द्वितीयाश्वासः
ततः शतमखादयो युधि विरोधिभिर्निर्जितां
श्रियं पुनरभीप्सवः क्रतुभुजो भुजोपार्जिताम् । विचित्रमणिसुन्दरं विपुलकन्दरं मन्दरं
समेत्य तपसानयन्निमिषवत्सहस्रं समाः ॥ १॥
तत्र च वसतां तपोधनानामध्वरहविर्भागमपहरत्सु दूतमुखेन दानवेषु, अकाले वा यष्टुमयज्ञेन वा रहसि प्रदातुमभ्यर्थ नयाप्यसंमन्यमानेषु शास्त्रैकशरणेषु तापसेषु, तप्यमानाः क्षुधा विबुधाः, हुत्वा हवींषि हुतवहे, दत्तानि तेनैव पुनस्तान्युप युञ्जानाः कालं महान्तमतिवाहयांचक्रिरे । अपरे पुनः केचिदतिवेलश्रद्धामात्रशरणानधिगम्य मूर्खान् अमुनैव शरीरेण दिवमारोपयामो भवतः सबान्धवान् , अत्रैवानीय दर्शयिष्यामः सुरसुन्दरीरिति प्रलोभयन्तः, पशुपक्षिसुराकुम्भपायसापूपप्रचु- रानलभन्त महोपहारान् । अपि च पुनरवरूढान् कर्मक्षये दिवः कर्मदेवानावृत्य ‘किं कुर्वन्ति दानवाः, किं वदन्त्यस्मान् कथा- प्रसङ्गेषु, किमितिवृत्तमेषामनुमतं पितामहेन, किं वा न तदव- तीर्णमद्यापि तस्य कर्णपथं, किमाहुरसुरमौहूर्तिकाः, कीदृशो भार्गवस्य वृत्तान्तः, कथमास्ते वैजयन्तः, कस्य वशे नन्दनोद्यानं, उद्वान्तश्चतुर्दन्त इति श्रुतं,
विस्तारः
चतुर्दन्तः ऐरावतः । उद्वान्तः निर्मदः। ‘समावुद्वान्तनिर्मदौ’ इत्यमरः ।
उच्चैश्रवसः प्रवृत्तिमेव नोपलभामहे’ इत्यनुयुञ्जानाश्चकितचकितमवलोक्य समन्ततः, किंच ब्रह्मलोक गमनोचितान्महर्षीन्मुमूर्षतः परीत्य परिहरन्तः प्रायणक्लेशमपि वरदानैः, निवेदयत प्रसङ्गेन नः कष्टामिमां दशां भगवति पितामहे, न विस्मरतास्मदभ्यर्थनामध्यात्मविचारव्यासङ्गेनेत्युद्बो- धयन्तः, स्वयमस्वप्नतया स्वप्नदृशस्तपोधनान् परिपृच्छन्तः पर्य- वसानं मुनिशापस्य,
विस्तारः
स्वप्नदृशः स्वप्नाध्यायविदः ॥
निन्दन्तः स्वानि जन्मानि, निःश्वसन्तो दीर्घमुष्णं च मुहुर्मुहुः, वलाहकमिव चालकाः, वाचस्पतेरागमन- माकाङ्क्षन्तश्विरमवतस्थिरे ॥
अत्रान्तरे सुरगुरुर्दुरितं सुराणा-
मल्पावशेषमवयन्प्रणिधानयोगात् ।
अभ्येत्य निर्जरवरैरभिवन्द्य भक्त्या
पर्यावृतः सदसि किंचिदिदं बभाषे ॥ २॥
विस्तारः
२. अवयन अवपूर्वक-इण धातोः शत्रन्तप्रयोगः ॥
‘दिष्टया कुशलिनो श्चिरादद्राक्षम् । दिष्टचा चोत्तीर्णप्रायोऽयमापदर्णवः । दिष्ट्या च दुर्लभमिदं तपोवनमहो भवद्भिरासादितम् । वाराणसीव भारते वर्षे दयितं गौरीदयितस्य परमभिदमेवायतनमिळावृते । आरसातलादा च शान्यतीतकला
भवनालान्ति (??) सहन्ति स्थानानि सर्वागमविदितानि परश्शतानि भवानीपतेः ।
विस्तारः
निवृत्ति-प्रतिष्ठा-विद्या-शान्ति-अतीतशान्तय कलाः क्रमेण पृथिव्यप्तेजो मरुदाकाशेषु पर्यवस्थिताः। तदुक्तम्- भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा विद्याऽनले मरुति शान्तिरतीतशान्तिः। व्योम्नीति याः किल कलाः कलयन्ति। विश्वं तासा हि दूरतरमम्ब पद त्वदीयम् ॥ शान्ति शान्तिनामकलामतीता अतिक्रान्ता शान्त्यतीता । तस्या कलाया भवनं आकाशं, तदभिव्याप्यप्य आ शान्त्यतीतकलाभवनात् ॥
परन्तु मन्दर इव तस्य दृशां न किंचन सुन्दरमन्यदायतनम् । अन्यत्र पञ्चतपसोऽपि मुनेरावसथेषु शांभवेषु स्वैरचारी विशिष्यत इति श्रुतमेव भावद्भिरपि वृद्धमुखात्।
विस्तारः
अन्यत्रेति ॥ शिवक्षेत्रेषु खैरचारस्य फलमाह सूतहिताया शिव माहात्म्यखण्ड चिदम्बरमाहात्म्ये–अन्यन्न पञ्चतपसो मुनेर्वाताशनादापि । श्रीमद्दक्षिणकैलासे स्वैरचारी विशिष्यते ॥ इति ॥
अमृतप्राप्तिहेतुश्चायमस्मादृशामिव भवादृशामपि शैलराजः ।
विस्तारः
अमृतस्य मोक्षस्य सुधायाश्च प्राप्तिहेतुः । अयं मन्दरपर्वतः । अस्मदृशा अधीतश्रुत्यन्ताना ब्राह्मणानामिव । भवादृशा देवानामपि ॥
किं बहुना-
कालोऽत्यगादशुभहेतुरुपस्थितं वः
कल्याणमद्य न चिरादिति भामते नः ।
उत्तिष्ठतोचलत याम तु धाम धातु-
रुष्ट्रासिकाभिरधुना किमनर्थिकाभिः ॥ ३॥
इति प्रवृत्तया भाविमहासंविधानलभ्ययापि भाग्यवशादधुनैव स्वतो लब्धया सुधयेक वाचा वाचस्पतेराप्यायितः सुरपतिरिदमाचचक्षे— ‘अद्यैतत्पावनमजनि तपोवनं, अद्य नस्तपांसि परिपेचिरे, प्रशेमुरद्य नः कलुषाणि, पर्युपास्थिषत मङ्गलानि, परथा कथं भवदीयानां पात्रीभवेम शासनाक्षराणाम् ॥
चेतो यद्भवतश्चिरंतनवचासंदर्भगर्भस्थिते
वरतुन्यस्तमितप्रपञ्चमलिनिम्न्यामज्जमामज्जति । तद्दुर्मोचतमोविमोहितमतिष्वस्मास्वकस्मादिदं
सक्तं यत्पशुषु द्विपात्स्वपि नतो धन्या वयं न्यायतः॥४॥
कि बहुना । अब भवत्संभावनासंपादितस्यानन्दस्य परं पारमपश्यन्तो वयमस्मदानन्दादनेकशतगुणं भवदानन्दमुपपा- दयन्ती भगवतीं श्रुतिमपि न विस्रंम्भामहे ।
विस्तारः
आनन्दतारतम्यमधिकृत्य तैत्तिरीयोपनिषदि आनन्दवल्लयामेवं श्रूयते– ते ये शतं देवानामानन्दाः म एक इन्दस्यानन्दः, श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः ॥
आजानतो हि राजानः कदाचिदाक्रामन्ति परानाक्रम्यन्ते च तैरिति चक्रनेमिक्रमः सर्वजनीन एव । तदपि भवदीया जयन्येव न जीयन्त इत्यै कान्त्यमनुसंदधतो वयमियदपत्रपामहे व्यथामहे च । भवतः पुनरीषत्करोऽस्मदनुग्रहः संकल्पमानसाधनस्य । यथा हि भवज्जातीया एव भूमिचरान्दिवमारोपयितुं, दिविचरान्भुवमवरो पयितुं, आस्वादयितुं सुरापगां, आचमितुं सप्तसागरान् , विफलयितुं महास्त्राणि, विष्टम्मयितुं विश्वंभरमपि प्रगल्भन्ते,
विस्तारः
भवजातीया एव वित्रा एन भूमिचरान् दिवमारोपयितुं यथा त्रिशई विश्वामित्रः, दिविचरान्भुवमवरोपनितुं-यथा नहुषमगस्त्य., आखादयितुं सुरापगा -यथा जङ्गः, अचमितुं सप्त सागरान्--यथागस्त्यः, विफलयितुं महास्त्राणि--यथा बरिष्ठ । निष्टम्भयितुं विश्वंभरं विष्णुं-~-यथा मनकुमार, प्रगल्भन्ते ॥
तथा श्रुतिशतप्रतिपन्नयाथात्म्ये भवतो माहात्म्ये दण्डापूपि कान्यायघण्टाघोष एव नः शरणम् । तदलं पल्लवितैर्वचोभिः अनुगृहाण स्वयमस्मान् , अस्ति यदि भक्तव्यसनानवलो कनमंकल्पः अथ साजात्याभिमानेन दुर्वासस एव वचनं सत्यापयितुमध्यवसायस्तदेहि, यत्र निनीषसि तत्र नेष्यामहे. यनानुकम्पयिष्यसि तेनानुकम्प्यामहे, सर्वथा न्यस्तात्मानो वयं भवच्चरणे । कि करचरणे कदाचिदस्ति जिज्ञासा कीदृशस्तदभि प्राय इति न यदि किकरजनेऽपि मादृशि तथेति मन्तव्यं’ इति कृतव्यवसायस्य सुत्राम्णो वचसि चित्रीयमाणश्चित्रशिखण्डिजः सममाखण्डलादिभिः सत्यलोकमभिप्रतस्थे।
विस्तारः
‘जीव आगीरसो वाचस्पतिश्चित्रशिखण्डिजः’ इत्यमरः ॥
अमराश्च तमनुवर्तमानाः, वर्तमानाः पथि वैमानिकानां, दैत्यदानवयातुधानाध्यासितानि सिद्धचारणविद्याधराद्यावसथानि विलङ्घ्य, ततोऽतिदूरादुत्सन्नकिन्नरीगानचातुर्यम् , उपशान्तगान्धर्वतौर्यमौर्खर्यम् , असंभावितकर्मदेवसंमर्द, अनाशंकनीयब्रह्मर्षिसंचारसंकथं, अतिनीचरक्षः पिशाचमदिरागण्डूषदूषितमन्दाकिनीतीरतरुपण्डगूढचर देवर्षिमण्डलम् , आखण्डलनगरोपशल्यमन्तःकरणशल्यमालोकयन्तः, पुरा हंसावतंसितैः सर्वगामिभिरप्सरोजनतौर्यत्रिकालंकृतैर्विमानैरतिवाह्यमानतयाऽगृह्यमा-णतत्तत्प्रदेशसौन्दर्यमगृह्यमाणद्राधिमाणमध्वानमधुना पद्भ्यामेवाक्रम्यमाणतया गृहीतविपरीतमतिक्रामंतः, पदे पदे श्राम्यन्तः पथि, पथिकजनसाधारणमपि तत्तत्पदेष्वातिथ्यं गूढसंचारवशादलभमानाः, दानवसेनागतागतोचितान् कथंचिदतिलङ्घय कानपि कक्ष्याभेदान्दिवः,
तपोभिरपि दुरापं तपोलोकसमीपमापेदिरे । प्रविष्टमात्राश्च ते परिहृतरजस्तमोगन्धानुबन्धतया परिणतसत्त्वैकसारेषु तत्रत्य वस्तुषु महीचरा इव महेन्द्रभोगेष्वदृष्टचरं विशेषमालक्षयन्तो विसिष्मियिरे । अपिच पुनरात्मविज्ञाननिरस्तावरणतया नि:सीमविकसदकृत्रिमज्योतिषामधिकारमलक्षपणाय केवलमनुत्तरं योगैश्वर्यमनुभवतामत्रभवतां सनकसनन्दनसनत्कुमारादिमहा योगिनां, मूकेष्विव वाग्मिनां, मूर्खेष्विव बुद्धिमतां, अन्धेष्विव चक्षुष्मतां, अधनेष्विव महेश्वराणां, कीटेष्विव सरीसृपाणां, सरीसृपेष्विव चतुष्पदां, चतुष्पात्स्विव मानवानां, मानवेष्विव महीभृतां, महीभृत्स्विव मरुतां, मरुत्स्विव मरुत्वतो, मरुत्वत्यपि पतन्तीमवज्ञामुकुळितां दृशमवलोकयन्तः, शृण्वन्तश्च तेषामेव ‘हन्त वराकः शतमन्युर्नामायमेव परितोष्य यः शतेनाश्वमेधैरपि भगवन्तमिन्दुशेखरं प्रार्थयामास दानवामिषं स्वाराज्यम् । पश्यत पश्यत कुबेरमिमं पशुपाशविमोचिना पाशुपतव्रतेन समाराध्य परमात्मानं पखासि ममेत्यनुगृहीतोऽपि यः पिशाच इव धनपालतां वव्रे । किं बहुना-आत्मभूतोऽप्ययमष्टमूर्तेर्भगवतो वैश्वानरो विफलीकृत्य विवेकं, उपास्य चिरतरं कालमुमारमणमपि, आसाद्य हव्यवाहतामन्नहरोऽस्मि देवानामित्यभिमन्यते कृतकृत्य मात्मानम् । हन्त चिरादिमान् देवपशूनद्राक्ष्म ॥
किं न निगृह्णन्ति मनः किं न भजन्ते जनाः शिवं शरणम् ।
अभिसंधिभेदमात्रान्मोक्षो(क्षा)पायेन बध्यन्ते ॥५॥
इत्यादीनि परिहासवचांसि, पश्यन्तस्तरतमभावमैश्वर्येषु, परित्यजन्तः स्वर्गाधिराज्यदुर्मदं, अपत्रपानष्टदृष्टयः स्वयमाधि पत्यादस्मदीयात्र भिक्षाटनं ज्याय इति मेनिरे ॥
अथ सुरगुरुमागतं सशिष्यं
स्वयमवधार्य धिया सनत्कुमारः।
अपगततमसो महाप्रभावा-
नशिषदमुष्य सभाजनाय शिष्यान् ॥ ६ ॥
प्रस्थिताश्च ते परस्परालापेषु, अथर्वशिखाप्रवर्तकनामा- ङ्गिरसाख्ययोगरहस्यप्रवर्तकतामृग्यजुषोद्धृष्टप्रभावतामप्यनुस्मृत्य, प्रशंसन्तो ब्रह्मपुत्रं भगवन्तं तमङ्गिरसं, प्रशसन्तश्च गूढचर्यारतं महर्षि संवर्तशिवाचार्यं मरुत्तानुग्रहवागणमीनिपेवणव्रताद्युपा- ख्यानेन, शंसन्तश्च संवर्वानुजमाङ्गिरस सर्वतन्त्रेषु प्रवचनपार- दर्शनप्रबन्धनिर्माणप्रतिभाव्यवहारकौशलैः, परिहरन्तश्च लोका- यतिकतन्त्रतीर्थकरताप्रयुक्तमपकर्षमपि बाह्यतन्त्रप्रवर्तकपरमेश्वर- निदर्शनोपदर्शनेन, समागम्य यथाविधि संनताश्च स्वगुराविव सह शिष्यैः सुराचार्य सनत्कुमारसमीपमानिन्यिरे ॥
सनत्कुमारेण समागमे गुरो-
र्निशाम्य वृत्ता विविधास्तदर्हणाः ।
निशम्य वादेष्वथ चास्य चातुरीं
विशिष्य तस्मिन्नमरा विनेमिरे ॥ ७ ॥
विस्तारः
७ निशाम्य दृष्ट्वा , निशम्य श्रुम्वा ॥
आङ्गिरसोऽपि प्रणम्य भक्या महत्या परमेष्टिनमिव सनत्कुमारं, आवेद्य देवकार्यं, अनुज्ञाप्य च तेन पाकशासनं, अनुव्रज्य परिष्वज्य गाढं, आदिश्य चतुर्मुखोपसर्पणेतिकर्तव्यतां, अनुगृह्य शिवेन चेतसा, विसृष्टस्तेन, विनयातिशयादादृष्टिथादादधानः शिरस्यञ्जलिं, आस्थाय महान्तं योगं. आवर्तयन् प्रणवमेव, महामरैराससाद महनावधानेन हैरण्यगर्भमायतनम् । गच्छन्तः पथि-
वाग्देवीवदनारविन्दगलितब्रह्मोद्यविद्याशत-
ग्रन्थग्रन्थिविभेदजातकुतुकब्रह्मर्षिहर्षस्तवैः । कर्णाभ्यर्णगतैर्निवृत्तनिखिलक्लेशा दिगीशास्तदा
निर्वव्रुर्न च वव्रुरव्रणमपि स्वर्गं पुनर्गाहितुम् ॥ ८॥
अपि चाद्राक्षुरविदूर एव ते निरस्तरजस्तमोव्यतिकरतया निर्मलसत्त्वप्रकाशराशिमिव, निष्कलङ्कशशाङ्केष्टकासंघसंघटित- मिव, निरन्तरज्वलदबिन्धनज्वालापरिवर्तपिण्डितदुग्धमागरोर्मि निर्मितमिव, चिरनिपातघनीभूतशारदाशिरश्चन्द्रचन्द्रिकाविकीर्ण नीहारसारलाधितमिव, त्रैविक्रमचाणाक्रमाविद्धविध्यण्डकपाल- निरर्गळनिर्गळदळकनन्दानिपानधौतमिव, विमलभास्वरप्रभाव- भासितनमोविभागं, अपास्तकलङ्कानुषङ्गतयेव धूमादिमार्गचंक्रम -पङ्किलचरणपशुजनानाक्रमणीयं, अशेषभुवनसर्गावशेषसारैरिव विलक्षणैः शब्दादिभिर्विपयैरुपस्कृतं, अनुश्रवमयै, प्राकारैगभ्युद- यिकोपासनामयैर्गोपुरैरात्मोपासनामयीभिः कक्ष्याभिः प्रणवमयेन चास्थानमण्डपेन परिशोभितं, निजनिजकार्यनिवेदनावसर- प्रतीक्षितत्तल्लोकाधिकारिकारितसंमर्दबहिर्द्वारवितर्दिकाभागं, आग- न्तुकगन्धर्वकिन्नराप्सरस्समारब्धतौर्यत्रिकमौखर्यपूरितप्रथमकक्ष्यं, अनभिसंधिमत्कर्मयोगनिर्मलकर्मन्दिवृन्दपरिकर्मितद्वितीयकक्ष्यम् , अतिगहनन्यायसाङ्ख्ययोगादिदर्शनतत्त्वावमर्शव्यसनकर्शितकणा- दकपिलपतञ्जलिप्रमुखविद्वदुद्दामजल्पकथाघोषभूषिततृतीयकक्ष्यं, अतिविचित्रतरत्रयीशिखरोपपादितोपासनाभेदवासनासनाथमुनि- यूथदर्शिताश्चर्यतुर्यकक्ष्यम् , अतिरहस्यवैश्वानरदहरादिविद्यापरि- चयानवद्यमहर्षिदर्शितोपासनाप्रपञ्चपञ्चमकक्ष्यं, अतिदूरविसृष्ट- दृष्टानुश्रविकविषयाभिषरिरंसागन्धपरमहंसावतंसितषष्ठकक्ष्यम् , अतिचातुर्यपर्यवस्थापितानुश्रवतात्पर्यपर्यालोचनापनीतविपरीता- न्वयशङ्काकळङ्कनिरङ्कुशकुशलजनालंकृतसप्तमकक्ष्यं, प्रसंख्यान -परासंख्यभृग्वाङ्गिरोवसिष्ठादिगरिष्ठाधिकारिकमुनिमण्डलमण्डिता- स्थानमण्डपं, अपदं विपदां, अगोचरं वाचां, अनाशङ्कनीयमर्वाचां, अगम्यमाचारमात्रशरणैः, असाध्यमध्वरैः, अलभ्यमधिकैरपि तपोविपाकैः, दुरारोहं महादानैः, दुरवगाहमाहवसाहसैः, असंभावनीयं मनसापि स्वायंभुवं भवनम् ॥
खाध्यायाध्ययनादृतेन विधिना दृष्टयापि नालोकिताः
सभ्यैः प्रत्युत सर्वभोगविमुखैरुत्सारिता दूरतः ।
नृत्यन्त्यः सुरसुभ्रुवः परमधुस्तत्र व्यथां मानसी-
मानन्दैकपदेऽपि धामनि कलाकौशल्यवैफल्यतः॥९॥
अपि च–
प्राकारगोपुरविहारवितर्दिकानां
मूलेषु यत्र हरिनीलशिलाविभङ्गाः ।
सक्ताश्चिरादिव जयन्ति युगान्तधूम-
संतानसंघटितसान्द्रमषीविलेपाः ॥ १० ॥
प्रविशन्तश्च तमालयं, ‘ननु प्रातरागतस्य पुरुहूतनान्नो दिवस्पतेः कतितमः पुरन्दरो नामाय’ इति पृच्छ्यमाना दौवारिकैर्निर्जरा बलवदन्तर्ललज्जिरे । अपि च गच्छतामन्तरेषामालक्ष्य गतिमतिमलीमसां, अधिगन्तव्याधिगमेन निर्वृताः सर्वतोऽपि महर्षयः कतिचित् ‘अतिचिरं कालमहो खलु वयमप्यमीषां सामीप्यनारूप्यतायुज्यसालोक्यसिद्धिमाशासाना नानाविधानि तपांसि वृथा चकृम’ इति विगर्हमाणाः स्वमात्मानं लज्जितानमरान् भूयोऽपि लज्जयांचक्रिरे । अथ भगवानाङ्गिरसो देवर्षिभिः परिष्वज्यमानः पदे पदे नारदादिभिः, प्रत्युद्गम्यमानो विद्वद्भिः पतञ्जलिप्रमुखेः, अभिवाद्यमान: सिद्धविद्याधरैः, आनीयमानः सबहुमानमाप्तभृत्यैः परमेष्ठिनः, परिवृतो देवैः परमाश्चर्यनिर्भरैः, प्रकृतिगुणैरिव परस्परयोगवियोगपरिणम -द्भेदैरुच्चावचैर्मणिभिरुपरञ्जितं, उपर्यास्तीर्णहंसतूलिकातल्पकल्पितमहार्होपबर्ह, अहिसानृशंस्यकोमळिमावर्जितशमदमाभोगमन्तःकरणमिव महायोगिनां, ताळवृन्तचामरताम्बूलकरण्डकळाचिकाद्युपचारचतुरवरवर्णिनीजन- न्यस्तवामहस्तवेष्टिततया व्याकोचाष्टदळात्मिकां व्यञ्जयदिव कमलासनतां त्रिभङ्गीसमुन्नततया त्रिवर्गातीतमिव सर्वतोभद्रं भद्रासनमधितिष्ठन्तं, समसमयसमुद्यदादित्यसहस्रभास्वरैरर्केन्दुविद्यु- दनलरूपचतुस्तेजः समुत्तम्भनायेव चतुर्दिक्षु निर्जिहानस्तेजोभिर- वलुम्पन्तमिव दिव्यमपि चक्षुर्दिवौकसां, संततव्यवहारसंसक्त चतुरागमाक्षरप्रेक्षणीयदन्तचन्द्रिकाविकासपरिहृतसंसारशार्वरैरा - यतापाङ्गरिङ्गदभङ्गुरकरुणातरङ्गमालाभिराचार्यकाभिषेकमादधानैरि-व योगिनामध्यात्मविद्यासु, चतुर्भिरिवान्तःपुरैर्दयितानां चतसॄणामपि श्रुतीनां, आननपङ्कजैरनुगृह्णन्तमभितोऽपि महाशयान् , त्रैयम्बकमकुटावलोकनावलम्बितहंसदशार्जितेन मृणालवलयेनेव मृदुना शुचिना च सूत्रमयेनोपबीतेन सवचयन्तमिव सूत्रात्मकतामात्मनः, शस्त्रास्त्रविद्याकूपारपारीणक्षत्रियवर्ग, (??)गनिर्वृततयेव शस्त्रग्रहपराड्मुखेन प्रकृत्यादिपृथिव्यन्तपञ्चविंशतितत्त्वपरिवर्तनमात्रमेव व्यापार इति प्रदर्शयतेव पाणिना दक्षिणेन परिवर्तयन्तगक्षमालिकां, अहर्मुग्वेषु प्रथममपाव(??) स्रष्टव्यतामवधार्य धार्यमाणेनेव स्फटिकमयेन कमण्डलुना परिष्कृतेतरकरपल्लवं, असकृदधीता -ध्यापितनिखिलनिगमान्तसिद्धान्तपान्थसनकसनन्दनादिमहादेशि -कोद्भावितदुर्भेदसंशयच्छेदसंवादजिज्ञासया मुहुर्मुहुरवलोकयन्त -मन्तिकगतां वाग्देवतां, आचार्यमाचार्याणां, अधिगन्तव्यमधि -गन्तव्यानां, परमानन्दतुन्दिलमपि प्रपन्नानुग्रहैकव्यमनिनं, समष्टिं भूतग्रामस्य, साधारणं पितरमखिललोकस्य, विश्रान्तिभूमिं विद्याफलानां, विरामपदं वाग्विभूतीनां, दूरं दुराशयानां, अदूरमात्मवेदिनां, अधिगम्य भगवन्त पितामहं, अत्यद्भुतसभा- सभानाथसंदर्शनजडीकृतो वाचस्पतिरपि भगवान् वाग्देवता
-वलोकनसंपन्नभयकम्पसंभ्रमस्तम्भितवाङ्मुखः क्षणमवाड्मुखश्च तदीयदिव्यतेजःप्रतिहतदृष्टितया यावदास्त स्तब्ध इव, तावदनु ग्रहमय्या दृशा जगन्निधेः, आगच्छ वत्सेत्यमृतासारकिरा गिरा च गिरां देव्या निर्व्याजमाख्यायितः, समाधाय कथंचिदान्तरं करणं, अनुस्मरन् प्रणवं, आवर्तयन् ब्रह्मसूक्तानि तत्तदागमोदितानि, प्रागेव नम्रोऽपि भक्तिभारेण प्रणम्य शतशः सहामरैः प्रसादादेव देवदेवस्य प्रारभत किंचिदेवमभिधातुम्
अगन्तव्यं तर्कैरनधिगमनीयं क्रतुशतै-
रनासाधं दानैरनुपसरणीयं च तपसा ।
भवन्तं पश्यन्तः शुचमभिभवन्तं प्रणमतां
कृतार्था जाताः स्मः पुनरपि कृतार्थाः पुनरपि ॥ ११ ॥ किच-
भूतग्राममिमं चतुर्विधमहो निर्मासि यल्लीलया
यच्च व्याकुरुषे निरन्तरमिभाः साङ्गाश्चतस्रः श्रुतीः ।
चातुर्यं कथमीदृगित्यपगता शङ्का समस्तापि न-
श्चातुर्यं भवतो युजेष्वपि मुखेष्वद्य स्वयं पश्यताम् ॥१२॥
विस्तारः
जरायुजाण्डजस्वेदजोद्भिजलक्षणाश्चतुर्विधो भूतग्रामः । चातुर्यं चतुरत्वं चतुष्व(??) च ॥ बृहस्पतिशब्दः छन्दोगश्रुतावेवं व्युत्पादितः - वाग्धि बृहती तस्या एष पतिर्बृहस्पतिः॥
इति । स च ततः ‘साधु वत्स साधु स्थाने किल छन्दोगाः वाक् तस्याः पतिबृहस्पतिरिति नाम ते निराहुः’ इति
प्रशस्य ‘परिम्लान इव लक्ष्यते कुतः पाकशासन’ इति पृच्छति सानुकम्पमम्भोजसंभवे, बृहस्पतिः पुनरिदमभाषत-
‘परिम्लाना दीनाश्चिरपरिहतस्वस्वभवना-
श्चरन्तः पादाम्यामवनिवलये भिक्षव इव ।
यदाख्यातुं दुःखं तव सविधमेते परिगता-
स्तदद्य व्यस्मार्षुः पदमिदमुपेता वितिमिरम् ॥ १३ ॥
किच—-
यत्प्रत्यस्तमितप्रपञ्चमखिलव्यापारपारंगतं
प्रत्यग्ज्योतिरनुत्तरं शमधनैरालोच्यमेतादृशैः। तत्संप्रश्नकथासुधाभरितयोः सेक्तुं भवत्कर्णयो-
र्मिथ्याज्ञानविचेष्टितानि बलवज्जिह्रेति जिह्वैव नः ॥१४॥
अथाप्यनुयोगाज्ञानिर्वर्तनाय किंचिदावेद्यते । योऽसावग्रतो भवतः परिणाम इव करुणायाः, परिपाक इव शमदमोपरमाणां, अधितिष्ठति शमवतामग्रासनं दुर्वासाः, अयमेव सर्वासां निदानमस्मदापदाम् ॥
अव्याजकोपनिधिना मुनिनामुनैव
निर्वासिता सुरपतेः सुरलोकलक्ष्मीः ।
आसाद्य दानवकुलानि दिवौकसो न-
श्चक्रे पदं कृपणमानवदुर्दशानाम् ॥ १५ ॥
अथ यद्भवतैव कल्पितमध्वरहविर्जीवनममर्त्यनामपहृते तस्मिन्नसुरैः, असंभाविते च यादाकादाचित्के दाने द्विजन्मनां,
अशिक्षिते च भौमवदन्नसाधनव्यसने, भवत्प्रसादादवधूय सौव- र्गराज्यसिसाधयिषां, अपहाय दिव्यभोगेषु कौतूहलं, अन्नायैव स्पृहयमाणा निरन्तरं, अनिमिषतया श्रमावर्जितमूर्छाः स्वापमप्यलभमानाः सुलभमाना दिवौकसः सूक्ष्मतरं व्युदपद्यन्त दुर्भगानामन्नार्थिनामर्थनाभङ्गमन्दाक्षसंधुक्षितान्तरज्वालाकलापसंभृतेषु संभ्रमेषु मानवानाम् ।
किं बहुना—
यदियजीवितमेतैस्तदायुषा कल्पितेन भवतैव ॥
या त्वियती मांसलता साप्यन्नापायशोभेन ॥ १६ ॥
आस्तामिदम् ।
प्रेक्षावन्तो दिशि दिशि नराः प्रेक्षमाणा धरण्या-
मित्थंभूतान् सुरपरिबृढानिन्द्रवैश्वानरादीन् । तत्तत्साम्योदयफलपरामप्रमाणीं पुराणीं
मत्वा वाचं विदधति शनैः कर्ममार्गेष्ववज्ञाम् ॥ १७॥
अथवा नैतावदभिधातव्यमस्माभिः ॥
अभिदधति ते मूर्धानं द्यामनुश्रवसूक्तयः
सुचिरमसुराश्चैतामित्थं तुदन्ति दुराशयाः । निगमशिखराभ्यासव्यासङ्गतो यदि विस्मृतं
तदपि भवता तन्नो दौष्कर्म्यमित्युपरम्यते ॥ १८ ॥
विस्तारः
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ इति श्रुतौ अमिपदं तदुपल क्षितवर्गलोकपरमिति व्याख्यात तद्भाध्ये ॥
इमे वयमिदं तत्वमित्थं स्थानमियं दशा ।
परं यदा कर्तव्यं प्रमाणं तत्र नो भवान् ॥ १९॥
इत्यावेद्य विरमत्याङ्गिरसे, विनमत्सु च युगपदमर्त्येषु, प्रसादयन् सर्वानिदमाह पद्मसंभवः । विदितवेदितव्यैर्भवद्भिरित्थं न विप्रतिपत्तव्यं दुर्वाससि । यतः परिणाम एष करुणायास्तत एव महेन्द्रमनुजग्राह तनीयसा शापेन । परथा कथमतिवाहनीयमिन्द्रेण परःसहस्रैरपि वासरैर्निखिलजगन्मातुरम्बिकाया निर्माल्य- समुल्लङ्घनप्रसूतमिदं दुरितम् । तदस्मिन्महत्यपराधे यावदक्षपि- तमेतदेनस्तावदनुस्मरणमपि अवतामपराधो महानिति चकितै- रस्माभिरेतावदुदासितम् । महदपीदं दुरितं मन्दरपरिसरावासेन परिहृतमेव सवासनं भवताम् । तदपि जगज्जननीचरणापराध- संसर्गादधुनापि शङ्कमानेरस्माभिरन्य एवोपायः समुल्लिखितो भवदनुग्रहे । नारायणीप्रमादतिरस्कारजोऽयमपराधो नारायणी- यप्रसादपुरस्कारेण समाधेय इति ।
विस्तारः
नारायणी गौरी । नारायणायप्रसादः विणुप्रसादः ॥
तथाहि
यदेतद्वामाङ्गं घनजघनकेशस्तनभरं
कदाचित्तच्छंभोर्भवति कमलाकौस्तुभधरम् ।
जगन्मातर्येवं यदपचरितं तन्मघवता
जगन्माता देवः प्रभवति स एव क्षपयितुम् ॥ २० ॥
विस्तारः
शंभोः वामाङ्गं गारी । सैव श्रीविष्णुः । यदाहुः-
एकापि शक्तिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले ।
भोगे भवानी समरेषु दुर्गा कोपे तु काठीत्यवने तु विष्णुः ॥
तदागच्छत क्षीरसागरं, दर्शयिष्यामो भगवन्तम्’ इति वदन्नासनादुत्थायान्तर्दधे भगवानब्जसंभवः ।
अथ कथमप्यमर्त्यपतयः परिहत्य भयं
गुरुकरुणाविशेषपरिणामकृताभ्युदयाः । अखिलजनुष्मदाशयगुहाशवमप्युदधौ
शयितमिमे समेतुमुदयुञ्जत शार्ङ्गधरम् ॥ २१ ॥
किंच-
पथि ध्वजं यं गरुडध्वजस्य
प्रस्थाय यान्तो ददृशुर्दिगीशाः ।
तमेव सद्यस्तदनुग्रहस्य
भविष्यतोऽपि ध्वजमग्रहीषुः ॥ २२ ॥
अवतरन्तश्च ते सत्यलोकादनेकसहस्रयोजनमपि पन्थानमतिलङ्घितं गणयन्तो गव्यूतिमात्रमिव, गुणयन्तो भाषितानि चतुर्मुखस्य, गुरुणाकृष्यमाणतयेव झटित्युपनिपत्य विशश्रमुरवि- श्रान्तपरिभ्रमदभ्रमारुतसंपातविनीतपथिकव्यथे जलदपथे । अद्राक्षुरपि तत्र ते निद्राणपुराणपुरुषनिद्राभङ्गापराधमाशङ्क्य संतायन्तमिव विद्रुमकाण्डवेत्रदण्डैरनिवार्यमौखर्यसमुल्लासदुर्ललितानि- कल्लोलमण्डलानि, निरिन्धनज्वलदबिन्धनज्वालासंबन्धान्निष्य- न्दमानमिव वीचीभिरभितोऽपि, सद्यःसमास्वादितशुद्धदुग्धपूर-
पूरितगर्भनिर्भरविशदनीरदनिकरसंछन्नतया संपन्नमिव मण्डेन, चिरसंभृततया संभावितपयोविकारपरिजीहीर्पुणा ततस्ततः
क्षिप्ताभिरम्बुजसंभवेन समूलाभिरिवौषधीभिः शैवालमञ्जरीभि- रभिशोभितं, चिरपरिचितरोघरसास्वादसुखित्चानकपोनसा(??) वज्ञनिष्ठ्यूतचञ्चूपुटनिपतदितरमेघशीकरं, गोविन्दचरणारबिन्द संदर्शनायातविबुधससद्विमानहंसविविच्यानमानसर्वतः(??) सहस्रनीरकृताहारलब्धसमिन्धनबलवदविन्धनानलं, सायंप्राति कोल्लामपल्लवितकल्लोलजालवल्लितवेलागिरिविर(??) संचारलब्धदुग्धाभिषेकमुहूर्तविमलीकृतवन्याद्विपतया परिचिदन्तमिव चिरादैरावतसर्गचातुरीं, क्षीरैकनिधानतया पर्वकालाबाहनप्रसक्तपर(??) मर्षिजनप्रस्तुताघमर्षणसूक्तगोचर- क्षीरपदोहानूहविचारकोलाहलाभिभूतवीचीघोषं, [[पर्वकालेति ॥ अधमर्षणसूक्ते यदपा क्रूरमित्यत्र अपदस्थाने क्षीरपदः कहो न वेति विवदमानाः परमर्षयो दृष्टाः॥
तृतीयावतारश्वेततानुचिकीर्षया स्वयमपि श्वेतीभवद्भिरिव भगवतः प्राथमिकावतारजातीयैः क्षीराहारपरिणाम निर्मलैर्मत्स्यकूमैः परिकर्मितं, शार्ङ्गधरं द्रष्टुं सागच्छेदपि जा(??) चन्द्रशेखर इति संभावनया लज्जीकृतैः कैलासैरिव पयस्तरङ्ग परिपूरितैरन्तर्गतैर्गिरिभिरभिशोभिनं, कालचक्रमिव कर्कटमकर मीनकरम्बित, गङ्गातीर्थमिव गर्भस्थानेकमठराजिविरजित पाणिनीयसूत्रमिव परस्मैपदप्रतिपादकं, आत्मतत्त्वमिवानिर्व- चनीयगुणप्रपञ्चं, कैलासशिखरमिव शैवलक्षणलक्षितद्विजपण्ड- मण्डितं. निदाघभास्करमिव नितान्तमुत्तरङ्गत्वातिभीपणं,
विस्तारः
निदाघभास्करः नितान्तं उत्तरं उत्तरायणमार्ग गवा प्राप्य अतिभीषण प्रचण्डतरः । समुद्रश्च उद्गततरङ्गत्वेनातिभयप्रदः ॥
समष्टिमिव क्षीरसर्गस्य, समवायमिव नैर्मल्यस्य, चन्द्रतारकादि- निर्मलवस्तुवर्गनिर्माणकौतुकिना विधिना विलाप्य निषिक्तमिव भुवि रजताचलं,क्षौमावकुण्ठनमिव क्षमायाः, पद्मनाभशय- नागारपर्यन्तकुट्टिममिव स्फाटिकशिलाचितं, अनास्पदं कविगिरां, आश्चर्यमाश्चर्याणां, आतिहरं चक्षुषोः, आनन्दमन्तःकरणस्य, दुरासदमनाराधितनारायणचरणारविन्दानां दुग्धोदं नाम रत्नाकरम् ॥
घोषे क्वापि पुरा पयः कियदपि स्तैन्येन दैन्येन वा
लब्धं योऽवहदीश्वरोऽपि जगतां जन्माधमं मानुषम् ।
तं विस्मापयितुं तरङ्गवलयैर्घोषानसंख्यान्सृज-
न्नाभूभूतलसंभृतेन पयसैवावृत्य यो वर्तते ॥ २३ ॥
विस्तारः
भुवं भूतलं (पाताल) चाभिव्याप्य आभूभूतलम् ।
अपि च-
खाद्या यत्र सुधैव यस्य जठरे साक्षात्स धन्वन्तरिः
शेते यत्र समस्तरोगशमनो नाम्नैव देवोऽच्युतः। तस्मिन्दुग्धनिधावपि स्पृहयते नैव स्थिरामासिका-
मन्तर्लीनहलाहलोष्मचकितो नाथः स्वयं पाथसाम् ॥२४॥
अपश्यन्नपि मध्यतस्तस्य किंचिदन्तर्निमग्नपुराणभूदार- दंष्ट्रादण्डक्षोभितपयःपूरसमुद्धृतमिव नवनीतपिण्डं, अभितश्चलदु- च्छङ्खवलतिमितिमिङ्गिलकुलवालविलोडनोद्भुतमारुतोद्भूतपुञ्जीकृ-त मिव फेनमण्डलं, एकतः प्रतिपर्वनिर्मुच्यमानपङ्कजनाभशयनोरगनिर्मोकराशिमिव कालपरिपाकलब्धमृद्भावनिर्मलं, नविबिन्धमिव वसुन्धरादुकूलस्य, कल्पान्तरीयमन्दरवेष्टनक्लेशजनितया मूर्च्छया पतितस्य वासुकेर्जरतो वलयितमिव भोगमण्डलमप्रतिरूपमन्तरीपम् ॥
स्थानं विश्वसृजोऽपि तन्निरय इत्याचक्षते यद्विदो
यद्गत्वा गमनीयमुत्तरमितः कुत्रापि न श्रूयते ।
आयस्यापि हि साधयन्ति यतयो यत्रारुरुक्षां परं
तदृष्ट्वापि पदं हरेः सुरगणास्तस्तम्भिरे गाहितुम् ॥ २५॥
अपि च-
दध्युर्यावदुपायं ते गन्तुं तत्र दिवौकसः ।
तावनिदध्युरायान्तं तत्र देवं पितामहम् ॥ २६ ॥
पश्यन्नथ तत्र पाकशासनमुखानमरान् प्रासादशिखरारो- हणकुतूहलिनः पङ्गूनिव भग्नमनोरथान् , प्रसादविमलया दृष्टया्नुगृह्य सहागच्छत मयेति संदिशन्नग्रतश्चचाल कमलासनः ॥
गच्छन्नेव ततः स तत्र गलितब्रह्माधिकारैश्चिरा-
दैकान्त्यं परमं गर्भगवति श्रीवल्लभे दुर्लभे ।
प्राचीनः कमलासनैरुपगतो भक्त्या महत्या नमन्
सस्नेहं सदयं सखेदमपि च प्रत्येकमादिश्यत ॥ २७ ॥
‘कथमद्यापि वत्स न परिणतोऽसि ।
वल्लभोऽसि सरस्वत्या वहसे च श्रुतीर्मुखे ।
जगत्पितामहश्वासि कस्तवाप्यनुशासिता ॥ २८ ॥
तच्चिन्तय तावत्स्वयमेव –
आयुर्येषामनीषां परममभिमतं किंचिदूनो मुहूर्तः
का संपद्वा विपद्वा प्रभवति भवितुं तत्र तेषां क्षणार्धे ।
तत्त्यक्त्वा क्षुद्रजन्तून्दिविचरत इमांश्चिन्तयन्नात्मनीन
वत्स त्वं प्रार्थयेथा न किमपि परमं ब्रह्म लक्ष्मीसहायम् ॥
इति बोधितो विधिरिदमाचचक्षे—-‘जानामि भगवन्तो जानामि ।
कतीन्द्राः कति लोकेशाः कति विश्वसृजोऽथ वा ।
श्वासे श्वासे प्रजायन्ते प्रलीयन्ते च शाङ्गिणः ॥ ३०॥
तथापि कचिन्नियुक्तेन मया तदनुगुणं चेष्टितव्यमिति व्यवस्यन्नागतोऽस्मि । तदद्य भवद्भिरेव दर्शितं भगवन्तमभि- गम्य, भवद्दत्तैरेवाक्षरैर्व्याहरेयं’ इति प्रश्रितवादिनि पद्मसंभवे, प्रसन्नाः पारिषदा हस्तग्राहमाकर्षन्तस्तमन्तिक एव दर्शयामासु- रान्तरं रहस्यमुपनिषदाम् ॥
‘यं त्वं चिन्तयसे नान्यं सर्वारम्भेषु सर्वदा ।
सत्वं चिन्तय सेनान्यं विष्वक्सेनमिमं हरेः॥ ३१ ॥
इमं च पश्य वैनीतकं भगवतो वैनतेयं, यस्य किल पुरा कल्पे सुधाकुम्भहरणसंरम्भसंभ्रमोद्भूतपक्षमारुतविक्षेपसमुन्मूलिततया परितो विकीर्यमाणेषु नन्दनोद्यानपादपेषु, प्रयत्नेन महता पारिजातमेकमाहृतवतो भगवतोऽपि मन्दाक्षमिवालक्ष्यत इति संशृणुमहे । अपि च
छन्दो यथा यथा शौरेः संग्रामेषु जिगीषतः।
तथा तथा प्रवृत्तोऽयं छन्दोमय इतीयते ॥ ३२ ॥
विस्तारः
छन्दः अभिलाषः। छन्दोमयः वेदमयः । ‘सुपर्णोऽसि गरुत्मान् निवृत्ते शिरो गायत्रं चक्षुः खोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं छन्दॉस्यङ्गानि धिष्णिया. शफा यजूंषि(??) नाम’ इति श्रुतेः ॥
पादाङ्गुष्ठनखाग्रलम्बितमहाकूर्मद्विपाङ्घिद्वय-
न्यासाटोपविभग्नचञ्चुविधृतन्यग्रोधशाखां गताः।
येनोर्ध्वं पतता पुराणमुनयो नीताः पुरा मेनिरे
संसिद्धं सशरीरमूर्ध्वगमनं सद्यस्तपोभिर्दृढैः ॥ ३३ ॥
अस्य किलोपवीतमित्यायामतः साम्यमवधारयन्तः पुरा निर्जरा मौर्वीपदे मेरुधन्वनो वासुकिमादिशन्निति वदन्त्यैतिहासिकाः ।
पश्य ज्ञानक्रियेच्छामणिमयमुकुराबद्धमध्यात्मविद्या-
भास्वद्रत्नप्रदीपप्रकरपरिहतध्वान्तमन्तः समन्तात् । गाढाविद्याकवाटं प्रबलशमदमद्वारपालाभिगुप्तं
भक्तिद्वारं मुरारेरिदमिह शयनागारमोङ्काररूपम् ॥ ३४ ॥’
इति प्रबोधितो विधिरीदृशतादृशतानवच्छिन्नवैभवमच- क्षुर्ग्राह्यमनुश्रवैकश्रवणीयमाधिगन्तुमिव भगवतो रूपमासाद्य चक्षुःश्रवस्तनुमक्षिभिः सहस्राभ्यामनुभवन्तमिव परमाद्भतं, आशयमागमानां, अतिवेलश्वासनिःश्वासपरम्परासंपादितभोगोप-
चयापचयतया संततमुपपादयन्तमिव विलक्षणामूर्ध्वडोलाविहार- निर्वृतिं, आचार्य योगविदां, आदिदेशिकं पदतन्त्रस्य, संप्रदाय- प्रवर्तकं शारीरकर्मणां, भोगविमुखेषु हृदयेषु शमधनानां निरन्त- रावासनिर्वेदादिव भोगिनमेव कमपि भुवनतलाकल्पमास्तीर्य तल्पमधिशयानं, अतिशयानम्रमौलिभिर्महायोगिभिः प्रणामावसर- प्रकीर्यमाणेषु कुसुमोपहारेषु सौकुमार्यातिशयसंसक्तैः कतिपयैरिव कल्पतरुप्रसूनैश्चिरनिर्गतसिद्धसिन्धुशीकरशेषैरिव ततस्ततो लग्नैर्नखरैर्निरर्गळापवर्गदानसंसूचनाय नियन्त्रितेनेव ध्वजेन संसार- कान्तारसंचरणखिन्नशारीरकच्छायाप्रदानाय समावर्जितेनेव छत्रेण च परिष्कृताभ्यां पादकमलाभ्यामलंकुर्वाणमङ्कतलमादिजनन्यो- र्लक्ष्मीधरण्योः, कटितटाबद्धकनकांशुकप्रभातरङ्गपरिष्वङ्गपिशङ्गी- कृतवसुमतीकमलाविवेचनाचतुरतत्तत्परिचारिकोपचारविपर्यास- परिहासविनोदिनं, आविर्भविष्यदसंख्यहिरण्यगर्भाङ्कुरमयमणिश- ताचितकर्णिकेन प्रतिसर्गावर्तमानप्रकृत्यादिधरण्यन्ततत्त्वकिञ्जल्क- पुञ्जेन प्रपितामहेन भुवनानां पाण्डरेण सरोरुहेण मण्डितनाभि- मण्डलं, निर्मलचिन्मयवपुषि नित्यानुबिम्बितेन मृगमदतिलकेनेव वक्षःस्थितायाः श्रियः श्रीवत्सेन हृदयादुद्भुते चन्द्रमसि स्पर्धया स्वयमपि हृदयादाविर्भवता बालसूर्येणेव कौस्तुभेन भूषयन्तम- प्राकृतानि भूषणान्यपराणि, दिग्दन्तिशुण्डादण्डैरिव दिव्यतरु- प्रकाण्डैरिव दुर्मददानवनिर्मथनयशोविशदैरिव मौक्तिकदामवेष्टि- तैर्विजयेन्दिरासमाश्लिष्टैरिव विचित्रकनकाङ्गदकङ्कणाद्यलंकृतैश्चतु- र्भिर्भुजैः सूचयन्तमिव चतुर्व्यूहतां, अहर्मुखविकसदाम्रपल्लवोल्ला-
सिनि दन्तच्छदे विप्रकीर्णतया सान्ध्यरागसंमूर्छितचन्द्रिकोद्गा- रानुकारिणा मन्दस्मितेन कलिकलुषजीवाशयप्रसादनकतकरेणुभि- कैवल्यलक्ष्मीस्वयंवरदामभिरिव कलितनानावर्णविन्यासपेशलै परिवहत्करुणासारसंपातशीतलैः कटाक्षैरप्यनुगृह्णन्तमनन्यशरणा- न्महामुनीन् , कार्णवेष्टनिकविलसन्मुखारविन्दकामनीयकावलोक- नविस्मयमानकमलावितीर्णचुम्बनासक्तताम्बूलरागसंपद्विडम्बिना पद्मरागतिलकेन परिष्कृतफालवलयं, अतिनिर्मलफणामण्डलोदर प्रतिबिम्बितैरहिराजफणामणिगणैरिव किरीटरत्नैरभिरञ्जितमहा -र्होपबर्हं, अतिविनयभारभङ्गुरैरनन्यार्पितदृष्टिभिराकृतिमद्भिरायुधै पञ्चभिरभितोऽपि यथोचितमासेव्यमानं, अनुपमेयं प्राकृतैर्भावैः अप्रमेयमनुत्तरपदारोहपङ्गुभिरर्वाचीनैः प्रमाणैः, अक्षोभ्यं विज्ञानसागरं, अक्षयं महानन्दशेवधिं, अतिदुर्लभमश्रुतानुश्रवैरमीमांसितोपनिषदाशयैरनध्यासितनिदिध्यासन-पथैरक्षाळितकर्माशयैरनुल्लङ्घिताविद्यकपर्वपञ्चकैः, अनायासलभ्यमतिदृढावलम्बितगुरुचरणै- रपाथोपायवृत्तिपराङ्मुखैरप्रकम्प्यविश्वाससंपदवष्टम्भशालिभिरा- त्मार्पणतत्त्ववेदिभिर्महाभागैः, अमाधारणषाड्गुण्यं, अखिललोक- शरण्यमालक्ष्य सर्वप्रमाणपरायणं भगवन्तं नारायणं असकृत्प्रणिपतन् , असकृदुत्थाय, बध्नन् शिरस्यञ्जलिं, असकृदावर्तयन् प्रणवं, असकृदनुस्मरन् परतत्त्वं, अश्रुपूर्णैर्लोचनैरविरलपुलकाङ्कितैरङ्गकैरानन्दगद्गदैश्च वचोभिरित्थमस्तावीत्-
‘क्षन्तारं सकलागसां जडधियां यन्तारमन्तस्तमो-
हन्तारं जगतामनुत्तरपराहंताङ्कितोरःस्थलम् ।
उद्यत्कौस्तुभशोभमुत्पलवनीसच्छायमच्छायत-
स्निग्धापाङ्गतरङ्गमैक्षिषि परं ब्रह्माच्युतं शाश्वतम् ॥ ३५ ॥
किं तर्कैरतिवक्त्रैः किं फलमुपबृंहणैर्विविधैः ।
अत्रैक्षिषि श्रुतीनामाशयमहिराजभोगशयम् ॥ ३६ ॥
अहो धन्योऽस्मि धन्योऽस्मि !
एकं तद्द्विविभूति त्रिधामनिहितं चतुर्म्यहम् ।
पञ्चायुधं प्रपद्ये षड्गुणसंपन्नमशरणः शरणम्॥३७॥ इति ।
विस्तारः
एकं अद्वितीयम् । लीलानित्याख्ये द्वे विभूती । जाग्रत्स्वप्नसुषुप्त्यवस्थालक्षणानि (सूर्यमण्डलक्षीराब्धिपरमपदलक्षणानि वा) त्रीणि धामानि । वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारो व्यूहाः । शङ्खचक्रगदाशार्ङ्गनन्दकाः पञ्चायुधानि । ज्ञानशक्तिबलैश्वर्यवीर्यतेजांसि षङ्गणाः ॥
अत्रान्तरे वाचस्पति पुरस्कृत्य वासवमुखा बर्हिर्मुखाः प्रविकीर्य पुष्पाञ्जलीन् प्रणिपत्य दूरतः शतकृत्वः, समुत्थाय शिरसि संघटिताञ्जलयो विस्मयस्तिमिनाः स्तम्भवदासांचक्रिरे ॥
तुष्टूषतोऽस्य बहुधा सुरदेशिकस्य
दिव्याद्भुतानि चरितानि परस्य धाम्नः ।
स्तब्धा सती श्वशुरदर्शनसाध्वसेन
वाणी न वक्त्रकुहरादहिराविरासीत् ॥ ३८ ॥
ततः प्रमादविमलपद्मनाभकटाक्षपरिक्षेपविदितेङ्गितया पाद्मूलनिविष्टया तस्य भगवत्या पद्महस्तया निसर्गमधुरैरपि निर्भर
-वात्सल्यसुधासारमधुरैरक्षरैः–‘वत्स चिरादागतोऽसि, वर्तसे कुशलेन, का इमाः प्रजाः कान्दिशीका इव लक्ष्यन्ते’ इत्यनुयुज्यमानो विधिरन्तरानन्दतुन्दिलः प्रणम्य शतशः परां देवतामिदमाबभाषे-
‘जय जय जगदम्ब जाम्बूनदाम्भोजकोशप्रभे
जय जय कमलाक्षवक्षःस्थलीहर्म्यनर्मप्रिये ।
जय जय करुणाकटाक्षप्रतीक्षत्रिलोकेश्वरे
जय जय जनिमार्गलग्नाणुवर्गापवर्गप्रदे ॥३९॥
विस्तारः
जनिमार्गेति ॥ अणुवर्गः जीववर्ग. ॥
वत्सेति प्रवहत्सुधारसपरिष्वक्तं यदामन्त्रितं
दृष्टं यच्च दयातरङ्गशिशिरोत्सङ्गैरपाङ्गैस्त्वया ।
तस्मादस्म्यधुना विशिष्य कुशली धन्याश्च देवा इमे
विज्ञाप्यं तु कथं हरौ किमथवा तस्यादिरादिश्यताम् ॥’
विस्तारः
तस्य आदिः प्रकार: आदिश्यताम् । ‘आदिः प्रकारे प्रथमे निदाने परपूरुषे’ इति भास्करः॥
इति यावत्प्रार्थयते कमलां कमलासनस्तावद्गोविन्द एव स्वयमित्थमनुजगृहे-
‘स्रष्टासि तात जगतोऽस्य चराचरस्य
संधारयस्सथ मुखैश्चतुरोऽपि वेदान् ।
तेनासि लोकदयितो दयितो ममापि
तद्ब्रूहि कं सफलयामि मनोरथं ते ॥ ४१ ॥
कत्यसृजं विश्वसृजः कति वा स्त्रक्ष्यामि कति सृजाम्यधुना । भवति परभक्तिशालिनि भवतीव न मे कचित्करुणा ॥ ४२ ॥’
इति मधुरां गिरमिन्दिरापतेः पिबन्नष्टभिः कर्णैः पितामह- स्तादात्विकहर्षसंभ्रमावलुप्तवक्तव्यः कथंचिदिदमाचचक्षे-
‘स्वमोन्मादावपि हि सृजतो नाथ वस्तूनि मिथ्या
संधार्यन्ते ननु च मनुजैरप्यमी वेदवादाः ।
प्रापं श्रेयः किमहमियता प्रापमेवानया तु
स्वामिन्दृष्टया तव शिशिरया मङ्गलं मङ्गलानाम् ॥४३॥
विस्तारः
अतितुच्छौ स्वप्नश्च उन्मादश्च मिथ्यावस्तूनि कर्म सृजतः । ‘अथ रथान्रथयोगान्पथः सृजते’ इति श्रुतेरनुभवाच्च । एवं सति मिथ्याभूतस्यास्य प्रपञ्चस्य सृष्टृत्वेन न मे कोऽप्युत्कर्ष । नापि वेदधारणेन, मनुजाविशेषात् ॥
मनोरथानामपि यो मनोरथः सुदुर्लभानामपि यत्सुदुर्लभम् । तदेव लब्धं तव पादपङ्कजं कदर्थनान्येव कदर्थनान्यतः ॥
विस्तारः
अतः भवत्पादम्सेवात (व्यतिरिक्तानि) कदर्थनानि कुत्सितप्रार्थनानि कदर्थनान्येव कुत्सितप्रार्थनान्येव । तस्मान्न किमप्यपरं प्रार्थयितुमुत्सह इति भाव. ॥
अपि च-
के देवाः के दनुजाः किं जगदेवेदमन्ततः कोऽहम् ।
परिहृत्य विमोहमिमं पालय दासोऽस्मि दासोऽस्मि ॥४५॥
इति कटाक्षपातेन कमलायाः परिग्रहेण च भगवतः प्रतिबुध्य तत्त्वमुदासीने पद्मसंभवे, प्रपञ्चपाञ्चालिकानटनसूत्रधारः परमपुरुषः सर्वपथीनया महामायया तमाच्छादयन् , कर्तव्यमस्योपदिदेश—‘सत्यमेव भवानाह कदर्थनान्येव कदर्थनानीति । अलमेव ह्यग्रतः स्थितिरस्माकम् , अवहितो गृहाणेदं, आदिश च सर्वानमरान्-
संधानं कुरुतासुरैः प्रथमतो मन्थानमुर्वीधरं
कृत्वा मन्दरमर्णवे क्षिपत ते यूयं समेतास्ततः ।
बध्द्वा वासुकिनाथ मन्थत ततः संत्पस्यते या सुधा
तामास्वाद्य गमिष्यथाप्यमरतां यूयं न वः शत्रवः ॥ ४६॥
परं तु भवितात्र दुष्परिहरः प्रत्यूहः, परिहरिष्यते च प्रसादादेव देवदेवस्य । तदद्यप्रभृति विशिष्यावलम्बध्वमम्बिकारमणं शरणमिति ॥
जानम्यहमुमाकान्तं जानासि त्वं च मद्गिरा ।
जानन्ति किमिमे मूढास्तत्सम्यगनुशिष्यताम् ॥ ४७ ॥
इति परमुपदेशं देशिको देवतानां
निरवधिकरुणान्धिनिर्जरेभ्यो वितीर्य ।
वयमपि हृदि गाढं चिन्तयन्निन्दुचूडं
मिषति कमलपीठे पाद्मनाभस्तिरोऽभूत् ॥ ४८ ॥
अथ यथोपदेशमिन्दिरापतेरादिश्यादेष्टव्यमन्तर्हिते पितामहे, पूर्णमनोरथा दिवौकसः पुरहराराधनकौतूहलेन पुनरासेदुरुपत्यकां
परमानन्दमन्थरा मन्दराद्रेः ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक-शतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षित- सोदर्यश्रीमदाच्चान्दीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये द्वितीय आश्वासः ॥