु शास्त्रैकशरणेषु तापसेषु तप्यमानाः क्षुधा विबुधाः, हुत्वा हवींषि हुतवहे, दत्तानि तेनैव पुनस्तान्युपयुञ्जानाः कालं महान्तमतिवाहयांचक्रिरे। अपरे पुनः केचिदतिवेलश्रद्धामात्रशरणानधिगम्य मूर्खान् अमुनैव शरीरेण दिवमारोपयामो भवतः सबान्धवान्, अत्रैवानीय दर्शयिष्यामः सुरसुन्दरीरिति प्रलोभयन्तः, पशुपक्षिसुराकुम्भपायसापूपप्रचुरानलभन्त महोपहारान्। अपि च पुनरवरूढान् कर्मक्षये दिवः कर्मदेवानावृत्य ‘किं कुर्वन्ति दानवाः, किं वदन्त्यस्मान् कथाप्रसङ्गेषु, किमितिवृत्तमेषामनुमतं पितामहेन किं वा न तदवतीर्णमद्यापि तस्य कर्णपथं, किमाहुरसुरमौहूर्तिकाः, कीदृशो भार्गवस्य वृत्तान्तः, कथमास्ते वैजयन्तः, कस्य वशे नन्दनोद्यानं, उद्वान्तश्चतुर्दन्त इति श्रुतं, उच्चैश्श्रवसः प्रवृत्तिमेव नोपलभामहे’
चतुर्दन्तः ऐरावतः। उद्वान्तः निर्मदः। ‘समावुद्वान्तनिर्मदौ’ इत्यमरः।
इत्यनुयुञ्जानाश्चकितचकितमवलोक्य समन्ततः, किंच ब्रह्मलोकगमनोचितान्महर्षीन्मुमूर्षतः परीत्य परिहरन्तः प्रायणक्लेशमपि वरदानैः, निवेदयत प्रसङ्गेन नः कष्टामिमां दशां भगवति पितामहे, न विस्मरतास्मभ्यर्थनामध्यात्मविचारव्यासङ्गेनेत्युद्वोधयन्तः, स्वयमस्वप्नतया स्वप्नदृशस्तपोधनान् परिपृच्छन्तः पर्यवसानं मुनिशापस्य, निन्दन्तः स्वानि जन्मानि, निःश्वसन्तो दीर्घमुष्णं च मुहुर्मुहुः, वलाहकमिव चातकाः, वाचस्पतेरागमनमाकाङ्क्षन्तश्चिरमवतस्थिरे॥
**अत्रान्तरे सुरगुरुर्दुरितं सुराणा- **
**मल्पावशेषमवयन्प्रणिधानयोगात्। **
**अभ्येत्य निर्जरवरैरभिवन्द्य भक्त्या **
**पर्यावृतः सदसि किंचिदिदं बभाषे॥२॥ **
‘दिष्ट्याकुशलिनो वश्चिरादद्राक्षम्। दिष्ट्याचोत्तीर्णप्रायोऽयमापदर्णवः। दिष्ट्याच दुर्लभमिदं तपोवनमहो भवद्भिरासादितम्। वाराणसीव भारते वर्षे दयितं गौरीदयितस्य परमभिदमेवायतनमिलावृते। आरसातलादा च शान्त्यतीतकला-
स्वप्नदृशः स्वप्नाध्यायविदः॥
२. अवयन् अवपूर्वक-इण धातोः शत्रन्तप्रयोगः॥
निवृत्ति - प्रतिष्ठा - विद्या - शान्ति - अतीतशान्तय कलाः क्रमेण पृथिव्यप्तेजोमरुदाकाशेषु पर्यवस्थिताः। तदुक्तम्—भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा विद्याऽनले मरुति शान्तिरतीतशान्तिः। व्योम्नीति याः किल कलाः कलयन्ति
भुवनात्सन्ति महान्तिस्थानानि सर्वागमविदितानि परश्शतानि भवानीपतेः। परं तुमन्दर इव तस्य दृशांन किञ्चन सुन्दरमन्यदायतनम्। अन्यत्रपञ्चतपसोऽपि मुनेरावसथेषु शांभवेषु स्वैरचारी विशिष्यत इति श्रुतमेव भवद्भिरपि वृद्धमुखात्। अमृतप्राप्तिहेतुश्चायमस्मादृशामिव भवादृशामपिशैलराजः। किं बहुना—
कालोऽत्यगादशुभहेतुरुपस्थितं वः
कल्याणमद्य न चिरादिति भामते नः।
उत्तिष्ठतोच्चलत याम तु धाम धातु-
रुष्ट्रासिकाभिरधुना किमनर्थिकाभिः॥३॥
इति प्रवृत्तया भाविमहासंविधानलभ्ययापि भाग्यवशादधुनैव स्वतो लब्धया सुधयेव वाचा वाचस्पतेराप्यायितः सुरपतिरिदमाचचक्षे —‘अद्यैतत्पावनमजनि तपोवनं, अद्य नस्तपांसि परिपेचिरे, प्रशेमुरद्य नः कलुषाणि, पर्युपास्थिषत मङ्गलानि, परथा कथं भवदीयानां पालीभवेम शासनाक्षराणाम्॥
विश्वं तासा हि दूरतरमम्ब पद त्वदीयम्॥ शान्ति शान्तिनामकलामतीता अतिक्रान्ता शान्त्यतीता। तस्याकलाया भवनं आकाशं तदभिव्याप्य आ शान्त्यतीतकलाभवनात्॥
अन्यत्रेति॥ शिवक्षेत्रेषु स्वैरचारस्य फलमाह सूतमहिताया शिवमाहात्म्यखण्डे चिदम्बरमाहात्म्ये —अन्यत्र पञ्चतपसो मुनेर्वाताशनादपि। श्रीमद्दक्षिणकैलासे खैरचारी विशिष्यते॥इति॥
अमृतस्य मोक्षस्य सुधायाश्च प्राप्तिहेतुः। अयं मन्दरपर्वतः। अस्मादृशा अधीतश्रुत्यन्ताना ब्राह्मणानामिव। भवादृशा देवानामपि॥
चेतो यद्भवतश्चिरंतनवचःसंदर्भगर्भस्थिते
वरतुन्यस्तमितप्रपञ्चमलिनिम्न्यामज्जमामज्जति।
तद्दुर्मोचतमोविमोहितमतिष्वस्मास्वकस्मादिदं
सक्तं यत्पशुषु द्विपात्स्वपि ततो धन्या वयं न्यायतः॥४॥
किंबहुना अद्य भवत्संभावनासंपादितस्यानन्दस्य परं पारमपश्यन्तो वयमस्मदानन्दादनेकशतगुणं भवदानन्दमुपपादयन्ती भगवतीं श्रुतिमपि न विस्रम्भामहे।आजानतो हि राजानः कदाचिदाक्रामन्ति परानाक्रम्यन्ते च तैरिति चक्रनेमिक्रमः सर्वजनीन एव। तदपि भवदीया जयन्त्येव न जीयन्त इत्यैकान्त्यमनुसंदधतो वयमियदपत्रपामहे व्यथामहे च। भवतः पुनरीषत्करोऽस्मदनुग्रहः संकल्पमावसाधनस्य। यथा हि भवज्जातीया एव भूमिचरान्दिवमारोपयितुं, दिविचरान्भुवमवरोपयितुं, आस्वादयितुं सुरापगां, आचमितुं सप्त सागरान्, विफलयितुं महास्त्राणि विष्टम्भयितुं विश्वंभरमपि प्रगल्भन्ते, तथा श्रुतिशतप्रतिपन्नयाथात्म्ये भवतो माहात्म्ये दण्डापूपि -
आनन्दतारतम्यमधिकृत्य तैत्तिरीयोपनिषदि आनन्दवल्ल्यामेवं श्रूयते—ते ये शतं देवानामानन्दाः स एक इन्द्रस्यानन्दः, श्रोत्रियस्य चाकामहतस्य। ते ये शतमिन्द्रस्यानन्दाः स एकां बृहस्पतेरानन्दः॥
भवज्जातीया एव विना एव भूमिचरान् दिवमारोपयितुं —यथा त्रिशङ्कुंविश्वामित्रः, दिविचरान्भुवमवरोपयितुं —यथा नहुषमगस्त्यः, आखादयितुं सुरापगा —यथा जह्रुः, आचमितुं सप्त सागरान् — यथागस्त्यः, विफलयितुं महास्त्राणि —यथा वसिष्ठः। निष्टम्भयितुं विश्वंभरं विष्णुं — यथा सनत्कुमार, प्रगल्भन्ते॥
कान्यायघण्टाघोष एव नः शरणम्। तदलं पल्लवितैर्वचोभिः अनुगृहाण स्वयमस्मान्, अस्ति यदि भक्तव्यसनानवलोकनसंकल्पः अथ साजात्याभिमानेन दुर्वासस एवं वचनं सत्यापयितुमध्यवसायस्तदेहि, यत्र निनीषमि तत्र नेष्यामहे, येनानुकम्पयिष्यसि तेनानुकम्यामहे, सर्वथा न्यस्तात्मानो वयं भवच्चरणे। किं करचरणे कदाचिदस्ति जिज्ञासा कीदृशस्तदभिप्राय इति न यदि किंकरजनेऽपि मादृशि तथेति मन्तव्यं’ इति कृतव्यवसायस्य सुत्राम्णो वचसि चित्रीयमाणश्चित्रशिखण्डिजः सममाखण्डलादिभिः सत्यलोकमभिप्रतस्थे। अमराश्च तमनुवर्तमानाः, वर्तमानाः पथि वैमानिकानां दैत्यदानवयातुधानाध्यासितानि सिद्धचारणविद्याधराद्यावसथानि विलङ्घ्य, ततोऽपिदूरादुत्सन्नकिन्नरीगानचातुर्यम्, उपशान्तगान्धर्वतौर्यमौखर्यम्, असंभावितकर्मदेवसंमर्द, अनाशङ्कनीयब्रह्मर्षिसंचारसंकथं, अतिनीचरक्षःपिशाचमदिरागण्डूषदूषितमन्दाकिनीतीरतरुपण्डगूढचरदेवर्षिमण्डलम्, आखण्डलनगरोपशल्यमन्तःकरणशल्यमालोकयन्तः, पुरा हंसावतंसिनैः सर्वगामिभिरप्सरोजनतौर्यत्रिकालंकृतै र्विमानैरतिवाह्यमानतयाऽगृह्यमातत्तत्प्रदेशसौन्दर्यमगृह्यमाणद्राघिमाणमध्वानमधुना पद्भ्यामेवाक्रम्यमाणतया गृहीतविपरीतमतिक्रामन्तः, पदे पदे श्राम्यन्तः पथि, पथिकजनसाधारणमपि तत्तत्पदेष्वातिथ्यं गूढसंचारवशादलभमानाः, दानवसेनागतागतोचितान् कथंचिदतिलङ्घ्यकानपि कक्ष्याभेदान्दिवः,
‘जीव आङ्गीरसो वाचस्पतिश्चित्रशिखण्डिजः’ इत्यमरः॥
तपोभिरपि दुरापं तपोलोकसमीपमापेदिरे। प्रविष्टमात्राश्च ते परिहृतरजस्तमोगन्धानुबन्धतया परिणतसत्त्वैकसारेषु तत्रत्यवस्तुषु महीचरा इव महेन्द्रभोगेष्वदृष्टचरं विशेषमालक्षयन्तो विसिष्मियिरे। अपिचपुनरात्मविज्ञाननिरस्तावरणतया निःसीमविकसदकृत्रिमज्योतिषामधिकारमलक्षपणाय केवलमनुत्तरं योगैश्वर्यमनुभवतामत्रभवतांसनकसनन्दनसनत्कुमारादि महायोगिनां, मूकेष्विव वाग्मिनां, मूर्खेष्विव बुद्धिमतां, अन्धेष्विव चक्षुष्मतां अधनेष्विव महेश्वराणां, कीटेष्विव सरीसृपाणां, सरीसृपेष्विव चतुष्पदां, चतुष्पात्स्विव मानवानां, मानवेष्विव महीभृतां महीभृत्स्वव मरुतां, मरुत्स्विव मरुत्वतो, मरुत्वत्यपि पतन्तीमवज्ञामुकुलितां दृशमवलोकयन्तः शृण्वन्तश्च तेषामेव ‘हन्त वराकः शतमन्युर्नामायमेव परितोष्य यः शतेनाश्वमेधैरपि भगवन्तमिन्दुशेखरं प्रार्थयामास दानवामिषं स्वाराज्यम्। पश्यत पश्यत कुबेरमिमं पशुपाशविमोचिना पाशुपतव्रतेन समाराध्य परमात्मानं मखासि ममेत्यनुगृहीतोऽपि यः पिशाच इव धनपालतां वव्रे। किं बहुना —आत्मभूतोऽप्ययमष्टमूर्तेर्भगवतो वैश्वानरो विफलीकृत्य विवेकं, उपास्य चिरतरं कालमुमारमणमपि, आसाद्य हव्यवाहतामन्नहरोऽस्मि देवानामित्यभिमन्यते कृतकृत्यमात्मानम्। हन्त चिरादिमान् देवपशूनद्राक्ष्म॥
किं न निगृह्णन्ति मनः किं न भजन्ते जनाः शिवं शरणम्।
अभिसंधिभेदमात्रान्मोक्षो (क्षा?) पायेन बध्यन्ते॥५॥’
इत्यादीनि परिहासवचांसि, पश्यन्तस्तरतमभावमैश्वर्येषु, परित्यजन्तः स्वर्गाधिराज्यदुर्मदं, अपत्रपानष्टदृष्ट यः स्वयमाधिपत्यादस्मदीयादत्र भिक्षाटनं ज्याय इति मेनिरे॥
अथ सुरगुरुमागतं सशिष्यं
स्वयमवधार्य धिया सनत्कुमारः।
अपगततमसो महाप्रभावा-
नशिषदमुष्य सभाजनाय शिष्यान्॥६॥
प्रस्थिताश्च ते परस्परालापेषु, अथर्वशिखायवर्तकतामाङ्गिरसाख्ययोगरहस्यप्रवर्तकतामृग्यजुषोद्धुष्टप्रभाव तामप्यनुस्मृत्य, प्रशंसन्तो ब्रह्मपुत्रं भगवन्तं तमङ्गिरमं, प्रशसन्तश्च गूढचर्यारतं महर्षिं संवर्तशिवाचार्य मरुत्तानुग्रहवागणमीनिपेवणव्रताद्युपाख्यानेन, शंसन्तश्च संवर्तानुजमाङ्गिरससर्वतन्त्रेषु प्रवचनमारदर्शनप्रबन्धनिर्माणप्रतिभाव्यवहारकौशलैः, परिहरन्तश्चलोकायतिकतन्त्रतीर्थक रताप्रयुक्तमपकर्षमपि बाह्यतन्त्रप्रव र्तकपरमेश्वरनिदर्शनोपदर्शनेन, समागम्य यथाविधि संनताश्च स्वगुराविव सह शिष्यैः सुराचार्य सनत्कुमारसमीपमानिन्यिरे॥
सनत्कुमारेण समागमे गुरो-
निशाम्य वृत्ता विविधास्तदर्हणाः।
निशम्य वादेष्वथ चास्य चातुरीं
विशिष्य तस्मिन्नमरा विनेमिरे॥७॥
७ निशाम्य दृष्ट्वा, निशम्य श्रुत्वा॥
आङ्गिरसोऽपिप्रणम्य भक्या महत्या परमेष्ठिनमिव सनत्कुमारं, आवेद्य देवकार्यं, अनुज्ञाप्य च तेन पाकशासनं, अनुव्रज्य परिष्वज्य गाढं, आदिश्यचतुर्मुखोपसर्पणेतिकर्तव्यतां, अनुगृह्य शिवेन चेतसा, विसृष्टस्तेन, विनयातिशयादादृष्टिपथादादधानः शिरस्यञ्जलिं, आस्थाय महान्तं योगंआवर्तयन् प्रणवमेव, महासरैराससाद महतावधानेन हैरण्यगर्भमायतनम्। गच्छन्तः पथि—
वाग्देवीवदनारविन्दगलितब्रह्मोद्यविद्याशत-
ग्रन्थग्रन्थिविभेदजातकुतुकब्रह्मर्षिहर्षस्तवैः।
कर्णाभ्यर्णगतैर्निवृत्तनिखिलक्लेशा दिगीशास्तदा
निर्वव्रुर्न च वव्रुरव्रणमपि स्वर्गं पुनर्गाहितुम्॥८॥
अपि चाद्राक्षुरविदूर एव ते निरस्तरजस्तमोव्यतिकरतया निर्मलसत्त्वप्रकाशराशिमिव, निष्कलङ्कशशाङ्केष्टकासंघसंघटितमिव, निरन्तरज्वलदबिन्धनज्वालापरिवर्तपिण्डितदुग्धसागरोर्मिनिर्मितमिव, चिरनिपातघनीभूतशारदाशिरश्चन्द्रचन्द्रिकाविकीर्णनीहारसारसा धितमिव, त्रैविक्रमचरणाक्रमाविद्धविध्यण्डकपालनिरर्गलनिर्गलदलकनन्दानिपातधौतभिव, विमलभास्वरप्रभावभासितनभोविभागं, अपास्तकलङ्कानुषङ्गतयेव धूमादिमार्गचक्रमपङ्किलचरणपशुजनानाक्रमणीयंअशेषभुवनसर्गावशेषसारैरिव विलक्षणैः शब्दादिभिर्विपयै रुपस्कृतं, अनुश्रवमयैप्राकारैराभ्युदविकोपासनामयैर्गोपुरैरात्मोपासनामयीभिः कक्ष्याभिः प्रणवमयेन चास्थानमण्डपेन परिशोभितं, निजनिजकार्यनिवेदनावसरप्रतीक्षितत्तल्लोकाधिकारिकारितसंमर्दबहिर्द्वारवितर्दिकाभागं, आगन्तुकगन्धर्वकिन्नराप्सरस्समारब्धतौर्यत्रिकमौखर्यपूरितप्रथमकक्ष्यं, अनभिसंधिमत्कर्मयोगनिर्मलकर्मन्दिवृन्दपरिकर्मितद्वितीयकक्ष्यम्,अतिगहनन्यायसाङ्ख्ययोगादिदर्शनत्त्वावमर्शव्यसनकर्शितकणादकपिलपतञ्जलिप्रमुखविद्वदुद्दामजल्पकथाघोषभूषिततृतीयकक्ष्यं, अतिविचित्रतरत्रयीशिखरोपपादितोपासनाभेदवासनासनाथमुनियूथदर्शिताश्चर्यतुर्यकक्ष्यम्, अतिरहस्यवैश्वानरदहरादिविद्यापारचयानवद्यमहर्पिदर्शितोपासनाप्रपञ्चपञ्चमकक्ष्यं, अतिदूरविसृष्टदृष्टानुश्रविकविषयामिषरिरंसागन्धपरमहंसावतंसितषष्ठकक्ष्यम्, अतिचातुर्यपर्यवस्था पितानुश्रवतात्पर्यपर्यालोचनापनीतविपरीतान्वयशङ्काकलङ्कनिरङ्कुशकुशलजनालंकृसप्तमकक्ष्यं, प्रसंख्यानपरासंख्यभृग्वङ्गिरोवसिष्ठा दिगरिष्ठाधिकारिकमुनिमण्डलमण्डितास्थानमण्टपं, अपदं विपदां, अगोचरं वाचां, अनाशङ्कनीयमर्वाचां, अगम्यमाचारमात्रशरणैः, असाध्यमध्वरैः, अलभ्यमधिकैरपि तपोविपाकैः, दुरारोहं महादानैः, दुरवगाहमाहवसाहसैः, असंभावनीयं मनसापि स्वायंभुवं भवनम्॥
स्वाध्यायाध्ययनादृतेन विधिना दृष्ट्यापि नालोकिताः
सभ्यैः प्रत्युत सर्वभोगविमुखैरुत्सारिता दूरतः।
नृत्यन्त्यः सुरसुभ्रुवः परमधुस्तत्र व्यथां मानसी-
मानन्दैकपदेऽपि धामनि कलाकौशल्य वैफल्यतः॥९॥
अपि च—
प्राकारगोपुरविहारवितर्दिकानां
मूलेषु यत्र हरिनीलशिलाविभङ्गाः।
सक्ताश्चिरादिव जयन्ति युगान्तधूम-
संतानसंघटितसान्द्रमषीविलेपाः॥१०॥
प्रविशन्तश्च तमालयं, ‘ननु प्रातरागतस्य पुरुहूतनाम्नो दिवस्पतेः कतितमः पुरन्दरो नामायं’ इति पृच्छ्यमाना दौवारिकैर्निर्जरा बलवदन्तर्ललज्जिरे। अपि च गच्छतामन्तरेषामालक्ष्य गतिमतिमलीमसां, अधिगन्तव्याधिगमेन निर्वृताः सर्वतोऽपि महर्षयः कतिचित् ‘अतिचिरं कालमहो खलु वयमप्यमीषां सामीप्य मारूप्यगायुज्यसालोक्यसिद्धिमाशासाना नानाविधानि तपांमि वृथा चकृम’ इति विगर्हमाणाः स्वमात्मानं लज्जितानमरान् भूयोऽपि लज्जयांचक्रिरे। अथ भगवानाङ्गिरसो देवर्षिभिः परिष्वज्यमानः पदे पदे नारदादिभिः, प्रत्युद्गम्यमानो विद्वद्भिः पतञ्जलिप्रमुखैः, अभिवाद्यमानः सिद्धविद्याधरैः आनीयमानः सबहुमानमाप्तभृत्यैः परमेष्ठिनः परिवृतो देवैः परमाश्चर्यनिर्भरैः, प्रकृतिगुणैरिव परस्परयोगवियोगपरिणमद्भेदैरुच्चावचैर्मणिभिरुपरञ्जितं, उपर्यास्तीर्णहंसतूलिकातल्पकल्पितमहार्होपबर्हं, अहिंसानृशंस्यकोमलिमावर्जितशमदमाभोगमन्तःकरणमिव महायोगिनां, तालवृन्तचामरताम्बूलकरण्डकलाचिकाद्युपचारचतुरवरवर्णिनीजनन्यस्तवामहस्तवेष्टिततया व्याकोचाष्टदलात्मिकां व्यञ्जयदिव कमलासनतां त्रिभङ्गीसमुन्नततया त्रिवर्गातीतमिव सर्वतोभद्रं भद्रासनमधितिष्ठन्तं, समसमयसमुद्यदादित्यसहस्रभाखरैरर्केन्दुविद्युदनलरूपचतुस्तेजःसमुत्तम्भनायेव चतुर्दिक्षु निर्जिहानैस्तेजोभिरवलुम्पन्तमिव दिव्यमपि चक्षुर्दिवौकसां, संततव्यवहारसंसक्तचतुरागमाक्षरप्रेक्षणीयदन्तचन्द्रिकाविकासपरिहृतसंसारशार्चरैरायतापाङ्गरिङ्गन्दभङ्गुरकरुणातरङ्गमालाभिराचार्य काभिपेकमादधानैरिवयोगिनामध्यात्मविद्यासु, चतुर्भिरिवान्तःपुरैर्दयितानां चतसृणामपि श्रुतीनां, आननपङ्कजैरनुगृह्णन्तमभितोऽपि महाशयान्, त्रैयम्बकमकुटावलोकनावलम्बितहंसदशार्जितेन मृणालवलयेनेव मृदुना शुचिना च सूत्रमयेनोपवीतेन सूचयन्तमिव सूत्रात्मकतामात्मनः, शस्त्रास्त्रविद्याकूपारपारीणक्षत्रियवर्गसर्गनिर्वृ ततयेव शस्त्रग्रहपराङ्मुखेन प्रकृत्यादिपृथिव्यन्तपञ्चत्रिंशतितत्त्वपरिवर्तनमात्रमेव व्यापार इति प्रदर्शयतेव पाणिना दक्षिणेन परिवर्तयन्तमक्षमालिकां, अहर्मुखेषु प्रथममपयेवस्रष्टव्यतामवधार्यधार्यमाणेनेव स्फटिकमयेन कमण्डलुना परिष्कृतेतरकरपल्लवं, असकृदधीताध्यापितनिखिलनिगमान्त सिद्धान्तपान्थसनकसनन्दनादिमहादेशिकोद्भावितदुर्भेदसंशयच्छेदसंवादजिज्ञासया मुहुर्मुहुरवलोकयन्तमन्तिकगतां वाग्देवतां, आचार्यमाचार्याणां अधिगन्तव्यमधिगन्तव्यानां, परमानन्दतुन्दिलमपि प्रपन्नानुग्रहैकव्यसनिनं, समष्टिं भूतग्रामस्य, साधारणं पितरमखिललोकस्य, विश्रान्तिभूमिं विद्याफलानां, विरामपदं वाग्विभूतीनां, दूरं दुराशयानां, अदूरमात्मवेदिनां, अधिगम्य भगवन्त पितामहं, अत्यद्भुतसभासभानाथसंदर्शनजीकृतो वाचस्पतिरपि भगवान् वाग्देवतावलोकनसंपन्नभयकम्पसंभ्रमस्तम्भितवाङ्मुखः क्षणमवाङ्मुखश्च तदीयदिव्यतेजःप्रतिहतदृष्टितया यावदास्त स्तब्ध इव, तावदनुग्रहमय्या दृशा जगन्निधेः, आगच्छ वत्सेत्यमृतासारकिरा गिरा च गिरां देव्या निर्व्याजमाप्यायितः, समाधाय कथंचिदान्तरं करणं, अनुस्मरन् प्रणवं, आवर्तयन् ब्रह्मसूक्तानि तत्तदागमोदितानि, प्रागेव नम्रोऽपि भक्तिभारेण प्रणम्य शतशः सहामरैः प्रसादादेव देवदेवस्य प्रारभत किंचिदेवमभिधातुम्
अगन्तव्यं तर्कैरनधिगमनीयं क्रतुशतै-
रनासाद्यं दानैरनुपसरणीयं च तपसा।
भवन्तं पश्यन्तः शुचमभिभवन्तं प्रणमतां
कृतार्था जाताः स्मः पुनरपि कृतार्थाः पुनरपि॥११॥
किंच—
भूतग्राममिमं चतुर्विधमहो निर्मासि यल्लीलया
यच्च व्याकुरुषे निरन्तरमिमाः साङ्गाश्चतस्रः श्रुतीः।
चातुर्यं कथमीदृगित्यपगता शङ्का समस्तापि न -
श्चातुर्यं भवतो भुजेष्वपि मुखेष्वद्य स्वयं पश्यताम्॥१२॥
इति। स च ततः ‘साधु वत्स साधु स्थाने किल छन्दोगाः बृहती वाक्तस्याःपतिर्बृहस्पतिरिति नाम ते निराहुः’ इति
१२. जरायुजाण्डजखेदजोद्भिज्जलक्षणश्चतुर्विधो भूतग्रामः। चातुर्यं चतुरत्वंचतुष्ट्वच॥ बृहस्पतिशब्दः छन्दोगशृतादेवं व्युत्पादितः —वाग्धि बृहती तस्या एषपतिर्वृहस्पतिः॥
प्रशस्य ‘परिम्लान इव लक्ष्यते कुतः पाकशासन’ इति पृच्छति सानुकम्पमम्भोजसंभवे, बृहस्पतिः पुनरिदमभाषत—
‘परिम्लाना दीनाश्चिरपरिहृतस्वस्वभवना
श्चरन्तःपादाभ्यामवनिवलये भिक्षव इव।
यदाख्यातुं दुःखं तव सविधमेते परिगता-
स्तदद्य व्यस्मार्षुः पदमिदमुपेता वितिमिरम्॥१३॥
किंच—
यत्प्रत्यस्तमितप्रपञ्चमखिलव्यापारपारंगतं
प्रत्यग्ज्योतिरनुत्तरं शमघनैरालोच्यमेतादृशैः।
तत्संप्रश्नकथासुधाभरितयोः सेक्तुं भवत्कर्णयो-
र्मिथ्याज्ञानविचेष्टितानि बलवज्जिह्रेति जिह्वैव नः॥१४॥
अथाप्यनुयोगाज्ञानिर्वर्तनाय किंचिदावेद्यते योऽसावग्रतो भवतः परिणाम इव करुणायाः, परिपाक इव शमदमोपरमाणां, अधितिष्ठति शमवतामग्रासनं दुर्वासाः, अयमेव सर्वासां निदानमस्मदापदाम्।
अव्याजकोपनिधिना मुनिनामुनैव
निर्वासिता सुरपतेः सुरलोकलक्ष्मीः।
आसाद्य दानवकुलानि दिवौकसो न-
श्चक्रे पदं कृपणमानवदुर्दशानाम्॥१५॥
अथ यद्भवतैव कल्पितमध्वरहविर्जीवनममर्त्यानामपहृतेतस्मिन्नसुरैः, असंभाविते च यादाकादाचित्के दाने द्विजन्मनां,अशिक्षिते च भौमवदन्नसाधनव्यसने, भवत्प्रसादादवधूय सौवर्गराज्यसिसाधयिषां अपहाय दिव्यभोगेषु कौतूहलं, अन्नायैव स्पृहयमाणा निरन्तरं, अनिमिषतया श्रमावर्जितमूर्च्छाः स्वापमप्यलभमानाः सुलभमाना दिवौकसः सूक्ष्मतरं व्युदपद्यन्त दुर्भगानामन्नार्थिनामर्थनाभङ्गमन्दाक्षसंधुक्षितान्तरज्वालाकलापसंभृतेषु संभ्रमेषु मानवानाम्। किं बहुना —
यदियज्जीवितमेतैस्तदायुषा कल्पितेन भवतैव।
या त्वियती मांसलता साप्यन्नापायशोभेन॥१६॥
आस्तामिदम्।
प्रेक्षावन्तो दिशि दिशि नराः प्रेक्षमाणा धरण्या-
मित्थंभूतान् सुरपरिवृढानिन्द्रवैश्वानरादीन्।
तत्तत्साम्योदयफलपरामप्रमाणीं पुराणीं
मत्वा वाचं विदधति शनैः कर्ममार्गेष्ववज्ञाम्॥१७॥
अथवा नैतावदभिधातव्यमस्माभिः॥
अभिदधति ते मूर्धानं द्यामनुश्रवसूक्तयः
सुचिरमसुराश्चैतामित्थं तुदन्ति दुराशयाः।
निगमशिखराभ्यासव्यासङ्गतो यदि विस्मृतं
तदपि भवता तन्नो दौष्कर्म्यमित्युरम्यते॥१८॥
** १८.** अग्निर्मूर्धा चक्षुषीचन्द्रसू्र्यौइति श्रुतौ अग्निपदं तदुपलक्षितस्वर्गलोकपरमिति व्याख्यात तद्भाष्ये॥
इमे वयमिदं तत्त्वमित्थं स्थानमिवं दशा।
परं यदत्र कर्तव्यं प्रमाणं तत्र नो भवान्॥१९॥
इत्यावेद्य विरम्याङ्गिरसे, विनमत्सु च युगपदमर्त्येषु, प्रसादयन् सर्वानिदमाह पद्मसंभवः। ‘विदितवेदितव्यैर्भवद्भिरित्थं न विप्रतिपत्तव्यं दुर्वासनि। यतः परिणाम एष करुणायास्तत एव महेन्द्रमनुजग्राह तनीयसा शापेन। परथा कथमतिवाहनीयमिन्द्रेण परःसहस्रैरपि वासरैर्निखिलजगन्मातुरम्बिफाया निर्माल्यसमुल्लङ्घनप्रसूतमिदं दुरितम्। तदस्मिन्महत्यपराधे यावदक्षपितमेतदेनस्तावदनुस्मरणमपि भवतामपराधो महानिति चकितैरस्माभिरेतावदुदासितम्। महदपीदंदुरितं मन्दरपरिसरावासेन परिहृतमेव सवासनं भवताम्। तदपि जगज्जननीचरणापराधसंसर्गादधुनापि शङ्कमानैरस्माभिरन्य एवोपायः समुल्लिखितो भवदनुग्रहे। नारायणीप्रसादतिरस्कारजोऽयमपराधो नारायणीयप्रसादपुरस्कारेण समाधेय इति। तथा हि—
यदेतद्वामाङ्गं घनजघनकेशस्तनभरं
कदाचित्तच्छंभोर्भवति कमलाकौस्तुभधरम्।
जगन्मातर्येवं यदपचरितं तन्मघवता
जगन्माता देवः प्रभवति स एव क्षपयितुम्॥२०॥
नारायणी गौरी।नारायणायप्रसादः विष्णुप्रसादः॥
२०. शंभो्ःवामा गौरी।सैव श्रीविष्णुः। यदाहुः—
एकापि शक्तिःपरमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले।
भोगे भवानी समरेषु दुर्गा कोपे तु कालीत्यवने तु विष्णुः॥
तदागच्छत क्षीरसागरं, दर्शयिष्यामो भगवन्तम्’ इति वदन्नासनादुत्थायान्तर्दधे भगवानब्जसंभवः।
अथ कथमप्यमर्त्यपतयः परिहृत्य भयं
गुरुकरुणाविशेषपरिणामकृताभ्युदयाः।
अखिलजनुष्मदाशयगुहाशपमप्युदधौ
शयितमिमे समेतुमुदयुञ्जत शार्ङ्गधरम्॥२१॥
किंच—
पथि ध्वजं यं गरुडध्वजस्य
प्रस्थाय यान्तो ददृशुर्दिगीशाः।
तमेव मद्यस्तदनुग्रहस्य
भविष्यतोऽपि ध्वजमग्रहीषुः॥२२॥
अवतरन्तश्च ते सत्यलोकादनेकसहस्रयोजनमपि पन्थानमतिलङ्घितं गणयन्तो गव्यूतिमात्रमिव, गुणयन्तो भाषितानि चतुर्मुखस्य, गुरुणाकृष्यमाणतयेव झटित्युपनिपत्य विशश्रमुरविश्रान्तपरिभ्रमदभ्रमारुतसंपातविनीतपथिकव्यथे जलदपथे।अद्राक्षुरपि तत्र ते निद्राणपुराणपुरुषनिद्राभङ्गापराधमाशङ्क्यसंताडयन्तमिव विद्रुमकाण्डवेत्रदण्डैरनिवार्यमौखर्यसमुल्लासदुर्ललितानि कल्लोलम ण्डलानि, निरिन्धनज्वलदबिन्धनज्वालासंबन्धान्निष्यन्दमानमिव वीचीभिरभितोऽपि, सद्यःसमास्वादितशुद्धदुग्धपूरपूरितगर्भनिर्भरवि शदनीरदनिकरसंछन्नतया संपन्नमिव मण्डेन, चिरसंभृततया संभावितपयोविकारपरिजीहीर्पुणा ततस्ततःक्षिप्ताभिरम्बुजसंभवेन समूलाभिरिवौपधीभिः शैवालमञ्जगीभेरभिशोभितं, चिरपरिचितक्षीरमेघरसास्वादसुखितचातकपोतसावज्ञनिष्ठ्यू तचञ्चूपुटनिपतदितरमेघशीकरं, गोविन्दचरणारविन्दसंदर्शनायातविबुधसंसद्विमानहंसविविच्यमानसर्वतःपतदापगासहस्रनीरकृताहार लब्धसमिन्धनबलवदविन्धनानलं, सायंप्रातिकोल्लापल्लवितकल्लोलजालवेल्लितवेलागिरिशिखरसंचारलब्धदुग्धाभिषेकमुहूर्तविमलीकृत वन्यद्विपतया परिचिन्वन्तमिवचिरादैरावतसर्गचातुरीं, क्षीरैकनिधानतया पर्वकालावसाहनप्रसक्तपरमर्षिजनप्रस्तुताघमर्षणसूक्तगोचर क्षीरपदोहानूहविचारकोलाहलाभिभूतवीचीघोषं, तृतीयावतारश्चेतनानुचिकीर्षया स्वयमपि श्वेतीभवद्भिरिव भगवतः प्राथमिकावतारजाती यैः क्षीराहारपरिणामनिर्मलैर्मत्स्यकूर्मैःपरिकर्मितं, शार्ङ्गधरं द्रष्टुं समागच्छेदपिजातुचन्द्रशेखर इति संभावनया सज्जीकृतैः कैलासैरिव पयस्तरङ्गपरिपूरितैरन्तर्गतैर्गिरिभिरभिशोभितं, कालचक्रमिव कर्कटमकरमीनकरम्बितं, गङ्गातीर्थमिव गर्भस्थानेकमठराजिविराजितं, पाणिनीयसूत्रमिव परस्मैपदप्रतिपादकं, आत्मतत्त्वमिवानिर्वचनीयगुणप्रपञ्चं, कैलासशिखरमिवशैवलक्षणलक्षितद्विजपण्डमण्डितं, निदाघभास्करमिव नितान्तमुत्तरङ्गत्वातिभीषणं,समष्टि
पर्वकालेति॥ अघमर्षणसूक्ते यदपा क्रूरमित्यत्र अप्पदस्थाने क्षीरपस्यऊहो न वेति विवदमानाः परमर्षयो दृष्टाः॥
निदाघभास्करः नितान्तं उत्तरं उत्तरायणमार्ग गत्वा प्राप्य अतिभीषणं प्रचण्डतरः। समुद्रश्च उद्गततरङ्गत्वेनातिभयप्रदः॥
मिव क्षीरसर्गस्य, समवायमिव नैमल्यस्य, चन्द्रतारकादिनिर्मलवस्तुवर्गनिर्माणकौतुकिना विधिना विलाप्य निषिक्तमिव भुवि रजताचलं, क्षौमावकुण्ठनमिव क्षमायाः, पद्मनाभशयनागारपर्यन्तकुट्टिममिव स्फाटिकशिलाचितं, अनास्पदं कविगिरां, आश्चर्यमाश्चर्याणां, आर्तिहरं चक्षुषोः, आनन्दमन्तःकरणस्य, दुरासदमनाराधितनारायणचरणारविन्दानां दुग्धोदं नाम रत्नाकरम्॥
घोषे क्वापि पुरा पयः कियदपि स्तैन्येन दैन्येन वा
लब्धुं योऽवहदीश्वरोऽपि जगतां जन्माधमं मानुषम्।
तं विस्मापयितुं तरङ्गवलयैर्घोषानसंख्यान्सृज-
न्नाभूभूतलसंभृतेन पयसैवावृत्य यो वर्तते॥२३॥
अपि च —
स्वाद्या यत्र सुधैव यस्य जठरे साक्षात्स धन्वन्तरिः
शेते यत्र समस्तरोगशमनो नाम्नैव देवोऽच्युतः।
तस्मिन्दुग्धनिधावपि स्पृहयते नैव स्थिरामासिका-
मन्तर्लीनहलाहलोष्मचकितो नाथः स्वयं पाथसाम्॥२४॥
अपश्यन्नपि मध्यतस्तस्य किंचिदन्तर्निमग्नपुराणभूदारदंष्ट्रादण्डक्षोभितपयःपूरसमुद्धृतमिव नवनीतपिण्डं, अभितश्चलदुच्छृङ्खलतिमितिमिङ्गिलकुलवालविलोडनोद्भूतमारुतोद्धूतपुञ्जीकृतमिवफेनमण्डलं, एकतः प्रतिपर्व निर्मुच्यमानपङ्कजनाभशयनोरग-
२३. भुवं भूतलं (पाताल) चाभिव्याप्य आभूभूतलम्।
निर्मोकराशिमिव कालपरिपाकलब्धमृद्भावनिर्मलं, नविबिन्धमिव वसुन्धरादुकूलस्य, कल्पान्तरीयमन्दरवेष्टनक्लेशजनितया मूर्च्छया पतितस्य वासुकेर्जरतो वलयितमिव भोगमण्डलमप्रतिरूपमन्तरीपम्॥
स्थानं विश्वसृजोऽपि तन्निरय इत्याचक्षते यद्विदो
यद्गत्वा गमनीयमुत्तरमितः कुत्रापि न श्रूयते।
आयस्यापि हि साधयन्ति यतयो यत्रारुरुक्षां परं
तद्दृष्ट्वापि पदं हरेः सुरगणास्तस्तम्भिरे गाहितुम्॥२५॥
अपि च—
दध्युर्यावदुपायं ते गन्तुं तत्र दिवौकसः।
तावन्निदध्युरायान्तं तत्र देवं पितामहम्॥२६॥
पश्यन्नथ तत्र पाकशासनमुखानमरान् प्रासादशिखरारोहणकुतूहलिनः पङ्गूनिव भग्नमनोरथान्, प्रसादविमलया दृष्ट्यानुगृह्य सहागच्छत मयेति संदिशन्नप्रतश्चचाल कमलासनः॥
गच्छन्नेव ततः स तत्र गलितब्रह्माधिकारैश्चिरा-
द्ऐकान्त्यंपरमं गतैर्भगवति श्रीवल्लभे दुर्लभे।
प्राचीनैः कमलासनैरुपगतो भक्त्या महत्या नमन्
सस्नेहं सदयं सखेदमपि च प्रत्येकमादिश्यत॥२७॥
‘कथमद्यापि वत्स न परिणतोऽसि।
वल्लभोऽसि सरस्वत्या वहसे च श्रुतीर्मुखे।
जगत्पितामहश्चासि कस्तवाप्यनुशासिता॥२८॥
तच्चिन्तय तावत्स्वयमेव—
आयुर्वेषाममीषां परममभिमतं किंचिदूनो मुहूर्तः
का संपद्वा विषद्वा प्रभवति भवितुं तत्र तेषां क्षणार्धे।
तत्त्यक्त्वा क्षुद्रजन्तून्दिविचरत इमांश्चिन्तयन्नात्मनीन
वत्स त्वं प्रार्थयेथा न किमपि परमं ब्रह्म लक्ष्मीसहायम्॥’
इति बोधितो विधिरिदमाचचक्षे —‘जानामि भगवन्तो जानामि।
कतीन्द्राः कति लोकेशाः कति विश्वसृजोऽथ वा।
श्वासे श्वासेप्रजायन्ते प्रलीयन्ते च शार्ङ्गिणः॥३०॥
तथापि कचिन्नियुक्तेन मया तदनुगुणं चेष्टितव्यमिति व्यवस्यन्नागतोऽस्मि। तदद्य भवद्भिरेव दर्शितं भगवन्तमभिगम्य, भवद्दत्तैरेवाक्षरैर्व्याहरेयं’ इति प्रश्रितवादिनि पद्मसंभवे, प्रसन्नाः पारिषदा हस्तग्राहमाकर्षन्तस्तमन्तिक एव दर्शयामासुरान्तरं रहस्यमुपनिषदाम्॥
‘यं त्वं चिन्तयसे नान्यं सर्वारम्भेषु सर्वदा।
सत्वं चिन्तय सेनान्यं विष्वक्सेनमिमं हरेः॥३१॥
इमं च पश्य वैनीतकं भगवतो वैनतेयं, यस्य किल पुरा कल्पे सुधाकुम्भहरणसंरम्भसंभ्रमोद्भूतपक्षमारुत विक्षेपसमुन्मूलिततया परितो विकीर्यमाणेषु नन्दनोद्यानपादपेषु, प्रयत्नेन महता पारिजातमेकमाहृतवतो भगवतोऽपि मन्दाक्षमिवालक्ष्यत इति संशृणुमहे। अपि च —
छन्दो यथा यथा शौरेः संग्रामेषु जिगीषतः।
तथा तथा प्रवृत्तोऽयं छन्दोमय इतीर्यते॥३२॥
पादाङ्गुष्ठनखाग्रलम्बितमहाकूर्मद्विपाङ्घ्रिद्वय-
न्यासाटोपविभग्नचञ्चुविधृतन्यग्रोधशाखां गताः।
येनोर्ध्वंं पतता पुराणमुनयो नीताः पुरा मेनिरे
संसिद्धं सशरीरमूर्ध्वगमनं सद्यस्तपोभिर्दृढैः॥३३॥
अस्य किलोपवीतमित्यायामतः साम्यमवधारयन्तः पुरा निर्जरा मौर्वीपदे मेरुधन्वनो वासुकिमादिशन्निति वदन्त्यैतिहासिकाः।
पश्य ज्ञानक्रियेच्छामणिमयमुकुराबद्धमध्यात्मविद्या-
भास्वद्रत्नप्रदीपप्रकरपरिहृतध्वान्तमन्तः समन्तात्।
गाढाविद्याकवाटं प्रबलशमदमद्वारपालाभिगुप्तं
भक्तिद्वारं मुरारेरिदमिह शयनागारमोङ्काररूपम्॥३४॥’
इति प्रबोधितो विधिरीदृशतादृशतानवच्छिन्नवैभवमचक्षुर्याह्यमनुश्रवैकश्रवणीयमधिगन्तुमिव भगवतो रूपमासाद्य चक्षुःश्रवस्तनुमक्षिभिः सहस्राभ्यामनुभवन्तमिव परमाद्भुतं, आशयमागमानां अतिवेलश्वासनिःश्वासपरम्परासंपादितभोगोप-
३२. छन्दः अभिलाषः। छन्दोमयः वेदमयः। ‘सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं छन्दाँस्यङ्गानि धिष्णिया शफा यजूँषि नाम’ इति श्रुतेः॥
चयापचयतया संततमुपपादयन्तमिव विलक्षणामूर्ध्वडोलाविहारनिर्वृतिं, आचार्यं योगविदां, आदिदेशिकं पदतन्त्रस्य, संप्रदायप्रवर्तकं शारीरकर्मणां, भोगविमुखेषु हृदयेषु शमधनानां निरन्तरावासनिर्वेदादिव भोगिनमेव कमपि भुवनतलाकल्पमास्तीर्य तल्पमधिशयानं, अतिशयानम्रमौलिभिर्महायोगिभिः प्रणामावसरप्रकीर्यमाणेषु कुसुमोपहारेषु सौकुमार्यातिशयसंसक्तैःकतिपयैरिव कल्पतरुप्रसूनैश्चरनिर्गतसिद्धसिन्धुशीकरशेषैरिव ततस्ततो लग्नैर्नखरैर्निरर्गलापवर्गदानसंसूचनाय नियन्त्रितेनेव ध्वजेन संसारकान्तारसंचरणखिन्नशारीरकच्छायाप्रदानाय समावर्जितेनेव छत्रेण च परिष्कृताभ्यां पादकमलाभ्यामलंकुर्वाणमङ्कतलमादिजनन्योर्लक्ष्मीधरण्योः, कटितटाबद्धकनकांशुकप्रभातरङ्गपरिष्वङ्गपिश ङ्गीकृतवसुमतीकमलाविवेचनाचतुरतत्तत्परिचारिकोपचारविपर्यासपरिहासविनोदिनं, आविर्भविष्यदसंख्यहिर ण्यगर्भाङ्कुरमयमणिशताचितकर्णिकेन प्रतिसर्गावर्तमानप्रकृत्यादिधरण्यन्ततत्त्वकिञ्जल्कपुञ्जेन प्रपितामहेन भुवनानां पाण्डरेण सरोरुहेण मण्डितनाभिमण्डलं, निर्मलचिन्मयवपुषि नित्यानुबिम्बितेन मृगमदतिलकेनेव वक्षःस्थितायाः श्रियः श्रीवत्सेन हृदयादुद्भूते चन्द्रमसि स्पर्धया स्वयमपि हृदयादाविर्भवता बालसूर्येणेव कौस्तुभेन भूषयन्तमप्राकृतानि भूषणान्यपराणि, दिग्दन्तिशुण्डादण्डैरिव दिव्यतरुप्रकाण्डैरिव दुर्मददानवनिर्मथनयशोविशदैरिव मौक्तिकदामवेष्टितैर्विजयेन्दिरासमाश्लिष्टैरिव विचित्रकनकाङ्गदकङ्कणाद्यलंकृतैश्चतुर्भिर्भुजैः सूचयन्तमिव चतुर्व्यूहतां, अहर्मुखविकसदाम्रपल्लवोल्लासिनि दन्तच्छदे विप्रकीर्णतया सान्ध्यरागसंमूर्च्छितचन्द्रिकोद्गारानुकारिणा मन्दस्मितेन कलिकलुषजीवाशयप्रसादनकतकरेणुभिःकैवल्यलक्ष्मीस्वयंवरदामभिरिव कलितनानावर्णविन्यासपेशलैः परिवहत्करुणासारसंपातशीतलैः कटाक्षैरप्यनुगृह्णन्तमनन्यशरणान्महामुनीन्, कार्णवेष्टनिकविलसन्मुखारविन्दकामनीयकावलोकनविस्मयमानकमलावितीर्णचुम्बनासक्तताम्बूलरागसंपद्विडम्बिनापद्मरागतिलकेनपरिष्कृतफालवलयं, अतिनिर्मलफणामण्डलोदरप्रतिबिम्बितैरहिराजफणामणिगणैरिवकिरीटरत्नैरभिरञ्जितमहार्होपबर्हं, अतिविनयभारभङ्गुरैरनन्यार्पिंगदृष्टिभिराकृतिमद्भिरायुधैः पञ्चभिरभितोऽपि यथोचितमासेव्यमानं, अनुपमेयं प्राकृतैर्भावैः अप्रमेयमनुत्तरपदारोहपङ्गुभिरर्वाचीनैः प्रमाणैः, अक्षोभ्यं विज्ञानसागरं, अक्षयं महानन्दशेवधिं, अतिदुर्लभमश्रुतानुश्रवैरमीमांसितोपनिपदाशयैरनध्यासितनिदिध्यासनपथैरक्षालितकर्माशयैरनुल्लङ्घिताविद्यकपर्वपञ्चकैः, अना यासलभ्यमतिदृढावलम्बितगुरुचरणैरपाथोपायवृत्तिपराङ्मुखैरप्रकम्प्यविश्वाससंपदवष्टम्भशालिभिरात्मार्पणतत्त्ववेदिभिर्महाभागैः, असाधारणषाड्गुण्यं, अखिललोकशरण्यमालक्ष्य सर्वप्रमाणपरायणं भगवन्तं नारायणं असकृत्प्रणिपतन्, असकृदुत्थाय, बध्नन् शिरस्यञ्जलिं असकृदावर्तयन् प्रणवं, असकृदनुस्मरन् परतत्वं, अश्रुपूर्णैर्लोचनैरविरलपुलकाङ्कितैरङ्गकैरानन्दगद्गदैश्चवचोभिरित्थमस्तावीत्—
**‘क्षन्तारं सकलागसां जडधियां यन्तारमन्तस्तमो- **
हन्तारं जगतामनुत्तरपराहंताङ्कितोरःस्थलम्।
उद्यत्कौस्तुभशोभमुत्पलवनीसच्छायमच्छायत-
स्निग्धापाङ्गतरङ्गमैक्षिषि परं ब्रह्माच्युतं शाश्वतम्॥३५॥
किं तर्कैरतिवक्त्रैःकिं फलमुपबृंहणैर्विविधैः।
अत्रैक्षिषिश्रुतीनामाशयमहिराजभोगशयम्॥३६॥
अहो धन्योऽस्मि धन्योऽस्मि।
**एकं तद्द्विभूति त्रिधामनिहितं चतुर्व्यूहम्।
पञ्चायुधं प्रपद्ये षड्गुणसंपन्नमशरणः शरणम्॥३७॥’ इति। **
अत्रान्तरे वाचस्पति पुरस्कृत्य वासवमुखा बर्हिर्मुखाः प्रविकीर्य पुष्पाञ्जलीन्, प्रणिपत्य दूरतः शतकृत्वः, समुत्थाय शिरसि संघटिताञ्जलयो विस्मयस्तिमिताः स्तम्भवदासांचक्रिरे॥
तुष्टूषतोऽस्य बहुधा सुरदेशिकस्य
दिव्याद्भुतानि चरितानि परस्य धाम्नः।
स्तब्धा सती श्वशुरदर्शन साध्वसेन
वाणी न वक्त्रकुहराद्बहिराविरासीत्॥३८॥
ततः प्रमादविमलपद्मनाभकटाक्षपरिक्षेपविदितेङ्गितया पादमूलनिविष्टया तस्य भगवत्या पद्महस्तया निसर्गमधुरैरपि निर्भर –
** ३७.** एकं अद्वितीयम्। लीलानित्याख्ये द्वे विभूती। जाग्रत्स्वप्नसुषुप्त्यवस्थालक्षणानि (सूर्यमण्डलक्षीराब्धिपरमपदलक्षणानि वा) त्रीणि धामानि। वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारो व्यूहाः। शङ्खचक्रगदाशार्ङ्गनन्दकाः पञ्चायुधानि। ज्ञानशक्तिबलैश्वर्यवीर्यतेजांसि षङ्गुणाः॥
वात्सल्यसुधासारमधुरैरक्षरैः—‘वत्स चिरादागतोऽसि, वर्तसे कुशलेन, का इमाः प्रजाः कान्दिशीका इव लक्ष्यन्ते’ इत्यनुयुज्यमानो विधिरन्तरानन्दतुन्दिलः प्रणम्य शतशः परां देवतामिदमाबभाषे —
‘जय जय जगदम्ब जाम्बूनदाम्भोजकोशप्रभे
जय जय कमलाक्षवक्षःस्थलीहर्म्यनर्मप्रिये।
जय जय करुणाकटाक्षप्रतीक्षत्रिलोकेश्वरे
जय जय जनिमार्गलग्नाणुवर्गापवर्गप्रदे॥३९॥
वत्सेति प्रवहत्सुधारसपरिष्वक्तं यदामन्त्रितं
दृष्टं यच्च दयातरङ्गशिशिरोत्सङ्गैरपाङ्गैस्त्वया।
तस्मादस्म्यधुना विशिष्य कुशली धन्याश्च देवा इमे
विज्ञाप्यं तु कथं हरौ किमथवा तस्यादिरादिश्यताम्॥’
इति यावत्प्रार्थयते कमलां कमलासनस्तावद्गोविन्द एव स्वयमित्थमनुजगृहे—
‘स्रष्टांसि तात जगतोऽस्य चराचरस्य
संधारयस्यथ मुखैश्चतुरोऽपि वेदान्।
तेनासि लोकदयितो दयितो ममापि
तद्ब्रूहिकं सफलयामि मनोरथं ते॥४१॥
** ३९.** जनिमार्गेति॥ अणुवर्गः जीववर्ग॥
** ४०.** तस्य आदिः प्रकारः आदिश्यताम्। ‘आदिःप्रकारे प्रथमे निदाने परपुरुषे’ इति भास्करः॥
कत्यसृजं विश्वसृजः कति वा स्रक्ष्यामि कति सृजाम्यधुना।
भवति परभक्तिशालिनि भवतीव न मे क्वचित्करुणा॥४२॥’
इति मधुरां गिरमिन्दिरापतेः पिबन्नष्टभिः कर्णैः पितामहस्तादात्विकहर्षसंभ्रमावलुप्तवक्तव्यः कथंचिदिदमाचचक्षे—
‘स्वोन्मादावपि हि सृजतो नाथ वस्तूनि मिथ्या
संधार्यन्ते ननु च मनुजैरप्यमी वेदवादाः।
प्रापं श्रेयः किमहमियता प्रापमेवानया तु
स्वामिन्दृष्ट्या तव शिशिरया मङ्गलं मङ्गलानाम्॥४३॥
मनोरथानामपि यो मनोरथः सुदुर्लभानामपि यत्सुदुर्लभम्।
तदेव लब्धं तव पादपङ्कजं कदर्थनान्येव कदर्थनान्यतः॥
अपि च—
के देवाः के दनुजाः किं जगदेवेदमन्ततः कोऽहम्।
परिहृत्य विमोहमिमं पालय दासोऽस्मि दासोऽस्मि॥४५॥’
४३. अतितुच्छौस्वप्नश्च उन्मादश्च मिथ्यावस्तूनि कर्म सृजतः। ‘अथ रथान्रथयोगान्पथः सृजते’ इति श्रुतेरनुभवाच्च। एवं सति मिथ्याभूतस्यास्य प्रपञ्चस्य स्रष्टृत्वेन न मे कोऽप्युत्कर्ष। नापि वेदधारणेन, मनुजाविशेषात्॥
** ४४.** अतः भवत्पादमेवात (व्यतिरिक्तानि) कदर्थनानि कुस्मितप्रार्थनानि कदर्थनान्येव कुत्सितप्रार्थनान्येव। तस्मान्न किमप्यपरं प्रार्थयितुमुत्सह इति भावः॥
इति कटाक्षपातेन कमलायाः परिग्रहेण च भगवतः प्रतिबुध्य तत्त्वमुदासीने पद्मसंभवे, प्रपञ्चपाञ्चालिकानटनसूत्रधारः परमपुरुषः सर्वपथीनया महामायया तमाच्छादयन्, कर्तव्यमस्योपदिदेश —‘सत्यमेव भवानाह कदर्थनान्येव कदर्थनानीति। अलमेव ह्यग्रतः स्थितिरस्माकम्, अवहितो गृहाणेदं, आदिश च सर्वानमरान्—
संधानं कुरुतासुरैः प्रथमतो मन्थानमुर्वीधरं
कृत्वा मन्दरमर्णवे क्षिपत ते यूयं समेतास्ततः।
बद्ध्वावासुकिनाथ मन्यत ततः संत्पस्यते या सुधा
तामास्वाद्य गमिष्यथाप्यमरतां यूयं न वः शत्रवः॥४६॥
परं तु भवितात्र दुष्परिहरः प्रत्यूहः, परिहरिष्यते च प्रसादादेव देवदेवस्य। तदद्यप्रभृति विशिष्यावलम्बध्वमम्बिकारमणं शरणमिति॥
जानम्यहमुमाकान्तं जानासि त्वं च मदिरा।
जानन्ति किमिमे मूढास्तत्सम्यगनुशिष्यताम्॥४७॥’
इति परमुपदेशं देशिको देवतानां
निरवधिकरुणाब्धिर्निर्जरेभ्यो वितीर्य।
स्वयमपि हृदि गाढं चिन्तयन्निन्दुचूडं
मिषति कमलपीठे पद्मनाभस्तिरोऽभूत्॥४८॥
अथ यथोपदेशमिन्दिरापतेरादिश्यादेष्टव्यमन्तर्हिते पितामहे, पूर्णमनोरथा दिवौकसः पुरहराराधनकौतूहलेन पुनरासेदुरुपत्यकां परमानन्दमन्थरा मन्दराद्रेः॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक-
शतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षित-
सोदर्यश्रीमदाच्चान्दीक्षितपौत्रेण नारायणदीक्षितात्मजेन
श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन
विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये
द्वितीय आश्वासः॥
_________
**तृतीयाश्वासः। **
उपासीना नानाविधिभिरुपहारैश्च विविधैः
शरण्यं लोकानां शशधरकलोत्तंसममराः।
मृषा संधित्सन्तः प्रकृतिकुटिलैर्दानवगणै-
र्विरिञ्चस्यादेशादवृणुत गुरुं दूत्यविधये॥१॥
‘परायणं नः परमं भवान्यतो
गुरुः पुरोधाः सचिवश्च दैवतम्।
अतो वयं तावदनन्यसाधना
वृणीमहे त्वामवमेऽपि कर्मणि॥२॥
इति प्रार्थितो देवैरिदमुवाच वाचस्पतिः— ‘नैतावदभिधातव्यम्। नहि किंचिदवमं नाम कर्मास्ति राजोपजीविनाम्।
तत्तस्य कीर्तिदं कर्म तदलभ्यं तदीप्सितम्।
राजानः पुरुषं यत्र राजकीयं नियुञ्जते॥३॥
परंतु किंचिदत्र विवेक्तव्यम्। तथाहि —
अनालोच्य निजां शक्तिमदृष्ट्वाकार्यगाधताम्।
औत्सुक्यादवगाहन्ते मन्दा मज्जन्ति चातलम्॥४॥
** ४.** आ अतलात् आतलं पातालपर्यन्तं मज्जन्ति॥
सन्धिर्नाम ऋजूपायः साधुष्वेवायमायतते न पृथग्जनेषु। दूरे पुनर्दुरहंकारदूषितेषु दानवेषु। किंच दूतवाङ्मुखकौशलसाधनीयोऽयमर्थः कथं नाम दूतदर्शनमप्यसहमानेषु संघटते। श्रूयत एव हि वैश्रवणेन प्रहितो दूतः सद्य एव समापितः सदसि लङ्कापतेः। अपिच। प्रवृत्ताः समरकर्मणि भग्नोद्यमाः सर्वतोऽपि संघित्सन्ते दूरदर्शिनो लब्धुं कथंचिदपि लिप्सितं, नतु लब्धमपि नाशयितुम्। पश्यत —
स्थानाच्च्यावयितुं क्षणात्पुनरपि स्थानेऽभिषेक्तुं च वा
शक्ताः केलिकथान्तरेष्वपि भवन्त्यर्धोद्गता यद्गिरः।
तेऽमी सर्वसुनिर्वृता दनुभुवः संधाय किं धावता
भिक्षार्थंपरितोऽधुना मघवता संपादयन्त्वीप्सितम्॥५॥
अपि च—
गौरश्वः करिणः स्त्रियो मणिगणाः शस्त्राणि वस्त्राणि वा
यानि प्राभृतयेम तान्यपहृतान्याक्रम्य तैरेव नः।
तद्रिक्तेन करेण रिक्ततरया वाचापि चाहं कथं
शक्तः स्यां दनुजेश्वरान्वशयितुं संद्रष्टुमप्यन्ततः॥६॥’
इति युक्तियुक्तमुपपाद्य विरमति देवगुरौ, विहस्तेषु च समस्तेषु दैवतेषु कृतमुखः स्वयं शतमखः किंचिदिदमाचचक्षे। ‘भगवन्नेवमेवैतद्यदभिहितं भवता। किंतु —
कृतमुखः कुशलः। ‘वैज्ञानिकः कृतमुखः कृती कुशल’ इत्यमरः॥
निःसंख्यस्फुरदुत्तरोत्तरचमत्कारासु धारासु ते
वाचामक्षरमक्षरं त्रिजगतीवाग्गर्वसर्वंकषम्।
श्रोतुं लालयितुं पुनः प्रतिसमाधातुं च वा किंचिद-
प्यर्वाञ्चः क इमे वयं यदि परं देवः स वाचां निधिः॥७॥
परं त्विदमेकमनुस्मारयाम्यादिष्टं यदध्यक्षमेव नः समस्तानां संधानं कुरुतासुरैरिति शार्ङ्गधन्वना परमेष्ठिने, यदपि च तेन तुभ्यम्।
शिष्टं यदत्र दुष्टं वा न विवेक्तुं क्षमामहे।
स जानाति स जानीते त्वं जानीषे तदन्ततः॥८॥’इति।
अनितरशरणत्वमात्मनस्तदृढमुपपादयताथ देवभर्त्रा।
प्रतिहतवचनो गुरुः सुराणां प्रकटयितुं धियमात्मनः प्रतस्थे॥
गच्छन्नेव च स पथि सर्वं करणीयमवधारयामास। अपिच —
अयं कालो बुद्धेरयमवसरश्वाटुवचसा-
मियं युक्ता वेला दिशि दिशि यशः संघटयितुम्।
असावत्यर्घो नः सुकृतमुपचेतुं सुमहदि-
त्यवस्यन् प्राप प्रागसुरगुरुमाखण्डलगुरुः॥१०॥
ततश्च तमतर्कितोपनतमभिगम्य सह शिष्यैः, अभ्यर्च्य विधिवदर्घ्यादिभिः सपर्याभिः आसयन्महति मणिविष्टरे, भार्गवः
** ८.** सः विष्णुः जानाति। क्रियाफलस्य देवगामित्वात्परस्मैपदम्। सः ब्रह्मा जानीते। ब्रह्मणो विश्वाभिमानित्वात् क्रियाफलं कर्तृगामि, अतोऽत्रात्मनेपदम्। त्वं जानीषे। बृहस्पतेर्देवगुरुत्वात्क्रित्याफलमत्र स्पष्ट कर्तृगामि॥
स्वयमासीनस्तदनुज्ञया सविनयमिदमाचचक्षे —‘अद्य मे सफलं जीवितं, अद्य हुतं विधिवदग्निषु, अद्य दत्तमतिथिष्वभ्यागतेषु, अद्याधीतमागमेषु सरहस्येषु, अद्याराधिता गुरवः, अद्य फलिनो गृहाश्रमाः। किं बहुना। अद्यायमन्वयः प्रतिष्ठितो भृगोः यदनुल्लिखितं मनोरथैः, अनवाप्यं तपोभिरपि, अशासनीयं गृहमेधिनां, आसादितमनायासेन मया स्वयमागमनं भगवतोऽधुना’ इत्युदाहरति भार्गवे पुनरिदमुवाच वाचस्पतिः—
‘पुत्रावुभौ प्रथमजौ भृगुरङ्गिराश्च
ख्यातौ कुले शमवतां ननु पद्मयोनेः।
तद्भार्गवस्य कुलमाङ्गिरसः प्रपन्न-
श्चित्रीयते किमिह सोदरसंप्रयोगे॥११॥
अपि च —
निष्ठामाश्रमधर्मपालनविधौ नित्याभियोगं शिवे
शक्तिं कर्तुमकर्तुमन्यथयितुं तन्त्रेषु राज्ञामपि।
श्रावंश्रावमनुक्षणोपचितया प्रीत्याहमस्म्यागतो
यत्सत्यं भवदीक्षणाय हृदये तत्रावयोः साक्षिणी॥१२॥
इत्यभिदधानो गुरुरलमतिवात्सल्यादतिलालनेनेत्यभिधाय, विसृज्य सामाजिकान् विविक्ते पृष्टः कविना समागमनकारण-
वैश्वदेवात्पूर्वं गृहमागता अतिथयः। वैश्वदेवकाले य आगतास्तेऽभ्यागताः॥
** १२.** तत्र गुरुशुक्रयोपरस्परप्रीतौआवयोः गुरुशुक्रयोहृदये हृदयं च हृदय च साक्षिणी॥
मुदाजहारैनमुपपत्तिगर्भया गिरा। ‘आवेदनीयं किमखिलवेदि भवादृशेषु। तथा हि—
जानीषे जगदेव तावदखिलं स्वप्नेन्द्रजालोपमं
जानीषे ह्यधिकारदुर्विलसितं संसारमप्यावयोः।
जानीषे भगवत्परिग्रहपरीणाहं सुपर्वस्वपि
व्याहर्तव्यमितोऽस्ति यत्तदपि ते नापेक्षते मद्गिरम्॥१३॥
अपि च —
**येनादिश्यत वेधसा जनिमतामद्रोहतो जीवनं **
**तेनैव त्वयि दुर्धियां दनुभुवमादिष्टमाचार्यकम्। **
अस्मिन् किं करणीयमर्थगहने मीमांसकैर्मादृशैः
**शक्तस्त्वं त्वनुवर्तितुं तदपि खल्वाकाशवद्वर्तितुम्॥१४॥ **
तत्कथंचिदेकीकृत्य देवासुरानेकान्तशीलाभ्यामावाभ्यामासितव्यमिति वक्तुकामोऽहमागतोऽस्मि।’ इत्यभिहितो गुरुणा यथार्थमेव तदालोचयन् कविरिदमाबभाषे —‘भगवन्नेवमेवैतत्। तथा हि—
जानाम्येव यदाह पद्मनिलयो यच्चाह विश्वंभरो
यच्चास्ते हृदि ते यथा किल तदप्यग्रे विवर्तिष्यते।
कस्त्वं संघटनेऽसि को विघटनेऽस्म्याकृष्य विश्वात्मना
योक्ष्यन्ते नचिरेण चेह तृणवद्वातेन देवासुराः॥१५॥
तदस्तु यथातथा वा संमुखीकरिष्यामि दानवान्, संभावयिष्यामि च भवन्तं, ततो यथामनोरथमभिधीयतां’ इत्युपच्छन्द्य, समानीय बलेः सभां, सभाजयन्विविधैरुपचारैः, सल्ँलापयामास वासवगुरुम्। ‘भगवन् दिष्ट्यासि दृष्टश्चिराय। किमागमनकारणं, किं कुशली मे भ्राता पुरंदरः, स किं करोति, किमावसति, नामापि तस्य न शृणुमहे तदाप्रभृति’ इत्यनुयुञ्जाने बलौ सोत्प्रासमाददे गिरमाङ्गिरसः॥
‘देयं यस्य सदेवमर्त्यभुजगं विध्यण्डमेवाखिलं
पात्रं यस्य जगन्निधिः स भगवान् देवः सरोजेक्षणः ।
शिष्यो भूतपतेरसौ कुलगुरुर्यस्योशना भार्गवः
कीर्तिर्दानवराज तस्य भवतः कासां न पारे गिराम्॥१६॥
तदभिगम्यापि सुदूरमवलोकयितव्यः पुण्यश्लोको ज इत्यागतोऽस्मि। भ्रातुरपि ते वृत्तान्तमावेदयामि॥
**यस्यैवं भूर्भुवस्स्वर्भुवनपरिबृढो वर्तसे पूर्वजस्त्वं **
**दुर्दान्तध्वान्तभानुः स भवति भगवानेव यस्यानुजन्मा। **
**संप्राप्तो यः शरण्यं त्रिभिरपि करणैर्देवदेवं त्रिणेत्रं **
प्रष्टव्यं तस्य कस्मिन् कुशलमकुशलं तस्य जिष्णोः कुतः स्यात्॥
स यदैव सङ्गररङ्गमारूढो योद्धकामोऽवतस्थे तदैवतमशरीरिण्या गिरा निवर्तयिष्यन्नाहवान्निर्मार्ष्टुंमुनि शापमालिन्यमभ्युदयेन च योक्तुमधिकेन परमे तपसि परमेश्वरे नियुयुजे॥
यः शक्यो न दृशापि गोचरयितुं सच्चैस्तमोगन्धिभि-
र्यत्र ब्रह्म सनातनं गिरिजया स्वैरं परिक्रीडते।
अध्यारुह्य तमेव मन्दरमभिध्यायन्य आस्ते शिवं
कस्तं द्रक्ष्यति कः प्रवक्ष्यति कथां देवोऽपि वा दानवः॥
प्रह्लादः प्रथमो गुरुर्भगवतस्तन्त्रेषु लक्ष्मीपते-
र्व्यातेने च विरोचनं कमलभूरध्यात्मविद्यानिधिम्।
बाणः पारिषदाग्रणीः पशुपतेस्त्वं तु प्रवेकः सतां
सिद्धानामपि योगिनामशृणवं नैवं कुलं निर्मलम्॥१९॥
तदत्र महाकुलप्रसूतस्य भवतो महदनुशिष्टस्य किमावेदनीयमन्यैः। स्वयमेव महाभागः स्वरूपं पर्यालोचयतु कार्यस्य॥
ददति च वरं दत्वा सद्यस्तमन्यथयन्ति च
द्रुहिणहरगोविन्दाद्या दैत्येष्विति स्फुटमेव वः।
न च नियमतो देवानेवानुकम्पितुमीशते
यदसुरवरान् मध्ये मध्ये समुद्गमयन्ति च॥२०॥
अतो ब्रह्मेशविष्णूनामपि शुद्धचिदात्मनाम्।
आचूडादानखाग्रेभ्यो मन्ये मायामयं वपुः॥२१॥
तदप्रदाय परेभ्योऽवकाशमन्योन्यसमवेतेषु युष्मासु—
यन्नैश्विन्त्यं यदौर्जित्यं यद्धलं या सुखासिका।
यद्यशो यः प्रतापश्च सर्वं तदनुचिन्त्यताम्॥२२॥
आस्तामिदम्। अवश्यं हि विग्रहवत्सु युष्मासु भवितव्यमप्रकाशेन मया वा भार्गवेण वा। तथा च—
निर्वर्त्यमाना यत्नेन निर्जरैरसुरैश्च वा।
काः क्रियाः फलवत्यः स्युरावयोरप्रकाशयोः॥२३॥
आखण्डलस्य तु मतिरन्यादृशी —
स्थीयतामग्रजैः स्वर्गे जीयतामनुजेन वा।
सर्वथा भ्रातृभाग्येन संवृत्तं नः प्रयोजनम्॥२४॥ इति।
अहं तु भवतः सार्वज्ञ्यादविशङ्कमवादिषम्। न खल्वात्मनः सचिवोक्तमित्येवादरणीयं परसचिवोक्तमिति वा परिहरणीयं धीमतां धीरेव सचिवः शासिता’ इत्यभिधाय विरमति देवगुरौ, अवलोकितो बलिना, भार्गवः सामाजिकाननुमोदयन्निदमाचचक्षे —‘भो भो सकलाशय मर्मज्ञाः, ममयज्ञाः संधिविग्रहयोः, पारीणा नीतिपथे भवन्त एव प्रमाणमर्थेषु॥
यद्यप्यद्य गतश्रियः सुमनसो यद्यप्यसौ तद्गुरु-
र्यद्यप्यस्ति फलं न किंचिदपि नः संधाय साध्यं सुरैः।
पर्यालोच्यमथापि किंचिदुदधिं निर्मथ्य लब्ध्वा सुधां
पास्यामो वयमित्यसौ रहसि मां यत्प्राह दिव्यो मुनिः॥’
** २३.** गुरुशुक्रोयदा अस्तगता तदा शुभकर्माणि न कुर्वीतेति हि दैवज्ञाः॥
इति। तच्छृण्वन्त एव दानवाः संमोहिता मायया वैष्णव्य सद्य एव संमेनिरे, आहुश्च —
‘संधास्यामः शमघनगिरा निर्व्यलीकं सुरैः प्राक्
क्षोभिष्यामो जलधिममृतं तत्र लप्स्यामहे च।
पास्यामश्चाप्यथ तदुभये यद्यमी साधवः स्यु-
र्नैवं चेत्किं विहतमियता बाहवः क्वागमन्नः॥२६॥’
इति। ततः साधु साध्वित्यनुमोद्यमानाः सचिवेन,प्रस्थाप्य वाचस्पतिं, प्रथमतः संधास्यन्तः प्रतस्थिरे दानवाः सद्य एव मन्दरम्। पूर्णमनोरथश्च गुरुः पुनरुपावर्तमानः संददर्श मन्दरमेत्य संततशिवध्याननिर्धूतकल्मषान् शिवार्चनव्रतिनः शिवार्पितप्राणान् शिवनाम कीर्तनपवित्रितमुखान्, शिवकथापारायणपरायणान्, शिवाहंभावभावितान्शिवाद्वैतवादकोविदान्, भस्मदिग्धतनूरुहान्,भसितत्रिपुण्ड्रमण्डितपञ्चाष्टादिस्थानमनोहरान्, प्रालम्बिजटाजूटवलयावलम्बितशकुनिकुलनादशकुनावेदितसंनिहितशांवप्रसादान्शुद्धाध्ववर्तिनो विज्ञानकलमानिव शुनासीरमुखान् बर्हिर्मुखान्॥
आख्याय निखिलं वृत्तमाशयं च विरोधिनाम्।
आदितेयान् स दैतेयैः संधातुं समनीनहत्॥२७॥
ततो महता बलेन महता संनाहेन महता चावधानेन संधातुमागताः सर्वेऽपि दानवाः, प्रकृतिकुटिला अपि परिणततपोविशेषेण परिक्षीणकल्मषतया दुर्दर्शान् मध्याह्नभास्करानिव, दुरासदान् युगान्तपावकानिव, विस्रम्भणीयान् विश्वसृज इव, पुनः पुनर्दर्शनीयान् पूर्णसुधाकरानिव, संलक्ष्य गीर्वाणान्, संत्यज्य दुर्विशङ्कितानि, प्रतिषिध्यानुयात्रिकान्, परिहृत्य शस्त्रास्त्राणि, निर्मलेन मनसा निरन्तरं परिरेभिरे। संक्रन्दनोऽपि यथान्यायं समागम्य दानवैः, अभिवन्द्य पुरोधसं भार्गवं, अनुमतो वाचस्पतिना, किरन्निव सुधारसं, किंचिदिदमाचचक्षे —
‘साफल्यं तपसामिदं सुमहतां साफल्यमक्ष्णामिदं
साफल्यं पितुराशिषामिदमिदं साफल्यमस्यायुषः।
श्रीमत्काश्यपतातपादचरणस्थानोचितैर्भ्रातृभि-
र्ज्यायोभिर्यदहं विरोचनमुखैर्वात्सल्यपात्रीकृतः॥२८॥
अपि च —
आराद्धा ननु यूयमेव गुरवस्त्रैलोक्यराज्यार्पणा-
दाराद्धागुरुभार्गवप्रभृतयो ब्रह्मर्षयः शक्तितः।
किं कर्तव्यमितोऽपि केवलमिह श्रान्तोऽस्मि शान्तोऽस्मि च
प्राप्तुं तत्परमामृतं यदि भवत्याज्ञा यतिष्ये सुखम्॥२९॥
इति वदन्तं भ्रातरमिन्द्रमिदमाहुरसुरेश्वराः’मैवमाखण्डल मैवम्।
त्वमसि शतक्रतुस्त्वमसि नीतिपथे कुशल-
स्त्वमसि दयास्पदं भगवतः प्रमथाधिपतेः।
अपि खलु बालकेन भवता भवता मघवन्
निखिलमनाकुलं कुलमिदं प्रतितिष्ठते नः॥३०॥
व्यापृते त्वयि तपसि राज्यमिदं व्याकुलीभवेदिति संरक्ष्यतेऽस्माभिरनियुक्तैरपि साह्यमेवानुचिन्त्य भवतः।
एकेन विधृतं राज्यमियन्तो वयमीदृशाः।
निर्वहन्तोऽद्य जानीमो नैपुण्यं वत्स तावकम्॥३१॥
अमृतं यदि भोक्तव्यमनुमन्यामहेतराम्।
संविभज्यैव तद्भोज्यं न निर्भज्येति नो मतिः॥३२॥
तदाख्यातु भवानर्णवमथनोपायमादिष्टं नारायणेन’ इत्यनुयुञ्जानेषु दानवेषु, यथाश्रुतमाख्याय पुरन्दरस्तमेव मन्दरमुत्पाट्य सागरे निपातयितुमुत्साहयामास बलिम्। ततः ‘कियदेतदुत्पाटनंनाम गिरेः, विधमामो मुखमारुतेन, विक्षिपामोऽङ्गुलिस्फोटेन, समुद्धरामो वामहस्तेन, संक्रमयामः सायकेनैकेन’ इति बलोत्सेकादुच्चावचं गर्जत्सु दानवेषु, बलिरिदमवादीत् —‘हन्त कथमर्भका इव यूयमकृतप्रज्ञा इव निरङ्कुशं प्रतिजानीध्वे।
विंशत्यापि भुजैः पुरा गिरिवरं विक्षोभयन् शूलिनः
पादाङ्गुष्ठनखाग्रयन्त्रणदलद्दोः संधिबन्धश्चिरम्।
क्रोशंक्रोशमवाप वार्षिकनिशामण्डूकवद्यः श्रमं
युष्माभिः श्रुतिगोचरं न गमितः शङ्के स लङ्केश्वरः॥३३॥
अपि द्रष्टुमशक्यो यः सिद्धैरपि महर्षिभिः।
विना शंभोः प्रसादेन कथमुत्पाटयेम तम्॥३४॥
३२. निर्भज्य एक भागशून्यं कृत्वा॥
तदद्य वयं सर्वे प्रपद्य भगवन्तमुमाकान्तं प्रसाद्य वाङ्मनःकायैः प्रार्थयेमहि प्रार्थनीयं’ इति। ततः साधु साध्वित्यभिनन्द्यमाना भार्गवाङ्गिरसाभ्यामन्योन्यकृतसंविदो देवासुराः, प्रतिपद्य मन्दरं शैलं, प्रणिधाय मनांसि, वर्तमानाः कठोरे तपसि, वाग्भिरस्तुवन्नित्थमम्बिकारमणम्—
‘युगविगमोन्मिषद्विषमलोचन कोणपत-
द्धुतवहविस्फुलिङ्गहुतसर्वजगद्भविषे।
अचलधनुर्धराय हरिणाङ्कशिखामणये
विजयजयैकहेतुविशिखाय नमो भवते॥३५॥
शिवं ध्यायस्यन्तः सकलजगतां यच्छसि शिवं
शिवोऽसि त्वं नाम्ना ननु शिवतरश्चासि विदितः।
शिवार्थी जन्तुस्तच्छिवमखिलभावेन भगवन्
भवन्तं हित्वान्यं शरणयतु कं न्यायशरणः॥३६॥
तदिदानीम्—
मन्दिरं क्षालयन्तस्ते मन्दरं दुग्धसागरे।
अमृतं लब्धुमिच्छामस्तद्भवाननुमन्यताम्॥३७॥’ इति।
ततस्तथा कुरुतेति घनस्तनितगम्भीरया गिरा गगनसंभवयासंतोषिताः सन्तोऽसुराः सुराश्च समनह्यन्॥
विनिघ्नन्तः पादैरथ विचलयन्तः करतलै-
रुदस्यन्तो दण्डैरुपरि च किरन्तस्तमिषुभिः।
निषेदुः श्रान्तास्ते यदपि च विषेदुर्दनुभुवो
निमित्तं दुष्टं तन्निखिलमुशना तेषु जगृहे॥३८॥
अथ प्रतीक्षमाणश्चरलग्नमाचार्यो दिवौकसां ‘संवर्तोचिरूपमालम्ब्य सर्वतो वाहि’ इति संदिदेश गन्धवाहम्॥
अथ दिवसावसान इव पद्मभुवः पवनः
स्वयमकृत क्षणादिव विदिक्षु च दिक्षु चरन्।
अलघुविघूर्णितार्णवसमुक्षितकुक्षितल-
क्षितिवलयार्द्रताशिथिलमूलमहार्यकुलम्॥३९॥
स्तोकस्तोकप्रचलदनिलग्रासदुर्भिक्षखेदैः
कालं कालं कथमपि चिरं यापयांचक्रिरे ये।
आकण्ठं ते पपुरिममविच्छिन्नधारं समीरं
प्राप्ताः शंभोरूपकरणतां पन्नगास्तन्नगाग्रे॥४०॥
** **अथ तमदृष्टचरं वेगमनलसारथेरभिनन्दत इव मन्दरस्य गिरेरलक्ष्यत मनागिव शिरःकम्पः॥
चकम्पे हन्तायं गिरिरनुचकम्पे पुरहरो
जहीतेदं क्लैब्यं जहित च वृथावस्थितमिदम्।
इति स्वेन स्वेन व्यवसितधियः काश्यपसुताः
समेता गर्जन्तः सपदि चलयामासुरचलम्॥४१॥
तदानीं च —
** ३९.** पद्मभुवः दिवसावसानं प्रलयः॥
निष्पतद्द्रुमुत्पतत्खगमद्भुतस्खलदश्मभू-
जर्झरस्रुतनिर्झराम्बुझलझलारवभैरवम्।
गर्भगद्दरनिर्भरभ्रमदुद्भटानिलपूरित-
क्रन्ददन्तरकन्दरं किल मन्दरं ददृशुर्जनाः॥४२॥
गर्जन्तश्च ते तदनु पर्जन्या इव गणयन्तश्च करगतमिव कार्यमशेषं, पूर्वतो दिक्पतीन्, दक्षिणतो देवानपरान्, पश्चिमतो बाणं सहस्रबाहुं, उत्तरतो महासुरानितरानपि विभज्य विनियुञ्जानाः, खाते परितः परिखावलय इव मूलगर्ते कराञ्चलानि निदधानाः, परित्यजन्तः प्रहरणानि, परिहरन्तोऽङ्गुलीयकानि, आबध्नन्तः कटितटेषूत्तरासङ्गं, आरोपयन्तः कङ्कणान्यङ्गदस्थानं, उपवीतयन्तो निवीतलम्बीनि हारमण्डलानि, उद्बोधयन्तः परस्परमसकृदपि ‘समं निधत्त कराञ्चलानि, सममुत्तम्भयत, समं विस्रंसयत, सममुच्छ्रसित, समं निःश्वसित, समं कुरुत बलानि, परथा विशीर्येयुः शिखराणि, विनमेदयमेव मन्दरः, क्वापि चलेदपि ततो भद्रपीठं चन्द्रापीडस्य, समुद्विजेत दुहिता शैलराजस्य, क्षुभ्येयुः प्रमथाः, कुप्येदपि शैलादिः, चतुरन्तयानगत इव भगवानम्बिकारमणश्चतुरतरमस्माभिर्वाहनीयः’ इति, वादयत्सु वादित्राणि गन्धर्वेषु, गायन्तीषु गाथाः किन्नरीषु, नृत्यन्तीषु निर्जरवारकान्तासु, श्लाघमानेषु चारणेषु, प्रयुञ्जानेष्वाशिषः परमर्षिषु, वर्षत्सु दिव्यवलाहकेषु पुष्पवर्षाणि, हर हरेति तारध्वनिभिरापूरयन्तो विध्यण्डमण्डलमुन्नमयामासुरुर्विधरं मन्दरम्॥
आपातालनिमग्नमूर्तिनि बलान्मूले समुन्मूलिते
शैलस्यास्य भुजङ्गराजनगरप्रासादशृङ्गायिते।
खेलन्त्यः शतशः फणीन्द्रसुदृशः स्वच्छन्दमत्रास्पदे
हृष्यद्भिः प्रतिलेभिरे दिविचरैरक्लेशमप्रार्थितम्॥४३॥
अपि च —
अभ्यर्णस्थलभाजि तत्र शिखरिण्यामूलमुन्मूलिते
तत्क्षोभक्षुभिते च काञ्चनगिरौ किंचित्समाकुञ्चिते।
विभ्रश्यगृहभित्ति विश्लथपुरद्वारं विशीर्णत्रुट-
त्सौधोत्सेधविटङ्कसंघमजनि स्थानं सुराणां तदा॥४४॥
समुद्धृत्य तमारसातलप्रतिष्ठमपि सद्यः समारोपितं कलममिव लीलया प्रस्थिताः दुग्धार्णवं प्रति देवासुराः। अशिथिलशिखरं अप्रकम्पनितम्बं अखण्डितगण्डोपलं अनुज्झितनिर्झरप्रवाहं अस्फुटितपर्यन्तदर्यन्तरं अभञ्जिततरुपुञ्जंअनुत्खातलतावितानं अस्पन्दमृगबृन्दं अनुद्भान्तशकुन्तं अव्यापन्नपन्नगं अनवसन्नकिन्नरीगानं अस्तब्धसिद्धचारणकोलाहलं अविश्रान्तगान्धर्ववादित्रं अनुपरुद्धतपोधनध्यानं आनन्दयन्तो भगवन्तमुमाकान्तमवहन्त मन्दरम्। स च नीयमानः सर्वैरपि सुरासुरैरखिलभुवनाधारस्य पशुपतेरप्याधारतावलेपादिव पादैराचक्राम शिरांसि पर्वतानाम्। परितःस्फुरदच्छनिर्झरापदेशेन प्रत्यक्षमिव विचकार दिङ्मुखेषु यशांसि निर्मलानि। आकाश एव नीयमाने तस्मिन्, अधस्तनीषु दिव्यभूमिषु तासु तासु तपस्यन्तस्तपोधनाः कतिचिदतिचकिताः प्रायुञ्जत परमाशिषः, परिपेठुः स्वस्त्ययनानि, अजपन्नभयंकरं, आवर्तयन्नमृतमृत्युंजयं, अनुदध्युरापदुद्धरणमम्बिकारमणं, आशशंसिरे च बलातिबलाभ्यामश्रमं दिविचराणाम्। महाप्रकाशमणिगणाकीर्णस्य तस्य चलतः पथिवशादागत्य पार्श्वतलमध्वप्रतिरोधादत्रैव निलीयमानः पतिरपि त्विषां प्रदीप इव दिवा प्रवर्तितो भग्नतेजा ददृशे। अपि च पुनरक्लेशमानीयमाना पत्या सह कात्यायनी रुचिरान् प्रदेशान् पश्यन्ती विविधानि वस्तूनि परिपृच्छन्ती प्रणविनमभीक्ष्णं प्रसन्नेन चेतसा स्थापयिष्यतोऽपि गिरिमनुजगृहे देवासुराननुजगृहे॥
उड्डीय स्वयमुत्पतन् गिरिरसौ वाचैव नेतुं क्षमो
भग्नस्कन्धशिरोधरैर्दिविचरैरित्थं यदद्योह्यते।
एतत्पर्वतपक्षतिक्षतिकृतो मूर्खस्य दौष्कर्म्यमि
त्यायस्ताः पथि पर्यभाषिषत ते सर्वे सुपर्वेश्वरम्॥४५॥
अपि च —
भग्नोयस्य दशाननः प्रचलने किंचित्प्रवृत्तः पुरा
शक्यं तस्य गिरेः कथं नयनमित्यस्ताविषुः साधवः।
अन्ये चक्षमिरे न तद्भवति का श्लाघात्र शाखामृगै-
रानीताश्च निपातिता हि जलधौ शैलाः समूला इति॥४६॥
इत्थमतिभारभङ्गुराः सुरासुरा यावदासेदुरन्तिकं दुग्धनिधेस्तावदुद्वेगः श्वेतद्वीपसदामुदजृम्भत। ‘पश्यत पश्यत पर्यन्तेनीयमानं महागिरिं, पातयिष्यते नूनमत्रायमर्णवे, परिप्लावयिष्यते च स निःशेषमिदमन्तरीपं तदद्यैव सज्जीभवत समुत्तिष्ठत सर्वतोऽपि वेलामुच्छ्रयध्वं’ इति, ‘हन्त केनेदमुत्प्रेक्षितं बकबन्धकौशलं, किंचिदपि चेदुच्छ्वसिति सागरः किं करणीयमुच्छ्रितयापि वेलया, तदारोक्ष्यामो वयमद्यैव वैकुण्ठमर्कमण्डलं वा धाम त्रिधाम्नः’ इति, ‘अनुचितमेतदालोचितं, अयुक्तं हि सेवकानामपहाय भगवन्तमन्यत्र गन्तुं’ इति, ‘किमुच्यते भगवन्तमपहायेति किं न विचारितं भवता, भगवानेव मन्दरपातदर्शनकुतूहलव्याजेन प्रस्थातुकामो वर्तत इति, कति वारानेष पपात मन्दरः, कति वारान्नोदजृम्भत सागरः, कस्यापि ब्रह्मणः कल्पे न जानीमो वयं विप्रवासं, अहो खल्वमीभिराधुनिकैर्बाध्यामहे भागवतैः’ इति, ‘भवतु भवतु कथयन्तोऽपि दृढमितोऽपि कबलिताः सरिद्भिः सागरैश्च महत्स्वायतनेषु महीगतेषु शार्ङ्गपाणेः कति न भवद्विधाः परमभागवताः, तदास्यतामिहैव भवद्भिः, आधुनिकास्तु वयमज्ञातपारावारा गोपायन्तः क्वचिदात्मानं गोविन्दमेव निरन्तरमनुसंधीमहि’ इति च विप्रवदतां विविधान्वादान् पश्यतामसकृदुन्नम्योन्नम्य, परिपृच्छतामागच्छतो वैमानिकान्, परिभ्रमतामभितोऽपि कोलाहलेन महता, पारिषदानामग्रणीः कुपितो विष्वक्सेनो बहिर्निर्गत्य परितोऽपि चक्षुः प्रसारयन्नवलोकयन्नानीयमानमभ्यर्ण एव मन्दरं, अवधारयन्ननुपदमेव तस्य सिन्धौ निपातनं, विज्ञापयामास विनयेन विदितवेदितव्यमपि स्वधर्म इति विश्वभरम्॥
व्यत्यस्तकौस्तुभमवप्लुतवैजयन्ति
विस्रंसमानकनकाम्बरलोभनीयम्।
सद्यः फणीन्द्रशयनादुदतिष्ठदीशः
कैलासशैलशिखरादिव कालमेघः॥४७॥
दिव्यैः पञ्चभिरायुधैः सविनयैराबद्धसेवाक्रम-
स्तत्कालोपनतैस्तपोधनगणैर्धन्यैर्वृतः कैरपि।
अभ्यर्णे वसतस्तदा खगपतेरालम्ब्य हस्तं शनै-
र्विष्वक्सेननिवेद्यमानसरणिर्विश्वंभरो निर्ययौ॥४८॥
अथ तमतर्कितोपनिष्क्रान्तमरविन्दनाभमवसरज्ञो विधिरर्धपथे समेत्य सह महर्षिभिर्विविक्तसेवावसरला भविस्मयानन्दमन्थरः पश्यन्तमचलनिपातकौतुकं परिवार्य केवलमवतस्थे॥
नवकुवलयदामश्यामलस्निग्धमुग्धं
नलिननयनमाद्यं तत्त्वमालोकयन्तः।
परिजहुरमरौघाश्चेतसा कार्यभारं
परिजहुरुभये ते पाणिभिः शैलभारम्॥४९॥
ततश्च।
सुरासुरकरोदरस्खलितशैलमूलस्थल-
स्थितोपलतलाहतिक्षुभितसिन्धुबन्धुत्थितः।
भ्रमत्तिमितिमिङ्गिलभ्रमितवालकोलाहलैः
समं निखिलमम्बरं परिववार तारस्वनः॥५०॥
५०. सिन्धूनां सरितां बन्धुः समुद्रः॥
स्खलदचलसमुद्भवल्लोलकल्लोलकोलाहल-
व्यतिकरबधिरभ्रमत्कूर्मनक्रद्विपक्रन्दितैः।
स्फुटितकमलजाण्डभाण्डप्रचण्डस्वनोत्प्रेक्षण-
क्षुभितविविधमुक्तहाहारवैश्चाहसीदच्युतः॥५१॥
निर्मग्नमन्दरमणिद्युतिसंप्रदिग्धा
निष्पेतुरम्बरतले पयसः कणा ये।
लग्नाश्चिराय लिकुचामलकाम्रमात्रा-
स्तारास्त एव परिणेमुरिति प्रतीमः॥५२॥
पथि गिरिवरादस्माद्भारावसन्नसुरासुर-
प्रतिपदकृतस्कन्धव्यत्याससंभ्रमकम्पितात्।
मणिभिरभितो यस्यां यस्यां भुवि स्खलितं क्वचि-
त्समजनि खनिः सा सा नाम स्थलेषु जलेषु च॥५३॥
अपि च विदूरादम्बरतलादापततोऽस्य महता वेगेन प्रकीर्यमाणे पर्यन्तगते निरवशेषं परिपीयमाने च दरीमुखैरेव परिसरगते पयसि, शून्यमिवार्णवं मन्यमाना नभश्चरा निर्ममज्जुरुभयेऽपि भये। उन्मथितेषु च तन्मूलघट्टनादर्णवचरेषुजन्तुषु, ततः परिभ्रष्टाः करिण एव जलकरिणः, किराता एव जलमानुषाः, निर्झरचराः शफरा एव तिमयश्च तिमिङ्गिलाश्चसंपेदिरे। अपि च पुनरवगाहमाने रसातलं गिरावभ्यर्णगतं दुग्धमादायादाय सुखमभिषिञ्चन्तः पारमेश्वरं लिङ्गमभ्यनन्दन्नन्दिमुखा गणाः। ऊर्ध्वमाद्युलोकादुत्पतता च दुग्धपूरेण परिप्लाविता सिद्धनदी बभूव दुग्धनदी। संसिक्ताश्च पयसा मधुरेण सर्वतो नन्दनोद्यानवनपादपास्तदादि सुधामधुराणि सुवते फलानि॥
मज्जन्मन्दरशैलकन्दरपुटव्याघूर्णदर्णोभर-
स्वैरोज्जागरघोषभीषणपयःकल्लोलिनीवल्लभाः।
खेदस्तम्भितकिंपचानविबुधप्रारब्धभूरिस्तवा
गोविन्दस्य कुतूहलं विदधिरे ते केचिदेकक्षणाः॥५४॥
मज्जति मज्जति शैले पतति च पततीह कुलमिदं द्युसदाम्।
शरणं शरणमतस्त्वं शार्ङ्गधरेति प्रचुक्रुशे विबुधैः॥५५॥
ततश्चकितसुरासुरस्तोमसंस्तूयमानो भगवानरविन्दलोचनः प्रसादविमलपावनैः परिवहत्करुणासारसान्द्रि तैः कटाक्षैरनुगृह्य, कल्पतरुपल्लवोल्लासिना कैवल्यलक्ष्मीनिवासमन्दिरेण करारविन्देन तानाश्वासयामास। तत्क्षणं च भूभारभङ्गुरभुजङ्गपुङ्गवभोगवलयपरिबृंहणादिव कुलिशकर्कशेन शाणनिकृष्टवज्रफलकस्निग्धेन सर्वतोऽप्यशेपभुवनात्मनाप्ययुतयोजनमात्रविस्तारशालिना चरमाङ्गेन, पाराशर्यसंक्षेपपरिमितैरनुश्रवैरेव चतुर्भिश्चरणैः, संकोचविकासशीलया माययेव कन्धरया, समस्तागमस्तोममस्तकेनेव च मस्तकेन परमाद्भुतेनसमुद्भवन्नवनिगर्भाच्चापमुक्त इव सायकाःसमग्रेण रंहसा समुत्पपात महान् कमठः॥
*
पाराशर्यः व्यासः तेन कृत सङ्क्षेपः तेन, परिमितेरनुश्रवैरेव चतुर्भिश्चरणैः। वेदानां चतुष्टुं व्यासकृतसंविभागादारम्येति वेदितव्यम्॥
प्रत्युद्यत्कमठकठोरपश्चिमाङ्ग-
व्यासङ्गप्रशिथिलमूलसंनिवेशः।
उत्क्षिप्तः प्रतनुरिवोपलो बलिष्ठै-
रद्रिर्द्रागुदपतदर्णवाद्विदूरे॥५६॥
उद्वान्तसागरपयोभररिक्तगर्भ-
पर्यन्तकन्दरगलत्पवनो गिरीन्द्रः।
मग्नोत्थितः सलिलतो महता श्रमेण
निःसीमनिःश्वसितखिन्न इवाबभासे॥५७॥
आलक्ष्य च तदाश्चर्यमानन्दमन्थरेषुबृन्दारकेषु, कृतार्था वयममुनाऽनुग्रहेण किमतः परं करवामेति विज्ञापयत्सु विनयेन गरुडध्वजं, समानयत वासुकिमित्यनुशशास समीपगतश्चतुराननः। ततस्तथेति प्रतिगृह्य शासनं तस्य निर्जिहाना बहिर्निर्जराः समानग्रामा यूयमेव समानयत वासुकिं सान्त्वनेनेति प्रार्थयामासुरसुरवरान्॥
प्रागेव पातालजुषां प्रवृत्तिं जिज्ञासवो दारकुमारकाणाम्।
ते मन्दरोद्धारबिलाध्वनैव सद्योऽवतेरुर्दनुजाः प्रहृष्टाः॥५८॥
प्रविशन्तश्च ते ददृशुरतर्कितोद्धृतमन्दरमूलकन्दरोद्वान्तमूर्च्छितपन्नगाश्वासनपरिभ्रान्तबन्धुजननिरन्तरं, अर्णवनिमज्जदचलराजसंमर्दनिर्दलदतलवितलादिलोकनिष्पेषघोषभीषिताश्वसदाश्वस्तविहस्तजानपदजनाकीर्णं, अतितूर्णमुद्गच्छदादिकच्छपनिष्ठुरपृष्ठसंघट्टनस्फुटितशैलशिलाभङ्गसमुच्चलदभङ्गरस्फुलिङ्गपरिष्वङ्गदंदह्यमाननगरग्रामपल्लीनिवेशं, निरन्तरोत्पातधारानिरीक्षणसाध्वसेन पतिष्यति नाम भूतलं, चलिष्यति नाम सुमेरुः, स्फुटिष्यति नाम विध्यण्डकपालं, प्रवेक्ष्यति नाम सागरः, परित्यक्ष्यति नाम शेषो भुवनभारमित्यसंभावितमूलमनुक्षणमुच्चन्तीभिः किंवदन्तीभिः समाकुलमभितो रसातलम्। समागम्य ते वासुकिं सभाजिता यथोचितं समावेद्य सागरमथनसंरम्भम्, अनुपदमेव कथान्ते कथयामासुः शनैरेव भवितव्यं भवता मन्दरवेष्टनदान्नेति। अनुमोदमानो वचनममीषामाह च स्मेदमुरगपतिः —‘अहो चिराय मया श्रुतोऽयमभ्युदयो भ्रातृजनस्य। यत्किल समागम्य दैतेयैरादितेयाः साधयन्ति मनीषितम्। तत्र स्वयमनियुक्तैरपिकाद्रवेयैर्भ्रातृभिस्तत्साहायकमाचरितव्यमिति न्याय एव चोदयति, अत्र किमावेदनेन भवताम्। परं तु—
मूले वालधिमग्रतः सुरगिरेर्मौलिं च मे बध्नाता
कल्पे प्राचि पिनाकिना भगवताकृष्टोऽसि यल्लीलया।
तत्कालश्लथसंधिबन्धपरिवृत्तास्थीनि मर्माणि ता-
न्यद्यापि स्मितजृम्भितक्षवथुषु स्वाच्छन्द्यमुच्छिन्दते॥५९॥
अपि च —
यस्तल्पेष्वपि कोमलेषु शयितुं शक्नोमि नाश्मस्विव
त्यक्त्वा कुण्डलतां स्वपन्नपि च यो नायन्तुमद्योत्सहे।
पाषाणद्रुमगुल्मकण्टकदरीकूटप्रपातोद्भटं
सोऽहं वेष्टयितुं क्षमः किमचलं गात्रैर्जराजर्जरैः॥६०॥
तदद्य किंचिदनुगृह्य मां, नयन्तु भवन्तस्तक्षककार्कोटकशङ्खचूडगुलिकैरावतपद्ममुखान् महात्मनस्तरुणान् फणाधरान्, अन्ततो नयत जितश्रमं वा शेषं’ इत्यभिदधानो वासुकिः पुनरित्थमभिदधे दानवैः —
‘क्षुद्रैः किं करणीयमेभिरुरगैः क्षीणायुषामन्तकै-
र्या शेषं नयतेति वागजनि ते सैवास्तु सत्याधुना।
भूभारे ह्युपयुक्त एष विदितः सर्वैस्ततोऽन्यः पुन-
स्त्वं शेषो भवसीति निश्चितधियस्त्वामेव याचामहे॥६१॥
अपि श्लक्ष्णीकुर्मो मणिवदचलं पाणिकषणै-
रपि त्वां वोढास्मः सुखशयितमादुग्धजलधेः।
सुखं चाकर्षामस्तदुपरि यथा तुष्यति भवान्
प्रसीदायच्छस्व प्रचल शनकैः प्राप्नुहि यशः॥६२॥
कि बहुना। प्रातिवेशिका वयं भवतः परिचितहृदयाश्च चिरसंवासेन। ततस्तत्त्वमेतदवधार्यताम् —
महद्भिर्ग्रन्थीमः स्रजमजगरैर्मन्दरचरै-
र्मरुद्भिर्वा पाशैर्भ्रमयितुमलं स्तब्धमचलम्।
कराग्रैर्मथ्नीमो जलधिमथवा किं क्षरति नो
यशस्तूद्गातुं ते पुनरपि वदामः पुनरपि॥६३॥’
इति प्रार्थितो दानवैरनुत्तरो भुजगपतिः प्रस्थातुकामो चलयमेकमुत्सृजन्यावदुत्तस्थौ, तावदर्णवमथनक्षोभशङ्कितपतनामवनीं धारयितुमवस्थापितः स्वयंभुवा वज्रस्तम्भ इव संददृशे। ततः प्रतिष्ठध्वमित्यनुज्ञाय दानवान्, प्रसारयन् मन्दरोद्धाररन्ध्राभिमुखं मुखं, अनुवृतस्तक्षकादिभिः, अनुमतो भूभारवहननिश्चलेन भगवता शेषेण, शनैः शनैः शिथिलीचकार भोगवलयान्॥
अथ तेन बिलाध्वना विशन्तं पवनं पार्थिवगन्धसारसान्द्रम्।
प्रथमे पथि विश्रमे फणीन्द्राः पपुराकण्ठमयाचितोपपन्नम्॥
ततः प्रपात इव परिहृतनिम्नोन्नते तस्मिन् बिलद्वारे, महता यत्नेन मन्दंमन्दमुत्सर्पन्तो दशयोजनं, अधःपतन्तः शतयोजनं, आरुरुक्षन्तः पुनः, अवेक्षमाणा निम्नोन्नतानि, फूत्कुर्वन्तो भूयसा यावदश्राम्यन्ननिलाशनाः, तावत्करावलम्बनप्रदानापदेशेन परिघतोमरगदाप्रासादिभिः प्रहरणैः प्रकल्पयन्त इव सोपानानि, परिकर्षयन्तः शनैः शनैरिव प्रापयामासुरवनितलं फणाधरानसुरेश्वराः॥
आपातालात्फणधरपतेरा च मूलात्सुमेरो-
रद्राक्षुस्ते स्तिमितपतितं भोगमायासयोगात्।
मन्थानाद्रेरवनिवलयादुद्धृतस्यातिवेगा-
दन्तर्लग्नं त्रुटितघटितं मूलमेकं भुवीच॥६५॥
अथ कथंचिदाश्वस्तमहिपुङ्गवमालक्षयन्तो दानवा नगनगरग्रामनदनदीनदीशसंतानदन्तुरेण भौमेन पथा परिक्रमणमावेद्य मान्द्यहेतुं, आसाद्य तदनुज्ञां, आफणामण्डलादा चवालमूलादुद्धृत्य कराञ्चलैर्युगपदुपनिवेशयन्तः स्कन्धेषु तं, अपरान् पुनर्महोरगानङ्गुलीभिरङ्गुलीयकानीव, पादैर्नूपुराणीवपाणिभिः कङ्कणानीव, कटिभिः कटिसूत्राणीव, वक्षसा हारवलयानीव, वहन्तो लीलया तारापथेन पथा दुग्धोदधिमभिप्रतस्थिरे॥
दूरादलक्ष्यत सुरैर्दनुजांसलग्ना
द्राघीयसी भुजगपुङ्गवभोगरेखा।
तिर्यक्प्रवाहमुपयातवतीव दिष्ट्या
मन्दाकिनी निपतिता शिखरे हिमाद्रेः॥६६॥
पायंपायं पवनमभितः स्थौल्यमापाद्यमानं
वाहंवाहं फणधरपतिं विश्लथस्कन्धबन्धाः।
प्रत्युद्यातैः सुरपरिबृढैर्भारविश्रान्तिहेतोः
सार्धं दैत्या भुवि निदधिरे संनिधौ शार्ङ्गपाणेः॥६७॥
अथ शिथिलांसमांसलितखेदविनोदकृते
परिकलिताङ्गभङ्गमभितोऽपि वपुर्धुवताम्।
करचरणोदराङ्गुलिभुजान्तरकन्धरतो
भुवि भुजगा निपेतुरितरे विबुधद्विषताम्॥६८॥
खर्वोन्नतासुरस्कन्धसंधारणकृतां व्यथाम्।
वीजितो विबुधैर्दैत्यैर्विजहौ वासुकिः शनैः॥६९॥
परिश्राम्यतश्च वासुकेरतिवेलश्वासनिःश्वासपरम्परापरिणमदुपचयापचया परिणतशरकाण्डपाण्डरा च भोगयष्टिरभिपूरयितुं दुग्धसागरमापतिता विदूरादुच्छृङ्खलतरङ्गमालासमाकुला स्तब्धेव सिद्धनदी सुरासुरैरालुलोके॥
क्षितिधरपरिपातक्षुभ्यदम्भोधिगर्भ-
प्रचलदमृतबिन्दुस्यन्दसान्द्रैः समीरैः।
फणिपतिरपनीतस्वेदखेदो ददर्श
त्रिजगदनभिवेद्यं देवमाद्यं मुकुन्दम्॥७०॥
प्रणिपतन्नथ वासुकिः फणामणिप्रकाशधारानीराजनैराराधयामास चरणारविन्दमरविन्दनाभस्य, आह चेदम् ‘भगवन्नशिक्षितोऽस्मि शेष इव व्याकरणे, अनभियुक्तोऽस्मि पद्म इव पाञ्चरात्रे, अकृतश्रमोऽस्मि कम्बलाश्वतराविव गान्धर्वे, केवलमहं भगवतो मेरुधन्वनः सायकसंधानावसरसंपन्नं भगवतश्चरणारविन्दविन्यासभाग्यं परिशीलयन्नान्तरेण करणेन, परिपालयन् भवच्छासनं, आकाङ्क्षन् भवतो नियोगानुग्रहमासे भवदधीनः’ इति। तदनु च —
‘किं तन्त्रैः किं मन्त्रैः किं व्याकरणेन किं पुराणेन।
चरणाम्बुजे निमना धिषणा यदि पद्मनाभस्य॥७१॥
इति स्तूयमानमब्जसंभवादिभिरिन्दिरारमणो वासुकिमिदमबादीत् —‘वत्स वासुके न वक्तव्यमिदं त्वया। परिजानतैवहि भक्तिमियतीमपि मया प्रतिष्ठापितोऽसि प्रथमभुवनाधिपत्ये। तदिदानीं माहेश्वरं धनुरनुस्पृश्य संपादितं यशो माहेश्वरं गिरिमिमं प्रदक्षिणीकृत्य परिवर्धयेत्यादिशामि।
तेजसाप्याययिष्यामि दिव्येन त्वामसंशयम्।
कामं वेष्टय मन्थाद्रिं कर्षन्तु त्वां सुरासुराः॥७२॥’
इति दत्तवरो वासुकिरिन्दिरारमणेन, परितोषयन् सुरासुरान्, पश्यत्सु वैमानिकेषु, समुल्लुत्य वेगेन, सद्यःकृत्तविद्रुमकाण्डवत्संवेष्टयामास भोगेन मन्दरगिरेराभोगम्॥
प्रणमन्तः स्तुवन्तश्च भगवन्तं जनार्दनम्।
ववल्गुश्च जगर्जुश्च वासवाद्याः सुरासुराः॥७३॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक-
शतप्रबन्धनिर्वाहकश्रीमन्महाव्रतसाजिश्रीमदाप्पयदीक्षित-
सोदर्यश्रीमदाच्चान्दीक्षितपौत्रेण नारायणदाक्षितात्मजेन
श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन
विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये
तृतीय आश्वासः॥
_____
तुरीयाश्वासः।
संवेष्टयन्नथ स मन्दरमम्बुराशौ
सार्धद्वयेन वलयेन भुजङ्गराजः।
पार्श्वद्वयेऽपि शतयोजनमुच्छिशेष
पुच्छं मुखं च मथनाय सुरासुराणाम्॥१॥
ततः पूर्वजैः पूर्वकायः फणिपतेः, अवरजैरपरकायश्च परिग्राह्य इति न्यायमाचक्षाणेषु दानवेषु, कटाक्षेण कमलाक्षस्य,शासनेन च स्वयंभुवः, समुत्साहिताः परिकल्प्य शिरोभागमासुरं, परिजगृहुर्वालभागमदितिसुताः। अनन्तरमन्तर्भ्रमदचलराजमूलशिलासंघसंघर्षणकण्डूयननिद्राणकमठराजनिःश्वासपरम्परापरिहृतपवनाशनलोकदुर्भिक्षं, अभितः प्रकीर्णदुग्धकल्लोलनिपातपरिपूरितशुद्धजलार्णवंआमूलपरिभ्रमदमृतसागरैकावर्तपरिभ्रमिततिमितिमिङ्गिलोद्गीर्णतत्कालनिगीर्णाजीर्णशफरतर्णकाकीर्णं, अत्युच्चशिखरिशिखरनिष्पतदच्छनिर्झरस्रोतोनिपातपरिधौतचक्रवालशिलाचक्रं, अतिरभससमुद्धूतधातुरागसमुद्भाविताकाण्डसन्ध्यासंसूचितहालाहलोपप्लवं, उत्प्लवमानसागरदुग्धशीकरास्वासुहितभुजगराजभोगप्रसारणवेगपतदुत्पतत्सुरासुरस्तोमपर्यवस्थापनव्यग्रपद्मसंभवं, उभयपार्श्वसंघटितशिलासंघसंघर्षणसुखनिर्मुच्यमानचिरपरिणाम निर्मलवासुकिनिर्मोकशकलपरिधान संजिघृक्षानुधाव-
चक्रवाल लोकलोकपर्वतः॥
त्प्रमथयूथनिनादमेदुरं, अत्यायासपरिश्रान्तजरदुरगराजसमुद्वान्तपरुषविषानलज्वालाकलापदुरापलालप्रवर्तितहालाहलबीजावापं, आवसथपरिभ्रमणसमुद्विग्नकात्यायनीपरिरम्भसंभ्रमानन्दितचन्द्रशेखरतया प्रतिक्षणमुपर्युपचीयमानमहातपःसंभारं, आरसातलपरिभ्रमदर्णवावर्तगर्तसंदृश्यमानफणिलोकवृत्तान्ततया प्रशान्तगृहोदन्तविचारसुस्थपरिजनोरगपरिचरणसंभृतानन्ददन्दशूकेश्वरं, अद्भुतमवलोकयतां, अद्भुततरमद्यापि शृण्वतां अपर्याप्तमुपन्यसितुं वाचस्पतेरपि, अशक्यं काव्यशतेनापि वर्णयितुं काव्यस्य, सर्वतो निर्वृतैरपि महर्षिभिः समुत्सृज्य समाधिमालक्ष्यमाणमपक्ष्मपरिक्षेपं, अनुल्लिखितार्थलाभसमुल्लासेन किचिदप्यगणितशरीरक्लेशमायस्यद्भिरपि सुरासुरैरालोकमानः सागरमथनसंरम्भमाननन्द गोविन्दः॥
निर्मन्थश्लथसंधिबन्धनिखिलोद्देशक्षरन्निर्झरः
शैलोऽदृश्यत सिद्धचारणमरुद्गन्धर्वविद्याधरैः।
अश्रान्तभ्रमणश्रमेण जलधेः पीतं प्रभूतं पयः
स्रोतोभिः पुनरुद्वमन्निव मुखश्रोत्राक्षिनासादिभिः॥२॥
अपि च।
निःश्वसति भोगिभर्तरि निर्दग्धमहासुरैर्विषज्वालैः।
उच्छ्वसितममरवर्गैरुत्प्रेक्षितकार्यलाघवैरन्तः॥३॥
मन्थतामप्येवं महतोत्साहेन तेषामपाङ्गयन् शनैः शनैः शक्तिह्रासं, आप्याययन्वासुकिमम्बरचरानपि स्वतेजसा, त्रिविक्रमः स्वयमपि मथितुमुपचक्रमे॥
स्वेनैव भ्रमयति माधवे भुजाभ्यां
बभ्राम भ्रमरकवत्स शैलराजः।
किं चित्रं भ्रमति महर्षिसिद्धसङ्घे
मृद्भारे क्वचन महान्भ्रमोऽजनीति॥४॥
अत्रान्तरे च समन्ततः प्रकीर्यमाणमन्दरशिखरकाननप्रसूनपरागपरिचयादिव धूसराणि ददृशिरे दिङ्मुखानि। परिस्फुटितनिष्ठ्यूताः फणामणय इव वासुकेः प्रतिसूर्या जजृम्भिरे। परितोऽप्यासन्नमकाण्डविप्लवं जगतामवेक्षितुमक्षमेण दयानिधिना महेश्वरेण दृशोर्निमीलनादिव प्रचकाशे पद्मबन्धुरिन्दुश्च नाकाशे। सपर्वतवनद्वीपवसुमतीकम्पसंपन्नचलनसुमेरुशिखरस्थसुरराजनगरप्रासाददीपिका इव परिपेतुरभितोऽपि तारकाः॥
उद्यन्निर्घातघोषप्रतिभयमुदयद्धूमकेतूपकेतु
क्रन्दद्दिक्पालगन्धद्विपमुदधिपतत्तुङ्गशैलाग्रशृङ्गम्।
उड्डीनश्येनकङ्कप्रकरमुपचितध्वान्तमुद्भान्तवातं
प्राप्तं मृत्योरकस्मादिव वदनबिलं विश्वमासीत्तदानीम्॥५॥
तदनु निर्गमिष्यतः कालकूटस्योष्मणा क्वथितादुद्धेरुत्पतन्तः पयःकणा यत्र यत्र निपेतुस्तत्र तत्र पर्वता व्यदीर्यन्त, पादपाः प्रजज्वलुः, पशुपक्षिणो विनेशुः, प्रागेव सागरचराणि यादांसि॥
निःसंख्यस्फुरितस्फुलिङ्गजटिलोत्सङ्गज्वलत्पावक-
ज्वालाभङ्गविटङ्कसंकलितधूमस्तोमभीमस्ततः।
क्रुध्यत्कालविवृत्तवक्त्रकुहरोन्मुक्ताट्टहासोद्भट-
स्फूत्कारध्वनिभीषणः प्रववृते कोऽप्यद्भुतो मारुतः॥
स निर्जिहान एव यज्जगर्ज तर्जयन्
दिशो बभर्ज यच्च दुर्जयोष्मजर्जरं जगत्।
ततः प्रभूतभूतघातजातपातकावली-
विलापनाभिलाषुकः किमाससाद सागरम्॥७॥
ततस्तदालीढाः सप्तापि सिन्धवः सप्ताज्यबिन्दव इव जज्वलुरेकयैव ज्वालया। तदग्रसरोष्मतापिता एव भस्मावशेषतामभजन्त जन्तवः क्षुद्रास्त्रिभुवने। प्रदीपशिखराग्रविन्यस्तेन प्रसूनेनेव धुत्तूरस्य सुधानिधिनैव सुतरां परिमम्ले। प्रक्षिप्तोदूरमस्य मरुतो रंहसा पतगपतिरेव किं पपात, किमुत्पपात, किमतप्यत, किं निरदह्यत, किं मुमूर्च्छ, किं जीवितं जहाविति न ज्ञायते। उद्वान्तविषानला सममिव प्राणैरुरगपतेरपि तनुर्वर्ध्रिकेव सलिलक्लिन्ना वस्त्रभस्त्रिकेव रिक्तोदरा निःसारतया क्षणादवालम्बत नितम्बतः शैलपतेः। परिमृष्टाश्च तेन मायाविनोऽपि महासुराः, सुकृतशालिनोऽपि सुपर्वाणः, माहात्म्यनिधयोऽपि महर्षयः, चिरजीविताबलेन परं चिन्मात्रशेषिताः, परिक्षीणया गिरा, परिभ्रमता च लोचनेन, प्राकृता इव पर्यचेष्टन्त धरणीतले।
वध्रर्येव वर्धिका।‘नध्रीवध्रीवरत्रा स्यादश्वादेस्ताडनी कशा’ इत्यमरः॥
स्वर्णकारैः पुटपाकार्थं संनिधौ धमनोपयोगि संदानितचर्मविकारः क्रियते। तदेव भस्त्राशब्देन गृह्यते॥
ऊष्माणाववद्विभावसुरुभौ सांसिद्धिकागन्तुकौ
सस्यन्दे क्वथितं शरीरमभितः पाथोमयं पाशिनः।
सर्वाङ्गीणदृगन्तकन्दलदतिस्फाराश्रुधाराशतैः
सेकंसेकमनुक्षणं तु मघवा गात्रं दधौ जीवितम्॥८॥
हताः स्मो वयमस्मिन्कर्मणि प्रवर्तिता भवतेति परिभाषमाणेषु सुरासुरेषु, परितप्यमानस्ततोऽपि त्रपयैव पद्मसंभवो विश्वंभरमिदमवादीत् —‘भगवन् किमेतदिति मन्यसे।
न संवर्तः प्राप्तो न च वहति संवर्तपवनः
शतेनाब्दैः शोषं नयति स परं तु त्रिभुवनम्।
न च व्यापद्यन्ते तदुपरि चरन्तस्तनुभृतः
क एष ब्रह्माण्डं कबलयति निःशेषयति च॥९॥
अपि च।
नासौ वह्निर्नहि खलुभवत्यग्निनाग्नेः प्रणाशो
नापि क्ष्वेलो न हि गरलतो हानिराशीविषाणाम्।
नेदं सृष्टं सकृदपि मया नोपदिष्टं त्वया वा
किं व्याहारैर्मम च किमपि क्षुभ्यतीवान्तरात्मा॥१०॥’
८. विभावसुः सूर्यः। सांसिद्धिकागन्तुकौ उभौ ऊष्माणौ अवहत्। सांसिद्धिक ऊष्मा स्वाभाविकस्ताप। आगन्तुक ऊष्मा विषाग्निसंबन्धेन जनितस्तापः। पाशिनः वरुणस्य पाथोमयं शरीरं क्वथित सस्यन्दे। मघवा सर्वाङ्गेषु यानि लोचनानि तेषां कोणेभ्य प्रसरन्तीभिरश्रुधाराभिरेव वारिभिः गात्रं सेकं सेकं पुनः पुनः सिक्त्वा जीवितं दधौ॥
इत्यभिदधान एव विधौ, अशङ्कितोपनतरसातलातङ्कसंघटितसमाधिक्षोभकोपदुर्दर्शकालरुद्रसमुन्निद्रितफालनेत्रसमुत्थि इव महाप्रलयपावकः, प्रतिसर्गनिर्गलदनर्गलशेषविषनिःश्वासधूमसमाश्लेषजनितविषमषीपिण्ड इव मथनसंक्षोभलितवडबनलसंवलितः, सुन्दरतरमन्दरगिरिकन्दरशयस्वायंभुवशांभवलिङ्गचलनसंभावितप्रत्यवाय इव परमदारुणः, कल्पानलद्ग्धजगदण्डपिण्डीकरणप्रसक्तकालचण्डीकरक्षालनोदकमिव क्षीरोदमाकलयन् प्रथमनिःसृतपवनपरिस्पन्दमात्रनिःशेषितेषु भुवनेषु, दग्धव्यानुपलम्भसंभवक्षुधाप्रसारितरसनासहस्रभीषणेन ज्वालाकलापेन लेलिहान इव वैरिञ्चमपि प्रपञ्चं, अवसादितभुवनकोलाहलो हालाहले निर्गत्य, वारण इव वारणमभिदुद्राव रमारमणम्। तत्क्षणं च परुषविषानलज्वालापरिप्लोषप्रतीकारमन्त्राक्षराङ्गाररूषितानीव वदनानि चतुर्वदनस्य दधिरे दन्ततालुरसनाधरे मालिन्यम्॥
म्लायन्त्यां वैजयन्त्यामथ कनकपटे धूसरे धूमजालै-
श्चक्रेनिर्ज्यालचक्रे सपदि परिणतस्फोटशङ्के च शङ्खे।
उत्सर्पन्तं समन्तादपि परिकलयन्नद्भटं कालकूटं
कालात्मा पद्मनाभो मनसि विनिदधे कालसंघर्षयोगम्॥
सिञ्चन्तीं परमामृतानि दिशि दिश्यप्राकृतैरंशुभिः
खेलन्तीममृतार्णवे मणिमयीमारुह्य नौकां नवाम्।
११. पद्मनाभः कालसंघर्षयोगं मृत्युना अभिभवसंबन्ध मनसि विनिदधे। विष्णुरपि मृत्युभीत आसीत्। यद्वा — मृत्युभयनिवारणार्थ कालसंघर्षव्याख्याया अमृतेश्वरीविद्यायाः प्रयोगं मनसिविनिदधे दध्यौ॥
स्निग्धापाङ्गतरङ्गशिक्षितभवक्ष्वेलां मुकुन्दश्चिरा-
दस्मार्षीदमृतेश्वरीं भगवतीमम्बामहंभावतः॥१२॥
तामित्थं स्मरतश्चिरं मधुभिदस्तारां सुधामालिनीं
धृतद्वैतकलङ्कशङ्करकलापुंभावरूपात्मनः।
पाषाणव्यतिभेदजर्जरजरच्छैवालवचत्क्षणा-
दारात्किंचिदपासरत्परिगतो हालाहलः सर्वतः॥१३॥
अथ स्वस्थो यथापुरमम्बुजेक्षणस्तावतापि संरम्भेण तनुत्राणपर्यवसन्नेन निराशो हालाहलनिग्रहे, निश्चिन्वन्ननितरसाध्यसाधनधौरन्धर्यमन्तकान्तकस्य भाग इति, निर्धारयन्नन्तरेण परदेवताप्रसादमलभ्यतां शिवसाक्षात्कारस्य, चिन्तयन्नपि चिच्छक्तिविभूतिरूपतामात्मनः, परमेण समाधिना समाराध्य नारायणीमित्थमस्तावीत्।
‘यज्जन्मस्थेमभङ्गव्रतमिह जगतां यच्च सर्वान्तरत्वं
यत्स्वातन्त्र्यं च मोक्षे श्रुतिषु निगदितं विश्वसाम्राज्यचिह्नम्।
तद्यस्याः साहचर्यात्परिणमति परब्रह्मणि श्रीमहेशे
तामाद्यामात्मविद्यामहमिति कलयन्सर्वतो निर्वृतोऽस्मि॥
१२. अमृतेश्वरीमहभावतः अस्मार्पीत्। अहं अमृतेश्वरीति ध्यानं XX । उपास्योपासकयोरभेदभावना हि ध्यानस्य परा काष्ठा॥
** १३.** सुधामालिनीं वत्सुधारमा तारां तारादेवीम्। धूतद्वैतस्य द्वैततस्य शंकरस्य या कला शक्तिः तस्याः पुंभावः पुरुषरूपेण भवनं, तद्रूप मा यस्य तस्य। शिवस्य शक्तिरूपिणी या पार्वती तस्या एव पुमाकृतिमत्त्वे Xत्वात्॥
यल्लक्ष्मीदयितोऽस्मि यद्दनुभुवां जेतास्मि यत्कर्मिणां
कर्मस्वभ्युदयप्रदोऽस्मि यदपि ध्येयोऽस्मि वा योगिनाम्।
तत्सर्वं त्रिपुरे महेश्वरि महामाये जगद्रूपिणि
त्वत्सौभाग्यमहाविभूतिकणिकालेशस्य लेशायते॥१५॥
अपि च —
अतीतत्रैगुण्यामशरणशरण्यां भगवती-
महं तामालम्बे दृढतरमहंतां पशुपतेः।
तदाद्यं तत्त्वानामजरमपरिच्छेद्यमपरं
पराभूतद्वैतं परमपदमाविर्भवतु मे॥१६॥’
इति स्तुतिभिरर्थ्याभिर्ध्यायतो निश्चलं शिवाम्।
अस्पन्देष्वस्य गात्रेषु पस्पन्दे दक्षिणो भुजः॥१७॥
अवतीर्णा चास्य कर्णसरणिमशरीरिणी वाणी।
‘साधु वत्स जगन्नाथ साधु विष्णो जगन्मय।
पश्य त्वमात्मनात्मानं परमं ज्योतिरैश्वरम्॥१८॥’ इति
अथ यावत्समाधिं तं श्लथयामास माधवः।
तावदाविर्बभूवास्य पुरः पुरहरं महः॥१९॥
तत्र च पवित्रतरनदनदीनदीशादितीर्थस्वरूपतासंभावितक्लेदनैयत्यानुवृत्त्येव सामिविकसितललाटविलोचनधूमरेखासंस्तवेनेव कबीलितजाह्नवीकोपरिपूरितगर्भतयेव च परिणतपाटलिम्निजटावलये प्रतिष्ठिततया सान्ध्यरागसंवलितेनेव सकलशिवज्ञानाधिगमारम्भसंसूचनायेव द्वितीयाचन्द्रतामुपजग्मुषा, परमज्ञानरूपतयेव परिहृतकलङ्कानुषङ्गेण कपर्दबन्धनोरगदंष्ट्राङ्कुरेणेव कुटिलनिर्मलेन चन्द्रखण्डेन मण्डितं, जगन्निष्कामताहेतुतयेव निष्कामजनोपासनीयेन पक्ष्मविवरसमुञ्चलदर्चिःस्फुलिङ्गपरिष्वङ्गमात्रादेव निःशेषीभवति जगति निरीक्षितव्यासंभवादिव नित्यनिमीलितेन भसितत्रिपुण्ड्रहारमालिकापद्मरागतरलेनेव ललाटलोचनेन परिहरन्तमान्तरं तमो भक्तिमतां, कुण्डलितकुण्डलिराजफणामणिमयूखराजिनीराजितेन निसर्गसुन्दरेण गण्डमण्डलेन, श्रुत्युल्लङ्घनभयादिव कर्णान्तपर्यवसितेन निरन्तरकरणासारवाहिना लोचनयुगलेन, त्रिपुरविजययशोविशदेनेव परापराशेपविद्यात्मना प्रवहतो वचनामृतस्य निष्यन्देनेव मन्दस्मितेन च मदयन्तमिव मनांसि महायोगिनां, कदासौ पूर्येत, कदा चेममारोहेयमिति कुतूहलादुद्रीवमालोकयन्तमिव चूडाचन्द्रमसं उदञ्चिताम्रपादतया किचिदन्यतो जिगमिषन्तमिव प्रकृतिचापलेन वेदमयं मृगमपरपादनियन्त्रणेन नियच्छन्तमात्मन्येव निभृतमेकेन करेण, अतिकठिनाज्ञानपापाणसमुट्टङ्कनायेव गृहीतटङ्कमितरकरेण, निरुपप्लवापवर्गदानसत्रदीक्षिते जयत्यभयंकरे करे निःसारभोगवदान्येन किं मयेति ह्रियेवावाङ्मुखेन वराङ्कितेन करारविन्देन परिपूरयन्तमभिमतान्यभिसंधिमतां, नीरूपदिगम्बराच्छादननिर्वेदादिव बहुरूपेण तारक्षवेण चर्मणाभिसंवीतं, चिन्मयेऽतिनिर्मले वपुषिजपाकुसुमपार्श्वगस्फटिकोपलन्यायेन मञ्जीरफणिफणामणिप्रभापुञ्जपिञ्जरचरणारविन्देनातिपचेलिमभाग्ययोगनिर्मलैरन्तःकरणैरिव चरणलग्नैःसमािधिषुयोगिनां पञ्चभिरक्षरैः शिवसूत्रस्य पर्यवसितैरिव सव्यापसव्ययोःपादयोरतिसुन्दरैर्नखैरवतंसयन्तमादिभारतीचिकुरबन्धं, अध्यासीनमधःकृतान्तःकरणवासनाष्टकमास्तीर्णात्मन्त्रमहातल्पकल्पितमखिलतत्त्वपथोत्तीर्णमानन्दमयमहार्हमासनं, अन्वास्यमानमखिललोकमातृकया संविदानन्दघनीभावसंपन्नविग्रहया कादम्बिन्येव करुणारसपूर्णया आत्मविद्ययेव सादरमालिङ्गन्त्या समानगुणरूपसौन्दर्यशीलया भगवत्या सर्वमङ्गलया, सुखविश्रान्तमिवशरन्मेघमण्डलं, सुधासारघटितमिव कर्पूरपरागसंचयं, अतिकोमलमिव स्फटिकाचलं, आदृतघनीभावमिव चन्द्रिकासारं, आवर्त्यपिण्डितमिव परमामृतं, आसेचनकमासेचनकानां, आश्चर्यमाश्चर्याणां, मङ्गलं मङ्गलानां, आदिमादिमतां, अवधिमवसीदतां,आकरं विद्यानां, आलयं दयासौलभ्ययोः, अचिन्तनीयप्रभावमपिचिन्तनीयमखिललोकस्य, अद्वैतब्रह्मस्वरूपमप्याविष्कृतपञ्चब्रह्मरूपं,अतिदूरमर्वाचां प्रमाणानां,अविप्रकर्षगोचरमादिगिरांसाक्षाच्चकार दाक्षायणीरमणम्॥
अन्तःकरणवासनाष्टकमुक्तं तत्त्वविवेके —‘लोकपुत्रधनग्रामदारशास्त्रगृहंच। देहे च वासना त्यक्त्वा सुखी भवति नान्यथा॥’
आत्मत्रयं— अन्तरात्मा जीवात्मा परमात्मा च॥
आसेचनकं — तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्॥
आविष्कृताना पञ्चब्रह्मणां सद्योजातवामदेवाघोरतत्पुरुषेशानसंज्ञकानांरूपं यस्य तम्॥
शाणोल्लीढशरन्मृगाङ्कशकलस्तोमाभिरामं मह-
स्तत्पश्यन्निभृतं विनिद्रकमलद्राघीयसा चक्षुषा।
साहस्राम्बुजपूजनव्रतसमाधित्सुः पुरा साहसं
चक्रे यद्गिरिशे स्वयं तदुचितं मेनेऽधुना माधवः॥२०॥
अपि च।
वैराजशाक्कररथन्तरवामदेव्य-
कालेयराजनगवांव्रतरौहिणाद्यैः।
तं सामभिर्बहुभि ऋग्यजुषेण चोच्चैः
शौरिः स्तुवन्पुरहरं शतशो व्यनंसीत्॥२१॥
भव्यैरष्टभिरान्तरैः परिचरन् पुष्पैरहिंसादिभिः
कोटीरे परभक्तिभारनमिते कुर्वन्प्रणामाञ्जलिम्।
वाग्भिर्गद्गदनिर्गताभिरखिलत्रय्यन्तसैद्धान्तिक-
स्रोतःसारमयीभिरस्तुत स तज्ज्योतिः परं ज्योतिषाम्॥
‘सान्निध्यमात्रजो यस्य स्पन्दो बिन्दोरिदं जगत्।
अद्वन्द्वमपरिस्पन्दि तद्दृन्द्वं नौमि शांभवम्॥२३॥
ओमित्युमेति युवयोरभिधानमेकं
सृष्ट्यादिसृष्ट्यवधितागुणमात्रभिन्नम्।
२२. अहिंसा दमः क्षान्तिः दया ज्ञानं तप सत्यं भावश्चाष्टो आन्तरपुष्पाणि॥
२४. उमा मूलप्रकृतिः सृष्टेरादिः। ओकारबिन्दौ निखिलप्रपञ्चस्य प्रविलयात्ओंकारःसृष्टेरवधिः। ओमिति उमेति च अभिधानमेकं, अकार-
एकं च तावदभिधेयमपीह रूपं
वेणी जटेति कचसंहतिभेदभिन्नम्॥२४॥
यद्वोरघोरतररूपमघोरसंज्ञ-
मावर्तितभ्रुकुटिभीषणमाननं ते।
तद्दक्षिणं पशुपतेः परमं पदं मे
सांसारिकार्तिहरणं शरणं प्रपद्ये॥२५॥
इति स्तुवन्तमिन्दिरारमणमिन्दुशेखरः परिरभ्य बाहुभ्या मिदमाचचक्षे —‘भगवन् कमललोचन भवद्दर्शनेन परमामस्मिनिर्वृतिं प्राप्तः। आत्मनोऽपि किमधिकं प्रेमपदम्। तथा हि —
शिवा घोरा चेति श्रुतिषु विदिते ये मम तनू
तयोराद्या मूर्तिः परमरमणीया त्वमसि मे।
त्वमस्यर्धंदेहे त्वमसि वदनं दक्षिणमिति
त्वयि प्रीये यावत्तवभवति तावच्च विदितम्॥२६॥
किमिच्छसि किं करणीयम्’ इत्यभिदधत्युमावल्लभे, रमावल्लभेनेदमभिदधे —‘किमन्यदेष्टव्यम्। इदं किल किमपि विशृङ्खलं दुर्यश इव संभावितस्य सद्यःसमाक्रान्तविध्यण्डमण्डलं दुर्विदग्धस्य पाण्डित्यमिव तृणीकृतब्रह्मादिदैवतं, नीचगतमैश्वर्यमिव निमिषार्धमपि क्षन्तुमक्षमं, बालिशराजोपसेवि जीवनमिव
उकार - मकारसंघातात्मकत्वादुभयोः। एकस्मिन् अकार आदिः, अन्यस्मिन् अन्तिम इत्येव भेदः।अकारेण आकारस्यापि ग्रहणं शब्दशास्त्रप्रसिद्धम् रूपमप्युभुयोरेकम्। एकस्या एव कचसततेः वेणीत्वं जटात्वं च भवति॥
प्रतिक्षणं चित्रीयमाणं, पाशुपतावहेलनमिव भस्मीकृतजगत्त्रयं, क्षीणायुषामामयौल्बण्यमिव विफलीभवत्प्रतीकारप्रकारं, पाषण्डमुखमिव परिहरणीयं दर्शनपथात्, प्रतारकसौहार्दमिव परमदारुणं, विषयनिषेवणमिव व्यामोहकारणं,भवत्पादाब्जवैमुख्यजं दुरितमिव भवत्प्रपदनैकभेषजं, अव्यपदेश्यमनिर्धार्यं, अदूरविप्रकर्षेण शक्यमिव विषमिति व्यपदेष्टुं, अतर्कितोपनतमतीतभवप्रारब्धमिव समाक्रम्य जगत्त्रयं संनिपात्य देवासुरान्, प्रक्षोभ्य कमलासनं, परिवृत्य मामपि प्रवृत्तं शनैर्भूषणाम्बरादिषु, भगवत्याः सुधामालिन्याश्चरणस्मरणप्रभावादपसृत्येव किंचिदधरोत्तरयति विश्वमिदम्॥
अक्षोभ्यं भिषजां शतैरविषयः शस्त्रस्य वास्त्रस्य वा
दुःसाधं मणिमन्त्रयन्त्रशरणैर्दुर्निग्रहं योगिभिः।
व्यामुह्यत्कमलासनं विनिपतद्देवर्षिसिद्धासुरं
निर्व्यापारितमद्भुजं च किमिदं किंनाम न ज्ञायते॥२७॥
यदादिष्टं पाल्यं जगदिति जगन्नाथ भवता
तदेतत्पर्यन्तं तव करुणया साधितमिव।
दुरूहे दुःसाधे महति पुनरस्मिन् प्रविलये
ममेदं कार्यं यत्तव चरणयोस्तत्त्वकथनम्॥२८॥’
इति निर्विण्ण इव निवेदयति गरुडध्वजे, प्रहसन् पार्वतीरमणः, पश्य तावदिति ब्रुवन्, प्रसारयन् दक्षिणं बाहुं, अनुसस्मार हालाहलम्॥
सर्वातङ्कविशङ्कशङ्करजटालंकारचन्द्राङ्कुर-
ज्योत्स्नानिर्भरपूरितत्रिजगतीगर्भावधूतो बहिः।
स क्ष्वेलः क्वचन व्यलीयत महाशुण्डालशुण्डाहति-
क्षुभ्यत्क्षुद्रसरस्तरङ्गनिकरव्याकीर्णशैवालवत्॥२९॥
अजनि शनैर्विशदं जगदपसर्पति कालकूटसंतमसे।
तात्पर्यमिव कवीनां तार्किककोलाहलोपरमे॥३०॥
ततश्च सान्निध्यत एव भगवतश्चन्द्रचूडस्य पल्लवितान्यरण्यानि, पर्यपूर्यन्त सागराः, प्रावर्तन्त सरितः, पस्पन्दिरे मरुतः, प्रचकाशिरे ज्योतींषि, प्रसेदुर्दिशः, प्रशेमुरुत्पाताः प्रादुरभूवन्मङ्गलानि, अचेतयन्त जन्तवः, यथापुरमबुध्यत वासुकिः उत्तस्थुर्देवासुराः, शनैरुपलभ्य संज्ञामम्भोजसंभवोऽपि संददर्श चन्द्रशेखरम् ॥
पर्याप्तेन्दुशतद्युतिं परिचितं सत्या शुकश्यामया
साकूतस्मितसुन्दराधरपुटंशार्दूलचर्माम्बरम्।
सावज्ञाग्रकरप्रसारणमहासंरम्भसंभावना-
संहृष्यत्कमलेक्षणं च तमसौ पश्यन्न तृप्तिं ययौ॥३१॥
** ३०.** तार्किककोलाहले प्रद्वेषः शिवलीलार्णवेऽप्येवमाविष्कृतः कविना-
अप्यन्तिकस्थैरविभावनीयः सूक्ष्मः प्रकृत्या मृदुसूक्तिजन्मा।
कुतर्कविद्याव्यसनोपजातैः कोलाहलैर्न ध्वनिरेष वेद्यः॥
वाच कवीनामुपलालयन् या भुङ्क्ते रसज्ञो युवति युवेव।
तामेव भुङ्क्ते ननु तार्किकोऽपि प्राणान्हरन्भूत इव प्रविष्ट॥
ततः प्रतिलब्धचेतना ब्रह्मादयः, पक्षिण इव सुप्तोत्थिताः प्रातरुच्चावचैः कोलाहलैरुद्यन्तमिव सहस्रकिरणमुपतिष्ठन्ते यावदुमारमणं, तावदस्य भवसागरनिमग्नभक्तजनोद्धारदर्शितानुराग इव, परिणामकर्कशपशुपाशप्रन्थिविश्लथनायास संभृतारुण्य इव, पार्वतीकर्ककुचकुम्भकुङ्कुमालेपपरिचयपाटल इव, तामरसोदरसोदरत्विषि पाणितले, पल्लव इव मधुव्रतः, पद्मरागकरण्ड इव कस्तूरिका, जाम्बवमात्रपरिमाणजातसंकोचमपि दुराधर्षमूष्मणा, दुर्दर्शमतिदारुणेन तेजसा च, समालक्ष्यत तरलमिव साध्वसेन तद्गरलम्॥
आश्चर्यस्तिमितत्रिविष्टपमतिप्रेमाहितात्याहित-
प्रक्षुभ्यगिरिजागृहीतपुनरुद्धूताग्रहस्ताम्बुजम्।
मह्यं मद्यमिति प्रतिस्वमसकृत्क्ष्वेलार्पणप्रार्थना-
संनह्यद्गणदर्शितस्मितलवं शंभोः स्थितं पातु नः॥३२॥
ततः प्रकृतिस्थे जगति, प्रबुद्धेषु देवासुरेषु परिष्टुवति पद्मविष्टरे पद्मनाभे च, निषेद्धुमनुवर्तितुमप्यपारीणतया निश्चलार्पितदृष्टिषु नन्दिमुखेषु पारिषदेषु, अन्तरेव मङ्गलमाशासानया सर्वमङ्गलया समालिङ्गितो दृढं’ हालाहलो नाम विषराजोऽयमाचम्यतेऽस्माभिः, मा बिभीत, विज्वरा भवत’ इति प्रतिबोध्य पश्यतो जनान्, माधव इव नवनीतमुमाधवो गरलमुपयुयुजे। यस्य शिष्यवर्गे बडबानलः, भुजिष्यवर्गे भुजगविषाणि, वनीपकवर्गे वज्रनिष्पेषः, गणनीय एव गगनमणिः, तादृशि कालकूटेतादृशीमपि दारुणतामुपसंगृह्य, जम्बूफल इव, जीर्णामलक इव, खर्जूरपिण्ड इव, खदिरसारखण्ड इव, विशति निःशङ्कमाननं विषमलोचनस्य, जठरस्थजगत्लोषमाशङ्कमाना दयामयी भगवती दाक्षायणी पल्लवकोमलेन पाणिना पराममर्श कण्ठपदम्॥
निर्मर्यादभवज्वरज्वलनसीदज्जीवजीवातुना
संस्पृष्टं करपल्लवेन जगतां मातुः सुधास्यन्दिना।
सद्यः शीतलितं शरत्परिणतज्योत्स्नामृतस्यन्दव-
त्तस्तम्भे गरलं गले भगवतश्चन्द्रार्धचूडामणेः॥३३॥
यच्छैलेषु यदम्बुराशिषु यदुद्भिज्जेषु यञ्जन्तुषु
कापि कापि हृतस्य तस्य सहसा लेपात्मना शेषितम्।
वत्सौराष्ट्रकदारदादिभिदया विख्यातमद्याप्यहो
कीटायापि न मन्यते खगपतिं धन्वन्तरिं चाश्विनौ॥
अन्तर्निगीर्णमपि तेन तदाविरासी-
त्कालोन्मिषत्कुवलयच्छवि कण्ठमूले।
आयस्य गुप्तमपि खल्वनृतं कदापि
सद्यः स्फुटीभवति साधुषु निर्मलेषु॥३५॥
अथ भगवन्तमनायासकबलीकृतकालकूटं आविष्कृतमन्दस्मितसुन्दरमाश्वस्तया भवान्या मुहुर्मुहुराश्लिष्य परिचुम्बन्त्या परामृश्यमानकन्धरापदं, आनन्दतुन्दिलतया किमप्यज्ञातकरणीयैरालिङ्गद्भिरितरेतरं, अन्योन्यमास्फोटयद्भिरपहसद्भिरन्योन्यममरगणैरसकृदुपसंगृह्यमाणचरणारविन्दमालक्ष्य चन्द्रशेखरं, आनन्दनिर्भरा गोविन्दविधिपुरंदरादयो देवाः, बलिविरोचनादयो दानवाः, ब्रह्मर्षयश्च सनकादयो यथामति स्तोतुमारेभिरे॥
‘दिष्ट्या विषेण भग्नाः स्मो दिष्ट्या पीतमिदं त्वया।
दिष्ट्या च नीलकण्ठं त्वां गृणती साधिता श्रुतिः॥३६॥
पाषाणान् सितनीलपीतहरितान्वैडूर्यवज्रादिकान्
कण्ठे वक्षसि मूर्ध्नि वा निदधतां का नाम तेन स्तुतिः।
एतद्भूषणमेतदेव जगतां दुःसाधमुज्जीवनं
कण्ठे यद्भगवन्नियच्छसि सुखं काकोलमुच्छृङ्खलम्॥३७॥
अद्याहं परिपालकोऽस्मि जगतामद्यैव घातात्मभू-
रथेमे हरिदीश्वरा भुजबलैरधोटा दानवाः।
अद्यैते चिरजीविनो मुनिवरास्तन्त्रैश्च मन्त्रैरपि
स्वामिन्नाकलयामहे तव यदा कण्ठं घनश्यामलम्॥३८॥
शैलादिकृतनिषेवण कैलासशिखरभूषण तत्त्वार्थगोचर चन्द्रार्धशेखर शापायुधकुलार्थ्यसस्मितापाङ्ग कोपारुणकटाक्षभस्मितानङ्ग ऊरीकृतविभूतिदिव्याङ्गराग गौरीपरिगृहीतसव्याङ्गभाग अङ्गानुषङ्गपावितनरास्थिलेश गङ्गातरङ्गभावितजटाप्रदेश
शैलादिः शिलादस्यापत्यं नन्दिकेश्वरः। शापायुधानां मुनीना कुलेन अर्थ्यः प्रार्थितुं योग्यः सस्मितः अपाङ्ग यस्य तत्र संबुद्धिः॥
वन्दनाभिरताखण्डल स्यन्दनायितभूमण्डल अक्रीतदासतापसकदम्ब चक्रीकृतार्कशीतकरबिम्ब आदृतपुराणवेतण्ड स्वीकृतसुमेरुकोदण्ड खर्वीकृतासुरमदानुपूर्वीविकास दर्वीकरेश्वरगृहीतमौर्वीविलास वीणामुनीन्द्रख्यापितगरिमपौरुष बाणाधिकारस्थापितपरमपूरुष अनिलाशनविहितनैपथ्य कमलासनविहितसारथ्य विश्वाधिकत्वपदालम्ब अश्वायिताद्यवचोगुम्फ कुन्दस्मयहरकान्ति प्रकर मन्दस्मितलवशान्तत्रिपुर नादबिन्दुकलाभिज्ञास्पदभूरिभद्र स्वेदबिन्दुलवाविर्भावितवीरभद्र त्रस्तरक्षापरतन्त्र ध्वस्तदक्षाध्वरतन्त्र किरीटानीतविविधवेधःकपाल चपेटाघातशिथिलभास्वत्कपोल जृम्भितविक्रमोद्दण्ड स्तम्भितचक्रिदोर्दण्ड ब्रह्मस्तवोपचितमहाहर्ष जिह्मस्वभावजनदुराधर्ष वसुन्धराधरसुतोपलालन जरन्धरासुरशिरोनिपातन कोपाहतपतितान्तक व्यापादितसमदान्धक वरसंहननजटासंभृतपरभागगौर नरसिंहनियमनालम्बितशरभावतार प्रपन्नभयमोचन विभिन्नभगलोचन प्रपञ्चदहनकारक विरिञ्च वदनहारक संचारपूतमन्दर पञ्चायुधातिसुन्दर अपनीतदक्षान अभिनीतभिक्षाटन धारितमेरुकाननकुसुममालिकालकार दारित
स्यन्दनायितं त्रिपुरसंहारे रथवदाचरितं भूमण्डल यस्य तत्र संबुद्धिः आदृतपुराणवेतण्डःगणपतौप्रेमशाली। वीणामुनीन्द्रः नारदः। अश्वायिताद्यवचोगुम्फ — त्रिपुरसंहारकाले वेदा भगवतो रथस्य अश्वा अभूवन् नादबिन्दुकलाः प्रणवस्य सूक्ष्मावयवविशेषाः, तान् ये अभिजानन्ति तेषुआस्पदं प्राप्यस्थान तत्र संबुद्धिः। विभिन्नभगलोचन – वीरभद्रः सूर्यस्यलोचने पाटयामासेति दक्षोपाख्याने॥
दारुकावनकुलपालिकाहंकार समावर्जितभक्तमानसानुसार परावर्तितद्यप्ततापसाभिचार वैयासिकोक्तिगोचर वैयाघ्रकृत्तिभासुर गतपरिकर्मगणस्पृह कृतकरिचर्मपरिग्रह स्वध्यानशमितपातकप्रसङ्ग विध्यादिविबुधपूजितस्वलिङ्ग शान्तमानसानुरोध क्षान्ततापमापराध फालानलवलन भीषण हालाहलगरलभूषण अरुणांशुकन्दलमणिसुन्दर फणिकुण्डल चरणामयन्त्रितदशकन्धरभुजमण्डल आनन्दताण्डवनटनानुबन्ध गोविन्दपूजितचरणारविन्द विनयानतामृताशनसहस्राहितप्रमोद तनयाभिलाषिमाधवतपस्याकृतप्रसाद दिव्यास्त्रदानतोषितभृगुसूनुनम्य सव्यार्धभागभावितहरिरूपरम्य वन्दितागतश्रुतिसार नन्दिपालितप्रतिहार बुद्धनानार्थ रहस्यशतमन्युमुख्यामरभक्तिगोचर दुग्धपानार्थतपस्यदुपमन्युविश्राणितदुग्धसागर अधिकसंचालितदुष्टपीडाचरण हरिविरिञ्चापरिदृष्टचूडाचरण अञ्चद्धर्मवृषाधार पञ्चब्रह्ममयाकार वेदाश्ववरोपहितस्वाम्य श्वेताश्वतरोपनिषद्गम्य चापल्यरहितरम्यस्वभाव कैवल्यवचनगम्यप्रभाव अखर्वमखाधिराज्यप्रताप अथर्वशिखानुवाद्यस्वरूप अगर्वनरस्तुतिमुदित अथर्वशिरःश्रुतिविदित नादान्तविभावनीय वेदान्तविबोधनीय प्रणतार्तिहर प्रणवार्थसार मुग्धलावण्याधार शुद्धचैतन्याकार आशीविपधारक काशीपुरनायक हृदम्बुजकृतविलास चिदम्बरकृतनिवास आकर्णचलितापाङ्ग गोकर्णरचितासङ्ग घोरासुरपुरधूमकेतुस्मित वाराकरगत-
अखर्वौमग्वाधिराज्यं यागाधिपत्यं प्रतापश्च यस्य।‘आ वां राजानमध्वरस्य रुद्रं होतारं’ इति श्रुतेः॥
रामसेतुस्थित रक्षणलीलाविलास दक्षिणकैलासवास आताम्रलोलनयन एकाम्रमूलभवन आभीलविधुरसेवन श्रीशैलशिखरपावन आर्द्राक्षमधुरवाग्गुम्फ रुद्राक्षरुचिरदोःस्तम्भ कालकण्ठरुचि घटितलावण्य नीलकण्ठमखिनिहितकारुण्य सेवापरतन्त्रपालक शैवागमतन्त्रकारक सर्गस्थितिसंहृतिकार्यत्रयस्थेय भर्गश्रुतियन्त्रित गायत्र्यनुसन्धेय अध्यासितवरनिकुञ्जगृहहिमाहार्य अध्यापित हरिविरिश्वमुखशिवाचार्य अर्चितानन्तविहार सच्चिदानन्दशरीरविजयी भव विजयी भव॥
भुञ्जीथा न हलाहलं यदि महादेव त्वमेवंविधं
भुञ्जीरन् किमिमे सुराचरुपुरोडाशादिहव्यं मखे।
आसीथा न यदि स्वयं पितृवने भूतानि संमोहय-
न्नासीरन् किमिमे जनाः सुकृतिनो हर्म्येषु सौधेषु च॥३९॥
किं बहुना—
त्वत्प्रस्वतास्त्वया गुप्तास्त्वया व्यापारिता वयम्।
त्वां विदन्तोऽविदन्तो वा त्वामेव प्रीणयामहे॥४०॥’
इति स्तुवतो देवान् पुरशासनः पुनरित्यमनुशशास।
दक्षिणकैलासः कालहस्तक्षेत्रम्॥
नीलकण्ठमखिनिष्ह्रितकारुण्य —अत्र कविरात्मानं निर्दिशति॥
सर्गेति। स्थास्नुस्थिरतरस्थेयानि इत्यमरः॥
भर्गःश्रुत्या भर्गःपदश्रवणेन यन्त्रिता सवलिता या गायत्री तथा अत्रसधेय॥
अर्चिता पूजिता अनन्ता विहारा लीला यस्य अर्चितानन्तविहारः॥
‘पुत्रा यूयं भुवनविदिता ब्रह्मनारायणेशा
दासा देवाः शतमखमुखा दानवेशास्ततोऽपि।
कस्यान्यस्य व्यसनमहरं कालकूटे निगृह्णन्
लज्जे भूयः स्तुतिषु भवतां व्यापृतः स्वे कुटुम्बे॥४१॥
तदलमतिक्रामति कालो मथनस्य। वत्सा देवासुराः, वत्स भोश्चतुरानन, शृणुतावहिताः परमुपदेशमिमम्—
अमुं यं वीक्षध्वे पुरुषमरविन्देक्षणमसौ
सवित्री सर्वेषामपि च भवतां मत्प्रियतमा।
मदाज्ञामस्याज्ञां मम भजनमेतस्य भजनं
विजानन्तो यूयं विनमत तथास्मिन्मयि यथा॥४२॥
भगवन्नरविन्दलोचन जानामि भवतो मयि प्रीतिमन्यादृशीम्। काममग्रे सत्रास्वहे। कालस्त्वयमेपामत्येति सुधाप्रदानस्य। तदद्य वियोगेन मे नार्हसि वैक्लव्यमधिगन्तुम्।
भवानिति भवानीति पश्य भेदः कियानयम्।
विग्रहं प्राप्तयोरेकं विश्लेषः क इवावयोः॥४३॥’
इति प्रसादयन्निन्दुशेखरः, प्रदक्षिणीकृत्य सहस्रशः, पादावाधाय मूर्ध्नि, परिरभ्य निर्भरं बाहुभ्यां, विसृष्टः कथंचिदपि विश्वंभरेण, पश्यत्सु देवासुरेषु, पार्वतीसहितस्तिरोदधे॥
तदनु च—
स्तुवन्तो दिव्याभिः स्तुतिभिरभिसंगम्य शतशः
स्पृशन्तः कोटीरैश्चरणकमलं कैटभभिदः।
स्मरन्तः श्रीकण्ठं सममसुरवीरैर्दिविचराः
प्रहृष्यन्तः सिन्धुं प्रमथितुमुपाक्रंसत पुनः॥४४॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक-
शतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षित-
मोदर्यश्रीमदाच्चान्दीक्षितपौत्रेण नारायणदीक्षितात्मजेन
श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन
विरचिते श्रीनीलकण्ठविजये
चम्पूकाव्ये चतुर्थ आश्वासः॥
______
पञ्चमाश्वासः।
आलोड्यमानः पुनरेकतानैरामूलमब्धिः सुरदैत्यसंधैः।
प्रादुष्करिष्यन्परमामृतं तत्प्रासीददीशान इव क्रमेण॥१॥
ततश्च ततः क्षोभ्यमाणात्सजातीयमन्दरसंघर्षमसहमानतया समुत्थित इव मैनाकभूधरः, परिगलत्कलुषमदजलासारपरिजिहीर्षया निर्वासित इव भुवि नैर्मल्यैकमत्यस्थितैरान्तरैर्जन्तुभिः, सलिल एव संततवप्रक्रियाशीलनेन संसक्तैर्दुग्धसागरसरोजनालैरिव वज्रवलयैरावेष्टितचतुर्दन्तः, संततभूभारपरिश्रान्तदिगन्तदन्तावलराजदृष्टिपथान्निलीय विष्टिग्रहणशङ्कया विनिर्गतः स्वयमेव बहिरिवकेनापि पथा विस्मयनीयविग्रहो महानैरावतो नाम मतङ्गजः प्रादुरभूत्॥
परिचलितदुग्धवेलापरिचयविमलस्य मन्दरस्य गिरेः।
अभ्यर्णमुपसरन्नयमर्भक इव तस्य संददृशे॥२॥
आजिघ्रन्निव पुष्करेण जलधेरर्धं पिबन् शीकरै-
रासिश्चन्नभितस्तनूमिव सुरान् स्रोतोभिराप्लावयन्।
वप्राघातमिवाचरन् शिथिलयन्मन्थानमेवाचलं
हर्षायाजनि पश्यतां दिविषदामैरावणो वारणः॥३॥
विष्टिग्रहणशङ्कया बलात्कारेण ग्रहणशङ्कया। मास्यामूले लग्नकचे विष्टिर्नरकपातने। बलात्कारे च भद्राख्यकरणे कर्मवेत्तने॥ इति नानार्थरत्नमाला॥
स च बहिर्निःसरन्नशिक्षिताधोरणनियन्त्रणतया मनागप्यगणयन् देवासुरान्, अमृतोपयोगसुहिततया किमप्यनालोकयन्नुपनीयमानानिक्षुलताभारानुपह्रियमाणानि कदलीकाण्डानि संम्रियमाणानि पिप्पलपल्लवानि च, सर्वतः पराममर्श यादांसि। तमित्थमतर्कितोपनिष्क्रान्तमालक्षयन्तः पुनरपि यावदाविलयांबभूवुरर्णवं देवासुराः, तावदुद्वेलहेषाहलहलोन्मेषपोषितकल्लोलकोलाहलः, चटुलखुरपुटाबिद्धदुग्धसागरशीकरासारदुर्दिनदुर्दर्शदिङ्मण्डलः, संततसलिलनिमज्जनोन्मज्जनक्लेशसहनाक्षमतया सैन्धव इव कुमुदबान्धवस्यन्दनसंदानितः, कोऽपि समुन्मुच्य बन्धनमुच्चलितो बहिरुच्चैःश्रवा नाम यथार्थनामा समुन्ममज्ज सज्जीकृतो वाजी॥
आप्योऽपि रंहसा गच्छन्ननाप्यो मारुतेन यः।
सैन्धवः सैन्धवाद्गर्भादुत्ततार स पाण्डरः॥४॥
स च किंचिदुदञ्चिताम्रपादतया मुहुर्मुहुराधित्सन्निव शिरसि पद्मनलसारथेः, अपहसन्निव हेषारवैरवनितलमात्रसंचारशिक्षिता इत्यारट्टुजवनायुजान्, सलिलमात्रसंचारशीलिनो मत्स्यमण्डूककर्कटका इवेति वाजिनो वरुणस्य, तैलयन्त्रनियन्त्रिता बलीवर्दा इव संततभ्रमणमात्रगर्विता इति सैन्धवानम्भोजबान्धवस्य, मारुतविजयादेव मनांसि जिगाय। अपि च। बाडबानामाजानसिद्धो मनोजयः कस्तत्र यत्न इति कथयितुकाममिवचलप्रोथतया, बालविक्षेपनिर्धूतमेघमण्डलतया वाहनं
हलहल इत्यश्वद्देषानुकरणम्॥
प्राचीनमभिभवन्तमिवाखण्डलस्यपश्यन्नुच्चैःश्रवसमनिमेषेण चक्षुषा, पद्मनाभः स्वयमङ्गीकृतहयग्रीवतनुरध्यापनमात्रनिर्वृतः सर्वतोऽपि विस्मयनीये तदीये गतिचातुर्ये सासूय इव बभूव॥
यावद्यावत्सागरं ते ममन्थुस्तावत्तावत्सोऽर्पयन्नेकमेकम्।
भूयो भूयः क्षोभमेवाप देवैर्दृष्टास्वादास्तत्र किं ते दयन्ते॥
ततश्च —
साध्वी गौः सुरभिर्नाम सागरादुदभूत्स्वयम्।
गोप्रसूता हि गावी स्यामसाधुश्चेति जानती॥६॥
स्नातुं वाञ्छति शंकरोऽपि पयसा स्तन्येन यस्याः स्वयं
तोयं पावनमुत्तमं त्रिजगतां यद्गात्रनिष्यन्दजम्।
यद्रूपांसमुपासते शमधना वाचं पुराणीं परां
सा दिव्या सुरभीकरोतु सुरभिर्वाचं कवीनामपि॥७॥
प्रथमसमुद्गतामखिलकामदुघामनघां
सुरभिमभिप्रपद्य सुरसिद्धमहर्षिगणे।
स्तुवति धृताक्षमा इव वदान्यशिखामणयः
सममुदयांबभूवुरथ पञ्च महातरवः॥८॥
अमीषां च पुनरखिलभुवनाद्भुतानां किसलयान्येव कनकांशुकानि, जीर्णपर्णान्येव चीनाम्बराणि, मुकुला एव मुक्ताफलानि, निर्यासा एव वैडूर्याणि, फलपाका एव पद्मरागाः, परागाएव पटवासाः मधुकरा एव महेन्द्रोपलाः, प्ररोहा एव हारलताः, प्रसवासवा एव परिणामाः सुधारसस्येत्याचक्षते॥
किं कर्म दुष्कृतमिदंत रुजन्महेतुः
किं वा महत्सुकृतमीदृशकीर्तिमूलम्।
किं वा तृतीयमिदमीदृशमन्यदेवे-
**त्यद्यापि शाम्यति न वादकथा सुनीनाम्॥९॥ **
अवस्थाप्य च तानानुपूर्व्येण परिहृतजरारोगपरिश्रमासु पञ्चेन्द्रियसमुज्जीविनीषु छायासु तेषामायासमवधूय पुनरपि ते ममन्थुरमृतार्णवम्॥
अभ्युद्यतीं मथनतः किल निष्कलङ्का-
मानन्दकन्दलमयीममृतांशुरेखाम्।
उत्तंसपुष्पकलिकेयमुमापतेरि-
त्यालोचयन्नुपददे मनसा मुकुन्दः॥१०॥
ततश्चिन्तित एव संनिहितो नन्दी शिव इव सभाजितो देवासुरैः समर्पितां मधुसूदनेन शशाङ्करेखामाददानः सादरमि दमवादीत्—
‘किमिव दयितं शंभोः केन प्रसीदति देव इ-
त्यविरतसमासक्तं चित्तं तवैव हरे हरे।
तदिह भगवन्महाभाग्यं तव प्रणुमः कथं
त्वमसि शरणं शैवानां नस्त्वमेव महागुरुः॥११॥
जानीषे ननु नाम केशव जगन्नाथस्य नाथस्य नः
प्रीतिं पारमिकीमनन्यसुलभां पुष्पेषु नीलोत्पले।
अस्मिन्नुत्पलबन्धुरित्यतितनूभूतेऽपि भूतेशितुः
प्रीतिं चिन्तय तावतीमुपचितामिन्दौ ततो वाधिकाम्॥१२॥
तदहमेव प्रसाधयन्ननेन भगवतः कपर्दपदमाराधयामि हस्तेन ते परमात्मानम्। अग्रभुजे च विश्वेषामग्रपूजनमेतदुचित्तमाचरितम्। तदितो यथाभिमतमिमानि वस्तून्युपयुज्यन्तां’ इत्यभिधाय तिरोभवति शिलादनन्दने, पुनरपि संक्षोभ सारस्वतो गर्भः॥
नैर्मल्यादुपसंभृताः फणधरस्त्रैणानुबिम्बाः शतं
स्वस्थानक्षुभितोद्गतामृतरसस्यन्दोपसंदानतः।
प्राप्तप्राणसमागमा इव ततः प्रादुर्बभूवुः स्त्रियो
नासीराग्रपताकिका रतिपतेर्नानाजयाङ्का इव॥१३॥
ततश्च विद्रुमलता इव वीचीभिराहृताः, तटित इव तत्तत्समयोपनम्रपयोधरोत्संगपरिभ्रष्टाः, कौस्तुभरत्नपाञ्चालिका इव कौतूहलाय विनिर्मिताः केनापि, पञ्चशरराज्यलक्ष्मीविभूतीरिव परिगृहीतविग्रहाः, तुल्यवयोरूपविभ्रमाः, तुल्याम्बरविभूषणाः, हंसीरिव मानसादम्भोदविगमे समुत्तरन्तीस्ता बहिरालक्ष्य सर्वेऽपि सुरासुराः विरम्य सागरमथनवृथाक्लेशादुत्तरमप्यमृतमुपेक्ष्य संनिहितेऽधरामृत एव दृष्टिमादधिरे। तापसा अपि तद्दर्शनक्षुभितहृदया मन्त्रजपादुपरम्य मणितभेदानधिजिज्ञासांचक्रिरे।पञ्चाग्निमपि विमुच्य पञ्चास्त्रविद्यामेव परमर्षयोऽपि बहुमेनिरे। किं बहुना।श्रुतिन्यायविदोऽपि सूक्ष्मदर्शिनः, तासामालोकनमग्निष्टोमस्य, द्वारोपसर्पणं द्वादशाहस्य, गाननिषेवणं गवामयनस्य, नाट्यावलोकनं नक्षत्रसत्रस्य, वाङ्मिश्रणं वाजपेयस्य, परिष्वङ्गं पौण्डरीकस्य, वदनास्वादनं वाजिमेधस्य, दन्तक्षतं दाक्षायणयज्ञस्य, नखलेखनं नानाविधानां संस्थानां, कुचमर्दनं कुण्डपायिनामयनस्य, रशनावमर्शनं राजसूयस्य, विपरीतरतं विश्वसृजामयनस्य, चरणताडनं चान्द्रायणस्य, परिभाषणं च पराकसान्तपनयोः फलमाचक्षते॥
सौहार्दं परमेयुषामपि तदा संनह्यतां विग्रहे
तासामेव कृते शनैः सुमनसां दैत्येश्वराणामपि।
सद्यः क्षालयितुं विवादमनतिप्रौढं सरोजेक्षणः
संगृह्णन्नुभयानिमानभिदधे तथ्यं च पथ्यं वचः॥१४॥
‘हन्त भो देवासुराः, किमिदमजानतामिव भवतामपि वैमत्यम्। तुल्ये परिश्रमे, तुल्ये चाभिजने, तुल्येनैव वो भवितव्यं फलेनापि। तदिमाः समुद्रसंभवा अप्सरसो नाम तरुण्यः साधारण्यो भवन्तु भवताम्॥
गजमेकमश्वमेकं गामेकां पञ्च च द्रुमान् दत्वा।
संभावयत विनाशितसर्वस्वं वासवं यदि प्रीतिः॥१५॥’
इत्यभिहितमात्र एव सादरमाधाय शासनं शिरसि ‘किं प्रतिब्रूमो भवच्छासने, किंतु स्वामिने किमप्यनुपहृत्य न युक्तमस्माभिरियदासेवितुं, तदग्रे यदुत्पत्स्यते तद्भवाननुमन्यतां’ इति प्रार्थ्यमानः सुरासुरैरन्तरेव कृतस्मितः किंचिदन्वमन्यत रमारमणः॥
अथ पुनरपि यावदाविलं ते
व्यधुरुदधिं विबुधाश्च दानवाश्च।
सममखिलजनुष्मतां मनोभिः
समजनि तावदनाविला त्रिलोकी॥१६॥
अभ्यग्रावतरिष्यदर्णवसुताहस्ताग्रसंभावना-
संहृष्यत्कनकारविन्दकलिकासौरभ्यसारस्पृशः।
मन्दं मन्दममन्दचन्दनकिरः पस्पन्दिरे मारुताः
कालोन्निद्रकदम्बडम्बरमभूद्येनाङ्गमङ्गं हरेः॥१७॥
ततश्च समसमयसमुन्मिषत्कनकारविन्दकाननश्रीरिव नयनानन्दसंदायिनी, समभागयोजितशरदिन्दुकन्दलबालारुणप्रविलापनचाकचक्यलक्ष्मीरिव चमत्कारकारिणी, सागरावर्तविवरसमुत्थितफणासहस्रमणिप्रभेव फणिराजस्य, काचन कान्तिधोरणी समूर्च्छिता दुग्धकल्लोलेषु सन्ध्येव चन्द्रातपे, सफलीचकार कमलाक्षतां कमलाक्षस्य। तत्र च तालवृन्तचामरताम्बूलकरङ्ककनकालुकादिपरिकरपाणयो भावानुभावदेवता इव परिणताः शरीरबन्धेन शृङ्गारस्य, रम्भादिरामणीयकमात्रनिर्वर्णननिर्वृतानिलज्जयन्त्यो नयनानि नाकसदां, प्रादुर्बभूवुरग्रतः परिवारशक्तयः कमलालयायाः। तदनु च परमानन्दघनीभावपरिणाममयी मातृकावर्णसंपन्नमकुटादिचरणान्तसर्वाङ्गसुन्दरी पतिदेवता धर्मनियन्त्रणेन पतिमुखलक्ष्यैकपातिनीभिरपि कटाक्षवृत्तिभिः परिसरनिष्यन्दमात्रपरिपोषितजगत्त्रयी, जातजायमानजनिष्यमाणरूपापि जातरूपैकमयीव लक्ष्यमाणा, धर्ममयी धार्मिकेषु, विज्ञानमयी विप्रेषु, पराक्रममयी बाहुजेषु, संपन्मयी राजसु, साहसमयी शरारुषु, कारुण्यमयी भक्तेषु, कामकलामयी परिणेतरि, विजयपताकिका जनार्दनस्य, जीविका मकरध्वजस्य, माता चराचराणां महिषी नारायणस्य, समालक्ष्यत सौभाग्यदेवता॥
विरहासहेवसततं विहितस्थितिराननेन्दुना सविधे।
कुवलयवनीव रेजे कुटिला कचसंहतिस्तस्याः॥१८॥
कपोलौ निर्मातुं किल शकलमेकं हिमरुचे-
र्यदादायात्याक्षीदसममिदमस्या इति विधिः।
तदासीदाश्चर्यं परममखिलानां दिविषदां
तदुत्तंसीभूतं पुरमथितुरद्यापि मकुटे॥१९॥
अपिच कमलासनपद्प्रदस्य कमलोपमां मीनकेतनजनकस्य मीनसादृश्यमपि कथयितुमपत्रपन्ते कवयोऽपि तन्नयनस्य। करगतकमलं घ्राणसंसक्तं तत्रत्यमौक्तिकमिव तस्या नासामणिः परिणेमे॥
कस्यां श्रुतावधिगता मणिकर्णिकेति
मूढात्मनां प्रलपतां मुखमुद्रणाय।
आसीदशेषजनताभवतापहन्त्री
मातुः श्रुतावधिगता मणिकर्णिकैव॥२०॥
पद्महस्तायाश्च तस्याः पाणिकमलयोर्विवेकाय कल्पितानि चिह्नतयेव कङ्कणानि प्रचकाशिरे। आजानसरलमस्या हृदयमावृण्वतोरनवशेषमेव कुचकुम्भयोः कोपारुणाः कटाक्षा इव पुण्डरीकाक्षस्य कुंकुमपत्रभङ्गा ददृशिरे॥
वक्त्राक्षिपाणिचरणासनधारणानि
पद्मानि यानि षडिमानि हरिप्रियायाः।
उद्धमेकमपि तेषु किल व्यनक्ति
संसारमोहरजनीमणुमात्रशेषाम्॥२१॥
पद्मे निवेश्य परिगृह्य च पद्ममेव
या पद्मरागमखिलं स्वमुदाजहार।
तस्याः श्रियः समुचितानि हि तन्मयानि
ताटङ्ककङ्कणमुखानि विभूषणानि॥२२॥
विहारोऽप्येतस्या विकसति सरोजे चरणयोः
प्रसूते लौहित्यं यदि चरतु सा कुत्र सुमुखी।
इति ध्यायंध्यायं मृदुनि नवनीतादपि निजे
हृषीकेशो मेने हृदयभवने वासमुचितम्॥२३॥
ततस्तदिङ्गितवेदिनी मङ्गलदेवता परिवृता विभूतिभिः पश्यत्सु देवासुरेषु, सहस्रादित्यवर्चसा सह कौस्तुभेन सागरादुत्तरन्तीपद्मेन सह चिन्तामणिमपि पाणिना धारयन्ती भुजाद्भुजान्तरं संक्रम्य भूभुजां कृतशिक्षेव भुजान्तरमेव भूवल्लभस्य समारुरोह॥
दिव्या दुन्दुभयो विनेदुरभितः स्निग्धं जगुः किन्नरा
जानन्तः परदेवतां जय जयेत्यस्ताविषुस्तापसाः।
अम्लानैर्ववृषुः सुमैः सुरभिलैराश्चर्यमेघाश्च ता-
मारूढां हृदयं हरेरपि सुरैरज्ञातमन्तःपुरम्॥२४॥
चन्द्रं चन्द्रिकयेव चण्डकिरणं दीप्त्येव शक्त्या तया
नित्याश्लिष्टमनन्ययापि मिलितं देवं तदानीमिव।
दर्शंदर्शमनिर्वृतां दशशतीमक्ष्णां किरन्पादयो-
रस्तावीत्कमलालयामभिमुखीकर्तुं पुनर्वासवः॥२५॥
भगवति जगज्जननि भक्तवत्सले, परमः पुमानपि भवत्या विनाकृतो नीहार इव भानुमान्, निदाघान्त इव चन्द्रमाः, नानन्दयामास नयनानि मादृशाम्। अधुना तु—
या त्वेषा तुलसीति वक्षसि हरेर्या कापि वन्यौषधि-
र्यश्वासौ तिलकालको बहुमतः श्रीवत्स इत्याख्यया।
हन्तासीत्तदपि द्वयं शमवतामालम्बनं ध्यायतां।
चारूणामपि चारु चारुचरणन्यासेन पद्माक्षि ते॥२६॥
अपि च। यामेव भवतीमियन्तं कालमासेदुषीमरातिभवनानि मणिप्रभामिव महोरगफणागतामालक्ष्य चकितोऽस्मि तामेव सर्वलोकशरण्यस्य भगवतः सरसिजेक्षणस्य वक्षोगतामालक्षयन् सर्वतो निर्वृतोऽस्मि ॥
अज्ञानादतिलालनादपि च ते मातर्मया माद्यता
निर्माल्ये परदैवतस्य चलितं यत्किंचिदुच्छृङ्खलम्।
तत्क्षन्तव्यमनन्यवेदिनि चिराने प्रपन्ने मयी-
त्याख्यान्तं मघवन्तमादिजननी दृष्ट्या दयामास सा॥
अपि च पुनरेवं वादिनि मघवति पतन्तीं पश्यन्ती प्रसादविमलां दृशं प्राणवल्लभस्य, चिन्तानुरूपमेव तस्य, चिन्तामणिना तमाह्लादयामास। इत्थमियत्यपि चलति संविधाने, प्रव्यक्ते च पशोरपि पक्षपाते मघवति परमेश्वरस्य, मदान्धाः प्रकृत्यैव मायया च विशिष्य मोहिता महासुराः —किं गतमेतैरतिक्षुद्रैः किंचित्तु वयमनुवर्तमानाः क्षणमपहरिष्यामः सुधामित्यन्तर्निहितेन छद्मना पद्मनाभमनुरुध्यावतस्थिरे॥
अथ मथनविषण्णदेवासुरस्तोमजीवातुभिः
श्रमशिथिलितबन्धवातंत्रयप्राणनाडिंधमैः।
शिशिरितहृदया दयासारतुङ्गैरपाङ्गैः श्रियः
पुनरपि जलराशिप्रक्षोभयन् देवरक्षोभटाः॥२८॥
ततः संततसंतन्यमानमन्थननिर्बन्धनिर्विण्ण इव, सर्वस्वहरणसमुत्पन्नवैराग्य इव तनयावियोगतरलान्तःकरण इव, वरुणालयः त्रिजगदगदङ्कारबिरुदाङ्कितेन दिव्यौषधि परिवृतेन करकमलगृहीतकनककुम्भसंभृतामृतगन्धमन्थरगन्धवहस्पन्दमात्रनियन्त्रितजरामरणक्लेशपाशेन जगदनुजिघृक्षागृहीतेन जनार्दनस्यैव मूर्तिभेदेन भगवता धन्वन्तरिणा सममाविर्भूय भूयसा भक्तिभारेण पुरुषोत्तमं प्रणिपत्य परिष्टुवन्नादाय तस्य करादमृतकलशमये निवेदयन्निदमाचचक्षे –
‘त्वमसि परमं ब्रह्म त्वं नाथ सर्वजनान्तर-
स्तव किमवशे रम्यं वस्तु स्थलेषु जलेषु वा।
तव किमुपदातव्यं लक्ष्मीपतेः कृपणैर्जनै-
स्तदपि दयसे स्वामिन्नस्मासु तत्त्वनिवेदनात्॥२९॥
अपि च —
गामश्वं करिणं मणिंहिमकरं कन्यास्तरूनद्भुता-
नन्नं चामृतमन्ततस्त्रिजगतीजीवातुमेतां सुताम्।
प्राणाचार्यममुं च ते चरणयोः प्राणैः समं विन्यसन्
स्वामिन् कामपि ते प्रसादकणिकां याचे दया चेन्मयि॥’
वदति मधुरमित्थं वल्लभे वाहिनीनां
जनयितरि रमाया जातहर्षो मुकुन्दः।
सकरुणमनुगृह्णन् सानुरागैरपाङ्गै-
रकिरदमृतवर्षैरेनमार्द्रैर्वचोभिः॥३१॥
तदनु यथागतं गते सरस्वति, सरस्वतीरमणशतमन्युमुखाबहिर्मुखाः प्रतीक्षमाणा निदेशं परमेश्वरस्य परिवार्य केशवमवतस्थिरे। दानवास्तु मध्ये निधातव्यममृतकलशं मधुसूदनस्य पुरोनिहितमन्यथाशङ्कमानाः, गणयन्तः पक्षपातं गरुडध्वजस्य, चिन्तयन्तश्चिन्तामणिप्रदानं वैषम्यकारणं, आलोच्य परस्परं, आसीदन्त इव सान्त्वनाय सामाजिकानां, परिवृत्य सुधाकलशं, परिगृह्णन्तः प्रहरणानि, परिमेलयन्तः स्वबान्धवान्, अवतारयामासुरादितः कामपि विवादकथाम् ‘भगवन्तौ चक्रायुधचतुर्मुखौ कथमत्र भवितव्यं विभागेन। अथवा न पृच्छामो युवाम्।
आमन्त्रिताः स्मो न वयं युवाभ्या-
मभ्यर्थिताः स्मो न च सान्त्ववादैः।
अस्माभिरादौ समयं बबन्धु-
रागत्य ये तान्वयमालपामः॥३२॥
ननु च भो भ्रातरः सुपर्वाणः, शृणुत यूयम्। अपि जानीध्वे समयमाचार्येण वः कृतमस्मासु।
क्वमन्दरो महागिरिः क्व सागरो दुरुत्तरः
क्ववा स वासुकिः फणी फणीन्द्रमण्डलाग्रणीः।
भवन्त एव साधयन्तु भावयन्तु चामृतं
पिबन्तु चातिथीनिमान् सुरान्विधाय दानवाः॥३३॥
किं बहुना —
शक्त्याभवेम यदि किं वरयेम युष्मान्
तत्साधका मथनकर्मणि यूयमेव।
शक्त्या यतेमहि वयं च परं तु तस्मिन्
यत्नानुरूपमितरानपि भावयध्वम्॥३४॥
इति। तदिह भवन्त इव विदांकुर्वन्तु।
कति भग्ना गिरिवहने कति पतिता वासुकेः समानयने।
कति दग्धा भुजगविषैः कति भागानिह पिबेमेति॥३५॥
इति वदत्सु दानवेषु वाचस्पतिरिदमभाषत—
‘यद्भग्नेषु भवत्सु पूर्वमनिलेनैवाद्रिराकम्पितो
यच्चापत्यकलत्रदर्शनकृते यूयं गता भूतलम्।
यद्वा भोगिपतेः फणाग्रवहनं युष्माभिरेवार्थितं
सर्वं वेद स एष एव भवतामाचार्यपादः कविः॥३६॥’
इत्युत्तरोत्तरयुक्तिवादिनि वाचस्पतौ, प्रतिवदति च यथाशक्ति भार्गवे, परिणमति शनैः कलहे, प्रहरणादानभीषणेषु दानवेषु, परिकरमाबदध्नत्सु निर्जरेषु, चिन्तयन्मनसा चिरमाराध्य परां शक्ति, आसाद्य तदीयमेव मोहनं रूपमतिसधाय दानवाननुगृह्णीयाममरानिति कृतनिश्चयः सद्य एव तिरोदधे सह कमलासनेन कमललोचनः। ततश्च—
दोर्भिर्दुर्भरशैलनिर्भरपरीवर्तावसीदद्बलै-
गत्रैिरुद्भटकालकूटगरलज्वालावलीढोज्झितैः।
उत्तालैः श्वसितैरुपर्युपरि च प्राणैः प्रतिष्ठासुभिः
स्पर्धामात्रबलोत्तरा युयुधिरे देवैः समं दानवाः॥३७॥
भग्नरथा भग्नाश्वा भग्नबला भग्नशस्त्रास्त्राः।
निर्विद्य भुवि निषेदुः सममुभये सर्वतो भग्नाः॥३८॥
परिश्रान्ताश्च ते परितोऽपि चक्षुर्व्यापारयांचक्रिरे। अद्राक्षुश्च ते तत्र किंचिदपर्यायसमुन्मिषच्चम्पकबकुलहरिचन्दनतिलक मल्लिकासहकारमाधवीकरवीरवासन्तिकाकुसुमपरिमलोद्गारिमारुतानुसारिमधुकरीगानकलकलोन्मिश्रकलकण्ठकण्ठनादमेदुरं, दुरन्तविरहोदन्तदूय-मानमानिनीजनावर्जितपल्लवशयनसमुल्लसितलताकुञ्जमन्जुलंवञ्जुलविटपिसंचरदलिकुलभारपराकीर्णपरागपुञ्जपिञ्जरासारसणीसलिलपूरपूरितालवालबालपादपच्छायसुखनिषण्णकिन्नरीसंलापसमाकर्णनोल्लसितकर्णिकारकलिकानिकायरमणीयं, अनतिक्रमणीयशम्बरशासनशासनचीटिकायमान-पल्लवभङ्गधारणनिरातङ्कशारिकासंघकिङ्करीभूतयुवलोकलोचनानन्दनं नन्दनमिवभुवि निवेशितमखिलगुणाभिराममारामम्। तत्र च—
मन्दस्पन्दरसालसालशिखरक्रीडत्मिकश्रेणिका -
कण्ठोदञ्चितपञ्चमध्वनिचमत्कारप्रकारस्पृशः।
कन्दर्पाहवखिन्नकिन्नरवधूकण्ठोन्मिपत्काकली-
काकुव्याकुलिता गिरो दिविषदां जीवातवो जज्ञिरे॥३९॥
उपवने च तस्मिन्नुपान्तनिरूढकदलीगर्भकन्दलितहिमवालुकापरागवालुकानुरागजनितजडिमहिमकुल्यानिपातशीतलितालवालमूलसुखशयितकेकिकेकानिनादमनोरमे हरिमणिहरितपरिसरधरणिनिपतदविरलबकुलमुकुलपरिमल परिमिलदलिकुलगरुदुपचितमरुदुपहृतकुसुमजरजोराजिनिर्मले मूले बकुलस्य, निटिलतटनिर्माणकौतुकाविष्टनीरजसंभवापास्तशशाङ्कशकलानुकारिकेतकीपत्त्रचित्रितवेणीपदां, नभोनभस्यरजन्योः केशपक्षयोः नवनवोन्मिषद्विवादपरिहारकसीमाविभागवीथिकयेव सीमन्तरेखया पद्मरागसिन्दूरपाटलीकृतया संघटयन्तीमिव सान्ध्यरागसंपदं, किङ्करीकृतभुवनमण्डलेन किंचिद्धटितेन भ्रूभङ्गेन परिहरन्तीमिव प्रामादिकं भङ्गमनङ्गवीरस्य, अनासेवितमधुरैरिव अमृतैः, अनालिप्तशीतलैरिव कर्पूरपरागैः, अवतंसोत्पलमिव हस्तग्राहं ग्रहीतुमनुधावद्भिरनुक्षणं कर्णपथं, आक्रामद्भिरिव शनैर्मुखमण्डलं, संजीवनैर्मदनस्य, संप्रदायगुरुभिः शृङ्गारस्य, विलासभवनैर्विभ्रमाणां, तारुण्यचन्द्रिकोल्लासितैस्तरङ्गैरिव लावण्यसागरस्य, कटाक्षैरेव जगदखिलं कन्दर्पनिदेशवशमापादयन्तीं, ताटङ्कमरीचिवीचिभिस्तटित्पुञ्जमिव युगपदुद्गिरन्तीं, आदिमरसाभिवर्षणाय निरन्तरपरिवहदाननसौन्दर्यनिष्यन्देनेव नासामणिना, प्रतिबिम्बितेनेव तस्य पाटलाधरपर्यस्तेन मन्दस्मितेन च मदयन्तीमिव मनांसि महायोगिनामपि, नवनवोपचीयमाननखंपचस्तनभारपरिणाहवशात्परिश्लथयन्तीमसकृदपि वेणीलतां कञ्चुकस्य, कन्दुकाघातजनितारुण्यकरपल्लवाभ्यर्णपरिभ्रमद्भूमरिकानुकारिणा कमलाक्षवलयेनपरिभ्रमयन्तीमन्तःकरणान्यपि पश्यतां, कलमधुरगानामृतद्रवीभूतपर्यन्तमणिकुट्टिमपतनसंभावितामार्द्रतां परिहर्तुं कन्दुकस्य चलन्तीमितस्ततोऽपि, चरणतलरणितमञ्जीरशिञ्जानुविद्धेन काञ्चीकलकलेन घोषयन्तीमिव वीरघोषणां कन्दर्पस्य, विद्युतमिव विश्रमितुमागतां सालभञ्जिकामिव संचारशालिनीं, रत्नशलाकिकामिव लब्धजीविकां, शारदचन्द्रिकामिव संपन्नविग्रहां, सौन्दर्यसंपदमिव सान्द्रीभूतां, साम्राज्यदेवतामिव तारुण्यस्य, संप्रदायविद्यामिव मदनागमस्य, कामप्यदृष्टचरीं कन्यकामुपलेभिरे॥
सायोन्मिषत्कुवलयोदरसोदराणि
सा यत्र यत्र विचकार विलोचनानि।
आविर्बभूवुरवशादिव तत्र तत्र
सज्जीकृतैक्षवशरासभुजा मनोजाः॥४०॥
कटाक्षैः कन्दर्पज्वरजनितभोहान्धतमस-
प्रतापव्यापन्नत्रिजगदगदङ्कारविरुदैः।
प्रगल्भैश्चालापैः परिमृदितकर्पूराशिशिरे-
र्द्रवीभूतं जज्ञे सलिलमिव विश्वं मृगदृशः॥४१॥
दिशि दिशि विकिरन्ती दीर्घदीर्घानपाङ्गा
न्करसरसिज्जघातैः कन्दुकं नर्तयन्ती।
तटिदिव जलदेभ्यो विच्युता सा सुराणां
सविधमवजगाहे शाम्बरी शम्बगरेः॥४२॥
भ्रमं भ्रामं करकिसलयं कन्दुके पातयन्ती
स्रस्तं स्रस्तं कुचकलशयोरर्पयन्त्युत्तरीयम्।
उद्गायन्ती किमपि किमपि स्वैरमुत्कूलरागं
चित्रन्यस्तं कुलमकृत सा दारुणं दानवानाम्॥४३॥
स्वच्छन्दप्रचलत्सुधार्णवसुधाकल्लोलवल्लोलया
संदृष्टाःशुभया दृशा सुमनसो धन्या जनन्या तया।
पञ्चब्रह्मविनिर्मितासनपरब्रह्माङ्कपर्यङ्किनीं
पञ्चाम्नायशिरोगतां बुबुधिरे तां ते परां देवताम्॥४४॥
पश्यन्तश्च तां परिसर एव चरन्तीं प्राणशक्तिमिव पञ्चशरस्य, भाग्यदेवतामिव शृङ्गाररसस्य, बालिकामुपेक्षितुं सुधाकलशमुदासितुं च तस्यामपारयन्तः क्षणमनुबभूवुः संशयान्दोलनं यावदसुरवराः —
तावद्धावत्कन्दुकग्राहमोह-
व्याजात्प्राप्ता मध्यमेषां द्वयेषाम्।
सिञ्चन्तीव व्याजहारामृतौघैः
शस्त्राशस्त्रिक्लेशितान्यङ्गकानि॥४५॥
‘के यूयमाधिकारिका इव विगृह्णन्त इव विषण्णा इव संरम्भमात्रशेषा इव च लक्ष्यध्वे। किंकारणं विस्रब्धविहारिणीनां बालिकानां विहारवनोपकण्ठमसृग्वसामांसकर्दमैरभिपूरयथ’ इति। आकर्ण्य च तां गिरमतिभूमि मनोरथानां, अभ्यर्हिताममृतादपि दानवा इदमूचिरे —
‘निर्वासिता निजपदात्त्रिदिवौकसोऽमी
प्राप्ता वयं भुजबलेन पदं मघोनः।
सर्वेऽप्यमी सुमुखि दानवदैत्यसंघाः
सत्यं वदेम तव संप्रति किंकराः स्मः॥४६॥
किं बहुना।
त्वं नो राज्यं त्वं बलं त्वं धनानि
त्वं नः प्राणास्त्वं भवस्यन्तरात्मा।
त्वद्दासाः स्मस्त्वत्कटाक्षप्रतीक्षा-
स्त्वं यद्ब्रूयास्तत्प्रमाणं परं नः॥४७॥’
इति निःशेषनिवेदितात्मसु दानवेषु, किं करिष्यति किं वक्ष्यतीति कृतसंशयेषु दिक्पालेषु, मन्दस्मितसुन्दरमिदमाह महामाया ‘हन्त कथमभिज्ञाततत्त्वा अपि भवन्तः पौरोगवा इव पाकशेषेषु कलशामृते कलहायन्ते। तदलमुपविशत यूयमुभयेऽपि वीथीभूय,प्रदास्याम्यहमेव भवतासिदं कलशामृतम्। तत्र च प्रथममिमानन्नार्थिनः पदभ्रष्टानघाभिक्षया परिविष्य, पात्रेणैव भवत्सूपतिष्ठे’ इति। ततश्च साधु साध्वित्युपलालयन्तस्तदीयं वचनं, द्वेधा पङ्कीभूय, देवासुराः प्रथममेव सतर्पिता वागमृतैः, प्रतीक्षांचक्रिरे परिवेष्यमाणं कलशामृतम्। ततश्च सा संनिहितसखीकरन्यस्तकन्दुका ससंभ्रमोपनतचेटीजनामृष्टमुखमण्डला प्रत्यग्रकर्पूरपरागपरिधौतकरपल्लवा भ्रृभङ्गचोदितभुजिष्याजनोपहृतममृतकलशमादाय भुवनत्राणबद्धकङ्कणेन सव्येन पाणिना, दर्वीकरशिरोरत्ननिर्मितां दमनुगृह्णती दक्षिणेन करेण, नीवीपदनिगूहितोत्तरासङ्गपल्लवा,वेणीदृढग्रन्थितविस्रंसमानकुसुमदाममनोहरा, निस्तरङ्गमिव सागरं, निस्तनितमिव संवर्तमेघमण्डलं, निखिलमपि देवासुरबलं नियमयन्ती कटाक्षेणैव, यदा कश्चिदत्र करं प्रसारयति, कश्चिदुपमन्त्रयते रहसि, कश्चिदुच्चैः प्रलपति, कश्चित् त्वरते, कश्चिद्वा प्रतिब्रूते, तदा तिरोभवेयमिति प्रतिज्ञयैव परित्रासयन्ती, संमुखीभूय देवपङ्क्तौसंननाह परदेवता॥
प्रत्यासन्नसखीवितीर्णमुकुलद्वीटीदलग्राहिणा
सव्येनादधती करेण मृदुना दर्वींमणीनिर्मिताम्।
कुर्वाणा करपल्लवे तदितरे कुम्भं सुधापूरितं
चिद्रूपा परमा कला पुरभिदश्चित्ते ममास्ते तु सा॥४८॥
आनम्य किंचिदवमुच्य पिधानपात्र-
मादाय रत्नकलशादमृतं समग्रम्।
दर्व्यामणीखचितया ददती सुरेषु
दिव्या कला भुवि चचार तटिल्लतेव॥४९॥
मात्रार्पितं गरलमप्यमृतं शिशूना-
मित्यामनन्ति यदिदं विशदं तदासीत्।
दर्वीकरत्वमपि सा दधती यदित्थं
दिव्यं ददावमृतमेव शिशुष्वमीषु॥५०॥
चरन्त्याः स्वच्छन्दं चरणतलमञ्जीररणितैः
कलस्निग्धामन्द्रैर्घनजघनकाञ्चीकलकलैः।
कदाचित्पश्यन्त्या वलितमुखमस्याः परिजनं
कटाक्षैरप्यासीत्सुखितमखिलं दानवकुलम्॥५१॥
ददाना च सा देवेषु दयारसमिव सुधारसं, दैतेयावुभौराहुकेतू नाम देवपंत्क्त्युपवेशिनौ भुजगवपुषौ पीतामृतावे चन्द्रार्कसूचितौ दर्वीकाण्डेन विदारयामास कण्ठपदे॥
अन्तर्निगीर्णममृतं प्रथमं हि येन
तस्यासुरस्य तदशिष्यत भोगमात्रम्।
यस्यामृतं वदन एवं धृतं स राहु-
रद्यापि पर्यवसितः फणमात्रशेषः॥५२॥
यद्दृष्टं चन्द्रसूर्याभ्यां तद्दृष्टं निजया दृशा।
क्षन्तुं शशाक तेनैषा मन्तुं न खलयोस्तयोः॥५३॥
अनुगृह्येत्थममरानामृष्टोदरं सुधाकलशमन्तर्निहितदर्वीझण झणात्कारमौखर्यपूरितमग्रे निधाय दानवानामपेक्षमाणेव क्षण चिश्रममासांचक्रे। तदनु सुधापानलब्धबला सुपर्वाणः परिगलितशङ्कातङ्काः प्रत्यक्षमेव तां प्रस्तोतुमारेभिरे॥
‘वन्दामहे कमलनाभमनन्तमाद्यं
वन्दामहे भुवनमोहनशक्तिमैशीम्।
वन्दामहे तदुभयाद्वयवादमूल-
मानीलकण्ठमवर्तसितचन्द्ररेखम्॥५४॥
निरातङ्क स्वामिन् निरुपधिदयासार भगवन्
प्रपन्नानुग्राहिन् परमपुरुष त्वत्करुणया।
जिताः क्षुद्रा दैत्या जितमखिलमेतत्त्रिभुवनं
कृतं कर्तव्यं नः किमिव करणीयं पुनरितः॥५५॥
आनीलकेशमरविन्ददलायताक्ष-
माविष्कृतस्मितमपारकृपानिधानम्।
कूलंकषस्तनतटार्पितकुंकुमाङ्कं
शार्ङ्गिन्निदं शरणयेम तवाद्यरूपम्॥५६॥
उल्लङ्घ्यनिर्माल्यमुदासितं य-
दजानतानेन पदे भवत्याः।
तत्स्वामिनि स्वामिनि वासवे नः
क्षन्तव्यमित्येव निवेदयामः॥५७॥’
इति स्तूयमानैव सा सुपर्वभिः, इदं किमापतितमियं का तरुणीति शङ्काकलङ्कितैरालोक्य रिक्तममृतभाजनमाविष्कृतमहारोषपरुषैरसुरैः संनह्यमानेव युद्धाय सद्य एव शङ्खचक्रगदाखड्गसरसीरुहलाञ्छितमसुरलोकभयंकरमाबभार रूपं नारायणी। ‘भो भो महेन्द्रप्रमुखा देवाः, मशकानिवैतानुत्सार्य दानवान्, मन्दरं यथापुरं प्रतिष्ठाप्य, वासुकिं विसृज्य, विरूपाक्षमभिप्रसाद्य, लब्धानुज्ञाः सुखं पालयत स्वाराज्यं’ इत्यनुगृह्य देवानन्तर्दधे सह चतुर्मुखेन शार्ङ्गधरः॥
तिरोभूते सद्यस्त्रिभुवनगुरौ स्वामिनि हरौ
विषीदन्तो दैत्या विबुधगुरुमानम्य शतशः।
अयाचन्त स्थातुं निभृतमभयं भोगिभुवने
तथेति स्वीचस्तदपि विबुधा देशिकगिरा॥५८॥
अथ पुनरन्तर्निगूढमत्सरानप्यभिनीतमहाविनयान, अपनीतविषानिव महोरगानसुरान्विसृज्य सुधारसास्वादसुहिततया कन्दुकमिव मन्दरं करतलेन धारयन्तः, प्रशंसन्तो वासुकिं भवत्प्रसादेन वयममर्त्या अभूमेति, परिरभ्य निर्भरं, प्रस्थाप्य रसातलं, उपनिवेशयन्तो यथापुरं मन्दरं, उपतस्थिरे चन्द्रशेखरम्॥
‘क्षमेथाः श्रीकण्ठ प्रचलनमिदं मन्दरगिरेः
क्षमेथाः काकोलं कबलयितुमाशासनमपि।
क्षमेथा यत्पूजास्वपचरितमासीदहरहः
प्रपन्नास्त्वामेकं शरणमशरण्या वयममी॥५९॥
अक्ष्णोः पुष्पवतोरेकमर्पयन्नीश ते पदे।
चक्षुषी पुण्डरीकाभे चतुरोऽलभताच्युतः॥६०॥
देवानामपि दुर्लभं पदमिदं लब्धं मयोपायतो
द्वित्रैर्बिल्वदलैः प्रतार्य शिवमित्येवं जनो मन्यते।
मद्भक्तांघ्रिरजःस्पृशोऽपि सुलभं क्षुद्रं पदं वेधसो
दत्वा सेवक एव वञ्चित इति स्वामिन् भवान्मन्यते॥६१॥
इति स्तुवन्तो विबुधाः, ‘प्रसन्नाः स्मोयुष्मासु, परिपालयत यथापुरं स्वाराज्यं’ इति प्रसन्नगम्भीरामाकर्ण्य पारमेश्वरीं गिरमाकाशसंभवां, परमानन्दनिर्भराः प्राक्प्रस्थापितेन गुरुणासज्जीकृतां, परित्यक्तामसुरैः, प्रसाधितां विश्वकर्मणा, परितोऽप्यभिनवामिव सर्वसौभाग्यवतीममरावतीमासाद्य, प्रणम्य वाचस्पतिं, प्रसाद्य यथोचितं महर्षिगणान्, परिरभ्य परस्परं, प्रतिष्ठाप्य सिंहासने शतक्रतुं, आदिष्टानि तेन स्वानि स्वानि स्थानानि यथापुरममराः परिपालयांचक्रिरे॥
अर्चन्तस्तरुणेन्दुचूडमसकृत्संकीर्तयन्तो हरिं
ध्यायन्तस्त्रिजगद्विमोहजननीं शक्तिं परां शांभवीम्।
आज्ञां मूर्धनि विभ्रतः सुरगुरोरानन्दयन्तो मुनीन्
स्वच्छन्दं त्रिदिवौकसो बुभुजिरे स्वाराज्यमव्याहतम्॥६२॥
वाचं व्याकुरुते चिरंतनगिरं मीमांसते चोभयीं
पान्थः काव्यपथेषु पादकमले सक्तः पुरारेरिति।
मामेतत्कथयिष्यतीति रचितं काव्यं मया तत्पुन-
स्तावद्वक्ष्यति वा न वा तदुपरि न्यस्तः समस्तो भरः॥६३॥
शिवार्पणम्।
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक-
शतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षित-
सोदर्यश्रीमदाचार्यदीक्षितपौत्रेण श्रीनारायणदीक्षितात्मजेन
श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन
विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये
पञ्चम आश्वासः॥
समाप्तश्चायं ग्रन्थः॥
<MISSING_FIG href="../books_images/U-IMG-17241484035241.png"/>
श्लोकसूची।
| अक्षोभ्यं भिषजां शतै | अन्तर्निगीर्णमपि |
| अक्ष्णोः पुष्पवतो | अन्तर्निर्गीर्णममृतं |
| अगन्तव्यं तर्कै | अपि द्रष्टुमशक्यो यः |
| अग्रे पश्चादुभयत | अपि श्लक्ष्णीकुर्मो मणि |
| अजनि शनैर्विशदं | अभिदधति ते मूर्धानं |
| अज्ञानादतिलालनादपि | अभ्यप्रावतरिष्यदर्णव |
| अतिप्रबन्धादिषु | अभ्यर्णस्थलभाजि तत्र |
| अतीतत्रैगुण्यामशरण | अभ्युद्यती मथनतः |
| अतो ब्रह्मेशविष्णूना | अमुं यं वीक्षध्वे |
| अत्रान्तरे रणहतो | अमृतं यदि भोक्तव्य |
| अत्रान्तरे सुरगुरु | अयं कालो बुद्धे |
| अथ कथमप्यमर्त्यपतयः | अर्चन्तस्तरुणेन्दुचूडं |
| अथ तेन बिलाध्वना | अव्याजकोपनिधिना |
| अथ दिवसावसान इव | अष्टत्रिशदुपस्कृत |
| अथ पुनरपि यावदा | अस्ति स्वादयितुं |
| अथ मथनविषण्ण | अहो ते शक्र धीमान्द्य |
| अथ यावत्समाधि तं | आख्याय निखिलं वृत्त |
| अथ शिथिलासमास | आजिघ्रन्निव |
| अथ सुरगुरुमागतं | आनम्य किंचिदत्रमुच्य |
| अद्याहं परिपालकोऽस्मि | आनीता वसुधातलात |
| अनालोच्य निजां | आनीलंकशमरविन्द |
| अनितरशरणत्वमा | आपातालनिमग्नमूर्तिनि |
| आपातालात्फणधरपते | कतीन्द्राः कति |
| आप्योऽपि रंहसा | कत्यसृजं विश्वसृजः |
| आमन्त्रिताः स्मो न वयं | कपोलौ निर्मातुं किल |
| आयुर्वेषाममीषां | कस्या श्रुतावधिगता |
| आराद्धा ननु यूयमेव | कालदण्डहतस्यास्य |
| आलम्ब्य दैन्य | कालोऽत्यगादशुभ |
| आलोड्यमानः पुन | किमिव दयितं शंभोः |
| आवृत्यावर्तयन्तो | किं कर्म दुष्कृत |
| आश्चर्यस्तिमित | किं तन्त्रैः किं मन्त्रैः |
| इति कतिपये दैत्या | किं तर्कैरतिवक्रैः |
| इति परमुपदेशं | किं न निगृह्णन्ति |
| इति स्तुतिभिरर्थ्याभि | के देवाः के दनुजाः |
| इत्याकाशगिरा | क्रुध्यद्दानवयोध |
| इमे वयमिदं तत्त्वं | क्व मन्दरो महागिरिः |
| उड्डीय स्वयमुत्पतन् | क्षन्तारं सकलागसा |
| उद्यन्निर्घातघोष | क्षमेथाः श्रीकण्ठ |
| उद्वान्तसागरपयोभर | क्षितिधरपरिपात |
| उपासीना नानाविधि | क्षुद्रैः किं करणीय |
| उल्लङ्घ्य निर्माल्य | खर्वोन्नतासुरस्कन्ध |
| ऊष्माणाववहद्विभा | गच्छन्नेव ततः स |
| एकं तद्द्विविभूति | गजमेकमश्वमेकं |
| एकेन विधृतं राज्य | गामश्वं करिणं मणिं |
| ओमित्युमेति युवयो | गायन्ति चाटु |
| कटाक्षैः कन्दर्पज्वर | गौरश्वः करिणः स्त्रियो |
| कति कवयः कति | घोषे क्वापि पुरा |
| कति भग्ना गिरिवहने | चकम्पे हन्तायं गिरि |
| चकित पलायित | दिव्यैः पञ्चभिरायुधैः |
| चन्द्र चन्द्रिकयेव | दिशि दिशि विकिरन्ती |
| चरन्त्याः स्वच्छन्दं | दिष्ट्या विषेण भग्नाः |
| चेतो यद्भवतश्चिरं | दुःखानां क्षतिरित्यबोध |
| चौर्येण प्रणयेन | दूरादलक्ष्यत सुरैः |
| छन्दो यथा यथा शौरेः | दृष्ट्वा कौस्तुभमप्सरो |
| जय जय जगदम्ब | देयं यस्य सदेवमर्त्य |
| जानाम्यहमुमाकान्तं | देवद्विषश्चिरतरं |
| जानाम्येव यदाह | देवानामपि दुर्लभं |
| जानीषे जगदेव ताव | देवानामपि दैवतं |
| जानीषे ननु नाम | दोर्भिर्दुर्भरशैल |
| ततः शतमखादयो | धावद्दैवतयोध |
| तत्तस्य कीर्तिदं | नन्तव्याः कवयः |
| तामित्थं स्मरतश्चिरं | नवकुवलयदामश्यामलं |
| तावद्धावत्कन्दुक | न संवर्तः प्राप्तां |
| तिरोभूते सद्य | नामो वह्निर्न हि खलु |
| तुष्टूषतोऽस्य बहुधा | निरातङ्क स्वामिन |
| तेजसाग्याययिष्यामि | निर्मग्नमन्दरमणिद्युति |
| त्वत्प्रसूतास्त्वया | निर्मन्थश्लथ संधि |
| त्वमसि परमं ब्रह्म | निर्मर्यादभवज्वर |
| त्वमसि शतक्रतु | निर्वर्त्यमाना यत्नेन |
| त्वं नो राज्यं त्वं बलं | निर्वासिता निजपदात् |
| ददति च वरं दत्त्वा | निःश्वसति भोगिभर्तरि |
| दध्युर्यावदुपायं ते | निष्ठामाश्रमधर्मपालन |
| दनुजभुजविकृष्ट | निष्पतद्द्रुममुत्पन |
| दिव्या दुन्दुभयो विनेदु | निःसंख्यस्फुरदुत्तर |
| निःसंख्यस्फुरितस्फुलिङ्ग | भग्नरथा भग्नाश्वा |
| नैर्मल्यादुपसंभृता | भग्नो यस्य दशाननः |
| पथि गिरिवरादस्मात् | भवानिति भवानीति |
| पथि ध्वजं यं गरुड | भव्यैरष्टभिरान्तरैः |
| पद्मे निवेश्य परिगृह्य | भीमं भीमेन |
| परायणं नः परम | भुञ्जीथा न हलाहलं |
| परिचलितदुग्ध | भूतग्राममिमं |
| परिम्लाना दीना | भ्रामं भ्रामं करकिसलयं |
| पर्याप्तेन्दुशतद्युति | मज्जति मज्जति शैले |
| पश्य ज्ञानक्रियेच्छा | मज्जन्मन्दरशैलकन्दर |
| पश्यन् पदाग्र | मञ्जीरैर्नटनार्भटी |
| पादाङ्गुष्ठनखाग्र | मनोरथानामपि यो |
| पायं पायं पवन | मन्दस्पन्दरसाल |
| पाषाणान् सितनील | मन्दानिलव्यतिकर |
| पुत्रा यूयं भुवन | मन्दिरं क्षालयन्तस्ते |
| पुत्रावुभौ प्रथमजौ | महद्भिर्ग्रथ्नीमः स्रज |
| प्रणमन्तः स्तुवन्तश्च | मात्रार्पितं गरल |
| प्रत्यासन्नसखीवितीर्ण | मूले वालधिमग्रत |
| प्रत्युद्यत्कमठकठोर | मूल्यं तत्किल |
| प्रथमसमुद्गता | म्लायन्त्या वैजयन्त्या |
| प्रसजति महोत्सवे | यच्छैलेषु यदम्बुराशिषु |
| प्रह्लादः प्रथमो गुरु | यज्जन्मस्थेमभङ्ग |
| प्राकारगोपुरविहार | यत्प्रत्यस्तमितप्रपञ्च |
| प्रागेव पातालजुषां | यदादिष्टं पाल्यं |
| प्रेक्षावन्तो दिशि दिशि | यदियज्जीवितमेतै |
| ब्रह्मर्षयोऽपि दनुजेन्द्र | यदेतद्वामाङ्गं |
| यद्घोरघोरतररूप | वन्दे वाञ्छितलाभाय |
| यद्दृष्ट चन्द्रसूर्याभ्या | वल्मीकेष्वहयो |
| यद्भग्नेषु भवत्सु | वल्लभोऽसि सरस्वत्या |
| यद्यप्यद्य गतश्रियः | वाग्देवीवदनारविन्द |
| यन्नैश्चिन्त्यं यदैर्जित्यं | वाचं व्याकुरुते |
| यं त्वं चिन्तयसे नान्यं | वाय्वर्कशक |
| यल्लक्ष्मीदयितोऽस्मि | विद्राणे वरुणे |
| यश्चेष्टतेऽवकाशेषु | विद्वासः प्रथमे |
| यः शक्यो न दृशापि | विधातुं कर्माणि |
| यस्तल्पेष्वपि कोमलेषु | विनिघ्नन्तः पादैरथ |
| यस्यैवं भूर्भुवरस्वर्भुवन | विरहासहेव सततं |
| यः संरम्भः कृति | विहारोऽप्येतस्या |
| या त्वेषा तुलसीति | विशत्यापि भुजैः पुरा |
| यावज्ज्यावलयावलीढ | वीरभद्र इव क्रुद्धे |
| यावत्सान्त्वयितुं | वैराजशाक्वर |
| यावद्यावत्सागरं ते | व्यत्यस्तकौस्तुभमव |
| युगविगमोन्मिषद्विषम | शक्ता भवेम यदि |
| येनादिश्यत वेधसा | शस्त्राशस्त्रिक्षत |
| येयं त्रैलोक्यराज्यश्री | शाणोलीढशरन्मृगाङ्क |
| लब्धुं तत्पदमूर्जित | शिवं ध्यायस्यन्त |
| लभ्यन्ते श्रुतिपाठ | शिवा घोरा ये चेति |
| लीढालीढपुराण | शिष्टं यदत्र दुष्टं वा |
| वक्त्राक्षिपाणिचरणा | श्लथे नीवीबन्धे |
| वत्सेति प्रवहत्सुधा | सकलभुवनैक |
| वदति मधुरमित्थं | सनत्कुमारेण समागमे |
| वन्दामहे कमलनाभ | स निर्जिहान एव |
| सर्वातङ्कविशङ्कशंकर | स्खलदचलसमुद्भवल्लोल |
| संधानं कुरुतासुरैः | स्तुवन्तो दिव्याभिः |
| संधास्यामः शमधनगिरा | स्तोकस्तोकप्रचल |
| संरुन्धते निभृत | स्थानं विश्वसृजोऽपि |
| संरुन्धन्ति द्विषन्तो | स्थानाच्च्यावयितुं |
| संवेष्टयन्नथ स | स्थीयतामग्रजैः स्वर्गे |
| साधु वत्सजगन्नाथ | स्नातुं वाञ्छति |
| साध्वी गौः सुरभिः | स्रष्टासि तात |
| साफल्यं तपसामिदं | स्वच्छन्दप्रचलत्सुधा |
| सान्निध्यमात्रजो यस्य | स्वप्नोन्मादावपि हि |
| सायोन्मिषत्कुवलयोदर | स्वाद्या यत्र सुधैव |
| सिञ्चन्तीं परमामृतानि | स्वाध्यायाध्ययनादृतेन |
| सुरासुरकरोदर | खेनैव भ्रमयति |
| सौहार्दं परमेयुषा |
<MISSING_FIG href="../books_images/U-IMG-172414860052412.png"/>
]