पञ्चमाश्वासः।

आलोड्यमानः पुनरेकतानैरामूलमन्धिः सुरदैत्यसंघैः । प्रादुष्करिण्यन्परमामृतं तत्प्रासीददीशान इव क्रमेण ॥१॥
ततश्च ततः क्षोभ्यमाणात्सजातीयमन्दरसंघर्षमसहमानतया समुत्थित इव मैनाकभूधरः, परिगलत्कलुषमदजलासारपरिजिहीर्षया निर्वासित इव भुवि नैर्मल्यैकमत्यस्थितैरान्तरैर्जन्तुभिः, सलिल एव संततवप्रक्रियाशीलनेन संसक्तैर्दुग्धसागरसरोजनालैरिव वज्रवलयैरावेष्टितचतुर्दन्तः, संततभूभारपरिश्रान्त- दिगन्तदन्तावलराजदृष्टिपथान्निलीय विष्टिग्रहणशङ्कया

विस्तारः

विष्टिग्रहणशङ्कया बलात्कारेण ग्रहणशङ्कया। मास्या मूले लग्नकचे विष्टिर्नरकपातने । बलात्कारे च भद्राख्यकरणे कर्मवेतने ॥ इति नानार्थरत्नमाला ॥

विनिर्गतः स्वयमेव बहिरिव केनापि पथा विस्मयनीयविग्रहो महानैरावतो नाम मतङ्गजः प्रादुरभूत् ॥
परिचलितदुग्धवेलापरिचयविमलस्य मन्दरस्य गिरेः । अभ्यर्णमुपसरनयमर्भक इव तस्य संददृशे ॥२॥

आजिघ्रन्निव पुष्करेण जलधेरर्धं पिबन् शीकरै-
रासिञ्चन्नभितस्तनूमिव सुरान् स्रोतोभिराप्लावयन् । वप्राघातमिवाचरन् शिथिलयन्मन्थानमेवाचलं
हर्षायाजनि पश्यतां दिविषदामैरावणो वारणः ॥३॥ स च बहिर्निःसरन्नशिक्षिताधोरणनियन्त्रणतया मनागप्यगणयन् देवासुरान् , अमृतोपयोगसुहिततया किमप्यनालोकयन्नुप- नीयमानानिक्षुलताभारानुपह्रियमाणानि कदलीकाण्डानि संभ्रियमाणानि पिप्पलपल्लवानि च, सर्वतः पराममर्श यादांसि । तमित्थमतर्कितोपनिष्क्रान्तमालक्षयन्तः पुनरपि यावदाविलयांबभूवुरर्णवं देवासुराः, तावदुद्वेलहेषाहलहलोन्मेषपोषितकल्लोलकोलाहलः,

विस्तारः

हलहल इत्यवहेषानुकरणम्

चटुलखुरपुटाविद्धदुग्धसागरशीकरासारदुर्दिनदुर्दर्शदिङमण्डलः, संततसलिलनिमज्जनोन्मज्जनक्लेशसहनाक्षमतया सैन्धव इव कुमुदबान्धवस्यन्दनसंदानितः, कोऽपि समुन्मुच्य बन्धनमुञ्चलितो बहिरुच्चैःश्रवा नाम यथार्थनामा समुन्ममज्ज सज्जीकृतो वाजी ।
आप्योऽपि रंहसा गच्छन्ननाप्यो मारुतेन यः। सैन्धवः सैन्धवाद्गर्भादुत्ततार स पाण्डरः ॥ ४॥
स च किंचिदुदञ्चिताग्रपादतया मुहुर्मुहुराधित्सन्निव शिरसि पदमनलसारथेः, अपहसन्निव हेषारवैरवनितलमात्रसंचारशिक्षिता इत्यारट्टजवनायुजान् , सलिलमात्रसंचारशीलिनो मत्स्यमण्डूककर्कटका इवेति वाजिनो वरुणस्य, तैलयन्त्रनियन्त्रिता बलीवर्दा इव संततभ्रमणमात्रगर्विता इति सैन्धवानम्भोजबान्धवस्य, मारुतविजयादेव मनांसि जिगाय । अपि च । बाडबानामाजानसिद्धो मनोजयः कस्तत्र यत्न इति कथयितुकाममिव चलप्रोथतया, वालविक्षेपनिर्धूतमेघमण्डलतया वाहनं प्राचीनमभिभवन्तमिवाखण्डलल्य पश्यन्नुच्चैःश्रवसमनिमेषेण चक्षुषा, पद्मनाभः स्वयमङ्गीकृतहयग्रीवतनुरध्यापनमात्रनिर्वृतः सर्वतोऽपि विस्मयनीये तदीये गतिचातुर्ये सासूय इव बभूव ॥

यावद्यावत्सागरं ते ममन्थुस्तावत्तावत्सोऽर्पयन्नेकमेकम् ।
भूयो भूयः क्षोभमेवाप देवैदृष्टास्वादास्तत्र किं ते दयन्ते ॥ ततश्च -
साध्वी गौः सुरभिर्नाम सागरादुदभूत्स्वयम् ।
गोप्रसूता हि गावी स्यामसाधुश्चेति जानती ॥ ६ ॥

स्नातुं वाञ्छति शंकरोऽपि पयसा स्तन्येन यस्याः स्वयं
तोयं पावनमुत्तमं त्रिजगतां यद्गात्रनिष्यन्दजम् । यद्रूपां समुपासते शमधना वाचं पुराणी परां
सा दिव्या सुरभीकरोतु सुरभिर्वाचं कवीनामपि ॥७॥

प्रथमसमुद्गतामखिलकामदुधामनघां
सुरभिमभिप्रपद्य सुरसिद्धमहर्षिगणे ।
स्तुवति धृताक्षमा इव वदान्यशिखामणयः
सममुदयांबभूवुरथ पश्च महातरवः ॥ ८ ॥

अमीषां च पुनरखिलभुवनाद्भुतानां किसलयान्येव कनकांशुकानि, जीर्णपर्णान्येव चीनाम्बराणि, मुकुला एव मुक्ताफ्लानि, निर्यासा एव वैडूर्याणि, फलपाका एव पद्मरागाः, परागा एव पटवासाः मधुकरा एव महेन्द्रोपलाः, प्ररोहा एव हारलताः, प्रसवासवा एव परिणामाः सुधारसस्येत्याचक्षते ॥

किं कर्म दुष्कृतमिदंतरुजन्महेतुः
किं वा महत्सुकृतमीदृशकीर्तिमूलम् । किं वा तृतीयमिदमीदृशमन्यदेवे-
त्यद्यापि शाम्यति न वादकथा मुनीनाम् ॥९॥
अवस्थाप्य च तानानुपूर्व्येण परिहृतजरारोगपरिश्रमासु पञ्चेन्द्रियसमुज्जीविनीषु छायासु तेषामायासमवधूय पुनरपि ते ममन्थुरमृतार्णवम् ॥
अभ्युद्यतीं मथनतः किल निष्कलङ्का-
मानन्दकन्दलमयीममृतांशुरेखाम् । उत्तंसपुष्पकलिकेयमुमापतेरि-
त्यालोचयन्नुपददे मनसा मुकुन्दः ॥१०॥

ततश्चिन्तित एव संनिहितो नन्दी शिव इव सभाजितो देवासुरैः समर्पितां मधुसूदनेन शशाङ्करेखामाददानः सादरमिदमवादीत्-
‘किमिव दायितं शंभोः केन प्रसीदति देव इ-
त्यविरतसमासक्तं चित्तं तवैव हरे हरे। तदिह भगवन्माहाभाग्यं तव प्रणुमः कथं
त्वमसि शरणं शैवानां नस्त्वमेव महागुरुः ॥ ११॥

जानीषे ननु नाम केशव जगन्नाथस्य नाथस्य नः
प्रीतिं पारमिकीमनन्यसुलभां पुष्पेषु नीलोत्पले । असिन्नुत्पलबन्धुरित्यतितनूभूतेऽपि भूतेशितुः
प्रीतिं चिन्तय तावतीमुपचितामिन्दौ ततो वाधिकाम् ॥१२॥

तदहमेव प्रसाधयन्ननेन भगवतः कपर्दपदमाराधयामि हस्तेन ते परमात्मानम् । अग्रभुजे च विश्वेषामग्रपूजनमेतदुचितमाचरितम् । तदितो यथाभिमतमिमानि वस्तून्युपयुज्यन्तां’ इत्यभिधाय तिरोभवति शिलादनन्दने, पुनरपि संचुक्षोभ सारस्वतो गर्भः ॥

नैर्मल्यादुपसंभृताः फणधरस्त्रैणानुबिम्बाः शतं
खस्थानक्षुभितोद्गतामृतरसस्यन्दोपसंदानतः । प्राप्तप्राणसमागमा इव ततः प्रादुर्बभूवुः स्त्रियो
नासीराग्रपताकिका रतिपतेर्नानाजयाङ्का इव ॥ १३ ॥
ततश्च विद्रुमलता इव वीचीभिराहृताः, तटित इव तत्तत्समयोपनम्रपयोधरोत्संगपरिभ्रष्टाः, कौस्तुभरत्नपाश्चालिका इव कौतूहलाय विनिर्मिताः केनापि, पञ्चशरराज्यलक्ष्मीविभूतीरिव परिगृहीतविग्रहाः, तुल्यवयोरूपविभ्रमाः, तुल्याम्बरविभूषणाः, हंसीरिव मानसादम्भोदविगमे समुत्तरन्तीस्ता बहिरालक्ष्य सर्वेऽपि सुरासुराः विरम्य सागरमथनवृथाक्लेशादुत्तरमप्यमृतमुपेक्ष्य संनिहितेऽधरामृत एव दृष्टिमादधिरे । तापसा अपि तद्दर्शनाभितहृदया मन्त्रजपादपरम्य मणितभेदानधिजिज्ञासांचक्रिरे ।पश्चाग्निमपि विमुच्य पञ्चास्त्रविद्यामेव परमर्षयोऽपि बहुमेनिरे । किं बहुना । श्रुतिन्यायविदोऽपि सूक्ष्मदर्शिनः, तासामालोकन- मग्निष्टोमस्य, द्वारोपसर्पणं द्वादशाहस्य,गाननिषेवणं गवामयनस्य, नाट्यावलोकनं नक्षत्रसत्रस्य, वाङ्मिश्रणं वाजपेयस्य, परिष्वङ्गं पौण्डरीकस्य, वदनास्वादनं वाजिमेधस्य, दन्तक्षतं दाक्षायणयज्ञस्य, नखलेखनं नानाविधानां संस्थानां, कुचमर्दनं कुण्डपायिनामयनस्य, रशनावमर्शनं राजसूयस्य, विपरीतरतं विश्वसृजामयनस्य, चरणताडनं चान्द्रायणस्य, परिभाषणं च पराकसान्त पनयोः फलमाचक्षते ॥

सौहार्द परमेयुषामपि तदा संनह्यतां विग्रहे
तासामेव कृते शनैः सुमनसां दैत्येश्वराणामपि । सद्यः क्षालयितुं विवादमनतिप्रौढं सरोजेक्षणः
संगृह्णन्नुभयानिमानभिदधे तथ्यं च पथ्यं वचः ॥१४॥

‘हन्त भो देवासुराः, किमिदमजानतामिव भवतामपि वैमत्यम् । तुल्ये परिश्रमे, तुल्ये चाभिजने, तुल्येनैव वो भवितव्यं फलेनापि । तदिमाः समुद्रसंभवा अप्सरसो नाम तरुण्यः साधारण्यो भवन्तु भवताम् ॥

गजमेकमश्वमेकं गामेकां पञ्च च दुमान् दत्वा ।
संभावयत विनाशितसर्वस्वं वासवं यदि प्रीतिः ॥१५॥

इत्यभिहितमात्र एव सादरमाधाय शासनं शिरसि ‘किं प्रतिब्रूमो भवच्छासने, किंतु स्वामिने किमप्यनुपहृत्य न युक्तमस्माभिरियदासेवितुं, तदग्रे यदुत्पत्स्यते तद्भवाननुमन्यतां’ इति प्रार्थ्यमानः सुरासुरैरन्तरेव कृतस्मितः किंचिदन्वमन्यत रमारमणः ॥
अथ पुनरपि यावदाविलं ते
व्यधुरुदधि विबुधाश्च दानवाश्च । सममखिलजनुष्मतां मनोभिः
समजनि तावदनाविला त्रिलोकी ॥ १६ ॥

अभ्यग्रावतरिष्यदर्णवसुताहस्ताग्रसंभावना-
संहष्यत्कनकारविन्दकलिकासौरभ्यसारस्पृशः । मन्दं मन्दममन्दचन्दनकिरः पस्पन्दिरे मारुताः
कालोन्निद्रकदम्बडम्बरमभूद्येनाङ्गमङ्गं हरेः ॥ १७ ॥
ततश्च समसमयसमुन्मिषत्कनकारविन्दकाननश्रीरिव नयनानन्दसंदायिनी, समभागयोजितशरदिन्दुकन्दलबालारुणप्रवि- लापनचाकचक्यलक्ष्मीरिव चमत्कारकारिणी, सागरावर्तविवर- समुत्थितफणासहस्रमणिप्रभेव फणिराजस्य, काचन कान्तिधोरणी समूर्च्छिता दुग्धकल्लोलेषु सन्ध्येव चन्द्रातपे, सफलीचकार कमलाक्षतां कमलाक्षस्य । तत्र च तालवृन्तचामरताम्बूलकरङ्क- कनकालुकादिपरिकरपाणयो भावानुभावदेवता इव परिणताः शरीरबन्धेन शृङ्गारस्य, रम्भादिरामणीयकमात्रनिर्वर्णननिर्वृतानि
लज्जयन्त्यो नयनानि नाकसदां, प्रादुर्बभूवुरग्रतः परिवारशक्तयः कमलालयायाः । तदनु च परमानन्दघनीभावपरिणाममयी मातृकावर्णसंपन्नमकुटादिचरणान्तसर्वाङ्गसुन्दरी पतिदेवता धर्मनियन्त्रणेन पतिमुखलक्ष्यैकपातिनीभिरपि कटाक्षवृत्तिभिः परिसरनिष्यन्दमात्रपरिपोषितजगत्त्रयी, जातजायमानजनिष्यमाणरूपापि जातरूपैकमयीव लक्ष्यमाणा, धर्ममयी धार्मिकेषु, विज्ञानमयी विप्रेषु, पराक्रममयी बाहुजेषु, संपन्मयी राजसु, साहसमयी शरारुषु, कारुण्यमयी भक्तेषु, कामकलामयी परिणेतरि, विजयपताकिका जनार्दनस्य, जीविका मकरध्वजस्य, माता चराचराणां, महिषी नारायणस्य, समालक्ष्यत सौभाग्यदेवता ॥
विरहासहेव सततं विहितस्थितिराननेन्दुना सविधे । कुवलयवनीव रेजे कुटिला कचसंहतिस्तस्याः ॥१८॥

कपोलौ निर्मातुं किल शकलमेकं हियरुचे-
र्यदादायात्याक्षीदसममिदमस्या इति विधिः । तदासीदाश्चर्यं परममखिलानां दिविषदां
तदुत्तंसीभूतं पुरमथितुरद्यापि मकुटे ॥ १९ ॥
अपिच कमलासनपदप्रदस्य कमलोपमा मीनकेतनजनकस्य मीनसादृश्यमपि कथयितुमपत्रपन्ते कवयोऽपि तन्नयनस्य । करगतकमलं घ्राणसंसक्तं तत्रत्यमौक्तिकमिव तस्या नासामणिः परिणेमे ॥

कस्यां श्रुतावधिगता मणिकर्णिकेति मूढात्मनां प्रलपतां मुखमुद्रणाय ।
आसीदशेषजनताभवतापहन्त्री
मातुः श्रुतावधिगता मणिकर्णिकैव ॥ २० ॥
पद्महस्तायाश्च तस्याः पाणिकमलयोर्विवेकाय कल्पितानि चिह्नतयेव कङ्कणानि प्रचकाशिरे ! आजानसरलमस्या हृदयमा- वृण्वतोरनवशेषमेव कुचकुम्भयोः कोपारुणाः कटाक्षा इव पुण्डरीकाक्षस्य कुंकुमपत्रभङ्गा ददृशिरे ।
वक्त्राक्षिपाणिचरणासनधारणानि
पद्मानि यानि षडिमानि हरिप्रियायाः । उद्बुद्धमेकमपि तेषु किल व्यनक्ति
संसारमोहरजनीमणुमात्रशेषाम् ॥ २१ ॥

पद्मे निवेश्य परिगृह्य च पद्ममेव
या पद्मरागमखिलं स्वमुदाजहार । तस्याः श्रियः समुचितानि हि तन्मयानि
ताटङ्ककङ्कणमुखानि विभूषणानि ॥ २२ ॥

विहारोऽप्येतस्या विकसति सरोजे चरणयोः
प्रसूते लौहित्यं यदि चरतु सा कुत्र सुमुखी ।
इति ध्यायध्यायं मृदुनि नवनीतादपि निजे
हृषीकेशो मेने हृदयभवने वासमुचितम् ॥ २३ ॥

ततस्तदिङ्गितवेदिनी मङ्गळदेवता परिवृता विभूतिभिः पश्यत्सु देवासुरेषु, सहस्रादित्यवर्चसा सह कौस्तुभेन सागरादुत्तरन्ती पद्मेन सह चिन्तामणिमपि पाणिना धारयन्ती भुजाद्भुजान्तरं संक्रम्य भूभुजां कृतशिक्षेव भुजान्तरमेव भूवल्लभस्य समारुरोह ॥

दिव्या दुन्दुभयो विनेदुरभितः स्निग्धं जगुः किन्नरा
जानन्तः परदेवतां जय जयेत्यस्ताविषुस्तापसाः । अम्लानैर्ववृषुः सुमैः सुरभिलैराश्चर्यमेघाश्च ता- मारूढां हृदयं हरेरपि सुरैरज्ञातमन्तःपुरम् ॥ २४ ॥
चन्द्रं चन्द्रिकयेव चण्डकिरणं दीप्त्येव शक्त्या तया
नित्याश्लिष्टमनन्ययापि मिलितं देवं तदानीमिव । दर्शंदर्शमनिर्वृतां दशशतीमक्ष्णां किरन्पादयो-
रस्तावीत्कमलालयामभिमुखीकर्तुं पुनर्वासवः ॥ २५ ॥
भगवति जगज्जननि भक्तवत्सले, परमः पुमानपि भवत्या विनाकृतो नीहार इव भानुमान् , निदाघान्त इव चन्द्रमाः, नानन्दयामास नयनानि मादृशाम् । अधुना तु–

या त्वेषा तुलसीति वक्षसि हरेर्या कापि वन्यौषधि-
र्यश्चासौ तिलकालको बहुमतः श्रीवत्स इत्याख्यया । हन्तासीत्तदपि द्वयं शमवतामालम्बनं ध्यायतां
चारूणामपि चारु चारुचरणन्यासेन पद्माक्षि ते ॥ २६ ॥

अपि च । यामेव भवतीमियन्तं कालमासेदुषीमरातिभवनानि मणिप्रभामिव महोरगफणागतामालक्ष्य चकितोऽस्मि तामेव सर्वलोकशरण्यस्य भगवतः सरसिजेक्षणस्य वक्षोगतामालक्षयन् सर्वतो निर्वृतोऽस्मि ॥

अज्ञानादतिलालनादपि च ते मातर्मया माद्यता
निर्माल्ये परदैवतस्य चलितं यत्किंचिदुच्छृङ्खलम् । तत्क्षन्तव्यमनन्यवेदिनि चिरापन्ने प्रपन्ने मयी-
त्याख्यान्तं मघवन्तमादिजननी दृष्ट्या दयामास सा ॥
अपि च पुनरेवं वादिनि मघवति पतन्तीं पश्यन्ती प्रसादविमलां दृशं प्राणवल्लभस्य, चिन्तानुरूपमेव तस्य, चिन्तामणिना तमाह्लादयामास । इत्थमियत्यपि चलति संविधाने, प्रव्यक्ते च पशोरपि पक्षपाते मघवति परमेश्वरस्य, मदान्धाः प्रकृत्यैव मायया च विशिष्य मोहिता महासुराः–किं गतमेतैरतिक्षुद्रैः किंचित्तु वयमनुवर्तमानाः क्षणमपहरिष्यामः सुधामित्यन्तर्निहितेन छद्मना पद्मनाभमनुरुध्यावतस्थिरे ॥
अथ मथनविषण्णदेवासुरस्तोमजीवातुभिः
श्रमशिथिलितवन्धवातंधयप्राणनाडिंधमैः । शिशिरितहृदया दयासारतुङ्गैरपाङ्गैः श्रियः
पुनरपि जलराशिमक्षोभयन् देवरक्षोभटाः ॥ २८॥

ततः संततसंतन्यमानमन्थननिर्बन्धनिर्विण इव, सर्वस्वहरणसमुत्पन्नवैराग्य इव, तनयावियोगतरलान्तःकरण इव, वरुणालयः त्रिजगदगदङ्कारबिरुदाङ्कित्तेन दिव्यौषधिपरिवृतेन करकमलगृहीतकनककुम्भसंभृतामृतगन्धमन्थरगन्धवहस्पन्दमात्र- नियन्त्रितजरामरणक्लेशपाशेन जगदनुजिघृक्षागृहीतेन जनार्दनस्यैव मूर्तिभेदेन भगवता धन्वन्तरिणा सममाविर्भूय भूयसा भक्तिभारेण पुरुषोत्तमं प्रणिपत्य परिष्टुवन्नादाय तस्य करादमृतकलशमग्रे निवेदयन्निदमाचचक्षे—-
‘त्वमसि परमं ब्रह्म त्वं नाथ सर्वजनान्तर-
स्तव किमवशे रम्यं वस्तु स्थलेषु जलेषु वा । तव किमुपदातव्यं लक्ष्मीपतेः कृपणैर्जनै-
स्तदपि दयसे स्वामिन्नस्मासु तत्वनिवेदनात् ॥ २९ ॥

अपि च—

गामश्वं करिणं मणि हिमकरं कन्यास्तरूनद्भुता-
नन्नं चामृतमन्ततखिजगतीजीवातुमेतां सुताम् ।
प्राणाचार्यममुं च ते चरणयोः प्राणैः समं विन्यसन्
स्वामिन् कामपि ते प्रसादकणिकां याचे दया चेन्मयि ।’

वदति मधुरमित्थं वल्लभे वाहिनीनां
जनयितरि रमाया जातहर्षो मुकुन्दः।
सकरुणमनुगृह्णन् सानुरागैरपाङ्गै-
रकिरदमृतवर्षैरेनमार्द्रैर्वचोभिः ॥ ३१ ॥

तदनु यथागतं गते सरस्वति, सरस्वतीरमणशतमन्युमुखा बर्हिर्मुखाः प्रतीक्षमाणा निदेशं परमेश्वरस्य परिवार्य केशवमतस्थिरे। दानवास्तु मध्ये निधातव्यममृतकलशं मधुसूदनस्य पुरोनिहितमन्यथाशङ्कमानाः, गणयन्तः पक्षपातं गरुडध्वजस्य, चिन्तयन्तश्चिन्तामणिप्रदानं वैषम्यकारणं, आलोच्य परस्परं, आसीदन्त इव सान्त्वनाय सामाजिकानां, परिवृत्य सुधाकलशं, परिगृह्णन्तः प्रहरणानि, परिमेलयन्तः स्वबान्धवान् , अवतारयामासुरादितः कामपि विवादकथाम् ‘भगवन्तौ चक्रायुधचतुर्मुखौ कथमत्र भवितव्यं विभागेन । अथवा न पृच्छामो युवाम् ।
आमन्त्रिताः स्मो न वयं युवाभ्या-
मभ्यर्थिताः स्मो न च सान्त्ववादैः ।
अस्माभिरादौ समयं बबन्धु-
रागत्य ये तान्वयमालपामः ॥ ३२ ॥
ननु च भो भ्रातरः सुपर्वाणः, शृणुत यूयम् । अपि जानीध्वे समयमाचार्येण वः कृतमस्मासु ।
क मन्दरो महागिरिः क्व सागरो दुरुत्तरः
क्व वा स वासुकिः फणी फणीन्द्रमण्डलाग्रणीः । भवन्त एव साधयन्तु भावयन्तु चामृतं
पिबन्तु चातिथीनिमान् सुरान्विधाय दानवाः ॥ ३३ ॥

किंबहुना
शक्ता भवेम यदि किं वरयेम युष्मान्
तत्साधका मथनकर्मणि यूयमेव । शक्त्या यतेमहि वयं च परं तु तसिन्
यत्नानुरूपमितरानपि भावयध्वम् ॥ ३४ ॥

इति । तदिह भवन्त इव विदांकुर्वन्तु ।

कति भग्ना गिरिवहने कति पतिता वासुके समानयने । कति दग्धा भुजगविषैः कति भागानिह पिबेमेति ॥ ३५ ॥

इति वदत्सु दानवेषु वाचस्पतिरिदमभाषत-
‘यद्भग्नेषु भवत्सु पूर्वमनिलेनैवाद्रिराकम्पितो
यच्चापत्यकलत्रदर्शनकृते यूयं गता भूतलम् । यद्वा भोगिपतेः फणाग्रवहनं युष्माभिरेवार्थितं
सर्वं वेद स एष एव भवतामाचार्यपादः कविः ॥३६॥’
इत्युत्तरोत्तरयुक्तिवादिनि वाचस्पतौ, प्रतिवदति च यथाशक्ति भार्गवे, परिणमति शनैः कलहे, प्रहरणादानभीषणेषु दानवेषु, परिकरमाबध्नत्सु निर्जरेषु, चिन्तयन्मनसा चिरमाराध्य परां शक्ति, आसाद्य तदीयमेव मोहनं रूपमतिसधाय दानवाननुगृह्णीयाममरानिति कृतनिश्चयः सद्य एव तिरोदधे सह कमलासनेन कमललोचनः । ततश्च -
दोभिर्दुर्भरशैलनिर्भरपरीवर्तावसीदद्बलै-
र्गात्रैरुद्भटकालकूटगरलज्वालावलीढोज्झितैः ।
उत्तालैः श्वसितैरुपर्युपरि च प्राणैः प्रतिष्ठासुभिः
स्पर्धामात्रबलोत्तरा युयुधिरे देवैः समं दानवाः ॥ ३७॥
भग्नरथा भग्नाश्वा भग्नबला भग्नशस्त्रास्त्राः। निर्विद्य भुवि निषेदुः सममुभये सर्वतो भनाः ॥ ३८॥
परिश्रान्ताश्च ते परितोऽपि चक्षुर्व्यापारयांचक्रिरे । अद्राक्षुश्च ते तत्र किंचिदपर्यायसमुन्मिषच्चम्पकबकुलहरिचन्दनतिलकमल्लिकासहकारमाधवीकरवीरवासन्तिकाकुसुमपरिमलोद्गारिमारुतानुसारिमधुकरीगानकलकलोन्मिश्रकलकण्ठकण्ठनादमेदुरं, दुरन्तविरहोदन्तदूयमानमानिनीजनावर्जितपल्लवशयनसमुल्लसित- लताकुञ्जमञ्जुळं वञ्जुळविटपिसंचरदलिकुलभारपराकीर्णपराग- पुञ्जपिञ्जरासारसारणीसलिलपूरपूरितालवालबालपादपच्छायसुख- निषण्णकिन्नरीसंलापसमाकर्णनोल्लसितकर्णिकारकलिकानिकायरणीयं, अनतिक्रमणीयशम्बरशासनशासनचीटिकायमानपल्लवभङ्ग- धारणनिरातङ्कशारिकासंघकिङ्करीभूतयुवलोकलोचनानन्दनं नन्दनमिव भुवि निवेशितमखिलगुणाभिराममारामम् । तत्र च–

मन्दस्पन्दरसालसालशिखरक्रीडत्पिकश्रेणिका
कण्ठोदश्चितपञ्चमध्वनिचमत्कारप्रकारस्पृशः। कन्दर्पाहवखिन्नकिन्नरवधूकण्ठोन्मिषत्काकली-
काकुव्याकुलिता गिरो दिविषदां जीवातवो जज्ञिरे ॥३९ ॥

उपवने च तस्मिन्नुपान्तनिरूढकदलीगर्भकन्दलितहिमबालुकापरागवालुकानुरागजनितजडिमहिमकुल्यानिपातशीतलितालवालमूलसुखशयितकेकिकेकानिनादमनोरमे हरिमणिहरितपरिसरधरणिनिपतदविरळबकुळमुकुळपरिमळपरिमिळदळिकुलगरुदुपचितमरुदुपहृतकुसुमजरजोराजिनिर्मले मूले बकुलस्य, निटिलतटनिर्माणकौतुकाविष्टनीरजसंभवापास्तशशाङ्कशकलानुकारिकेतकीपत्रचित्रितवेणीपदां, नभोनभस्यरजन्योः केशपक्षयोः नवनवोन्मिषद्विवादपरिहारकसीमाविभागवीथिकयेव सीमन्तरेखया पद्मरागसिन्दूरपाटलीकृतया संघटयन्तीमिव सान्ध्यरागसंपदं, किङ्करीकृतभुवनमण्डलेन किंचिद्घटितेन भ्रूभङ्गेन परिहरन्तीमिव प्रामादिकं भङ्गमनङ्गवीरस्य, अनासेवितमधुरैरिव अमृतैः, अनालिप्तशीतलैरिव कर्पूरपरागैः, अवतंसोत्पलमिव हस्तग्राहं ग्रहीतुमनुधावद्भिरनुक्षणं कर्णपथं, आक्रामद्भिरिव शनैर्मुखमण्डलं, संजीवनैर्मदनस्य, संप्रदायगुरुभिः शृङ्गारस्य, विलासभवनैर्विभ्रमाणां, तारुण्यचन्द्रिकोलासितैस्तरङ्गैरिव लावण्यसागरस्य, कटाक्षैरेव जगदखिलं कन्दर्पनिदेशवशमापादयन्तीं, ताटङ्कमरीचिवीचिभिस्तटित्पुञ्जमिव युगपदुनिरन्तीं, आदिमरसाभिवर्षणाय निरन्तरपरिवहदाननसौन्दर्यनिष्यन्देनेव नासामणिना,प्रतिबिम्बितेनेव तस्य पाटलाधरपर्यस्तेन मन्दस्मितेन च मदयन्तीमिव मनांसि महायोगिनामपि, नवनवोपचीयमाननखंपचस्तनभारपरिणाहवशा त्परिश्लथयन्तीमसकृदपि वेणीलतां कञ्चुकस्य, कन्दुकाघातजनि तारुण्यकरपल्लवाभ्यर्णपरिभ्रमद्भ्रमरिकानुकारिणा कमलाक्षवलयेन
परिभ्रमयन्तीमन्तःकरणान्यपि पश्यतां, कलमधुरगानामृतद्रवीभूतपर्यन्तमणिकुट्टिमपतनसंभावितामार्द्रतां परिहर्तुं कन्दुकस्य चलन्तीमितस्ततोऽपि, चरणतलरणितमञ्जीरशिञ्जानुविद्धेन कञ्चीकलकलेन घोषयन्तीमिव वीरघोषणां कन्दर्पस्य, विद्युतमिव विश्रमितुमागतां, सालभञ्जिकामिव संचारशालिनीं, रत्नशलाकिकामिव लब्धजीविकां, शारदचन्द्रिकामिव संपन्नविग्रहां, सौन्दर्यसंपदमिव सान्द्रीभूतां, साम्राज्यदेवतामिव तारुण्यस्य, संप्रदायविद्याभिव मदनागमस्य, कामप्यदृष्टचरीं कन्यकामुपलेभिरे ॥
सायोन्मिषत्कुवलयोदरसोदराणि
सा यत्र यत्र विचकार विलोचनानि !
आविर्बभूवुरवशादिव तत्र तत्र
सज्जीकृतैक्षवशरासभुजा मनोजाः ॥ ४० ॥

कटाक्षैः कन्दर्पज्वरजनितमोहान्धतमस-
प्रतापव्यापन्नत्रिजगदगदङ्कारविरुदैः ।
प्रगल्भैश्चालापैः परिमृदितकर्पूरशिशिरै-
र्द्रवीभूतं जज्ञे सलिलमिव विश्वं मृगदृशः ॥ ४१ ॥

दिशि दिशि विकिरन्ती दीर्घदीर्घानपाङ्गा-
न्करसरसिजघातैः कन्दुकं नर्तयन्ती । तटिदिव जलदेभ्यो विच्युता सा सुराणां ।
सविधमवजगाहे शाम्बरी शम्बगरेः (??)॥ ४२ ॥

भ्रामं भ्रामं करकिसलयं कन्दुके पातयन्ती
स्रस्तं स्रस्तं कुचकलशयोरर्पयन्त्युत्तरीयम् । उद्गायन्ती किमपि किमपि स्वैरमुत्कूलरागं
चित्रन्यस्तं कुलमकृत सा दारुणं दानवानाम् ॥ ४३ ॥

स्वच्छन्दप्रचलत्सुधार्णवसुधाकल्लोलवल्लोलया
संदृष्टाः शुभया दृशा सुमनसो धन्या जनन्या तया । पञ्चब्रह्मविनिर्मितासनपरब्रह्माङ्कपर्याङ्किनीं
पञ्चाम्नायशिरोगतां बुबुधिरे तां ते परां देवताम् ॥ ४४॥
पश्यन्तश्च तां परिसर एव चरन्तीं प्राणशक्तिमिव पञ्चशरस्य, भाग्यदेवतामिव शृङ्गाररसस्य, बालिकामुपेक्षितुं सुधाकलशमुदासितुं च तस्यामपारयन्तः क्षणमनुबभूवुः संशयान्दोलनं यावदसुरवरा:–
तावद्धावत्कन्दुकग्राहमोह-
व्याजात्प्राप्ता मध्यमेषां द्वयेषाम् । सिञ्चन्तीव व्याजहारामृतौघैः
शस्त्राशस्त्रिक्लेशितान्यङ्गकानि ॥ ४५ ॥

‘के यूयमाधिकारिका इव विगृह्णन्त इव विषण्णा इव संरम्भमानशेषा इव च लक्ष्यध्वे । किंकारणं विस्रब्धविहारिणीनां बालिकानां विहारवनोपकण्ठमसृग्वसामांसकर्दमैरभिपूरयथ’ इति । आकर्ण्य च तां गिरमतिभूमि मनोरथानां, अभ्यर्हिताममृतादपि दानवा इदमूचिरे–
‘निर्वासिता निजपदात्रिदिवौकसोऽमी
प्राप्ता वयं भुजबलेन पदं मघोनः।
सर्वेऽप्यमी सुमुखि दानवदैत्यसंघाः
सत्यं वदेम तव संप्रति किंकराः स्मः ॥ ४६॥ किं बहुना।

त्वं नो राज्यं त्वं बलं त्वं धनानि
त्वं नः प्राणास्त्वं भवस्यन्तरात्मा । त्वद्दासाःस्मस्त्वत्कटाक्षप्रतीक्षा-
स्त्वं यद्भूयास्तत्प्रमाणं परं नः ॥४७॥

इति निःशेषनिवेदितात्मसु दानवेषु, कि करिष्यति किं वक्ष्यतीति कृतसंशयेषु दिक्पालेपु, मन्दस्मितसुन्दरमिदमाह महामाया ‘हन्त कथमभिज्ञाततत्त्वा अपि भवन्तः पौरोगवा इव पाकशेषेषु कलशामृते कलहायन्ते। तदलमुपविशत यूयमुभयेऽपि वीथीभूय, प्रदास्याम्यहमेव भवतामिदं कलशामृतम् । तत्र च प्रथममिमानन्नार्थिनः पदभ्रष्टानभिक्षया परिविष्य, पात्रेणैव भवत्सूपतिष्ठे’ इति । ततश्च साधु साध्वित्युपलालयन्तस्तदीयं वचनं, द्वेधा पङ्कीभूय, देवासुराः प्रथममेव सतर्पिता वागमृतैः, प्रतीक्षांचक्रिरे परिवेष्यमाणं कलशामृतम् । ततश्च सा संनिहित- सखीकरन्यस्तकन्दुका ससंभ्रमोपनत चेटीजनामृष्टमुखमण्डला प्रत्य ग्रकर्पूरपरागपरिधौतकरपल्लवा भ्रूभङ्गचोदितभुजिप्याजनीपतम- मृतकलशमादाय भुवनत्राण बद्धकङ्कणेन सव्येन पाणिना, दर्वीकरशिरोरत्ननिर्मितां दर्वीनुगृह्णती दक्षिणेन करेण, नीवीपदनिगूहितोत्तरासङ्गपल्लवा, वेणीदृढग्रन्थितविस्रंसमानकुसुमदाममनोहरा, निस्तरङ्गमिव सागरं, निस्तनितमिव संवर्तमेघमण्डलं, निखिलमपि देवासुरबलं नियमयन्ती कटाक्षेणैव, यदा कश्चिदत्र करं प्रसारयति, कश्चिदुपमन्त्रयते रहसि, कश्चिदुच्चैः प्रलपति, कश्चित् त्वरते, कश्चिद्वा प्रतिब्रूते, तदा तिरोभवेयमिति प्रतिज्ञयैव परित्रासयन्ती, संमुखीभूय देवपङ्क्तौ संननाह परदेवता ॥
प्रत्यासन्नसखीवितीर्णमुकुलद्वीटीदलग्राहिणा
सव्येनादधती करेण मृदुना दर्वीं मणीनिर्मिताम् । कुर्वाणा करपल्लवे तदितरे कुम्भं सुधापूरितं
चिद्रूपा परमा कला पुरभिदश्चित्ते ममास्ते तु सा ॥४८॥
आनम्य किंचिदवमुच्य पिधानपात्र-
मादाय रत्नकलशादमृतं समग्रम् । दर्व्या मणीखचितया ददती सुरेषु
दिव्या कला भुवि चचार तटिल्लतेव ॥ ४९ ॥

मात्रार्पितं गरलमप्यमृतं शिशूना-
मित्यामनन्ति यदिदं विशदं तदासीत् ।
दर्वीकरत्वमपि सा दधती यदित्थं
दिव्यं ददावमृतमेव शिशुष्वमीषु ॥ ५० ॥

चरन्त्याः स्वच्छन्दं चरणतलमञ्जीरराणतैः
कलस्निग्धामन्द्रैर्घनजघनकाञ्चीकलकलैः।
कदाचित्पश्यन्त्या वलितमुखमस्याः परिजनं
कटाक्क्षैरप्यासीत्सुखितमखिलं दानवकुलम् ॥ ५१ ॥
ददाना च सा देवेषु दयारसमिव सुधारसं, दैतेयावुर(??) राहुकेतू नाम देवपंक्त्युपवेशिनौ भुजगवपुषौ पीतामृतावे चन्द्रार्कसूचितौ दर्वीकाण्डेन विदारयामास कण्ठपदे ॥
अन्तर्निगीर्णममृतं प्रथमं हि येन
तस्यासुरस्य तदशिष्यत भोगमात्रम् । यस्यामृतं वदन एव धृतं स राहु-
रद्यापि पर्यवसितः फणमात्रशेषः ॥ ५२ ॥

यदृष्टं चन्द्रसूर्याभ्यां तदृष्टं निजया दृशा । क्षन्तुं शशाक तेनैषा मन्तुं न खलयोस्तयोः ॥ ५३ ॥
अनुगृह्येत्थममरानामृष्टोदरं सुधाकलशमन्तर्निहितदर्वीझणझणात्कारमौखर्यपूरितमग्रे निधाय दानवानामपेक्षमाणेव क्षण विश्रममासांचके । तदनु सुधापानलब्धबला सुपर्वाणः परि गलितशङ्कातङ्काः प्रत्यक्षमेव तां प्रस्तोतुमारेभिरे ॥
‘वन्दामहे कमलनाभमनन्तमाद्यं
वन्दामहे भुवनमोहनशक्तिमैशीम् । वन्दामहे तदुभयाद्वयवादमूल-
मानीलकण्ठमवतंसितचन्द्ररेखम् ॥ ५४॥

निरातङ्क स्वामिन् निरुपधिदयासार भगवन्
प्रपत्रानुग्राहिन् परमपुरुष त्वत्करुणया ।
जिताः क्षुद्रा दैत्या जितमखिलमेतत्रिभुवनं
कृतं कर्तव्यं नः किमिव करणीयं पुनरितः ॥ ५५ ॥

आनीलकेशमरविन्ददळायताक्ष-
माविष्कृतस्मितमपारकृपानिधानम् ।
कूलंकषस्तनतटार्पितकुंकुमाङ्कं
शर्ङ्गिन्निदं शरणयेम तवाद्यरूपम् ॥ ५६ ॥

उल्लङ्घ्य निर्माल्यमुदासितं य-
दजानतानेन पदे भवत्याः । तत्स्वामिनि स्वामिनि वासवे नः
क्षन्तव्यमित्येव निवेदयामः ॥ ५७ ॥
इति स्तूयमानैव सा सुपर्वभिः, इदं किमापतितमियं का तरुणीति शङ्काकलङ्कितैरालोक्य रिक्तममृतभाजनमाविष्कृतमहारोषपरुषेरसुरैः संनह्यमानेव युद्धाय सद्य एव शङ्खचक्रगदाखड्गसरसरुहलाञ्छितमसुरलोकभयंकरमाबभार रूपं नारायणी । ‘भो भो महेन्द्रप्रमुखा देवाः, मशकानिवैतानुत्सार्य दानवान् , मन्दरं यथापुरं प्रतिष्ठाप्य, वासुकिं विसृज्य, विरूपाक्षमभिप्रसाद्य, लब्धानुज्ञाः सुखं पालयत स्वाराज्यं’ इत्यनुगृह्य देवानन्तर्दधे सह चतुर्मुखेन शार्ङ्गधरः ॥
तिरोभूते सद्यस्त्रिभुवनगुरौ खामिनि हरौ
विषीदन्तो दैत्या विबुधगुरुमानम्य शतशः ।
अयाचन्त स्थातुं निभृतमभयं भोगिभुवने
तथेति स्वीचक्रुस्तदपि विबुधा देशिकगिरा ॥ ५८ ॥
अथ पुनरन्तर्निगूढमत्सरानप्यभिनीतमहाविनयान् ,अपनीतविषानिव महोरगानसुरान्विसृज्य सुधारसास्वादसुहिततया कन्दुकमिव मन्दरं करतलेन धारयन्तः, प्रशंसन्तो वासुकिं भवत्प्रसादेन वयममर्त्या अभूमेति, परिरभ्य निर्भरं, प्रस्थाप्य रसातलं, उपनिवेशयन्तो यथापुरं मन्दरं, उपतस्थिरे चन्द्रशेखरम् ॥
‘क्षमेथाः श्रीकण्ठ प्रचलनमिदं मन्दरगिरेः
क्षमेथाः काकोलं कबलयितुमाशासनमपि । क्षमेथा यत्पूजास्वपचरितमासीदहरहः
प्रपन्नास्त्वामेकं शरणमशरण्या वयममी ॥ ५९ ॥

अक्ष्णोः पुष्पवतोरेकमर्पयन्नीश ते पदे ।
चक्षुषी पुण्डरीकाभे चतुरोऽलभताच्युतः ॥ ६०॥

देवानामपि दुर्लभं पदमिदं लब्धं मयोपायतो
द्वित्रैर्बिल्वदलैः प्रतार्य शिवमित्येवं जनो मन्यते । पद्भक्तांघ्रिरजःस्पृशोऽपि सुलभं क्षुद्रं पदं वेधसो
दत्वा सेवक एव वश्चित इति स्वामिन् भवान्मन्यते ॥६१॥’
इति स्तुवन्तो विबुधाः, ‘प्रसन्नाः स्मो युष्मासु, परिपालयत यथापुरं स्वाराज्यं’ इति प्रसन्नगम्भीरामाकर्ण्य पारमेश्वरीं (??)रमाकाशसंभवां, परमानन्दनिर्भराः प्राक्प्रस्थापितेन गुरुणा
सज्जीकृतां, परित्यक्तामसुरैः, प्रसाधितां विश्वकर्मणा, परितोऽप्य्भिनवामिव सर्वसौभाग्यवतीममरावतीमासाद्य. प्रणम्य वाचस्पति, प्रसाद्य यथोचितं महर्षिगणान्, परिरभ्य परस्परं, प्रतिष्ठाप्य सिंहासने शतक्रतुं, आदिष्टानि तेन स्वानि स्वानि स्थानानि यथापुरममगः परिपालयांचक्रिरे ॥

अर्चन्तस्तरुणेन्दुचूडमसकृत्संकीर्तयन्तो हरिं
ध्यायन्तस्त्रिजगद्विमोहजननीं शक्तिं परां शांभवीम् । आज्ञां मूर्धनि बिभ्रतः सुरगुरोरानन्दयन्तो मुनीन् स्वच्छन्दं त्रिदिवौकसो बुभुजिरे स्वाराज्यमव्याहतम् ॥६२॥

वाचं व्याकुरुते चिरंतनगिरं मीमांसते चोभयीं
पान्थः काव्यपथेषु पादकमले सक्तः पुरारेरिति । मामेतत्कथयिष्यतीति रचितं काव्यं मया तत्पुन-
स्तावद्वक्ष्यति वा न वा तदुपरि न्यस्तः समस्तो भरः ॥६३॥

शिवार्पणम् । इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक
शतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्य श्रीमदाचार्यदीक्षितपौत्रेण श्रीनारायणदीक्षितात्मजेन
श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये
पञ्चम आश्वासः॥ समाप्तश्चायं ग्रन्थः ।