तुरीयाश्वासः।

संवेष्टयन्नथ स मन्दरमम्बुराशौ
सार्धद्वयेन वलयेन भुजङ्गराजः । पार्श्वद्वयेऽपि शतयोजनमुच्छिशेष
पुच्छं मुखं च मथनाय सुरासुराणाम् ॥ १॥
ततः पूर्वजैः पूर्वकाय: फणिपतेः, अवरजैरपरकायश्च परिग्राह्य इति न्यायमाचक्षाणेषु दानवेषु, कटाक्षेण कमलाक्षस्य, शासनेन च स्वयंभुवः, समुत्साहिताः परिकल्प्य शिरोभागमासुरं, परिजगृहुर्वालभागमदितिसुताः । अनन्तरमन्तर्भ्रमदचलराजमूल- शिलासंघसंघर्षणकण्डूयननिद्राणकमठराजनिःश्वासपरम्परापरि- हृतपवनाशनलोकदुर्भिक्षं, अभितः प्रकीर्णदुग्धकल्लोलनिपातपरि- पूरितशुद्धजलार्णवं, आमूलपरिभ्रमदमृतसागरैकावर्तपरिभ्रमित- तिमितिमिङ्गिलोद्गीर्णतत्कालनिगीर्णाजीर्णशफरतर्णकाकीर्णं, अत्युच्च -शिखरिशिखरनिष्पतदच्छनिर्झरस्रोतोनिपातपरिधौतचक्रवालशि-
लाचक्रं,

विस्तारः

चक्रवाल लोकालोकपर्वतः॥

अतिरभससमुद्भूतधातुरागसमुद्भाविताकाण्डसन्ध्यासंसू- चितहालाहलोपप्लवं, उत्प्लवमानसागरदुग्धशीकरास्वादसुहितभु- जगराजभोगप्रसारणवेगपतदुत्पतत्सुरासुरस्तोमपर्यवस्थापनव्यग्र- पद्मसंभवं, उभयपार्श्वसंघटितशिलासंघसंघर्षणसुखनिर्मुच्यमान- चिरपरिणामनिर्मलवासुकिनिर्मोकशकलपरिधानसंजिघृक्षानुधाव-
प्रमथयूथनिनादमेदुरं, अत्यायासपरिश्रान्तजरदुरगराजसमुद्वा- न्तपरुषविषानलज्वालाकलापदुरापलालाप्रवर्तितहालाहलबीजावापं, आवसथपरिभ्रमणसमुद्विग्नकात्यायनीपरिरम्भसंभ्रमानन्दितचन्द्र- शेखरतया प्रतिक्षणमुपर्युपचीयमानमहातपःसंभारं, आरसातल- परिभ्रमदर्णवावर्तगर्तसंदृश्यमानफणिलोकवृत्तान्ततया प्रशान्त- गृहोदन्तविचारसुस्थपरिजनोरगपरिचरणसंभृतानन्ददन्दशूकेश्वरं, अद्भुतमवलोकयतां, अद्भुततरमद्यापि शृण्वतां, अपर्याप्तमुपन्य -सितुं वाचस्पतेरपि, अशक्यं काव्यशतेनापि वर्णयितुं काव्यस्य, सर्वतो निर्वृतैरपि महर्षिभिः समुत्सृज्य समाधिमालक्ष्यमाणम- पक्ष्मपरिक्षेपं, अनुल्लिखितार्थलाभसमुल्लासेन किंचिदप्यगणित- शरीरक्लेशमायस्यद्भिरपि सुरासुरैरालोकमानः सागरमथनसंरम्भ- माननन्द गोविन्दः ॥
निर्मन्थश्लथसंधिबन्धनिखिलोद्देशक्षरनिर्झरः
शैलोऽदृश्यत सिद्धचारणमरुद्गन्धर्वविद्याधरैः । अश्रान्तभ्रमणश्रमेण जलधेः पीतं प्रभूतं पयः
स्रोतोभिः पुनरुद्वमन्निव मुखश्रोत्राक्षिनासादिभिः ॥२॥

अपि च ।

निःश्वसति भोगिभर्तरि निर्दग्धमहासुरैर्विषज्वालैः।
उच्छ्वसितममरवर्गैरुत्प्रेक्षितकार्यलाघवैरन्तः ॥ ३ ॥

मग्नतामप्येवं महतोत्साहेन. तेषामपाङ्गयन् शनैः शनैः शक्तिहासं, आप्याययन्वासुकिमम्बरचरानपि स्वतेजसा, त्रिविक्रमः स्वयमपि मथितुमुपचक्रमे ॥

स्वेनैव भ्रमयति माधवे भुजाभ्यां बभ्राम भ्रमरकवत्स शैलराजः।
किं चित्रं भ्रमति महर्षिसिद्धसङ्घे
मृद्भारे क्वचन महान्भ्रमोऽजनीति ॥ ४ ॥
अत्रान्तरे च समन्ततः प्रकीर्यमाणमन्दरशिखरकाननप्रसून- परागपरिचयादिव धूसराणि ददृशिरे दिङ्मुखानि । परि- स्फुटितनिष्ठ्यूताः फणामणय इव वासुकेः प्रतिसूर्या जजृम्भिरे । परितोऽप्यासन्नमकाण्डविप्लवं जगतामवेक्षितुमक्षमेण दयानिधिना महेश्वरेण दृशोर्निमीलनादिव प्रचकाशे पद्मबन्धुरिन्दुश्च नाकाशे । सपर्वतवनद्वीपवसुमतीकम्पसंपन्नचलनसुमेरुशिखरस्थसुरराजनगर- प्रासाददीपिका इव परिपेतुरभितोऽपि तारकाः॥

उद्यनिर्घातघोषप्रतिभयमुदयद्धूमकेतूपकेतु क्रन्ददिक्पालगन्धद्विपमुदधिपतत्तुङ्गशैलाग्रशृङ्गम् ।
उड्डीनश्येनकङ्कप्रकरमुपचितध्वान्तमुद्भ्रान्तवातं
प्राप्तं मृत्योरकस्मादिव वदनविलं विश्वमासीत्तदानीम् ॥५॥

तदनु निर्गमिष्यतः कालकूटस्योष्मणा कथितादुदधेरुत्पतन्तः पयःकणा यत्र यत्र निपेतुस्तत्र तत्र पर्वता व्यदीर्यन्त, पादपाः प्रजज्वलुः, पशुपक्षिणो विनेशु’, प्रागेव सागरचराणि यादांसि ॥

निःसंख्यस्फुरितस्फुलिङ्गजटिलोत्सङ्गज्वलत्पावक-
ज्वालाभङ्गविटङ्कसंकलितधूमस्तोमभीमस्ततः ।
क्रुध्यत्कालविवृत्तवक्त्रकुहरोन्मुक्ताट्टहासोद्भट-
स्फूत्कारध्वनिभीषणः प्रववृते कोऽप्यद्भुतो मारुतः ॥

स निर्जिहान एव यज्जगर्न तर्जयन्
दिशो बभर्ज यच्च दुर्जयोष्मजर्जरं जगत् । ततः प्रभूतभूतधातजातपातकावली-
विलापनाभिलाषुकः किमाससाद सागरम् ॥ ७॥
ततस्तदालीढाः सप्तापि सिन्धवः सप्ताज्यबिन्दव इव जज्वलुरेकयैव ज्वालया। तदग्रसरोष्मतापिता एव भस्मावशेष- तामभजन्त जन्तवः क्षुद्रास्त्रिभुवने । प्रदीपशिखराग्रविन्यस्तेन प्रसूनेनेव धुत्तूरस्य सुधानिधिनैव सुतरां परिमम्ले । प्रक्षिप्तो दूरमस्य मरुतो रंहसा पतगपतिरेव किं पपात, किमुत्पपात, किमतप्यत, किं निरदह्यत, किं मुमूर्छ, किं जीवितं जहाविति न ज्ञायते । उद्वान्तविषानला सममिव प्राणैरुरगपतेरपि तनुर्वर्ध्रिकेव सलिलक्लिन्ना वस्त्रभस्त्रिकेव रिक्तोदरा निःसारतया क्षणादवालम्बत नितम्बतः शैलपतेः ।

विस्तारः

वध्रर्थेव वर्धिका । ‘नधी वध्री वरत्रा स्यादवादेस्ताडनी कशा’ इत्यमरः ॥ स्वर्णकारैः पुटपाकाथै संनिधौ धमनोपयोगि संदानितचविकारः क्रियते। तदेव भस्त्राशब्देन गृह्यते

परिमृष्टाश्च तेन मायाविनोऽपि महासुराः, सुकृतशालिनोऽपि सुपर्वाणः, माहात्म्यनिधयोऽपि महर्षयः, चिरजीविताबलेन परं चिन्मात्रशेषिताः, परिक्षीणया गिरा, परिभ्रमता च लोचनेन, प्राकृता इव पर्यचेष्टन्त धरणीतले ।
ऊष्माणाववहद्विभावसुरुभौ सांसिद्धिकागन्तुकौ
सस्यन्दे कथितं शरीरमभितः पाथोमयं पाशिनः । सर्वाङ्गीणदृगन्तकन्दलदतिस्फाराश्रुधाराशतैः
सेकंसेकमनुक्षणं तु मघवा गात्रं दधौ जीवितम् ॥ ८॥

विस्तारः

विभावसुः सूर्यः । सासिद्धिकागन्तुको उभौ ऊष्माणो अवहत् । सांसिद्धिक ऊष्मा स्वाभाविकस्ताप । आगन्तुक ऊष्मा विषाग्निसंबन्धेन जनितस्तापः। पाशिनः वरुणस्य पाथोमयं शरीरं क्वथित मस्यन्दे(??) । मघवा सर्वाङ्गेषु यानि लोचनानि तेषां काणेभ्य प्रसरन्तीभिरश्रुधाराभिरेव वारिभिः गात्रं सेकं सेकं पुनः पुनः सिक्त्वा जीवितं दधौ ॥

हताः स्मो वयमस्मिन्कर्मणि प्रवर्तिता भवतेति परिभाषमाणेषु सुरासुरेषु, परितप्यमानस्ततोऽपि त्रपयैव पद्मसंभवो विश्वंभरमिदमवादीत्—‘भगवन् किमेतदिति मन्यसे ।
न संवर्तः प्राप्तो न च वहति संवर्तपवनः
शतेनाब्दैः शोषं नयति स परं तु त्रिभुवनम् । न च व्यापद्यन्ते तदुपरि चरन्तस्तनुभृतः क एष ब्रह्माण्डं कबलयति निःशेषयति च ॥९॥

अपि च ।
नासौ वह्निर्न हि खलु भवत्यग्निनाग्नेः प्रणाशो
नापि क्षेवेळो न हि गरळतो हानिराशीविषाणाम् । नेदं सृष्टं सकृदपि मया नोपदिष्टं त्वया वा
किं व्याहारैर्मम च किमपि क्षुभ्यतीवान्तरात्मा ॥१०॥

इत्यभिधान एव विधौ, अशङ्कितोपनतरसातलातङ्क संघटितसमाधिक्षोभकोपदुर्दर्शकालरुद्रसमुन्निद्रितफालनेत्रसमुत्थित इव महाप्रलयपावकः, प्रतिसर्गनिर्गळदनर्गळशेषविषनिःश्वास- धूमसमाश्लेषजनितविषमषीपिण्ड इव मथनसंक्षोभचलितवडवा- नलसंवलितः, सुन्दरतरमन्दरगिरिकन्दरशयस्वायंभुवशांभवलिङ्ग- चलनसंभावितप्रत्यवाय इव परमदारुणः, कल्पानलदग्धजगदण्ड- पिण्डीकरणप्रसक्तकालचण्डीकरक्षालनोदकमिव क्षीरोदमाकलयन् प्रथमनिःसृतपवनपरिस्पन्दमात्रनिःशेषितेषु भुवनेषु, दग्धव्यानुप- लम्भसंभवक्षुधाप्रसारितरसनासहस्रभीषणेन ज्वालाकलापेन लेलिहान इव वैरिञ्चमपि प्रपञ्चं, अवसादितभुवनकोलाहलो हालाहले निर्गत्य, वारण इव वारणमभिदुद्राव रमारमणम् । तत्क्षणं च परुषविषानलज्वालापरिप्लोषप्रतीकारमन्त्राक्षराङ्गाररूषितानीव वदनानि चतुर्वदनस्य दधिरे दन्ततालुरसनाधरे मालिन्यम् ॥

म्लायन्त्यां वैजयन्त्यामथ कनकपटे धूसरे धूमजालै-
श्चक्रे निर्ज्वालचके सपदि परिणतस्फोटशङ्के च शङ्खे । उत्सर्पन्तं समन्तादपि परिकलयन्नुद्भटं कालकूटं
कालात्मा पद्मनाभो मनसि विनिदधे कालसंघर्षयोगम् ॥११॥

विस्तारः

पद्मनाभः कालसंघर्षयोगं मृत्युना अभिभवसंबन्ध मनसि विनिदधे । विष्णुरपि मृत्युभीत आसीत् । यद्वा-मृत्युभयनिवारणार्थं कालसंघर्षण्याख्याया अमृतेश्वरीविद्यायाः प्रयोगं मनसि विनिदधे दध्यौ ।

सिञ्चन्तीं परमामृतानि दिशि दिश्यप्राकृतैरंशुभिः
खेलन्तीममृतार्णवे मणिमयीमारुह्य नौकां नवाम् ।
स्निग्धापाङ्गतरङ्गशिक्षितभवक्ष्वेळां मुकुन्दश्चिरा-
दस्मार्षीदमृतेश्वरीं भगवतीमम्बामहंभावतः ॥ १२ ॥

विस्तारः

अमृतेश्वरीमहभावतः अस्मार्षीत् । अहं अमृतेश्वरीति ध्यानं । उपास्यापासकश्योरभेदभावना हि ध्यानस्य पराकाष्ठा ॥

तामित्थं स्मरतश्चिरं मधुभिदस्तारां सुधामालिनीं
धूतद्वैतकलङ्कशङ्करकलापुंभावरूपात्मनः । पाषाणव्यतिभेदजर्जरजरच्छैवालवत्तत्क्षणा-
दारात्किंचिदपासरत्परिगतो हालाहलः सर्वतः ॥ १३ ॥

विस्तारः

सुधामालिनीं स्ववत्सुधारमा तारां तारादेवीम् । धूतद्वैतस्य द्वैत (??)तस्य शंकरस्य या कला शक्तिः तस्याः पुंभावः पुरुषरूपेण भवनं, तद्रूप मा यस्य तस्य ! शिवस्य शक्तिरूपिणी या पार्वती तस्या एव पुमाकृतिमत्त्वे (??)त्वात् ॥

अथ स्वस्थो यथापुरमम्बुजेक्षणस्तावतापि संरम्भेण तनुगात्रत्राणपर्यवसन्नेन निराशो हालाहलनिग्रहे, निश्चिन्वन्ननितर- माध्यसाधनधौरन्धर्यमन्तकान्तकस्य भाग इति, निर्धारयन्नन्तरेण (??)रदेवताप्रसादमलभ्यतां शिवसाक्षात्कारस्य, चिन्तयन्नपि चिच्छक्तिविभूतिरूपतामात्मनः, परमेण समाधिना समाराध्य नारणीमित्थमस्तावीत्–

(??)रज्जन्मस्थेमभङ्गव्रतमिह जगतां यच्च सर्वान्तरत्वं
यत्स्वातन्त्र्यं च मोक्षे श्रुतिषु निगदितं विश्वसाम्राज्यचिह्नम् । यस्याः साहचर्यात्परिणमति परब्रह्मणि श्रीमहेशे तामाद्यामात्मविद्यामहमिति कलयन्सर्वतो निवृतोऽस्मि ॥

यल्लक्ष्मीदयितोऽस्मि यद्दनुभुवां जेतास्मि यत्कर्मिणां
कर्मस्वभ्युदयप्रदोऽस्मि यदपि ध्येयोऽस्मि वा योगिनाम् । तत्सर्वं त्रिपुरे महेश्वरि महामाये जगदूपिणि
त्वत्सौभाग्यमहाविभूतिकणिकालेशस्य लेशायते ॥ १५ ॥

अपि च

अतीतत्रैगुण्यामशरणशरण्यां भगवती-
महं तामालम्बे दृढतरमहंतां पशुपतेः।
तदाद्यं तत्वानामजरमपरिच्छेद्यमपरं
पराभूतद्वैतं परमपदमाविर्भवतु मे ॥ १६ ॥ इति स्तुतिभिरर्थ्याभिर्ध्या॑यतो निश्चलं शिवाम् ।
अस्पन्देष्वस्य गात्रेषु पस्पन्दे दक्षिणो भुजः ॥ १७॥

अवतीर्णा चास्य कर्णसरणिमशरीरिणी वाणी ।
‘साधु वत्स जगन्नाथ साधु विष्णो जगन्मय ।
पश्य त्वमात्मनात्मानं परमं ज्योतिरैश्वरम् ॥१८॥’ इति

अथ यावत्समाधि तं श्लथयामास माधवः । तावदाविर्बभूवास्य पुरः पुरहरं महः ॥ १९ ॥
तत्र च पवित्रतरनदनदीनदीशादितीर्थस्वरूपतासंभावि- क्लेदनैयत्यानुवृत्त्येव सामिविकसितललाटविलोचनधूमरेखासंस्तर(??) नेव कबीलतजाह्नवीकोपपरिपूरितगतयेव च परिणतपाटलि
जटावलये प्रतिष्ठिततया सान्ध्यरागसंवलितेनेव सकलशिवज्ञाना- धिगमारम्भसंसूचनायेव द्वितीयाचन्द्रतामुपजग्मुषा, परमज्ञान- रूपतयेव परिहृतकळङ्कानुषङ्गेण कपर्दबन्धनोरगदंष्ट्राङ्कुरेणेव कुटिलनिर्मलेन चन्द्रखण्डेन मण्डितं, जगन्निष्कामताहेतुतयेव निष्कामजनोपासनीयेन पक्ष्मविवरसमुञ्चलदर्चिःस्फुलिङ्गपरिष्वङ्गमात्रादेव निःशेषीभवति जगति निरीक्षितव्यासंभवादिव नित्यनिमीलितेन भसितत्रिपुण्ड्रहारमालिकापद्मरागतरलेनेव ललाटलोचनेन परिहर- न्तमान्तरं तमो भक्तिमतां, कुण्डलितकुण्डलिराजफणामणिमयूखराजिनीराजितेन निसर्गसुन्दरेण गण्डमण्डलेन, श्रुत्युल्लङ्घनभयादिव कर्णान्तपर्यवसितेन निरन्तरकरुणासारवाहिना लोचनयुगलेन, त्रिपुरविजययशोविशदेनेव परापराशेपविद्यात्मना प्रवहतो वचनामृतस्य निष्यन्दनेव मन्दस्मितेन च मदयन्तमिव मनांसि महायोगिनां, कदासौ पूर्येत, कदा चेममारोहेयमिति कुतूहलादुद्धीवमालोकयन्तमिव चूडाचन्द्रमसं उदञ्चिताग्रपादतया किचिदन्यतो जिगमिषन्तमिव प्रकृतिचापलेन वेदमयं मृगमपरपादनियन्त्रणेन नियच्छन्तमात्मन्येव निभृतमेकेन करेण, अतिकठिनाज्ञानपापाणसमुट्ट्ङ्कनायेव गृहीतटङ्कमितरकरेण, निरुपप्लवापवर्गदानसत्रदीक्षिते जयत्यभयंकरे करे निःसारभोगवदान्येन किं मयेति ह्रियेवावङ्मुखेन वराङ्कितेन करारविन्देन परिपूरयन्तमभिमनान्यभिसंधिमतां, नीरूपदिगम्बराच्छादननिर्वेदादिव बहुरूपेण तारक्षवेण चर्मणाभिसंवीतं, चिन्मयेऽतिनिर्मले वपुषि जपाकुसुमपार्श्वगस्फ- टिकोपलन्यायेन मञ्जीरफणिफणामणिप्रभापुञ्जपिञ्जरचरणारविन्दे
नातिपचेळिमभाग्ययोगनिर्मलैरन्तःकरणैरिव चरणलग्नैः समाधि योगिनां पञ्चभिरक्षरैः शिवसूत्रस्य पर्यवसितैरिव सव्यापसव्यर पादयोरतिसुन्दरैर्नखैरवतंसयन्तमादिभारतीचिकुरबन्धं, अध्यसीनमधःकृतान्तःकरणवासनाष्टकमास्तीर्णात्मत्रयमहातल्पकल्पत मखिलतत्त्वपथोत्तीर्णमानन्दमयमहाहमासनं,

विस्तारः

अन्तःकरणवासनाष्टकमुक्तं तत्त्वविवेके- ‘लोकपुत्रधनग्रामदारशास्त्रगृहे च । देहे च वासना त्यक्त्वा सुखी भवति नान्यथा ॥‘आत्मत्रयं-अन्तरात्म। जीवात्मा परमात्मा च ॥

अन्वास्यमनाखिललोकमातृकया संविदानन्दघनीभावसंपन्नविग्रहया कादम्बिन्येव करुणारसपूर्णया आत्मविद्ययेव सादरमालिङ्गन्त्या समागुणरूपसौन्दर्यशीलया भगवत्या सर्वमङ्गळया, सुखविश्रान्त(?) शरन्मेघमण्डलं, सुधासारघटितमिव कर्पूरपरागसंचयं, अतिकमलमिव स्फटिकाचलं, आदृतघनीभावमिव चन्द्रिकासारं, आ(?)र्त्यपिण्डितमिव परमामृतं, आसेचनकमासेचनकानां,

विस्तारः

आसेचनक-तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् ॥

आश्चर्यमाश्वर्याणां, मङ्गळं मङ्गळानां, आदिमादिमतां, अवधिमवसीदतां आकरं विद्यानां, आलयं दयासौलभ्ययोः, अचिन्तनीयप्रभावमचिन्तनीयमखिललोकस्य, अद्वैतब्रह्मस्वरूपमप्याविष्कृतपञ्चब्रह्मरूपम् ,

विस्तारः

आविष्कृताना पञ्चब्रह्मणां सद्योजातवामदेवाचारतत्पुरुषेशानसंज्ञका रूपं यस्य तम् ॥

अतिदूरमर्वाचां प्रमाणानाम् , अविप्रकर्षगोचरमादिगिसाक्षाच्चकार दाक्षायणीरमणम् ॥

शाणोल्लीढशरन्मृगाङ्कशकलस्तोमाभिरामं मह-
स्तत्पश्यन्निभृतं विनिद्रकमलद्राघीयसा चक्षुषा ।
साहस्राम्बुजपूजनव्रतसमाधित्सुः पुरा साहसं
चक्रे यद्गिरिशे स्वयं तदुचितं मेनेऽधुना माधवः ॥२०॥

अपि च ।

वैराजशाक्कररथन्तरवामदेव्य-
कालेयराजनगवांव्रतरौहिणाद्यैः । तं सामभिर्बहुभि ऋग्यजुषेण चोच्चैः
शौरिः स्तुवन्पुरहरं शतशो व्यनंसीत् ॥ २१ ॥

भव्यैरष्टभिरान्तरैः परिचरन् पुष्पैरहिंसादिभिः
कोटीरे परभक्तिभारनमिते कुर्वन्प्रणामाञ्जलिम् । वाग्भिर्गद्गदनिर्गताभिरखिलत्रय्यन्तसैद्धान्तिक-
स्रोतःसारमयीभिरस्तुत स तज्ज्योतिः परं ज्योतिषाम् ॥

विस्तारः

अहिंमा दमः शान्तिः दया ज्ञानं तप मत्यं भावश्चाष्टो भान्तर पुष्पाणि ॥

‘सान्निध्यमात्रजो यस्य स्पन्दो बिन्दोरिदं जगत् ।
अद्वन्द्वमपरिस्पन्दि तुद्द्वन्द्वं नौमि शांभवम् ॥ २३ ॥

ओमित्युमेति युवयोरभिधानमेकं
सृष्टयादिसृष्ट्यवधितागुणमात्रभिन्नम् । एकं च तावदभिधेयमपीह रूपं
वेणी जटेति कचसंहतिभेदभिन्नम् ॥ २४ ॥

उमा मूलप्रकृतिः सृष्टेरादि् । ओकारबिन्दौ निखिलप्रपञ्चस्य प्रविलयत् ओंकार. मृष्टेरवधिः । ओमिति उमेति च अभिधनकमेकं अकार-उकार-मकारसंघातात्मकत्वादुभयोः । एकस्मिन् अकार मादिः, अन्यस्मिन् अन्तिम इत्यव भेदः । अकारेण आकारस्यापि ग्रहणं शब्दशास्त्रप्रसिद्धम् रूपमप्युभुयोरेकम् । एकस्या एव कचसततेः वेणीत्वं जटात्वं च भवति ।।

यद्धोरघोरतररूपमघोरसंज्ञ-
मावर्तितभ्रकुटिभीषणमाननं ते । तदक्षिणं पशुपतेः परमं पदं मे ।
सांसारिकार्तिहरणं शरणं प्रपद्ये ॥ २५ ॥
इति स्तुवन्तमिन्दिरारमणमिन्दुशेखरः परिरभ्य बाहुभ्यामिदमाचचक्षे–‘भगवन् कमललोचन भवद्दर्शनेन परमामस्मि निर्वृतिं प्राप्तः । आत्मनोऽपि किमधिकं प्रेमपदम् । तथा हि–

शिवा घोरा चेति श्रुतिषु विदिते ये मम तनू
तयोराद्या मूर्तिः परमरमणीया त्वमसि मे । त्वमस्यर्धं देहे त्वमसि वदनं दक्षिणमिति
त्वयि प्रीये यावत्तव भवति तावच्च विदितम् ॥ २६ ॥
किमिच्छसि किं करणीयम्’ इत्यभिदधत्युमावल्लभे, रमा वल्लभेनेदमभिदधे-‘किमन्यदेष्टव्यम् । इदं किल किमपि विशृङ्खलं दुर्यश इव संभावितस्य सद्यःसमाक्रान्तविध्यण्डमण्डलं दुर्विदग्धस्य पाण्डित्यमिव तृणीकृतब्रह्मादिदैवतं, नीचगतमैश्वर्यमिव निमिषार्धमपि क्षन्तुमक्षमं, बालिशराजोपसेविजीवनमिव
प्रतिक्षणं चित्रीयमाणं, पाशुपतावहेलनमिव भस्मीकृतजगत्रयं, क्षीणायुषामामयौल्बण्यमिव विफलीभवत्प्रतीकारप्रकारं, पाषण्ड- मुखमिव परिहरणीयं दर्शनपथात् , प्रतारकसौहार्दमिव परम- दारुणं, विषयनिषेवणमिव व्यामोहकारणं. भवत्पादाब्जवैमुख्यजं दुरितमिव भवत्प्रपदनैकभेषजं, अव्यपदेश्यमनिर्धार्यं, अदूरविप्रकर्षेण शक्यमिव विषमिति व्यपदेष्टुं, अतर्कितोपनतमतीतभवप्रारब्धमिव समाक्रम्य जगत्रयं, संनिपात्य देवासुरान् , प्रक्षोभ्य कमलासनं, परिवृत्य मामपि प्रवृत्तं शनैर्भूषणाम्बरादिषु, भगवत्याः सुधामालिन्याश्चरणस्मरणप्रभावादपसृत्येव किंचिदधरोत्तरयति विश्वमिदम् ॥

अक्षोभ्यं भिषजां शतैरविषयः शस्त्रस्य वास्त्रस्य वा
दुःसाधं मणिमन्त्रयन्त्रशरणैर्दुनिग्रहं योगिभिः । व्यामुह्यत्कमलासनं विनिपतद्देवर्षिसिद्धासुरं
निर्व्यापारितमद्भुजं च किमिदं किंनाम न ज्ञायते ॥२७॥

यदादिष्टं पाल्यं जगदिति जगन्नाथ भवता
तदेतत्पर्यन्तं तव करुणया साधितमिव । दुरूहे दुःसाधे महति पुनरसिन् प्रविलये
ममेदं कार्यं यत्तव चरणयोस्तत्वकथनम् ॥ २८ ॥
इति निर्विण्ण इव निवेदयति गरुडध्वजे, प्रहसन् पार्वतीरमणः, पश्य तावदिति ब्रुवन् , प्रसारयन् दक्षिणं बाहुं, अनुसस्मार हालाहलम् ॥

सर्वातङ्कविशङ्कशङ्करजटालंकारचन्द्राङ्कुर-
ज्योत्स्नानिर्भरपूरितत्रिजगतीगर्भावधूतो बहिः । स क्ष्वेळः क्वचन व्यलीयत महाशुण्डालशुण्डाहति-
क्षुभ्यत्क्षुद्रसरस्तरङ्गनिकरव्याकीर्णशैवालवत् ॥ २९ ॥

अजनि शनैर्विशदं जगदपसर्पति कालकूटसंतमसे । तात्पर्यमिव कवीनां तार्किककोलाहलोपरमे ॥ ३० ॥

विस्तारः

तार्किककोलाहले प्रद्वेषः शिवलीलार्णवेऽप्येवमाविष्कृतः कविना—
अप्यन्तिकस्थैरविभावनीयः सूक्ष्मः प्रकृत्या मृदुसूक्तिजन्मा । कुतर्कविद्याव्यसनोपजातैः कोलाहलैर्न ध्वनिरेष वेद्यः । वाच कवीनामुपलालयन् या भुङ्क्ते रसज्ञो युवति युवेव । तामेव भुङ्क्ते ननु तार्किकोऽपि प्राणान्हरन्भूत इव प्रविष्टः॥

ततश्च सान्निध्यत एव भगवतश्चन्द्रचूडस्य पल्लवितान्यरण्यानि, पर्यपूर्यन्त सागराः, प्रावर्तन्त सरितः, पस्पन्दिरे मरुतः, प्रचकाशिरे ज्योतींषि, प्रसेदुर्दिशः, प्रशेमुरुत्पाताः, प्रादुरभूवन्मङ्गळानि, अचेतयन्त जन्तवः, यथापुरमबुध्यत वासुकिः उत्तस्थुर्देवासुराः, शनैरुपलभ्य संज्ञामम्भोजसंभवोऽपि संददर्श चन्द्रशेखरम् ॥
पर्याप्तेन्दुशतद्युतिं परिचितं सत्या शुकश्यामया
साकूतस्मितसुन्दराधरपुटं शार्दूलचर्माम्बरम् । सावज्ञाग्रकरप्रसारणमहासंरम्भसंभावना-
संहृष्यत्कमलेक्षणं च तमसौ पश्यन्न तृप्तिं ययौ ॥३१॥

ततः प्रतिलब्धचेतना ब्रह्मादयः, पक्षिण इव सुप्तोत्थिताः प्रातरुच्चावचैः कोलाहलैरुद्यन्तमिव सहस्रकिरणमुपतिष्ठन्ते याव दुमारमणं, तावदस्य भवसागरनिमग्नभक्तजनोद्धारदर्शितानुराग इव, परिणामकर्कशपशुपाशप्रन्थिविश्लथनायाससंभृतारुण्य इव, पार्वतीकुचकुम्भकुङ्कुमालेपपरिचयपाटल इव, तामरसोदरसोदरत्विषि पाणितले, पल्लव इव मधुव्रतः, पद्मरागकरण्ड इव कस्तरिका, जाम्बवमात्रपरिमाणजातसंकोचमपि दुराधर्षभूष्मणा, दुर्दर्शमतिदारुणेन तेजसा च, समालक्ष्यत तरलमिव साध्वसेन तद्गरलम् ॥
आश्चर्यस्तिमितत्रिविष्टपमतिप्रेमाहितात्याहित-
प्रक्षुभ्यद्गिरिजागृहीतपुनरुद्भूताग्रहस्ताम्बुजम् ।
मह्यं मह्यामिति प्रतिस्वमसकृत्क्ष्वेळार्पणप्रार्थना-
संनह्यद्गणदर्शितस्मितलवं शंभोः स्थितं पातु नः ॥३२॥
ततः प्रकृतिस्थे जगति, प्रबुद्धेषु देवासुरेषु, परिष्टुवति पश्मविष्टरे पद्मनाभे च, निषेद्धुमनुवर्तितुमप्यपारीणतया निश्चला- र्पितदृष्टिषु नन्दिमुखेषु पारिषदेषु, अन्तरेव मङ्गळमाशासानया सर्वमङ्गळया समालिङ्गितो दृढं ‘हालाहलो नाम विषराजोऽयमा- चम्यतेऽस्माभिः, मा बिभीत, विज्वरा भवत’ इति प्रतिबोध्य पश्यतो जनान् , माधव इव नवनीतमुमाधवो गरलमुपयुयुजे । यस्य शिष्यवर्गे बडबानलः, भुजिष्यवर्गे भुजगविषाणि, वनीप्कवर्गे वज्रनिष्पेषः, गणनीय एव गगनमणिः, तादृशि कालकूटे तादृशीमपि दारुणतामुपसंगृह्य, जम्बूफल इव, जीर्णामलक इव, खर्जूरपिण्ड इव, खदिरसारखण्ड इव, विशति निःशङ्कमाननं विषमलोचनस्य, जठरस्थजगत्प्लोषमाशङ्कमाना दयामयी भगवती दाक्षायणी पल्लवकोमलेन पाणिना पराममर्श कण्ठपदम् ॥
निर्मर्यादभवज्वरज्वलनसीदज्जीवजीवातुना
संस्पृष्टं करपल्लवेन जगतां मातुः सुधास्सन्दिना ।
सद्यः शीतलितं शरत्परिणतज्योत्स्नामृतस्यन्दव-
त्तस्तम्भे गरलं गले भगवतश्चन्द्रार्धचूडामणेः ॥ ३३ ॥

यच्छैलेषु यदम्बुराशिषु यदुद्भिज्जेषु यजन्तुषु
क्वापि क्वापि हृतस्य तस्य सहसा लेपात्मना शेषितम् । तत्सौराष्ट्रिकदारदादिभिदया विख्यातमद्याप्यहो
कीटायापि न मन्यते खगपतिं धन्वन्तरिं चाश्विनौ ॥

अन्तर्निगीर्णमपि तेन तदाविरासी-
त्कालोन्मिषत्कुवलयच्छवि कण्ठमूले । आयस्य गुप्तमपि खल्वनृतं कदापि
सद्यः स्फुटीभवति साधुषु निर्मलेषु ॥ ३५ ॥
अथ भगवन्तमनायासकबलीकृतकालकूटं आविष्कृत- मन्दस्मितसुन्दरमाश्वस्तया भवान्या मुहुर्मुहुराश्लिष्य परिचुम्बन्त्या परामृश्यमानकन्धरापदं, आनन्दतुन्दिलतया किमप्यज्ञातकरणीयै- रालिङ्गद्भिरितरेतरं, अन्योन्यमास्फोटयद्भिरपहसद्भिरन्योन्यममर-
गणैरसकृदुपसंगृह्यमाणचरणारविन्दमालक्ष्य चन्द्रशेखरं, आनन्द- निर्भरा गोविन्दविधिपुरंदरादयो देवाः, बलिविरोचनादयो दानवाः, ब्रह्मर्षयश्च सनकादयो यथामति स्तोतुमारेभिरे ॥
‘दिष्ट्या विषेण भग्नाः स्मो दिष्ट्या पीतमिदं त्वया ।
दिष्ट्या च नीलकण्ठं त्वां गृणती साधिता श्रुतिः ॥३६॥

पाषाणान् सितनीलपीतहरितान्वैडूर्यवज्रादिकान् कण्ठे वक्षसि मूर्ध्नि वा निदधतां का नाम तेन स्तुतिः । एतद्भूषणमेतदेव जगतां दुःसाधमुज्जीवनं
कण्ठे यद्भगवन्नियच्छसि सुखं काकोलमुच्छृङ्खलम् ॥ ३७॥

अद्याहं परिपालकोऽस्मि जगतामद्यैव धातात्मभू-
रद्येमे हरिदीश्वरा भुजबलैरद्योद्भटा दानवाः । अद्यैते चिरजीविनो मुनिवरास्तन्त्रैश्च मन्त्रैरपि
स्वामिन्नाकलयामहे तव यदा कण्ठं घनश्यामलम् ॥ ३८॥

शैलादिकृतनिषेवण कैलासशिखरभूषण तत्त्वार्थगोचर चन्द्रार्धशेखर शापायुधकुलार्थ्यसस्मितापाङ्ग कोपारुणकटाक्षभस्मितानङ्ग ऊरीकृतविभूतिदिव्याङ्गराग गौरीपरिगृहीतसव्याङ्गभाग

विस्तारः

शैलादिः शिलादस्यापत्यं नन्दिकेश्वर’ । शापायुधानां मुनीना कुलेन अर्थ्यः प्रार्थितुं योग्यः सस्मितः अपाङ्ग यस्य तत्र संबुद्धिः॥

अङ्गानुषङ्गपावितनरास्थिलेश गङ्गातरङ्गभावितजटाप्रदेश
बन्दनाभिरताखण्डल स्यन्दनायितभूमण्डल

विस्तारः

स्यन्दनायितं त्रिपुरसंहारे रथवदाचरितं भूमण्डल यस्य तत्र संबुद्धिः

अक्रीतदासतापसकदम्ब चक्रीकृतार्कशीतकरबिम्ब आदृतपुराणवेतण्ड

विस्तारः

आदृतपुराणवेतण्डः गणपतौ प्रेमशाली।

स्वीकृतसुमेरु कोदण्ड खर्वीकृतासुरमदानुपूर्वीविकास दर्वीकरेश्वरगृहीतमौर्वीविलास वीणामुनीन्द्रख्यापितगरिमपौरुष

विस्तारः

वीणामुनीन्द्रः नारदः

बाणाधिकारस्थापितपरमपूरुष अनिलाशनविहितनैपथ्य कमलासनविहितसारथ्य विश्वाधिकत्वपदालम्ब अश्वायिताद्यवचोगुम्फ

विस्तारः

अश्वायिताधवचोगुम्फ-त्रिपुरसंहारकाले वेदा भगवतो रथस्य अश्वा अभूवन्

कुन्दस्मयहरकान्तिप्रकर मन्दस्मितलवशान्तत्रिपुर नादबिन्दुकलाभिशास्पदभूरिभद्र

विस्तारः

नादबिन्दुकलाः प्रणवस्य सूक्ष्मावयवविशेषाः, तान् ये अभिजानन्ति तेषां आस्पदं प्राप्यस्थान तत्र संबुद्धिः

स्वेदबिन्दुलवाविर्भावितवीरभद्र त्रस्तरक्षापरतन्त्र ध्वस्तदक्षाध्वर तन्त्र किरीटानीतविविधवेधःकपाल चपेटाघातशिथिलभास्वत्कपोल जृम्भितविक्रमोद्दण्ड स्तम्भितचक्रिदोर्दण्ड ब्रह्मस्तवोपचितमहाहर्ष जिह्मस्वभावजनदुराधर्ष वसुन्धराधरसुतोपलालन जरन्धरासुर शिरोनिपातन कोपाहतपतितान्तक व्यापादितसमदान्धक वर संहननजटासंभृतपरभागगौर नरसिंहनियमनालम्बितशरभावतार प्रपन्नभयमोचन विभिन्नभगलोचन

विस्तारः

विभिन्नभगलोचन –बीरभद्रः सूर्यस्य लोचने पाटयामासेति दक्षोपाख्याने ॥

प्रपञ्चदहनकारक विरिञ्च बदनहारक संचारपूतमन्दर पञ्चायुधातिसुन्दर अपनीतदक्षानन अभिनीतभिक्षाटन धारितमेरुकाननकुसुममालिकालकार दारित
दारुकावनकुलपालिकाहंकार समावर्जितभक्तमानसानुसार परा- वर्तितदृप्ततापसाभिचार वैयासिकोक्तिगोचर वैयाघ्रकृत्तिभासुर गतपरिकर्मगणस्पृह कृतकरिचर्मपरिग्रह स्वध्यानशमितपातकप्रसङ्ग विध्यादिविबुधपूजितस्खलिङ्ग शान्तमानसानुरोध क्षान्ततापसापराध फालानलवलनभीषण हालाहलगरळभूषण अरुणांशुकन्दल- मणिसुन्दरफणिकुण्डल चरणाग्रयन्त्रितदशकन्धरभुजमण्डल आनन्दताण्डवनटनानुबन्ध गोविन्दपूजितचरणारविन्द विनयान- तामृताशनसहस्राहितप्रमोद तनयाभिलाषिमाधवतपस्याकृतप्रसाद दिव्यास्त्रदानतोषितभृगुसूनुनम्य सव्यार्धभागभावितहरिरूपरम्य वन्दितागतश्रुतिसार नन्दिपालितप्रतिहार बुद्धनानार्थरहस्य- शतमन्युमुख्यामरभक्तिगोचर दुग्धपानार्थतपस्यदुपमन्युविश्राणि- तदुग्धसागर अधिकसंचालितदुष्टपीडाचरण हरिविरिश्चापरि- दृष्टचूडाचरण अञ्चद्धर्मवृषाधार पञ्चब्रह्ममयाकार वेदाश्ववरो- पहितस्वाम्य श्वेताश्वतरोपनिषद्गम्य चापल्यरहितरम्यस्वभाव कैवल्यवचनगम्यप्रभाव अखर्वमखाधिराज्यप्रताप

विस्तारः

अखर्वौ मखाधिराज्यं यागाधिपत्यं प्रतापश्च यम्य । ‘आ वो राजा नमध्वरस्य रुद्र होतारं’ इति श्रुतिः ॥

अथर्वशिखानु- वाद्यस्वरूप अगर्वनरस्तुतिमुदित अथर्वशिरःश्रुतिविदित नादान्त- विभावनीय वेदान्तविबोधनीय प्रणतार्तिहर प्रणवार्थसार मुग्धलावण्याधार शुद्धचैतन्याकार आशीविषधारक काशीश्पुरनायक हृदम्बुजकृतविलास चिदम्बरकृतनिवास आकर्णचलितापाङ्ग गोकर्णरचितासङ्ग घोरासुरपुरधूमकेतुस्मित वाराकरगतरामसेतुस्थित रक्षणलीलाविलास दक्षिणकैलासवास

विस्तारः

दक्षिणकैलालः कालहस्तिक्षेत्रम् ॥

आताम्रलोलनयन एकाम्रमूलभवन आभीलविधुरसेवन श्रीशैलशिखरपावन आर्द्राक्षमधुरवाग्गुम्फ रुद्राक्षरुचिरदोःस्तम्भ कालकण्ठरुचिघटितलावण्य नीलकण्ठमखिनिहितकारुण्य

विस्तारः

नीलकण्ठमखिनिहितकारुण्य-अत्र कविरात्मानं निर्दिशति॥

सेवापरतन्त्रपालक शैवागमतन्त्रकारक सर्गस्थितिसंहृतिकार्यत्रयस्थेय भर्गश्रुतियन्त्रित गायत्र्यनुसन्धेय

विस्तारः

सर्गेति । स्थास्नुस्थिरतरस्थैयानि इत्यमरः ॥
भर्गःश्रुत्या भर्ग:पदश्रवणेन यन्त्रिता संवलिता या गायत्री तथा अ सधेय ॥ (??)

अध्यासितवरनिकुञ्जगृहहिमाहार्य अध्यापित हरिविरिश्चमुखशिवाचार्य अर्चितानन्तविहार

विस्तारः

अर्चिता पूजिता अनन्ता विहारा लीला यस्य अर्चितानन्तविहारः॥

सच्चिदानन्दशरीर विजयी भव विजयी भव ॥
भुञ्जीथा न हलाहलं यदि महादेव त्वमेवंविधं
भुञ्जीरन् किमिमे सुराश्चरुपुरोडाशादिहव्यं मखे । आसीथा न यदि स्वयं पितृवने भूतानि संमोहय-
नासीरन् किमिमे जनाः सुकृतिनो हर्म्येषु सौधेषु च ॥३९॥

किं बहुना–

त्वत्प्रसतास्त्वया गुप्तास्त्वया व्यापारिता वयम् ।
त्वां विदन्तोऽविदन्तो वा त्वामेव प्रीणयामहे ॥ ४० ॥

इति स्तुवतो देवान् पुरशासनः पुनरित्थमनुशशास ।
‘पुत्रा यूयं भुवनविदिता ब्रह्मनारायणेशा दासा देवाः शतमखमुखा दानवेशास्ततोऽपि ।
कस्यान्यस्य व्यसनमहरं कालकूटे निगृह्णन्
लज्जे भूयः स्तुतिषु भवतां व्यापृतः स्वे कुटुम्बे ॥४१॥

तदलमतिक्रामति कालो मथनस्य । वत्सा देवासुराः, वत्स भोश्चतुरानन, शृणुतावहिताः परमुपदेशमिमम्–

अमुं यं वीक्षध्वे पुरुषमरविन्देक्षणमसौ
सवित्री सर्वेषामपि च भवतां मत्प्रियतमा । मदाज्ञामस्याज्ञां मम भजनमेतस्य भजनं
विजानन्तो यूयं विनमत तथास्मिन्मयि यथा ॥ ४२ ॥

भगवन्नरविन्दलोचन जानामि भवतो मयि प्रीतिमन्यादृशीम् । काममग्रे सहैवास्वहे । कालस्त्वयमेषामत्येति सुधाप्रदानस्य । तदद्य वियोगेन मे नार्हसि वैक्लब्यमधिगन्तु्म् ।
भवानिति भवानीति पश्य भेदः कियानयम् ।
विग्रहं प्राप्तयोरेकं विश्लेषः क इवावयोः ॥ ४३ ॥’
इति प्रसादयन्निन्दुशेखरः, प्रदक्षिणीकृत्य सहस्रशः, पादावाधाय मूर्ध्नि, परिरभ्य निर्भरं बाहुभ्यां, विसृष्टः कथंचिदपि विश्वंभरेण, पश्यन्सु देवासुरेषु, पार्वतीसहितस्तिरोदधे ॥

तदनु च–

स्तुवन्तो दिव्याभिः स्तुतिभिरभिसंगम्य शतशः
स्पृशन्तः कोटीरैश्चरणकमलं कैटभभिदः।
स्मरन्तः श्रीकण्ठं सममसुरवीरैर्दिविचराः
प्रहृष्यन्तः सिन्धुं प्रमथितुमुपाक्रंसत पुनः ॥ ४४ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक
शतप्रबन्धनिर्वाहक श्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्य श्रीमदाच्चान्दीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये
चतुर्थ आश्वासः ॥