तृतीयाश्वासः।
उपासीना नानाविधिभिरुपहारैश्च विविधैः
शरण्यं लोकानां शशधरकलोत्तंसममराः ।
मृषा संधित्सन्तः प्रकृतिकुटिलैर्दानवगणै-
र्विरिश्चस्यादेशादवृणुत गुरुं दूत्यविधये ॥१॥
‘परायणं नः परमं भवान्यतो
गुरुः पुरोधाः सचिवश्च दैवतम् ।
अतो वयं तावदनन्यसाधना
वृणीमहे त्वामवमेऽपि कर्मणि ॥ २॥
इति प्रार्थितो देवैरिदमुवाच वाचस्पतिः-‘नैतावदभिधातव्यम् । नहि किंचिदवमं नाम कर्मास्ति राजोपजीविनाम् ।
तत्तस्य कीर्तिदं कर्म तदलभ्यं तदीप्सितम् ।
राजानः पुरुषं यत्र राजकीयं नियुञ्जते ॥ ३॥
परंतु किंचिदत्र विवेक्तव्यम् । तथाहि-
अनालोच्य निजां शक्तिमदृष्ट्वा कार्यगाधताम् । औत्सुक्यादवगाहन्ते मन्दा मज्जन्ति चातलम् ॥ ४ ॥
विस्तारः
आ अतलात् आतलं पातालपर्यन्तं मज्जन्ति ॥
सन्धिर्नाम ऋजूपायः साधुष्वेवायमायतते न पृथग्जनेषु । दूरे पुनर्दुरहंकारदूषितेषु दानवेषु । किंच । दूतवाङ्मुखकौशल- साधनीयोऽयमर्थः कथं नाम दूतदर्शनमप्यसहमानेषु संघटते । श्रूयत एव हि वैश्रवणेन प्रहितो दूतः सद्य एव समापितः सदसि लङ्कापतेः । अपिच । प्रवृत्ताः समरकर्मणि भग्नोद्यमाः सर्वतोऽपि संधित्सन्ते दूरदर्शिनो लब्धं कथंचिदपि लिप्सितं, नतु लब्धमपि नाशयितुम् । पश्यत-
स्थानाच्च्यावयितुं क्षणात्पुनरपि स्थानेऽभिषेक्तुं च वा
शक्ताः केलिकथान्तरेष्वपि भवन्त्योद्गता यद्गिरः।
तेऽमी सर्वसुनिर्वृता दनुभुवः संधाय किं धावता
भिक्षार्थं परितोऽधुना मघवता संपादयन्त्वीप्सितम् ॥ ५॥
अपि च-
गौरश्वः करिणः स्त्रियो मणिगणाः शस्त्राणि वस्त्राणि वा
यानि प्राभृतयेम तान्यपहृतान्याक्रम्य तैरेव नः ।
तद्रिक्तेन करेण रिक्ततरया वाचापि चाहं कथं
शक्तः स्यां दनुजेश्वरान्वशयितुं संद्रष्टुमप्यन्ततः ॥६॥
इति युक्तियुक्तमुपपाद्य विरमति देवगुरौ, विहस्तेषु च समस्तेषु दैवतेषु कृतमुखः स्वयं शतमखः किंचिदिदमाचचक्षे।
विस्तारः
कृतमुखः कुशलः । वैज्ञानिकः कृतमुखः कृती कुशल’ इत्यमरः ॥
‘भगवन्ने- वमेवैतद्यदभिहितं भवता । किंतु-
निःसंख्यस्फुरदुत्तरोत्तरचमत्कारासु धारासु ते
वाचामक्षरमक्षरं त्रिजगतीवाग्गर्वसर्वंकषम् ।
श्रोतुं लालयितुं पुनः प्रतिसमाधातुं च वा किंचिद-
प्यर्वाञ्चः क इमे वयं यदि परं देवः स वाचां निधिः ॥७॥
परं त्विदमेकमनुस्मारयाम्यादिष्टं यदध्यक्षमेव नः समस्तानां संधानं कुरुतासुरैरिति शाङ्गधन्वना परमेष्ठिने, यदपि च तेन तुभ्यम् ।
शिष्टं यदत्र दुष्टं वा न विवेक्तुं क्षमामहे ।
स जानाति स जानीते त्वं जानीषे तदन्ततः॥८॥
इति ।
विस्तारः
सः विष्णुः जानाति । क्रियाफलस्य देवगामित्वात्परस्मैपदम् । सः ब्रह्मा जानीते। ब्रह्मणो विश्वाभिमानित्वात् क्रियाफलं कर्तृगामि, अतोऽत्रात्मने पदम् । त्वं जानीषे । बृहस्पतेर्देवगुरुत्वारिकत्याफलमत्र स्पष्ट कर्तृगामि ॥
अनितरशरणत्वमात्मनस्तदृढमुपपादयताथ देवभर्त्रा । प्रतिहतवचनो गुरुः सुराणां प्रकटयितुं धियमात्मनः प्रतस्थे॥
गच्छन्नेव च स पथि सर्वं करणीयमवधारयामास । अपिच-
अयं कालो बुद्धेरयमवसरश्चाटुवचसा-
मियं युक्ता वेला दिशि दिशि यशः संघटयितुम् ।
असावत्यर्घो नः सुकृतमुपचेतुं सुमहदि-
त्यवस्यन् प्राप प्रागसुरगुरुमाखण्डलगुरुः ॥१०॥
ततश्च तमतर्कितोपनतमभिगम्य सह शिष्यैः, अभ्यर्च्य विधिवदर्घ्यादिभिः सपर्याभिः, आसयन्महति मणिविष्टरे, भार्गवः
स्वयमासीनस्तदनुज्ञया सविनयमिदमाचचक्षे—- ‘अद्य मे सफलं जीवितं, अद्य हुतं विधिवदग्निषु, अद्य दत्तमतिथिष्वभ्यागतेषु,
विस्तारः
वेश्वदेवात्पूर्व गृहमागता अतिथयः । वैश्वदेवकाले य आगतास्तेऽभ्यागताः ॥
अद्याधीतमागमेषु सरहस्येषु, अद्याराधिता गुरवः, अद्य फलिनो गृहाश्रमाः । किं बहुना । अद्यायमन्वयः प्रतिष्ठितो भृगोः यदनुल्लिखितं मनोरथैः, अनवाप्यं तपोभिरपि, आशासनीयं गृहमेधिनां, आसादितमनायासेन मया स्वयमागमनं भगवतोऽधुना’ इत्युदाहरति भार्गवे पुनरिदमुवाच वाचस्पतिः –
‘पुत्रावुभौ प्रथमजौ भृगुरङ्गिराश्च
ख्यातौ कुले शमवतां ननु पद्मयोनेः।
तद्भार्गवस्य कुलमाङ्गिरसः प्रपन्न-
श्चित्रीयते किमिह सोदरसंप्रयोगे ॥ ११ ॥
अपि च-
निष्ठामाश्रमधर्मपालनविधौ नित्याभियोगं शिवे
शक्तिं कर्तुमकर्तुमन्यथयितुं तन्त्रेषु राज्ञामपि । श्रावंश्रावमनुक्षणोपचितया प्रीत्याहमस्म्यागतो
यत्सत्यं भवदीक्षणाय हृदये तत्रावयोः साक्षिणी ॥ १२॥
विस्तारः
तत्र गुरुशुक्रयो परस्परप्रीतौ आवयोः गुरुशुक्रयो हृदये हृदयं च हृदय च साक्षिणी ॥
इत्यभिदधानो गुरुरलमतिवात्सल्यादतिलालनेनेत्यभिधाय, विसृज्य सामाजिकान् , विविक्ते पृष्टः कविना समागमनकारण-
मुदाजहारैनमुपपत्तिगर्भया गिरा । ‘आवेदनीयं किमखिलवेदिषु भवादृशेषु । तथा हि-
जानीषे जगदेव तावदखिलं स्वमेन्द्रजालोपमं
जानीषे ह्यधिकारदुर्विलसितं संसारमप्यावयोः ।
जानीषे भगवत्परिग्रहपरीणाहं सुपर्वस्वपि
व्याहर्तव्यमितोऽस्ति यत्तदपि ते नापेक्षते मद्गिरम् ॥१३॥
अपि च
येनादिश्यत वेधसा जनिमतामद्रोहतो जीवनं
तेनैव त्वयि दुर्धियां दनुभुवामादिष्टमाचार्यकम् ।
अस्मिन् किं करणीयमर्थगहने मीमांसकैर्मादृशैः
शक्तस्त्वं त्वनुवर्तितु तदपि खल्वाकाशवद्वर्तितम् ॥१४॥
तत्कथंचिदेकीकृत्य देवासुरानेकान्तशीलाभ्यामावाभ्यामा- सितव्यमिति वक्तुकामोऽहमागतोऽस्मि ।’ इत्यभिहितो गुरुणा यथार्थमेव तदालोचयन् कविरिदमावभाषे-भगवन्नेवमेवैतत् । तथा हि-
जानाम्येव यदाह पद्मनिलयो यच्चाह विश्वंभरो।
यच्चास्ते हृदि ते यथा किल तदप्यग्रे विवर्तिष्यते ।
कस्त्वं संघटनेऽसि को विघटनेऽस्म्याकृष्य विश्वात्मना ।
योक्ष्यन्ते नचिरण चेह तृणवद्वातेन देवासुराः ॥१५॥
तदस्तु यथातथा वा संमुखीकरिष्यामि दानवान् , संभावयिष्यामि च भवन्तं, ततो यथामनोरथमभिधीयतां’ इत्युपच्छन्द्य, समानीय बलेः सभां, सभाजयन्विविधैरुपचारैः, सल्लापयामास वासवगुरुम् । ‘भगवन् दिष्टयासि दृष्टश्विराय । किमागमन कारणं, कि कुशली मे भ्राता पुरंदरः, स किं करोति, किमावसति, नामापि तस्य न शृणुमहे तदाप्रभृति’ इत्यनुयुञ्जाने बलौ सोत्प्रासमाददे गिरमाङ्गिरसः ॥
‘देयं यस्य सदेवमर्त्यभुजगं विध्यण्डमेवाखिलं
पात्रं यस्य जगन्निधिः स भगवान् देवः सरोजेक्षणः ।
शिष्यो भूतपतेरसौ कुलगुरुर्ययोशना भार्गवः
कीर्तिर्दानवराज तस्य भवतः कासां न पारे गिराम् ॥१६॥
तदभिगम्यापि सुदूरमवलोकयितव्यः पुण्यश्लोको जा(??) इत्यागतोऽस्मि । भ्रातुरपि ते वृत्तान्तमावेदयामि ॥
यस्यैवं भूर्भुवस्स्वर्भुवनपरिबृढो वर्तसे पूर्वजस्त्वं
दुर्दान्तध्वान्तभानुः स भवति भगवानेव यस्यानुजन्मा।
संप्राप्तो यः शरण्यं त्रिभिरपि करणैर्देवदेवं त्रिणेत्रं
प्रष्टव्यं तस्य कस्मिन् कुशलमकुशलं तस्य जिष्णोः कुतः स्यात्॥
स यदैव सङ्गररङ्गमारूढो योद्धकामोऽवतस्थे तदैव तमशरीरिण्या गिरा निवर्तयिष्यन्नाहवान्निर्मार्ष्टुं मुनिशापर(??)
लिन्यमभ्युदयेन च योक्तुमधिकेन परमे तपसि परमेश्वरे नियुयुजे ॥
यः शक्यो न दृशापि गोचरयितुं सत्वैस्तमोगन्धिभि-
र्यत्र ब्रह्म सनातनं गिरिजया स्वैरं परिक्रीडते ।
अध्यारुह्य तमेव मन्दरमभिध्यायन्य आस्ते शिवं
कस्तं द्रक्ष्यति कः प्रवक्ष्यति कथां देवोऽपि वा दानवः॥
प्रह्लादः प्रथमो गुरुर्भगवतस्तन्त्रेषु लक्ष्मीपते-
र्व्यातेने च विरोचनं कमलभूरध्यात्मविद्यानिधिम् ।
बाणः पारिषदाग्रणीः पशुपतेस्त्वं तु प्रवेकः सतां
सिद्धानामपि योगिनामशृणवं नैवं कुलं निर्मलम् ॥ १९ ॥
तदत्र महाकुलप्रसूतस्य भवतो महदनुशिष्टस्य किमावेदनीयमन्यैः । स्वयमेव महाभागः स्वरूपं पर्यालोचयतु कार्यस्य ॥
ददति च वरं दत्वा सद्यस्तमन्यथयन्ति च
द्रुहिणहरगोविन्दाद्या दैत्येष्विति स्फुटमेव वः।
न च नियमतो देवानेवानुकम्पितुमीशते
यदसुरवरान् मध्ये मध्ये समुद्गमयन्ति च ॥ २०॥
अतो ब्रह्मेशविष्णूनामपि शुद्धचिदात्मनाम्|
आचूडादानखाग्रेभ्यो मन्ये मायामयं वपुः ॥ २१ ॥
तदप्रदाय परेभ्योऽवकाशमन्योन्यसमवेतेषु युष्मासु-
यन्नैश्चिन्त्यं यदौर्जित्यं यद्धलं या सुखासिका ।
यद्यशो यः प्रतापश्च सर्व तदनुचिन्त्यताम् ॥ २२ ॥
आस्तामिदम् । अवश्यं हि विग्रहवत्सु युष्मासु भविव्यमप्रकाशेन मया वा भार्गवेण वा। तथा च -
निर्वर्त्यमाना यत्नेन निर्जरैरसुरैश्च वा।
काः क्रियाः फलवत्यः स्युरावयोरप्रकाशयोः ॥ २३ ॥
विस्तारः
गुरुशुक्रो यदा अस्तगता गदा शुभकमोणि न कुर्वीतेति हि दैवज्ञाः।
आखण्डलस्य तु मतिरन्यादृशी-
स्थीयतामग्रजैः स्वर्गे जीयतामनुजेन वा।
सर्वथा भ्रातृभाग्येन संवृत्तं नः प्रयोजनम् ॥२४॥ इति ।
अहं तु भवतः सार्वज्ञादविशङ्कमवादिषम् । न खल्वात्मनः सचिवोक्तमित्येवादरणीयं परसचिवोक्तमिति वा परिहरणीयं, धीमतां धीरेव सचिवः शासिता’ इत्यभिधाय विरमति देवगुरौ, अवलोकितो बलिना, भार्गवः सामाजिकाननुमोदयन्निदमाचचक्षे-~-‘भो भो सकलाशयमर्मज्ञाः,समयज्ञाः संधिविग्रहयोः, परीणा नीतिपथे भवन्त एव प्रमाणमर्थेषु ॥
यद्यप्यद्य गतश्रियः सुमनसो यद्यप्यसौ तद्गुरु-
र्यद्यप्यस्ति फलं न किंचिदपि नः संधाय साध्यं सुरैः। पर्यालोच्यमथापि किंचिदुदधिं निर्मथ्य लब्ध्वा सुधां
पास्यामो वयमित्यसौ रहसि मां यत्ग्राह दिव्यो मुनिः ॥
इति । तच्छृण्वन्त एव दानवाः संमोहिता मायया वैष्णव्य सद्य एव संमेनिरे, आहुश्च-
‘संधास्थामः शमधनगिरा निर्व्यलीकं सुरैः प्राक् ।
क्षोभिष्यामो जलधिममृतं तत्र लप्स्यामहे च ।
पास्यामश्चाप्यथ तदुभये यद्यमी साधवः स्यु-
र्नैवं चेत्किं विहतमियता बाहवः क्वागमन्नः ॥ २६ ॥
इति । ततः साधु साध्वित्यनुमोद्यमानाः सचिवेन, प्रस्थाप्य बाचस्पतिं, प्रथमतः संधास्यन्तः प्रतस्थिरे दानवाः सद्य एव मन्दरम् । पूर्णमनोरथश्च गुरुः पुनरुपावर्तमानः संददर्श मन्दरमेत्य संततशिवध्याननिर्धूतकल्मषान् शिवार्चनव्रतिनः शिवार्पितप्राणान् शिवनामकीर्तनपवित्रितमुखान् शिवकथापा- रायणपरायणान् शिवाहंभावभावितान् शिवाद्वैतवादकोविदन् भस्मदिग्धतनूरुहान् भसितत्रिपुण्ड्रमण्डितपञ्चाष्टादिस्थानमनोहरान् प्रालम्बिजटाजूटवलयावलम्बितशकुनिकुलनादशकुनावेदितसंनिहि- तशांभवप्रसादान् शुद्धाध्ववर्तिनो विज्ञानकलमानिव शुनासीरमुखान् बहिर्मुखान् ॥
आख्याय निखिलं वृत्तमाशयं च विरोधिनाम् ।
आदितेयान् स दैतेयैः संधातुं समनीनहत् ॥ २७ ॥
ततो महता बलेन महता संनाहेन महता चावधानेन संधातुमागताः सर्वेऽपि दानवाः, प्रकृतिकुटिला अपि परिणत
तपोविशेषेण परिक्षीणकल्मषतया दुर्दर्शान् मध्याह्नभास्करानिव, दुरासदान् युगान्तपावकानिव, विनम्भणीयान् विश्वसृज इव, पुनः पुनदर्शनीयान् पूर्णसुधाकरानिव, संलक्ष्य गीर्वाणान् , संत्यज्य दुर्विशङ्कितानि, प्रतिषिध्यानुयात्रिकान् , परिहृत्य शस्त्रास्त्राणि, निर्मलेन मनसा निरन्तरं परिरेभिरे। संक्रन्दनोऽपि यथान्यायं समागम्य दानवैः, अभिवन्ध पुरोधसं भार्गवं, अनुमतो वाचस्पतिना, किरन्निव सुधारसं, किंचिदिदमाचचक्षे-
‘साफल्यं तपसामिदं सुमहतां साफल्यमक्ष्णामिदं
साफल्यं पितुराशिषामिदमिदं साफल्यमस्यायुषः ।
श्रीमत्काश्यपतातपादचरणस्थानोचितैर्भ्रतृभि-
र्ज्यायोभिर्यदहं विरोचनमुखैर्वात्सल्यपात्रीकृतः ॥२८॥
अपि च-
आराद्धा ननु यूयमेव गुरवस्त्रैलोक्यराज्यार्पणा-
दाराद्धा गुरुभार्गवप्रभृतयो ब्रह्मर्षयः शक्तितः ।
किं कर्तव्यमितोऽपि केवलमिह श्रान्तोऽस्मि शान्तोऽस्मि च
प्राप्तुं तत्परमामृतं यदि भवत्याज्ञा यतिष्ये सुखम् ॥ २९ ॥
इति वदन्तं भ्रातरमिन्द्रमिदमाहुरसुरेश्वराः ‘मैवमाखण्डल मैवम् ।
त्वमसि शतक्रतुस्त्वमसि नीतिपथे कुशल-
स्त्वमसि दयास्पदं भगवतः प्रमथाधिपतेः ।
अपि खलु बालकेन भवता भवता मघवन् ।
निखिलमनाकुलं कुलमिदं प्रतितिष्ठते नः ॥३०॥
।
व्यापते त्वयि तपसि राज्यमिदं व्याकुलीभवेदिति संरक्ष्यतेऽस्माभिरनियुक्तैरपि साह्यमेवानुचिन्त्य भवतः ।
एकेन विधृतं राज्यमियन्तो वयमीदृशाः।
निर्वहन्तोऽद्य जानीमो नैपुण्यं वत्स तावकम् ॥ ३१ ॥
अमृतं यदि भोक्तव्यमनुमन्यामहेतराम् । संविभज्यैव तद्भोज्यं न निर्भज्येति नो मतिः ॥३२॥
विस्तारः
निर्भज्य एक भागशुन्यं कृत्वा ॥
तदाख्यातु भवानर्णवमथनोपायमादिष्टं नारायणेन’ इत्यनुयुञ्जानेषु दानवेषु, यथाश्रुतमाख्याय पुरन्दरस्तमेव मन्दरमुत्पाट्य सागरे निपातयितुमुत्साहयामास बलिम् । ततः कियदेतदुत्पाटनं नाम गिरेः, विधमामो मुखमारुतेन, विक्षिपामोऽङ्गुलिस्फोटेन, समुद्धरामो वामहस्तेन, संक्रमयामः सायकेनैकन’ इति बलोत्सेकादुच्चावचं गर्जत्सु दानवेषु, बलिरिदमवादीत्—‘हन्त कथमर्भका इव यूथमकृतप्रज्ञा इव निरङ्कुशं प्रतिजानीध्वे ।
विंशत्यापि भुजैः पुरा गिरिवरं विक्षोभयन् शूलिनः
पादाङ्गुष्ठनखाग्रयन्त्रणदलद्दोः संधिबन्धश्चिरम् । क्रोशंक्रोशमवाप वार्षिकनिशामण्डूकवद्यः श्रमं
युष्माभिः श्रुतिगोचरं न गमितः शङ्के स लङ्केश्वरः॥३३॥
अपि द्रष्टुमशक्यो यः सिद्धैरपि महर्षिभिः ।
विना शंभोः प्रसादेन कथमुत्पाटयेम तम् ॥ ३४ ॥
तदद्य वयं सर्वे प्रपद्य भगवन्तमुमाकान्तं प्रसाद्य वाङ्मनः कायैः. प्रार्थयेमहि प्रार्थनीयं’ इति । ततः साधु साध्वित्यभिनन्द्यमाना भार्गवाङ्गिरसाभ्यामन्योन्यकृतसंविदो देवासुराः, प्रतिपद्य मन्दरं शैलं, प्रणिधाय मनांसि, वर्तमानाः कठोरे तपसि, वाग्भिरस्तुवन्नित्थमम्बिकारमणम् -
‘युगविगमोन्मिषद्विषमलोचनकोणपत-
द्धुतवहविस्फुलिङ्गहुतसर्वजगद्धविषे ।
अचलधनुर्धराय हरिणाङ्कशिखामणये
विजयजयैकहेतुविशिखाय नमो भवते ॥ ३५ ॥
शिवं ध्यायस्यन्तः सकलजगतां यच्छसि शिवं
शिवोऽसि त्वं नाम्ना ननु शिवतरश्चासि विदितः।
शिवार्थी जन्तुस्तच्छिवमखिलभावेन भगवन्
भवन्तं हित्वान्यं शरणयतु कं न्यायशरणः ॥ ३६ ॥
तदिदानीम् —
मन्दिरं क्षाळयन्तस्ते मन्दरं दुग्धसागरे । अमृतं लब्धुमिच्छामस्तद्भवाननुमन्यताम् ॥ ३७ ॥ इति ।
ततस्तथा कुरुतेति घनस्तनितगम्भीरया गिरा गगनसंभ ्वया संतोषिताः सन्तोऽसुराः सुराश्च समगह्यन् ॥
विनिनन्तः पादैरथ विचलयन्तः करतलै-
रुदस्यन्तो दण्डैरुपरि च किरन्तस्तमिषुभिः ।
निषेदुः श्रान्तास्ते यदपि च विषेदुर्दनुभुवो
निमित्तं दुष्टं तन्निखिलमुशना तेषु जगृहे ॥ ३८॥
अथ प्रतीक्षमाणश्चरलग्नमाचार्यो दिवौकसां ‘संवर्तोचिरूपमालम्ब्य सर्वतो वाहि’ इति संदिदेश गन्धवाहम् ॥
अथ दिवसावसान इव पद्मभुवः पवन:
स्वयमकृत क्षणादिव विदिक्षु च दिक्षु चरन् ।
अलघुविचूर्णितार्णवसमुक्षितकुक्षितल-
क्षितिवलयार्द्रताशिथिलमूलमहार्यकुलम् ॥ ३९ ॥
विस्तारः
पद्मभुवः दिवसावसानं प्रलयः ॥
स्तोकस्तोकप्रचलदनिलग्रासदुर्भिक्षखेदैः
कालं कालं कथमपि चिरं यापयांचक्रिरे ये ।
आकण्ठं ते पपुरिममविच्छिन्नधारं समीरं
प्राप्ताः शंभोरुपकरणतां पन्नगास्तन्नगाग्रे ॥ ४० ॥
अथ तमदृष्टचरं वेगमनलसारथेराभिनन्दत इव मन्दरस्य गिरेरलक्ष्यत मनागिव शिरःकम्पः ॥
चकम्पे हन्तायं गिरिरनुचकम्पे पुरहरो
जहीतेदं क्लैब्यं जहित च वृथावास्थितमिदम् ।
इति स्वेन स्वेन व्यवसितधियः काश्यपसुताः
समेता गर्जन्तः सपदि चलयामासुरचलम् ॥ ४१ ॥
तदानीं च-
निष्पतद्रुममुत्पतत्खगमद्भुतस्खलदश्मभू-
जर्झरस्रुतनिर्झराम्बुझळझळारवभैरवम् । गर्भगहरनिर्भरभ्रमदुद्भटानिलपूरित-
क्रन्ददन्तरकन्दरं किल मन्दरं ददृशुर्जनाः ॥ ४२ ॥
गर्जन्तश्च ते तदनु पर्जन्या इव गणयन्तश्च करगतमिव कार्यमशेषं, पूर्वतो दिक्पतीन् , दक्षिणतो देवानपरान् , पश्चिमतो बाणं सहस्रबाहुं, उत्तरतो महासुरानितरानपि विभज्य विनियुञ्जानाः, खाते परितः परिखावलय इव मूलगर्ते कराञ्चलानि निदधानाः, परित्यजन्तः प्रहरणानि, परिहरन्तोऽङ्गुलीयकानि, आबध्नन्तः कटितटेषूत्तरासङ्गं, आरोपयन्तः कणान्यङ्गदस्थानं, उपवीतयन्तो निवीतलम्बीनि हारमण्डलानि, उद्बोधयन्तः परस्परमसकृदपि ‘समं निधत्त कराञ्चलानि, सममुत्तम्भयत, समं विस्रंसयत, सममुच्छ्वसित, समं निःश्वसित, समं कुरुत बलानि, परथा विशीर्येयुः शिखराणि, विनमेदयमेव मन्दरः, कापि चलेदपि ततो भद्रपीठं चन्द्रापीडस्य, समुद्विजेत दुहिता शैलराजस्य, क्षुभ्येयुः प्रमथाः, कुप्येदपि शैलादिः, चतुरन्तयानगत इव भगवानम्बिकारमणश्चतुरतरमस्माभिर्वाहनीयः’ इति, वादयत्सु वादित्राणि गन्धर्वेषु, गायन्तीषु गाथाः किन्नरीषु, नृत्यन्तीषु निर्जरवारकान्तासु, श्लाघमानेषु चारणेषु, प्रयुञ्जानेष्वाशिषः परमर्षिषु, वर्षत्सु दिव्यवलाहकेषु पुष्पवर्षाणि, हर हरेति तारध्वनिभिरापूरयन्तो विध्यण्डमण्डलमुन्नमयामासुरुर्वीधरं मन्दरम् ॥
आपातालनिमग्नमूर्तिनि बलान्मूले समुन्मूलिते
शैलस्यास्य भुजङ्गराजनगरप्रासादशृङ्गायिते ।
खेलन्त्यः शतशः फणीन्द्रसुदृशः स्वच्छन्दमत्रास्पदे
हृष्यद्भिः प्रतिलेभिरे दिविचरैरक्लेशमप्रार्थितम् ॥ ४३॥
अपि च—
अभ्यर्णस्थलभाजि तत्र शिखरिण्यामूलमुन्मूलिते
तत्क्षोभक्षुभिते च काञ्चनगिरौ किंचित्समाकुश्चिते । विभ्रश्यगृहभित्ति विश्लथपुरद्वारं विशीर्णत्रुट-
त्सौधोत्सेधविटङ्कसंघमजनि स्थानं सुराणां तदा ॥४४॥
समुद्धृत्य तमारसातलप्रतिष्ठमपि सद्यः समारोपितं कल्ममिव लीलया प्रस्थिताः दुग्धार्णवं प्रति देवासुराः । अशिथिलशिखरं अप्रकम्पनितम्बं अखण्डितगण्डोपलं अनुज्झितनिर्झरप्रवाहं अस्फुटितपर्यन्तदर्यन्तरं अभञ्जिततरुपुञ्जं अनुत्खातलतावितानं अस्पन्दमृगवृन्दं अनुद्धान्तशकुन्तं अव्यापनपन्नगं अनवसन्नकिन्नरीगानं अस्तब्धसिद्धचारणकोलाहलं अविश्रान्तगा- न्धर्ववादित्रं अनुपरुद्धतपोधनध्यानं आनन्दयन्तो भगवन्तमुमाका- न्तमवहन्त मन्दरम् । स च नीयमानःसर्वैरपि सुरासुरैरखिल- भुवनाधारस्य पशुपतेरप्याधारतावलेपादिव पादैराचक्राम शिरांसि पर्वतानाम् । परितःस्फुरदच्छनिर्झरापदेशेन प्रत्यक्षमिव विचकार दिङ्मुखेषु यशांसि निर्मलानि । आकाश एव नीयमाने तस्मिन् , अधस्तनीषु दिव्यभूमिषु तासु तासु तपस्यन्तस्तपोधनाः कतिचिदतिचकिताः प्रायुञ्जत परमाशिषः, परिपेठः स्वस्त्ययनानि, अजपन्नभयंकरं, आवर्तयन्नमृतमृत्युंजयं, अनुदध्युरापदुद्धरणमम्बिकारमणं, आशशंसिरे च बलातिबलाभ्यामश्नमं दिविचराणाम् । महाप्रकाशमणिगणाकीर्णस्य तस्य चलतः पथिवशादागत्य पार्श्वतलमध्वप्रतिरोधादत्रैव निलीयमानः पतिरपि त्विषां प्रदीप इव दिवा प्रवर्तितो भग्नतेजा ददृशे । अपि च पुनरक्लेशमानीयमाना पत्या सह कात्यायनी रुचिरान् प्रदेशान् पश्यन्ती विविधानि वस्तूनि परिपृच्छन्ती प्रणयिनमभीक्ष्णं प्रसन्नेन चेतसा स्थापयिष्यतोऽपि गिरिमनुजगृहे देवासुराननुजगृहे ॥
उड्डीय स्वयमुत्पतन् गिरिरसौ वाचैव नेतुं क्षमो
भग्नस्कन्धशिरोधरैर्दिविचरैरित्थं यदद्योह्यते । एतत्पर्वतपक्षतिक्षतिकृतो मूर्खस्य दौष्कर्म्यमि-
त्यायस्ताः पथि पर्यभाषिषत ते सर्वे सुपर्वेश्वरम् ॥ ४५ ॥
अपि च—
भग्नो यस्य दशाननः प्रचलने किंचित्प्रवृत्तः पुरा
शक्यं तस्य गिरेः कथं नयनमित्यस्ताविषुः साधवः ।
अन्ये चक्षमिरे न तद्भवति का श्लाघात्र शाखामृगै-
रानीताश्च निपातिता हि जलधौ शैलाः समूला इति ॥४६॥
इत्थमतिमारभङ्गुराः सुरासुरा यावदासेदुरन्तिकं दुग्धनिधेस्तावदुद्वेगः श्वेतद्वीपसदामुदजृम्भत । ‘पश्यत पश्यत पर्यन्ते नीयमानं महागिरिं, पातयिष्यते नूनमत्रायमर्णवे, परिप्लावयिष्यते च स निःशेषमिदमन्तरीपं, तदद्यैव सज्जीभवत समुत्तिष्ठत सर्वतोऽपि वेलामुच्छ्रयध्वं’ इति, ‘हन्त केनेदमुत्प्रेक्षितं बकबन्धकौशलं, किंचिदपि चेदुच्छ्वसिति सागरः किं करणीयमुच्छ्रितयापि वेलया, तदारोक्ष्यामो वयमद्यैव वैकुण्ठमर्कमण्डलं वा धाम त्रिधाम्नः’ इति, ‘अनुचितमेतदालोचितं, अयुक्तं हि सेवकानामपहाय भगवन्तमन्यत्र गन्तुं’ इति, ‘किमुच्यते भगवन्तमपहायेति, किं न विचारितं भवता, भगवानेव मन्दरपातदर्शनकुतूहलव्याजेन प्रस्थातुकामो वर्तत इति, कति वारानेष पपात मन्दरः, कति वारान्नोदजृम्भत सागरः, कस्यापि ब्रह्मणः कल्पे न जानीमो वयं विप्रवासं, अहो खल्वमीभिराधुनिकैर्बाध्यामहे भागवतैः’ इति, ‘भवतु भवतु कथयन्तोऽपि दृढमितोऽपि कबलिताः सरिद्भिः सागरैश्च महत्स्वायतनेषु महीगतेषु शार्ङ्गपाणेः कति न भवद्विधाः परमभागवताः, तदास्यतामिहैव भवद्भिः, आधुनिकास्तु वयमज्ञातपारावारा गोपायन्तः क्वचिदात्मानं गोविन्दमेव निरन्तरमनुसंदधीमहि’ इति च विप्रवदतां विविधान्वादान् पश्यतामसकृदुन्नम्योन्नम्य, परिपृच्छतामागच्छतो वैमानिकान् , परिभ्रमतामभितोऽपि कोलाहलेन महता, पारिषदानामग्रणीः कुपितो विष्वक्सेनो बहिर्निर्गत्य परितोऽपि चक्षुः प्रसारयन्नवलोकयन्नानीयमानमभ्यर्ण एव मन्दरं, अवधार- यन्ननुपदमेव तस्य सिन्धौ निपातनं, विज्ञापयामास विनयेन विदितवेदितव्यमपि स्वधर्म इति विश्वंभरम् ॥
व्यत्यस्तकौस्तुभमवप्लुतवैजयन्ति
विस्रंसमानकनकाम्बरलोभनीयम् ।
सद्यः फणीन्द्रशयनादुदतिष्ठदीशः
कैलासशैलशिखरादिव कालमेघः ॥ ४७ ॥
दिव्यैः पञ्चभिरायुधैः सविनयराबद्धसेवाक्रम-
स्तत्कालोपनतैस्तपोधनगणैर्धन्यैर्वृतः कैरपि ।
अभ्यर्णे वसतस्तदा खगपतेरालम्ब्य हस्तं शनै-
र्विष्वक्सेननिवेद्यमानसरणिर्विश्वंभरो निर्ययौ ॥ ४८ ॥
अथ तमतर्कितोपनिष्क्रान्तमरविन्दनाभमवसरज्ञा विधिरर्धपथे समेत्य सह महर्षिभिर्विविक्तसेवावसरलाभविस्मयानन्दमन्थरः पश्यन्तमचलनिपातकौतुकं परिवार्य केवलमवतस्थे ।
नवकुवलयदामश्यामलस्निग्धमुग्धं
नलिननयनमाद्यं तत्त्वमालोकयन्तः ।
परिजहुरमरौघाश्चेतसा कार्यभारं
परिजहुरुभये ते पाणिभिः शैलभारम् ॥ ४९ ॥
ततश्च ।
सुरासुरकरोदरस्खलितशैलमूलस्थल-
स्थितोपलतलाहतिक्षुभितसिन्धुबन्धुत्थितः । भ्रमत्तिमितिमिङ्गिलभ्रमितवालकोलाहलैः
समं निखिलमम्बरं परिववार तारस्वनः ॥ ५० ॥
विस्तारः
सिन्धूनां सरितां बन्धुः समुद्रः ॥
स्खलदचलसमुद्भवल्लोलकल्लोलकोलाहल-
व्यतिकरबधिरभ्रमत्कूर्मनक्रद्विपक्रन्दितैः ।
स्फुटितकमलजाण्डभाण्डप्रचण्डस्वनोत्प्रेक्षण-
क्षुभितविविधमुक्तहाहारवैश्चाहसीदच्युतः ॥५१॥
निर्मग्नमन्दरमणिद्युतिसंप्रदिग्धा
निष्पेतुरम्बरतले पयसः कणा ये।
लग्नाश्चिराय लिकुचामलकाम्रमात्रा-
स्तारास्त एव परिणेमुरिति प्रतीमः ॥ ५२ ॥
पथि गिरिवरादस्माद्भारावसन्नसुरासुर-
प्रतिपदकृतस्कन्धव्यत्याससंभ्रमकम्पितात् ।
मणिभिरभितो यस्यां यस्यां भुवि स्खलितं क्वचि-
त्समजनि खनिः सा सा नाम स्थलेषु जलेषु च ॥ ५३॥
अपि च विदूरादम्बरतलादापततोऽस्य महता वेगेन प्रकीर्यमाणे पर्यन्तगते निरवशेषं परिपीयमाने च दरीमुखैरेव परिसरगते पयसि, शून्यमिवार्णवं मन्यमाना नभश्चरा निर्ममज्जुरुभयेऽपि भये । उन्मथितेषु च तन्मूलघट्टनादर्णवचरेषु जन्तुषु, ततः परिभ्रष्टाः करिण एव जलकरिणः, किराता एव जलमानुषाः, निर्झरचराः शफरा एव तिमयश्च तिमिङ्गिलाश्च संपेदिरे । अपि च पुनरवगाहमाने रसातलं गिरावभ्यर्णगतं दुग्धमादायादाय सुखमभिषिञ्चन्तः पारमेश्वरं लिङ्गमभ्यनन्दन्नन्दिमुखा गणाः । ऊर्ध्वमाद्युलोकादुत्पतता च दुग्धपूरेण परिप्लाविता सिद्धनदी बभूव दुग्धनदी । संसिक्ताश्च पयसा मधुरेण सर्वतो नन्दनोद्यानवनपादपास्तदादि सुधामधुराणि सुवते फलानि ।
मजन्मन्दरशैलकन्दरपुटव्याघूर्णदोभर-
स्वैरोज्जागरघोषभीषणपः कल्लोलिनीवल्लभाः ।
खेदस्तम्भितकिंपचानविबुधप्रारब्धभूरिस्तवा
गोविन्दस्य कुतूहलं विदधिरे ते केचिदेकक्षणाः ॥५४॥
मज्जति मञ्जति शैले पतति च पततीह कुलमिदं द्युसदाम् । शरणं शरणमतस्त्वं शार्ङ्गधरेति प्रचुक्रुशे विबुधैः ॥ ५५ ॥
ततश्चकितसुरासुरस्तोमसंस्तूयमानो भगवानरविन्दलोचनः प्रसादविमलपावनैः परिवहत्करुणासारसान्द्रितैः कटाक्षैरनुगृह्य, कल्पतरुपल्लवोल्लासिना कैवल्यलक्ष्मीनिवासमन्दिरेण करारविन्देन तानाश्वासयामास । तत्क्षणं च भूभारभङ्गुरभुजङ्गपुङ्गवभोगवलय- परिबृंहणादिव कुलिशकर्कशेन शाणनिकृष्टवज्रफलकस्निग्धेन सर्वतोऽप्यशेषभुवनात्मनाप्ययुतयोजनमात्रविस्तारशालिना चरमाङ्गेन, पाराशर्यसंक्षेपपरिमितैरनुश्रवैरेव चतुर्भिश्चरणैः,
विस्तारः
पाराशर्यः व्यासः तेन कृत संक्षेपः तेन, परिभितेरनुश्रवैरेव चतुर्भिश्चरणैः । वेदानां चतुष्कं व्यासकृतमंविभागादारभ्येति वेदितव्यम्॥
संकोचविकासशीलया माययेव कन्धरया,समस्तागमन्तोममस्तकेनेव च मस्तकेन परमाद्भुतेन समुद्भवन्नवनिगर्भाच्चापमुक्त इव सायकः समग्रेण रंहसा समुत्पपात महान् कमठः ॥
प्रत्युद्यत्कमठकठोरपश्चिमाङ्ग-
व्यासङ्गप्रशिथिलमूलसंनिवेशः।
उत्क्षिप्तः प्रतनुरिवोपलो बलिष्ठै-
राद्रिर्द्रागुदपतदर्णवाद्विदूरे ॥ ५६ ॥
उद्वान्तसागरपयोभररिक्तगर्भ-
पर्यन्तकन्दरगळत्पवनो गिरीन्द्रः ।
मग्नोत्थितः सलिलतो महता श्रमेण
निःसीमनिःश्वसितखिन्न इवाबभासे ॥ ५७ ॥
आलक्ष्य च तदाश्चर्यमानन्दमन्थरेषु बृन्दारकेषु, कृतार्था वयममुनाऽनुग्रहेण किमतः परं करवामेति विज्ञापयत्सु विनयेन गरुडध्वजं, समानयत वासुकिमित्यनुशशास समीपगतश्चतुराननः । ततस्तथेति प्रतिगृह्य शासनं तस्य निर्जिहाना बहिर्निर्जराः समानग्रामा यूयमेव समानयत वासुकिं सान्त्वनेनेति प्रार्थयामासुरसुरवरान् ॥
प्रागेव पातालजुषां प्रवृत्तिं जिज्ञासवो दारकुमारकाणाम् ।
ते मन्दरोद्धारबिलाध्वनैव सद्योऽवतेरुदनुजाः प्रहृष्टाः ॥ ५८ ॥
प्रविशन्तश्च ते ददृशुरतर्कितोद्धृतमन्दरमूलकन्दरोद्वान्तमू- ञ्छितपन्नगाश्वासनपरिभ्रान्तबन्धुजननिरन्तरं, अर्णवनिमज्जद- चलराजसंमर्दनिर्दलदतलवितलादिलोकनिष्पेषघोषभीषिताश्वसदा- श्वस्तविहस्तजानपदजनाकीर्णं, अतितूर्णमुद्गच्छदादिकच्छपनिष्ठुरपृष्ठसंघट्टनस्फुटितशैलशिलामङ्गस-मुच्चलदभङ्गुरस्फुलिङ्गपरिष्वङ्गदंदह्यमाननगरग्रामपल्लीनिवेशं, निरन्तरोत्पातधारानिरीक्षणसाध्वसेन पतिष्यति नाम भूतलं, चलिष्यति नाम सुमेरुः, स्फुटिष्यति नाम विध्यण्डकपालं, प्रवेक्ष्यति नाम सागरः, परित्यक्ष्यति नाम शेषो भुवनभारमित्यसंभावितमूलमनुक्षणमुच्चलन्तीभिः किंवदन्तीभिः समाकुलमभितो रसातलम् । समागम्य ते वासुकिं सभाजिता यथोचितं समावेद्य सागरमथनसंरम्भम् , अनुपदमेव कथान्ते कथयामासुः शनैरेव भवितव्यं भवता मन्दरवेष्टनदाम्नेति । अनुमोदमानो वचनममीषामाह च स्मेदमुरगपतिः- ‘अहो चिराय मया श्रुतोऽयमभ्युदयो भ्रातृजनस्य । यत्किल समागम्य दैतेयैरादितेयाः साधयन्ति मनीषितम् । तत्र स्वयमनियुक्तैरपि काद्रवेयैभ्रातृभिस्तत्साहायकमाचरितव्यमिति न्याय एव चोदयति, अत्र किमावेदनेन भवताम् । परं तु–
मूले बालधिमग्रतः सुरगिरेमौलिं च मे बध्नता
कल्पे प्राचि पिनाकिना भगवताकृष्टोऽस्मि यल्लीलया । तत्कालश्लथसंधिबन्धपरिवृत्तास्थीनि मर्माणि ता-
न्यद्यापि स्मितजृम्भितक्षवथुषु स्वाच्छन्द्यमुच्छिन्दते ॥५९॥
अपि च-
यस्तल्पेष्वपि कोमलेषु शयितुं शक्नोमि नाश्मस्विव
त्यक्त्वा कुण्डलतां स्वपन्नपि च यो नायन्तुमद्योत्सहे । पाषाणद्रुमगुल्मकण्टकदरीकूटप्रपातोद्भटं
सोऽहं वेष्टयितुं क्षमः किमचलं गात्रैर्जराजर्जरैः॥६०॥
तदद्य किंचिदनुगृह्य मां, नयन्तु भवन्तस्तक्षककार्को- टकशङ्खचूडगुळिकैरावतपद्ममुखान् महात्मनस्तरुणान् फणाधरान् , अन्ततो नयत जितश्रमं वा शेषं’ इत्यभिदधानो वासुकिः पुनरित्थमभिदधे दानवैः -
‘क्षुद्रैः किं करणीयमेभिरुरगैः क्षीणायुषामन्तकै-
र्या शेषं नयतेति वागजनि ते सैवास्तु सत्याधुना ।
भूभारे ह्युपयुक्त एष विदितः सर्वैस्ततोऽन्यः पुन-
स्त्वं शेषो भवसीति निश्चितधियस्त्वामेव याचामहे ॥६१॥
अपि श्लक्ष्णीकुर्मो मणिवदचलं पाणिकषणै-
रपि त्वां वोढास्मः सुखशयितमादुग्धजलधेः।
सुखं चाकर्षामस्तदुपरि यथा तुष्यति भवान्
प्रसीदायच्छस्व प्रचल शनकैः प्राप्नुहि यशः ॥ ६२ ॥
किं बहुना । प्रातिवेशिका वयं भवतः परिचितहृदयाश्च चिरसंवासेन । ततस्तत्त्वमेतदवधार्यताम्–
महद्भिर्ग्रन्थीमः स्रजमजगरैर्मन्दरचरै-
र्मरुद्भिर्वा पाशैर्भ्रमयितुमलं स्तब्धमचलम् ।
कराग्रैर्मथ्नीमो जलधिमथवा किं क्षरति नो
यशस्तूद्गातुं ते पुनरपि वदामः पुनरपि ॥ ६३ ॥
इति प्रार्थितो दानवैरनुत्तरो भुजगपतिः प्रस्थातुकामो चलयमेकमुत्सृजन्यावदुत्तस्थौ, तावदर्णवमथनक्षोभशङ्कितपतना-
मवनीं धारयितुमवस्थापितः स्वयंभुवा वनस्तम्भ इव संददृशे । ततः प्रतिष्ठध्वमित्यनुज्ञाय दानवान्, प्रसारयन् मन्दरोद्धाररन्ध्राभिमुखं मुखं, अनुवृतस्तक्षकादिभिः, अनुमतो भूभारवहननिश्चलेन भगवता शेषेण, शनैः शनैः शिथिलीचकार भोगवलयान् ॥
अथ तेन बिलाध्वना विशन्तं पवनं पार्थिवगन्धसारसान्द्रम् ॥ प्रथमे पथि विश्रमे फणीन्द्राः पपुराकण्ठमयाचितोपपन्नम् ॥
ततः प्रपात इव परिहृतनिम्नोन्नते तस्मिन् बिलद्वारे, महता यत्नेन मन्दमन्दमुत्सर्पन्तो दशयोजनं, अधःपतन्तः शतयोजनं, आरुरुक्षन्तः पुनः, अवेक्षमाणा निम्नोन्नतानि, फूत्कुर्वन्तो भूयसा यावदाम्यन्ननिलाशनाः, तावत्करावलम्बनप्रदानापदेशेन परिघतोमरगदाप्रासादिभिः प्रहरणैः प्रकल्पयन्त इव सोपानानि, परिकर्षयन्तः शनैः शनैरिव प्रापयामासुरवनितलं फणाधरानसुरेश्वराः ॥
आपातालात्फणधरपतेरा च मूलात्सुमेरो-
रद्राक्षुस्ते स्तिमितपतितं भोगमायासयोगात् । मन्थानाद्रेरवनिवलयादुद्धृतस्यातिवेगा-
दन्तर्लनं त्रुटितघटितं मूलमेकं भुवीच ॥ ६५ ॥
अथ कथंचिदाश्वस्तमाहिपुङ्गवमालक्षयन्तो दानवा नगनगरग्रामनदनदीनदीशसंतानदन्तुरेण भौमेन पथा परिक्रमणमावेद्य मान्द्यहेतुं, आसाद्य तदनुज्ञां, आफणामण्डलादा च वालमूलादुद्धृत्य कराञ्चलैर्युगपदुपनिवेशयन्तः स्कन्धेषु तं, अपरान् पुनर्महोरगानङ्गुलीभिरङ्गुलीयकानीव, पादैर्नूपुराणीव पाणिभिः कङ्कणानीव, कटिभिः कटिसूत्राणीव, वक्षसा हारवलयानीव, वहन्तो लीलया तारापथेन पथा दुग्धोदधिमभि- प्रतस्थिरे ॥
दूरादलक्ष्यत सुरैर्दनुजांसलना
द्राधीयसी भुजगपुङ्गवभोगरेखा ।
तिर्यक्प्रवाहमुपयातवतीव दिष्ट्या
मन्दाकिनी निपतिता शिखरे हिमाद्रेः ॥६६॥
पायंपायं पवनमभितः स्थौल्यमापाद्यमानं
वाहवाहं फणधरपतिं विश्लथस्कन्धबन्धाः।
प्रत्युद्यातैः सुरपरिबुढैरविश्रान्तिहेतोः
सार्धं दैत्या भुवि निदधिरे संनिधौ शाङ्गपाणेः॥६७ ॥
अथ शिथिलांसमांसलितखेदविनोदकृते
परिकलिताङ्गभङ्गमभितोऽपि वपुर्ध्रुवताम् । करचरणोदराङ्गुलिभुजान्तरकन्धरतो
भुवि भुजगा निपेतुरितरे विबुधद्विषताम् ॥ ६८ ॥
खर्वोन्नतासुरस्कन्धसंधारणकृतां व्यथाम् । वीजितो विबुधैर्दैत्यैर्विजहौ वासुकिः शनैः ॥ ६९ ॥
परिश्राम्यतश्च वासुकेरतिवेलश्वासनिःश्वासपरम्परापरिण- मदुपचयापचया परिणतशरकाण्डपाण्डरा च भोगयष्टिरभिपूरयितुं दुग्धसागरमापतिता विदूरादुच्छृङ्खलतरङ्गमालासमाकुला स्तब्धेव सिद्धनदी सुरासुरैरालुलोके ॥
क्षितिधरपरिपातक्षुभ्यदम्भोधिगर्भ-
प्रचलदमृतबिन्दुस्यन्दसान्द्रैः समीरैः।
फणिपतिरपनीतस्वेदखेदो ददर्श ।
त्रिजगदनभिवेद्यं देवमाद्यं मुकुन्दम् ॥ ७० ॥
प्रणिपतन्नथ वासुकिः फणामणिप्रकाशधारानीराजनैराराधयामास चरणारविन्दमरविन्दनाभस्य, आह चेदम् ‘भगवन्नाशिक्षितोऽस्मि शेष इव व्याकरणे, अनभियुक्तोऽस्मि पद्म इव पाञ्चरात्रे, अकृतश्रमोऽस्मि कम्बळाश्वतराविव गान्धर्वे, केवलमहं भगवतो मेरुधन्वनः सायकसंधानावसरसंपन्नं भगवतश्चरणारविन्दविन्यासभाग्यं परिशीलयन्नान्तरेण करणेन, परिपालयन् भवच्छासनं, आकाङ्क्षन् भवतो नियोगानुग्रहमासे भवदधीनः’ इति ।
तदनु च–
“किं तन्त्रैः किं मन्त्रैः किं व्याकरणेन किं पुराणेन ।
चरणाम्बुजे निमग्ना धिषणा यदि पद्मनाभस्य ॥ ७१ ॥”
इति स्तूयमानमब्जसंभवादिभिरिन्दिरारमणो वासुकिमिदमवादीत् — ‘वत्स वासुके न वक्तव्यमिदं त्वया । परिजानतैव
हि भक्तिमियतीमपि मया प्रतिष्ठापितोऽसि प्रथमभुवनाधिपत्ये। तदिदानीं माहेश्वरं धनुरनुस्पृश्य संपादिनं यशो माहेश्वरं गिरिमिमं प्रदक्षिणीकृत्य परिवर्धयेत्यादिशामि
तेजसाप्याययिष्यामि दिव्येन त्वामसंशयम् ।
कामं वेष्टय मन्थाद्रिं कर्षन्तु त्वां सुरासुराः ॥ ७२ ॥
इति दत्तवरो वासुकिरिन्दिरारमणेन, परितोषयन् सुरासुरान् , पश्यत्सु वैमानिकेषु, समुल्लुत्य वेगेन, मद्यःकृतविद्रुम- काण्डवत्संवेष्टयामास भोगेन मन्दरगिरेराभोगम् ॥
प्रणमन्तः स्तुवन्तश्च भगवन्तं जनार्दनम् ।
ववल्गुश्च जगर्जुश्च वासवाद्याः सुरासुगः ॥ ७३ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक-शतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षित- सोदर्यश्रीमदाच्चान्दीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये तृतीय आश्वासः ॥