प्रथमाश्वासः।

वन्दे वाञ्छितलाभाय कर्म किं तन्न कथ्यते ।
किं दंपतिमिति ब्रूयामुताहो दंपती इति ॥ १ ॥

विस्तारः

अस्मिन् श्लोके कविनीलकण्ठः स्वेष्टदेवतामर्धनारीश्वरं स्तौति । वन्द इत्युक्ते कर्माकाङ्क्षापूरकं पदं किम् ? तद्वक्तुं न शक्यते । दम्पतिमित्युक्ते अप शब्द । दंपती इत्युक्ते व्यक्त्यैक्यव्याघातः ॥

दृष्ट्वा कौस्तुभमप्सरोगणमपि प्रक्रान्तवादा मिथो
गीर्वाणाः कति वा न सन्ति भुवने भारा दिवः केवलम् ।
निष्क्रान्ते गरळे द्रुते सुरगणे निश्चेष्टिते विष्टपे
मा भेष्टेति गिराविरास धुरि यो देवस्तमेव स्तुमः ॥ २॥

विस्तारः

एतत्सच्छायं विष्णुपरं पद्यमिदम्—-
नक्राक्रान्ते करीन्द्रे मुकुलितनयने मूलमूलेऽतिखिन्ने
नाह नाहं न चाहं न च भवति पुनस्तादृशो मादृशेषु ।
इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते
मूलं यः प्रादुरासीत्स दिशतु भगवान्मङ्गलं संततं न ॥

अपि च-
लीढालीढपुराणसूक्तिशकलावष्टम्भसंभावना
पर्यस्तश्रुतिसेतुभिः कतिपयैर्नीते कलौ सान्द्रताम् ।
श्रीकण्ठोऽवततार यस्य वपुषा कल्क्यात्मनेवाच्युतः
श्रीमानप्पयदीक्षितः स जयति श्रीकण्ठविद्यागुरुः ॥ ३ ॥

विस्तारः

श्रुतेरुपबृंहणतयेव पुराणाना प्रामाण्यम् । सत्येवं पुराणानुरोधेन श्रुतीरन्यथा नयन्ति केचित् । तादृशो विमतस्थान्खण्डयितुमप्पय्यदीक्षितरूपेण धूर्जटिरवनाववततार । श्रीकण्ठाचार्यप्रणीतस्य ब्रह्मसूत्रभाष्यस्य शिवार्कमणिदीपिकाख्या अभ्यर्हिता व्याख्या श्रीमदप्पय्यदीक्षितेन अकारि । तस्य भ्रातृपौत्र एवास्य ग्रन्थस्य कर्ता नीलकण्ठ॥

यः संरम्भः कृतिविरचने दुष्कवीनामभेद्यो
यच्चैकाग्र्यं तदुचितपदान्वेषणे वित्तवृत्तेः ।
लभ्यं तच्चेदपि कवयतामन्ततस्त्रीण्यहानि
स्यादेवं किं सरसकविताराज्यदुर्भिक्षयोगः ॥ ४ ॥

विस्तारः

ग्रन्थकृदयं मधुरानगरी शासितवततिरुमलनायकाख्यस्य भूपतेरमात्य आसीत् । तेन च तस्य बहुकार्यव्यासङ्ग. सुगम एव । तथा च ग्रन्थनिर्माणे तस्यावकाशो मृग्य आसीन्महाकवित्वसंपन्नस्यापि। तथैव सत्कवीनामन्येषामपि । बह्वकाशवता तु कवित्वं नास्ति । कवयितुं परं ते प्रयस्यन्ति । काव्यानि च कर्णारुंतुदानि निर्मिमते । अत एव सत्कविकृतयो विरला जाताः॥

अथवा किमिति स्मरामि दुष्कवीनधुना । सकलभुवनैकमङ्गळशङ्करगुणवर्णनप्रवृत्तेन ।
न स्मरणीयाः कुधियो लोकायतिका इव व्रतस्थेन ॥ ५ ॥

कति कवयः कति कृतयः
कति लुप्ताः कति चरन्ति कति शिथिलाः ।
तदपि प्रवर्तयति मां
शंकरपारम्यसंकथालोभः ॥ ६॥

देवानामपि दैवतं गुरुमपि प्राचां गुरूणामिह
श्रीमन्तं मदनान्तकं कथमपि स्तोतुं कृतो निश्चयः ।
तेन त्वां त्वरयामि भारति बलात्कृष्टापि दुष्टे पथि
प्रासेनोपहतापि जातु कुपिता मा स्म प्रसादं त्यजः ॥७॥

विस्तारः

हे भारतीति संबोधनम् । प्रासः शब्दालंकारः कुन्तश्च । प्रसादः काव्यगुणविशेषः अकोपनत्वं च ॥

नन्तव्याः कवयः कतीह बहुमन्तव्या रसज्ञाः कतीत्येतावत्त्वलसः करोमि कवयो हृष्यन्तु रुष्यन्तु वा। आवात्स्यायनतन्त्रमाश्रुतिशिरः सिद्धान्तमुच्चावचा
विद्या यत्प्रभवा जयन्ति भुवि तां वन्दे गिरां देवताम् ॥८॥

विस्तारः

ग्रन्थारम्थे स्मरणीया अद्यपि बहवः कवयः सहृदयाश्च, तथापि सर्वेषां मूलभूताया वाग्देव्या ध्यानेन तद्गतार्थ स्यादिति मत्वा तामेवास्मिन् पद्ये नमस्यति । वात्स्यायनतन्त्रं कामशास्त्रम् । श्रुतिशिरांसि उपनिषदः तेषां सिद्धान्तः वेदान्तशास्त्रम् ॥

चौर्येण प्रणयेन चापहरतः पल्लीषु गव्यान्यपि
स्त्यायन्ते चरितानि चेत्कविकुलोद्गीतानि गाथाशतैः ।
त्रैलोक्योद्भटकालकूटकवलीकारप्रकारं पुनः
स्तोतुं के प्रथमेऽपि नाम कवयो दूरेऽधिकारस्तु नः ॥९॥

अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु ।
कलिवर्षेषु गतेषु ग्रथितः किल नीलकण्ठविजयोऽयम् ॥ १० ॥

अस्ति किल समस्तसुरासुरस्तोमवन्दितचरणारविन्दस्य भगवतो महेन्द्रस्य स्थानं, आस्थानममृतान्धसां, आयतनमाश्चर्याणां, आकरो रत्नानां, अवधिर्वैषयिकानन्दस्य, किमपरमगोचरगिराममरावती नाम नगरी । तत्र च निरालम्बे नभसि वर्तमान तया सर्वपथीनद्वारतया च पुनरनपेक्षितमूलशिलानिवेशनायासं, अनाकाङ्क्षितप्रतीहाररचनाप्रयासं, असंपादितशृङ्गसंबाधं, असंभावितपरिखामण्डलं, आचार इति केवलमभिनिर्वर्तितो नवः प्राकारः । प्रासादः पुनरस्ति वैजयन्त इत्यभूमिरारोहणोपयोगवि धुरश्च । सर्वतोऽप्रतिहतचाराणां पौराणाममृतास्वादसुहिताना मभ्यवहार्येण कि प्रयोजनम् । अपि च पुनरभिलषित मणिकनक भूषणाम्बरसंदायिषु मन्दारादिशाखिषु न किंचिदस्ति क्रेतव्य विक्रेतव्यं चेति संज्ञामात्रशरण्याः पण्यवीथिकाः । किंच निरन्तर शिवध्याननिर्धूतकल्मषाः, निरतिशयतपोविशेषशोषिताः, वीत रागभयक्रोधमत्सराः, विषयपराङ्मुखाः, भुवि परमर्षय इति प्रथामागताः पण्डिता एव प्रणयिनो वारमृगीदृशाम् । अश्वमेध. याजिन इति, अग्निचित इति, मासोपवासिन इति, मांसवर्जिन इति, राजसूययाजिन इति, रणदुर्मदा इति, अन्नदा वयमभ यदा इति शंसद्भिरपदानानि, संपतद्भिरितस्ततोऽप्यज्ञातमुखै

आतुचिदवनिवासिभिर्जनैर्बलादपह्रियमाणेषु विमानेषु, आक्रम्य माणेषु मन्दिरेषु, आकृष्यमाणे च बलादप्सरोगणे, न कश्चिद भिमन्यते ममेदमिति मन्दिराणि विमानानि मणिभूषणानि कळत्राणि वा नगरवासी जनः । किचेदमपरमदेवतया न मुधाशनाः, अलाभादेव न तृणाशनाः, पवनाशना एव परिशेषात् कामदुघा गावः, पराक्रमिणो मतङ्गजाः, वातरंहसश्च वाजिन इति मकलपुरविलक्षणं लक्षणम् ।

विस्तारः

अस्य ग्रन्थस्य निर्माणकाल कल्यब्दः ४७३८ = निस्त्वब्द १६३६.

अपि च-
मूल्यं तत्किल वेश्मनां द्विजमुखे भक्त्यात्र यद्दीयते
वेश्यानां च पणः स एव सवने या दक्षिणा ऋत्विजाम् । पद्या सैव विशङ्कटा भवति या पद्यात्र तीर्थाम्भसां
द्वारं तत्र च तद्यदत्र करणद्वारं पिधेयं नृणाम् ॥ ११ ॥

अस्ति स्वादयितुं सुधास्ति वसितुं वासो नभश्चारिणां धर्तुं सन्ति च भूषणानि शतशो न त्वस्ति धीर्जीवितुम् ।
येनान्यानुपजीव्यसर्वविभवे कमैकलभ्ये पदेऽ-
प्यायस्यन्ति वृथैव सेवक इति स्वामीति दुर्मेधसः ॥ १२ ॥
इदं च परमाद्भुतमुत्प्रेक्षितं तस्यां, यत्किल विविधतपः प्रबन्धनिस्तन्द्रतया विस्मृतलोकतन्त्रेषु, चिरविधृतब्रह्मचर्यजीर्णतया कालमृत्युषु कन्दर्पस्य ब्रह्मर्षिहतकेषु भूतलादागत्य प्रसक्तेषु क्रीडितुमप्सरोभिः, पर्णशालां प्रविशाम इति प्रविशत्सु केळीगृहं, विस्रंसय जटामिति वेणीमालम्बमानेषु, अपनयवल्कलमित्यपनेतुकामेषु कुचदुकूलानि, न लोहितं कुर्यादिनि निषेधत्सु
नखक्षतानि, आः कष्टमसंमतोऽयं पन्थाः शिष्टानामिति पिहित कर्णेषु चुम्बनभेदप्रस्तावनायां, निवीतधारणव्यग्रेषु नीवीमोच नावसरे, मन्त्रजपमुखरेषु मणितावमरे. आः स्मृतमद्य व्यती पात इत्यन्तरा गन्तुकामेषु, अनुयुञ्जानेषु पुनः पुनरार्तवदिनानि शपथपूर्वकं, अतिक्रामति निषेकलग्नमित्यसहमानेषु बाह्यसुरतव्यापारविलम्बं, अवधीरयत्सु पुरुषायिनं, असंमन्यमानेषु बन्धभेदान् , विगायत्सु वीटिकोपसेवनमप्यनुचितोऽयं काल इति, आनन्दमूर्छावसर एव निभृतमनुसंदधानेषु मन्त्रलिङ्गानि, परवश रतान्तनिद्रावसर एव यावत्संनिपातं च सहशय्येति परिहरत्सु पर्यङ्कशायिकां, द्वितीयसुरतारम्भ एव देहि मे कमण्डलुमिति त्वरमाणेषु मन्दाकिनीगमनाय, विहसन्ति विषीदन्ति विलज्जन्ते विस्मयन्ते च रम्भादिमेनकान्ता देववारकान्ताः ॥
प्रसजति महोत्सवे वा प्रचलति रथ्यासु तत्र शक्रे वा निम्नानि पूरयन्ते पवनमये ताळवृन्तपवनेन ॥१३ ॥ किं बहुना—–
दुःखानां क्षतिरित्यबोधहतिरित्यानन्दविष्फूर्तिरि
त्यन्तर्वाणिविकल्पजालजटिलान्मोक्षादपि ज्यायमी ।
यैषाऽविप्रतिपन्नसौख्यलहरीसंपातसंपादिनी
तत्सौन्दर्यविवेचने कवयतां मौनं क्षमं हीमताम् ॥१४॥

विस्तारः

मोक्षविषये बहुधा विप्रतिपतिः शास्त्रेषु प्रथिता । स्वर्ग तु ‘गन्न दुःखेन संभिन्नं न च प्रस्तमनन्तरम् । अभिलाषोपनीनं च तत्सुखं स्व पदाम्प दम्॥’ इति सर्वेऽपि तन्त्रकारा ऐककण्ठ्यन प्रत्रवन्ति । अन्तर्वाणिः शास्त्रवित् ॥

आनीता वसुधातलात्सुकृतिनस्तस्यां हरेः शासना-
दुन्मीलन्मणिकिङ्किणीकलकलस्वाने विमाने स्थिताः । दृष्ट्वा व्योम निरास्पदं सचकितव्याघूर्णमानेक्षणा
न स्थातुं न च वा ततोऽवतरितुं प्रागल्भ्यमाबिभ्रते ॥ १५ ॥

विस्तारः

हरेः इन्द्रस्य शासनात्

मन्दानिलव्यतिकरच्युतपल्लवेषु
मन्दारमूललवलीगृहमण्डपेषु । पुष्पाणि वेणिवलयेषु गलन्ति तस्यां साह्यं वहन्ति सुरवामकसज्जिकानाम् ॥ १६ ॥

विस्तारः

प्रियागमनवेलाया मण्डयन्ती मुहुर्मुहुः । केळीगृहं तथात्मानं सा स्याद्वासकसज्जिका ॥

गायन्ति चाटु कथयन्ति पदा स्पृशन्ति
पश्यन्ति गाढमपि तत्र परिष्वजन्ते । कल्पद्रुमानपि समेत्य सुपर्वकान्ता
मुग्धा द्रुमैस्तदितरैश्चिरविप्रलब्धाः ॥ १७ ॥
अस्ति च तामधिवसन् , वसन्त इव ऋतूनां, वासुकिरिव फणाभृतां, चन्दन इव वृक्षाणां, चन्द्रमा इव ऋक्षाणां, राजा सुपर्वणां, राजा त्रिविष्टपस्य, राजा त्रयाणां जगतां, राजा विध्यण्ड मण्डलस्य, कर्ता शताश्वमेधानां, संहर्ता वृत्रासुरस्य, रम्भादि विविधरम्भोरुसंसदहंप्रथमिकासंभुज्यमाननवयौवनश्रीः, अपर्युषितयौवनोन्मेषसंभावनीयमदनमदारम्भसीमायाः कौमारहरः सदा शचीदेव्याः, काव्यागमभरतगान्धर्वरहस्यसर्वकषमनीषावि- शेषनिरवद्यविद्याधरीलोकनखमुखमुखरितविपञ्चिकानिनादप्रपञ्चि तोदारनिजभुजापदानसमाकर्णनसमुद्गीर्णपुलकनिर्वर्णनजनितामर्ष - जल्पाकनिखिलदिक्पालवदनावलोकनसफलीकृतसहस्रलोचनः, चतुर्मुखमुखवलयविहारिभारतीपरिगृहीतवेताळिकाधिकारः, पक्ष पातासहिष्णुतयेव परिहृतशैलेन्द्रपक्षमण्डलः, चन्द्रचूडचरणारविन्दपरिचरणानन्दसाम्राज्यधुरंधरः पुरन्दरो नाम ॥

विस्तारः

पक्षपात एकस्मिन्नधिका श्रीनिरन्यस्मिन्यूना च। राज्ञा हि निष्पक्षपातेन भवितव्यमिति धर्मः । अत एवेन्द्रः पुरा शैलेन्द्राणा पक्षं चिच्छेद । उत्सन्न पक्षत्वे च पुन: पक्षान्न ते पातयिष्यन्ति । एव पक्षपातासहनमाविष्कृतमिन्द्रेण ॥

श्लथे नीवीबन्धे सति रहसि यत्पाणिवलना-
न्नवोढाः पाणिभ्यामपि पिहितसप्ताष्टनयनाः । सहस्रस्याप्यक्ष्णां युगपदपिधानाक्षमतया
पुनस्ताभ्यामेव स्वमपिदधते लोचनयुगम् ॥ १८ ॥

अपि च–
लभ्यन्ते श्रुतिपाठशुष्कवदना विप्राः पदे वेधसो
वैकुण्ठे तुलसीवनानि सुलभान्यार्द्राणि शुष्काणि च ।
प्रेता भूतगणाश्च सन्ति शतशः स्थाने भवानीपतेः
रत्नान्यप्सरसः सुधेति तु पदे यस्यैव लब्धुं क्षमम् ॥१९॥ विधातुं कर्माणि व्यवसितवती यत्पदफला-
न्यसूयान्धा मध्ये श्रुतिरपि किमासीद्भगवती ।
अनुष्ठेयं कर्म स्वयमनभिसंधाय फलमि-
त्ययं वन्ध्यः पन्था यदनुपदमेव प्रकटितः ॥ २० ॥
कि बहुना—-
लब्धुं तत्पदमूर्जितं शतमखी तस्यैव नालं भवे-
द्द्रष्टुं तद्दयिताजनं दशशती तस्यैव नालं दृशाम् । वक्तुं तत्पुरभोगभाग्यमखिलं तस्यैव नालं गुरु-
र्मच्चेतोगतमद्भुतं कथयितुं नालं ममैवोक्तयः ॥ २१ ॥

विस्तारः

तस्यैव इन्द्रस्स्यैव गुरुः बृहस्पति ।

स कदाचिदस्वप्नोऽप्याचार इति बोधितः प्रातरमरवैताळिकैः, आलोक्य निर्मलं पौलोभीकपोलदर्पणं, अभ्यर्च्य कामधेनुं, आसाद्य विविधविद्याधरीविलासपिशुनकुसुमशयनीवलोभनीय लतामन्दिरनिरन्तरोपान्तभुवं अधःपरिवर्तमानविकर्तनबिम्ब- निरर्गळनिर्गळदूर्ध्वमुखमयूखसंसर्गादुष्णीकृतामन्तरन्तः उपर्युपरि शीतलां भूतलासंस्पर्शेऽपि पुराणपुरुषचरणारविन्दसंबन्धादेव भुवनपावनीममरधुनीं, निवर्तितनियमाभिषेचनः सिद्धचारण- गन्धर्वसेविते सैकते तस्याः दहराकाशपरिपूजितदिव्यलिङ्गाकृति प्रतिष्ठाप्य-

विस्तारः

प्रतिष्ठाप्येति । अत्र परमेश्वरस्य आवाहन ध्यान- आभषेक-गन्ध-अर्चन-धूप-दीप-नैवेद्य-प्रदक्षिणनमस्कार पुष्पाञ्जलि-स्तोत्ररूपा उपचाराः कण्ठत उक्ता। अथ उद्वासन, हृदय तस्य तस्य पुनर्ध्यानं च समनंतर प्रतिपादिते ॥

चिन्तामणिमयं किमपि पारमेश्वरं लिङ्गं, अनुसंधाय तत्र नखलिखितशरच्चन्द्रचन्द्रिकासारसुन्दरं भगवन्तं मदनान्तकं, अभिषिच्य दिव्यापगासलिलैः, अनुलिप्य रोहिणीरमणहरिणमद- पङ्कानुषङ्गिणा हरिचन्दनेन, समभ्यर्च्य गाङ्गेयविकचगाङ्गेयपङ्कजैः, आराध्य सुरभिघृतधारानुबन्धिना दिव्यधूपेन निसर्गचलितरश्मि
-मालाकलापेन रत्नदीपेन च साङ्गाय सायुधाय सावरणाय साभरणाय च निवेद्य सद्यःसमाहृतनिष्पीडितेन्दुमण्डलनिष्यन्द. मानापर्युषितान्यमृतानि, प्रदक्षिणीकृत्य प्रणिपत्य प्रसाद्य पञ्चभिः प्रसूनाञ्जलिभिः, स्तुत्वा श्रुतिशिरोभिः, कृत्वा विसर्जन, अथ स्मृत्वा चिरन्तनमात्मनि, विलासवीथीविहारकौतूहलेन निर्गत्य बहिः, इतस्ततो निरन्तरालमिलदाशीर्वचोमुखरगीवार्णमुनिसंघ संकुलं, अतिकोमलाङ्गुलिदलाघातशोधितमृदङ्गनादभङ्गिभिः अधर निवेशितापनीतवेणुभिः असकृदास्फालिताकृष्टवीणागुणाभिः आकुञ्चितऋजूकृतभ्रूलतमाविष्कृतलुप्तसिराबन्धकन्धरमन्तरेव कल- मधुरमारब्धगीतिभिः द्विस्त्रिरास्फालितमव्यचरणमृदुरणितमञ्जीर मञ्जुलाभिरप्सरोभिरारप्स्यमानतौर्यत्रिकं. अत्युद्भटवेत्रिवेत्रलता घातविद्रावितवीथीभवदमरमण्डलं. अभितोऽपि दृष्टिगोचरसंनिधापितकरितुरगपर्यङ्किकादि नानाविधवाहनग्राममालोक्य सेनामुखं, आलोकमात्रविदितेङ्गितैराधोरणैरुपस्थापितमर्णवनिमग्नमै -नाकपक्षरक्षणाभ्यर्थनायागतं हिमवन्तमिवोन्नतमवदातं च कंचिदारुह्य मतङ्गजं, अङ्गजराज्यसौभाग्यदेवतयेव शरीरिण्या ताम्बूल करण्डधारिण्या मेनकया, मदनमदकदुष्णसौवर्गकामिनीकटाक्षसंसर्ग-

विस्तारः

स्वर्गे भवानां सौवर्गीणां कामिनीना कटाक्षसंसर्ग: सौवर्गकामिनीकटाक्षससर्गः।

निवारणायेव मणिचामरोपवीजनकुशलारम्भया रम्भया च सविलासमध्यासितचरमभागः, पुरोभागचलदलघुजङ्घालकरितुरग. संघजङ्घाजवद्रवदमरभटकोटिसमर्दशिथिलहारमर्दनजनितमुक्ता - परागसंबन्धादिव धवलीकृतेन ससंभ्रमवलदम्बरचरनितम्बिनी
लोकविकीर्यमाणमन्दारकुसुमबृन्दनिःसरन्मकरन्दधारानिरासायेव मुकुटमुपर्युपरि-

विस्तारः

मुकुटमुपर्युपार । उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयानेडि तान्तेषु ततोऽन्यत्रापि दृश्यते ॥ इति द्वितीया ॥

धार्यमाणेन सर्वतः प्रालम्बमुक्तासरकदम्बशालितया समन्ततो निहितकुपितविधुन्तुदविकटदन्तक्षतविवरक्षरदमृतधाग सहस्रमण्डितेन मण्डलेनेव शशाङ्कस्य महतातपत्रेण सफलयन्ननि मेषदृष्टिसृष्टिमम्भोजसंभवस्य, गन्धर्वकुलवाद्यमानबहुविधातोद्य नेनादकबळीकृताशावकाशतयेव संकुलचलितसेनासंघसंकटोन्मुक्त- सिंहनादधारापथे निर्जगाम तारापथे ॥
मञ्जीरैर्नटनार्भटीमुखरितैः स्वर्वारवामभ्रुवां
मन्दस्निग्धरवैश्च किन्नरकरव्यापारितैर्मर्दलैः । श्लाघाश्लोकशतैश्च चारणगणप्रोद्गीयमानैस्तदा
नादब्रह्ममयीव तत्र रुरुचे नासीरसीमा हरेः ॥ २२ ॥

विस्तारः

रुरुचे रुची दीप्ताविति धातुः । चकाश इत्यर्थ ॥

अपि च
अग्रे पश्चादुभयत इति त्यक्तलोकव्यवस्थे
दिष्ट्या तस्मिन्नपि परिणते सर्वतः संमुखीने । सभ्रूभङ्गं नयनवलनं सस्मितं द्रष्टुकामा
भूयोऽप्यग्रे सुरपरिबृढास्तस्य पुञ्जीबभूवुः ॥ २३ ॥

गच्छन्नेव स नभसि, भसितावकुण्ठितसर्वाङ्गसङ्गलब्धपर भागभासुराभिरभिव्याप्य हृदयमधिकतया बहिर्निर्गमिष्यतः कोपानलस्य ज्वालाभिरिव पाटलाभिर्जटाभिरभिभवन्तमिव
तटित्वन्तमभिनवं शारदाम्भोदं, अपि च त्रिभुवनमुनिलोकवैलक्षण्यबोधिन्या शापमूलतपोलामसंभवया कीर्त्येव त्रिपुण्ड्ररेखय परिकर्मितललाटमण्डलं, अतिप्रचण्डनिजतपोऽनलज्वालाकलाप परिप्लोषमलिनितैः प्रतिशापाक्षरैरिव पारिकाङ्किणां रुद्राक्षमणिभि रभिवेष्टितं, सोदरशशाङ्कसंदेशहारिकाभिस्तारकभिरिव कर्णपुटाभ्यर्णलग्नाभिः स्फटिकाक्षगुळिकाभिरभिगोभितं, अगृहीतोत्तरासङ्गं अङ्गीकृतकौपीनमात्रपरिधानं, आस्फोटयन्तमनुपदं, अवरुन्धन्त मध्वनि मिलन्ति सिद्धवधूकुलानि, त्रासयन्तमिव कातरान् तर्जयन्तमिव शुनासीरभटानपि, गर्जन्तमिव, गायन्तमिव, नृत्यन्तमिव, स्खलन्तमिव, हसन्तमिव, हृदयारविन्दकुहरविहरदुन्मत्त शेखरभावनानैरन्तर्यादुन्मत्तमिव, स्वयमप्यवाप्रसमस्तकामतय किंचिदप्यनादृतलोकतन्त्रानुविधानं, त्रिलोचनावतारमप्यत्रिलोचनावतारसोदरं, अनसूयागर्भसंभवमप्यत्यन्तकोपनं, अतिकठिनतपोविशेषषरितोषितगौरीप्रसादसमासादितामपि कयापि विद्याधरकन्यया प्रार्थनामात्रादेव शापभीतया प्रणिपत्य समर्पितां कामपि कनकारविन्दमयीमम्लानमालिकामानयन्तं, आपतन्तमग्रत एव निरर्गळमभिमन्त्र्य मुक्तमिव पाशुपतं शरमनतिलङ्घनीयतेजस दुर्वाससं नाम तापसमद्राक्षीत् । जानन्नपि तमनतिक्रमणीयतेजसा
त्रिभुवनेति । इतरेषा मुनीनां कोपेन तपःक्षत्र , दुर्वासमस्तु कोपे तपोवृद्धिरिनि प्रसिद्धिः। पारिकांक्षी वाचयमो मुनिरियमर । उत्तराम परिधानम् । उन्मत्तपुष्प शेखरे यम्य उन्मत्तोबरः शिव । त्रिलोचना तारमपि परमशिवस्यावतारभूतमपि । अत्रेः लोचनात् अवतागे यस्य चन्द्र तस्य मोदरम् । अनसूया अत्रिपत्नी दुवासमो माता ।
दुर्वाससं, जानन्नपि जगदेव निखिलमपलपितुमन्यथयितुं च नैपुण्यं ब्राह्मणस्य, जानन्नपि मुनिकुलन्यक्कारपरिणतां गतिं नहुषस्य, शिष्योऽपि बृहस्पतेः, शीलितमापि धर्मशास्त्रेषु, परिचर्यारतोऽपि निसर्गत एव ब्राह्मणानां, आ चतुराननादा च कीटपतङ्गेभ्यस्तुल्यवदेव प्रभवन्त्या भगवत्या भवितव्यताया विलासेन त्रिभुवनाधि पत्यमदान्धीकृतलोचनो धीमानपि सहस्रलोचनो न तं प्रत्यवरु रोह, न तरामुपचचार गिरा, न तमां च प्रणनाम । अपि च न केवलं तमवजज्ञे, अपि तु पुनरसंभावितेनापि तेन वितीर्यमाणा मादाय सावज्ञमेकेन पाणिना मालिकां, पश्यत एव महर्षेः, अनुपनीय मकुटतटीमनाघ्राय चान्ततः स्कन्ध एव सिन्धुरस्य निवेशयामास । निवेशितमात्रा च सा निसर्गनिरवग्रहेण वेतण्डेन शुण्डयाकृष्य निष्पिपिषे ॥
पश्यन् पदाग्रमृदितां महता गजेन
माला प्रसादपरिपाकमयीं मृडान्याः।
हस्तेन हस्तमभिहत्य स नित्यकोप:
कोपारुणं मुनिरधारयदक्षिकोणम् ॥ २४ ॥

वीरभद्र इव क्रुद्धे वीरमाहेश्वरे मुनौ ।
इतिकर्तव्यतामूढमिन्द्रमैक्षन्त देवताः ॥ २५ ॥
तदनु च
यावत्सान्त्वयितुं तदन्तिकभुवं धावन्ति मन्दीभव-
त्काकुव्याकुलगद्गदस्तुतिवचोगुम्फा निलिम्पाः स्वयम् ।
तावद्देवपतिं शशाप कुटिलक्रूभ्रमत्तारक-
भ्रूभङ्गव्यतिषङ्गदत्तभुवनातङ्को मुनिः शाङ्करः ॥२६॥

येयं त्रैलोक्यराज्यश्रीस्त्वदालम्बन चेष्टते । सैवाद्य त्वदमित्राणां वशमापद्यतामिति ॥ २७ ॥

आलम्ब्य दैन्यमसकृत्पदयोर्निपत्य
संप्रार्थिता मघवता स्तुवता ततोऽयम् ।
शापान्तमाह कथयन्निव लोकरीत्या
गोविन्द एव कुशलानि करिष्यतीति ॥ २८ ॥

तदनु यथागतं गते दुर्वाससि, तावता वैभवेन विनिर्गतोऽप्यतर्कितोपनततदीयशापसमुत्सारितोत्साहः, समग्रेण मण्डलेन निर्जिहानो राकाशशाङ्क इव राहुमुखे पतितः, सुरपतिः अभितः प्रसार्यमाणरोषविपादमन्दाक्षशबळकटाक्षसहस्रनियमित व्यापारममुखरमुरजमनाहतपटह अक्कणितवीणादिवादित्रं अव सन्नकिन्नरीगानमप्रवृत्तरम्भादिनृत्तसंरम्भं अवसितवैतालिकलोक कोलाहलं अप्रसक्तवेत्रिहाहारवं अनाशङ्कितभटसिंहनादं अस्तंगतान्योन्यसंकथं असंभावितपीठमर्दकविदूषकालापं,

विस्तारः

किचिदून पीठमर्दो हास्यप्रायो विदूषकः । इति प्रतापरुद्रीये ॥

अश्वहेषितेऽपि सातङ्कसादिकुल, अङ्घ्रिविन्यासशब्देऽपि सापराधसौविदल्लजनं,

विस्तारः

सौविदल्लाः कञ्चुकिन इत्यमर ॥

अपनीतमातङ्गघण्टावलयं, आबद्धमिव मूकमिव बधिरमिव मुग्धमिव प्रसुप्तमिव विकलमिव शून्यमिव विन्यस्तमिव
चित्रफलके, निखिलमपि विबुधबलमाकर्षन्नेव केवलं, आगत्य पुनर्नगरं, आवेद्य वृनमिमं गुरवे वृत्तान्तं, अन्तःपुरं प्रविश्य, दुरन्तचिन्तानुबन्धनियन्त्रितः शयनागार एव जजागार तां रजनीम् ।

विस्तारः

तां रजनी जजागार । ‘कालाधनोरत्यन्तसंयोगे’ इति द्वितीया ॥

अथ तदानीमेव गूढनिहितचारनिवेदिततापसशापवृत्तान्तममाकर्णनलब्धान्तरेण मन्त्रिणा भार्गवेण समादिष्टाः, हृष्टाश्च चिरनिरीक्षितरन्ध्रलाभेन, दर्शयिष्यन्तो दृढपरिचितानि समरकौशलानि, सफलयिष्यन्तः साधिनानि महास्त्राणि, समुल्लिखन्तो वैरनिर्यातनप्रकारान् , अपनेष्यन्तश्चिरनिरूढमपयशोमालिन्यं अभिनन्दन्तो दुर्वाससं, आवेदयन्तः परस्परमभ्यग्रदृष्टानि शुभनिमित्तानि, विवृण्वन्तो वीरवादान् विभजन्तः प्रतिसैन्यानि सैनिकानां, अवरुन्धन्तश्चारजनसंचारं, आसूचयन्तो गन्तव्यपदमाप्तवर्गेषु केवलं, आदिशन्तश्च घण्टापनयनमनेकपानां, अङ्गदासंघट्टनमश्वोरसानां,

विस्तारः

अश्वानामुर इव अश्वोरसम् । अग्राख्यायामरस इति टच् । उराशब्दो मुख्यवाची ॥

अनुच्छ्रयणं ध्वजानां, अवादनं वादित्राणां, अश्वेळनं च योधानां, अभिवन्ध पुरोधसं, अनुमान्य योधमुख्यान् , आमन्त्र्य गुरुजनं, अनुज्ञाप्य मौहूर्तिकान् , भावयन्तः प्राचीनान् महासुरान् , पठन्तश्च तेषामेव वेदापहरणवसुधानिमज्जनादीनि प्रचण्डानि चरितमङ्गलानि, प्रस्थाय दानवाः कतिचिदतिचिरोपरुद्धकण्डूलदोर्मण्डलतया कालविपाकपचेलिमया शक्तिमत्तया च, पर्यवसाययितुमिव भूधरानङ्गुलिस्फोटेन,
परिक्षेप्तुमिव मुखमारुतेन सप्त सागरान् उन्मूलयितुमिव समूलमेव पातालं, उत्क्षेप्तुमिव दूरमन्तरिक्षं. व्यत्यासयितुमिव विध्यण्डमण्डलं. निर्वापयितुमिव चन्द्रार्कदीपिकां, दग्धुमिव दहनमपि. भङ्क्तुमिव प्रभञ्जनमपि, बन्द्धुमिव पाशिनमपि, हन्तुमिव दुर्दान्तमन्तकमपि, संनह्यन्त्या किंचिदप्यज्ञातकार्यविशेषतया महामात्रकरचलनमात्रपरिज्ञातगन्तव्यदिशा, गगन एव नित्यनिवासेन कदाप्यनागतां मन्दाकिनीं संभावयितुमापततापत्येव वाहिनीनां, महत्या सेनया साकमागत्य शाखानगरममरावत्याः युगपदाहन्यमानपटहादिबहुविधवाद्यनिर्घोषपोषितकरिलोकबंहितोपबृं-हितभटकोटिसिंहनादकोलाहलेन बोधयामासुरनाशङ्कितपरिभवातङ्कसुखशयितानमृताशनान् ॥ क्रुध्यद्दानवयोधनिर्दयकरव्यामर्दभीमध्वन-
न्ननातोर्द्यनिनादकातरपरिक्रन्दद्दिगन्तद्विपम् । जातं प्रातरतर्कितागतमहातङ्कप्रसङ्गक्षण-
प्रक्षुभ्यत्पुनरुद्भटामरचमूनीरन्ध्रमैन्द्रं पुरम् ॥ २९ । अपि च– संरुन्धन्ति द्विषन्तो नगरमिति समायान्ति रुष्टाः पथीति
प्राकारान्तः प्रविष्टा इति चलति रणो दारुणः संप्रतीति । जीवग्राहं गृहीनः सुरपतिरिति च स्वैरमज्ञातमूलाः
सङ्घे सङ्घे प्रजानां नवनवमभवन् भिन्नभिन्नाः प्रवादाः॥३०॥

विस्तारः

जीवग्राहं गृहीतः । ‘ममूलाकृनजीवपु हन्कृञ्ग्रह ’ इति णमुल् ॥]
तत्क्षणं च युगविगमसमयसंभिद्यमानसप्तार्णवीनिनादशङ्कावहेन कोलाहलेन नागराणामवबुध्य विद्विषामभिषेणनं,[[‘यत्मेनयाभिगमनमरी तदभिषेणनम्’ इत्यमरः

अनुल्लङ्घनीयतापसशापानुसंधानकुण्ठीकृतोद्यमोऽपि कण्ठीरव इव करिलोकबृंहितेन परिज्वलितमन्युः, शतमन्युः उत्थाय शयनीयात्, उत्प्रेक्षितसमरसंरम्भया शचीदेव्या ससंभ्रमस्नेहसाध्वसोद्वेगमुपसृत्य स्त्रीस्वभावसुलभेन कातर्येण ‘मानद, मा कुरु साहसमेवंविधं, प्रेष्यन्तां प्रेषणीयाः’ इत्यभ्यर्थ्यमानोऽपि तामवधूय, परिजनवधूकरोदस्तविस्रंसमान -संव्यानपल्लवः, संरम्भशिथिलपदक्रमः समागम्य चकितसमुद्बुद्धदौवारिकजनोद्धाट्यमानकवाटि कामूलपुञ्जीभवदनुक्ष-णायातचारवृत्तान्तसमावेदनसंनह्यत्कुब्जवामनजननिरन्तराळिन्दम-न्तःपुरद्वारं, अनादृत्य किङ्करकरावलम्बनं, अनालोक्य निहितामप्यग्रतो मणिपादुकां, अनादिश्य सैनिकागमनं, अनाकाङ्क्ष्य वैनीतकानयनं,

विस्तारः

‘परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम’ इत्यमरः ।

अङ्किभ्यामेव परिक्रामन् , अनाकर्णयन्निवृत्तिविज्ञापनान्यध्वनि मिळतां सैनिकानां, आकु -श्चिताभ्यां भ्रूलताभ्यामाकम्पितेन च मुखेन केवलमाकर्णयन्वच नानि चाराणां, अतिसंभ्रमोपसृत्वरमनिवर्त्यसमरसंरम्भमग्रत एव चलन्तमात्मजं जयन्तमवरुध्य शपथशतैरन्तःपुररक्षणाय निवेशयन्नालयद्वारि, निःसरन्नपि बहिस्ततोऽप्यतित्वरितमालय बाह्यकक्ष्यासमानीतामाबध्य कक्ष्यां,

विस्तारः

कक्ष्या कच्छपुटापरपर्याया काञ्ची।

आद्यवीथीमुखोपनीतामादायदम्भोलिं, अर्धपथोपनीतमवमुच्य वारवाणं, अधिगोपुरसदेशमा नीयमानमारुह्य मातलिसनाथं रथं, अतिलङ्घ्य संकुलचलदमर भटसंघसंकटं दुर्गमं गोपुरद्वारं, अतिक्रम्य निजमपि नासीरं अवगाहमानो दानवचमूं, अलङ्घनीयवचनैरहंप्रथमिकाप्रतिज्ञात विजयैर्दिक्पतिभिर्निरुध्यमानः, चन्द्रोदयारम्भसमुज्जृम्भितसागर इव वेलानियन्त्रितः,

विस्तारः

वेला समुद्रतीर कालश्च।

क्षणादुद्रीविकाभिलक्ष्यमाणदुर्निग्रहसमराग्रहः शरीरेण केवलमवातिष्ठत सेनामुखे ॥

विस्तारः

अवातिष्ठत ‘समवप्रविभ्यः स्थ’ इत्यात्मनेपदम् ।

भीमं भीमेन तस्याथ सैन्यं सैन्येन विद्विषाम् ।
समगच्छत कल्पान्ते सागरेणेव सागरः ॥ ३१ ॥

विस्तारः

समगच्छत ‘समो गम्युच्छिभ्याम् ’ इत्यात्मनेपदम् ।

किंच–
यावज्ज्यावलयावलीढशिखरक्रूरप्रकारध्वन-
चापव्यापृतपाणिभिः स्थपुटितं नासीरमासीद्भटैः। तावद्देवपतिः क्व दानवपतिः क्वेति प्रवृत्तैः क्रुधा
सेनारक्षिभिरेव तत्र महते युद्धाय बद्धा मतिः ॥ ३२ ॥
तदनु शुनासीर एव स्वनासीरमुपेयुषि, चिरभुक्तभर्तृ पिण्डानृण्यसंपादनावसरलाभसंभावितोत्साहतया तृणीकृत्य जीवितानि विमतबलानीव, विधूय समरभयं विकोशानीव शस्त्रास्त्र मण्डलानि, विस्मृत्य भर्तृविमाननाः कादाचित्कीः पुत्रदारपरिभवानिव, मनागप्यनपेक्ष्य जयश्रियमनुपतन्तीमिव मित्रवरूथिनीं होष्यन्तः शरानलार्चिषि शरीराणि, चेष्यन्तः शरदिन्दुसुन्दराणि यशःकन्दळानि, महिषानिव मतङ्गजान् , सारमेयानिव सैन्धवान् , पांसुकणानिव पदातिगणान् , मशकानिव महारथिकान् , कुसुमविहारानिव कुन्ततोमरमुद्गरप्रहारान् , पटवासवृष्टिमिव बाणवृष्टिमपि मन्यमानाः, हन्यमाना अपि हर्षाट्टहासमुखराः, नखरायुधा इव हरिणार्भकेषु, नागान्तका इव राजिलेषु, दन्तावळा इव कदळीवनेषु, दावानला इव जीर्ण शल्मलीगुल्मेषु, निःशङ्कमवगाहमाना दानवेषु, प्रहरन्तः परश्वधैः, कृन्तन्तः कुन्तैः, निपातयन्तः कृपाणिकाभिः, अभिघ्नन्तः शतघ्नीभिः, खण्डयन्तो भिण्डिपालैः, अवकिरन्तः शरजालैः, अपविध्यन्तः शक्तिशूलैः, क्षिण्वन्तः क्षेपणिकाभिः, अवबघ्नन्तः पाशैः, अभिमृद्नन्तः परिघैः, आकर्षन्तो लाङ्गलैः, आविध्यन्तो मुसलैः, अपहरन्तो जयध्वजान्, अवभिन्दन्तो वारवाणान् , विच्छिन्दन्तो धनुर्गुणान् , विस्रंसयन्तः सारथीन् , प्रवर्तयन्तो रक्तवाहिनीः, परितोपयन्तः कटपूतनाः, लिम्पन्तः शरीराणि रक्तधाराभिः, आवेष्टयन्तः करेष्वान्त्रमालिकाः, परिक्रामन्तो मुण्डमण्डलेषु, परिस्खलन्तः कबन्धेषु, अपश्यन्तः पुत्रानपि रणे हतान् , अतृप्यन्तो यूथंयूथमपि निपात्य प्रतिभटान् , अप्रतिभटा विबुधटाः साफल्यमनैषुरक्षिसाहस्रममरपतेः । आदिश्य च ततः शतमन्युरन्तकमग्रतः सेनामुखे, पार्श्वयोरम्य पवनपावकौ, पृष्ठतः स्वस्य पुण्यजनेश्वरं, अन्तिक एव धनदमाहवशूरान्
कटपूतनाः पिशाचविशेषाः ।
२०
सभाजयितुं, अध्वनि शिबिरे च विद्विषामपांपतिं, आयुधक्षतान् भिषजयितुमाश्विनेयौ, निशीथयोधिनीनां वैरिवरूथिनीनां निशैव मा भूदिति सन्ततवासरभावाय सहस्रभानुमप्यभितः प्रकाशितुं, प्रतीक्षमाणोऽपि जयश्रियं, परिशङ्कमानश्वेतसि तापसशापविपाकमाकस्मिकं, किमप्यळीकनभोविभागसीमाधिपत्यलक्षणां लक्ष्मीमुद्दिश्य कलहायमानयोरमरासुरवाहिन्योरज्ञानविजृम्भितोपालम्भ संभवमट्टहासमिव परमेष्ठिनो घनस्तनितमनभ्र एव दारुणमशृणोत्। प्रहितोऽपि सेनामुखे पवनः पदे पदे यदावेद्यमावेदयितुमाववृते तदेव तस्य प्रतिकूलपवनलक्षणं दुर्निमित्तं परिणेमे अस्रंसत च करादस्य दम्भोळि:, तदप्यायुधविस्रंसनमशनिपतनं चेति द्वेधा बभूव दुश्शकुनम् ॥
अत्रान्तरे रणहतोभयसैन्ययोध-
निर्भिन्नमण्डलतया तपनः समन्तात् । उद्दामदानवधनुर्गळदुत्प्रबन्ध-
नाराचदारिततया च शनैस्तिरोऽभूत् ॥ ३३ ॥

अतिप्रबन्धादिषुजालवृष्टेरपक्रमाच्च द्युमणेरकाण्डे । आसीत्तमिस्रा जयदा रिपूणां पचेलिमा भाग्यपरम्परेव ॥ ३४ ॥
तत्क्षणं च पुनरनुक्षणोपचीयमानममरबलं, अपक्षीयमाणमात्मबलं च निरीक्षितुमप्यतितिक्षवः, तरक्षव इव बुभुक्षिताः, दन्दशूका इव दण्डघट्टिताः, बलिबाणशम्बरजम्भनमुचिविरोचनमुखा महासुराः सरभसमवमुच्य वारवाणं, अवबध्य गोधाङ्गुलिन्त्राणं, अपिनह्य निषङ्गमक्षयशरपूरितोत्सङ्गं, अधिरुह्य शताङ्गमायोजितखरतुरङ्गं, आबध्य निटिलेषु भ्रुकुटीविभङ्गं, आसेव्य वीरपाणं, आलम्ब्य संशप्तकव्रतं, अनुज्ञाप्य परस्परं, आपूरयन्तो दिङ्मुखानि गुणध्वनिभिः, अवभृंशयन्तो गगनतलादुडून्यट्टहासैः, विसंज्ञयन्तः खङ्गविच्छुरणेन वीक्षितुमागतानि सिद्धचारणमण्डलानि, विस्मापयन्तः समरसंरम्भेणैव कर्मन्दिनमपि कलहानन्दिनं, उत्सारयन्तः पादातमूरुवेगेन, परिचूर्णयन्तो रथान् परिघाभिघातैः, विद्रावयन्तो हयान् करताळिकाभिः, विघूर्णयन्तो मतङ्गजानङ्गुलीयन्त्रणेन, संवर्तमारुतावर्तितसागर गर्नदुर्दर्शवक्त्रविवरोल्लसल्लेलिहाननिजरसनावलोकनजनितसाध्वस ध्वस्तचेतनमासाद्य सेनामुखे निविष्टमन्तकं, अपहृत्य तदीयमेव कालदण्डममोघं अभिहत्य तेनैव तं, आदिमं जयमापेदिरे ॥
कालदण्डहतस्यास्य कण्ठे प्राणा जुघूर्णिरे। अन्तकं यद्धतं नेतुमन्तकोऽन्यो न विद्यते ॥ ३५ ॥
पार्श्वतस्तस्य परे केचिदतिचिरोपरोधसंवर्धितप्रतिघानल- व्यतिकरविशेपभापणज्वालाकलापदुरापमपि परिवृत्य जातवेदसं, प्रशमय्य परुषहुंकारभयकरैर्मुखमारुतैरस्य दुःसहं ज्योतिः, अपकृष्य वाहनं मेषमग्रचरणग्राहं, आहृत्य शक्तिमपि बलादस्य हस्ततलान् , ‘अरे रे लब्धोऽयमन्नहरः क्रतुभुजां हव्यवाहो नाम
संशप्तकास्तु ममयात्संग्रामादनिवर्तिन. ।
निर्जरापशदः, तदद्य निर्वापयतैनमुदकुम्भैः, निक्षिपतैनमा
पूपिकानां वशे महानसेषु, मैवं मैवमुद्बोधयतैनमुचितैर्मुखमारुतैः, हस्ते कुरुत चैनमद्यैव दग्धुममरावतीं, परित्यजत रे रे बालिश! बाडवोऽयं

विस्तारः

बाडवः ब्राह्मणः और्वाग्निश्च।

शिखां प्रदर्शयति’ इति परिहसन्तः परिक्षिपन्त स्तर्जयन्तस्नानन्तश्च पलाययामासुरसुरभटाः। ततः समित्याहितमसुरभटैस्तदत्याहितमालक्ष्य

विस्तारः

‘अत्याहित महाभीतिः’ इत्यमरः ।

सख्युराशुशुक्षणेः, क्षणेन सज्जीभूय भूयसा वेगेन मव्यापसव्यानि संचरन्मण्डलानि, चण्डलाघवोत्क्षिप्तकाण्डाण्डसाहिण्डमानोपलखण्डताण्डवोद्दण्डं, अतिसंभ्रमभ्रमितपांसुमांसलतृणपूलसंघसंगतकङ्कगृध्रवायसादिविहङ्गमं, अतिविशङ्कटशंकरविरोघनविकटजटाजूटसंकटभ्रमदभ्रारिज्जल निर्झरझळझळघोषभीषणझकारसुखरितनभोविभागं, आलम्ब्य युग: विगमोचितं रूपं, आपतन्नसुरबले, विघूर्णयन् जीर्णपर्णमिव दिक्षु विदिक्षु चाश्वीयं,

विस्तारः

अश्वीय अश्वसमूहः।

अवचूर्णयन् रथषण्डमारण्यभिव तरुकाण्डं अवकिरन्नुपलन्दण्डानिव मदोच्चण्डानपि वेतण्डान् , अन्धीकुर्वन् पदातिजातं, अवरुन्धन् सेनापतीन् , परावर्तयन्नस्त्रशस्त्राणि, प्रभञ्जयन्नञ्जसैव जयध्वजान् , परिस्खलयन्महासुरानपि, संवर्त इव मारुतः समरसीमनि सर्वतोऽप्यक्रमेण पराचक्रमे ।

विस्तारः

पराचक्र्मे उपपराभ्यामित्यात्मनेपदम् ।

यावदित्थमस्पन्दत गन्धवाहः तावदावर्तितलोचनो विरोचनः, प्रकटित समराडम्बरः शम्बरः. सावष्टम्भो जम्भः, समरमदोल्वणो बाणः, संग्रामैकरुचिर्नमुचिः, अतिवली च बलिः, आलक्ष्य वक्त्राणि परस्परं, ईषदिव स्मयमानाः, विस्मयमानाः पराक्रमे विबुधाना मिदमूचिरे । हन्त कथममरा अपि पराक्रमन्ते, तेषु च दूत्यो चितसंचारमन्थरः श्वा मातरिश्वा ॥
संरुन्धते निभृतमन्तरपि द्विजा य- मन्नं यमाहुरपि कीटसरीसृपाणाम् ।
यो जायते शिथिलशूर्पपरिभ्रमैर-
प्योजायते कथमसावपि गन्धयाहः ॥ ३६ ॥

विस्तारः

३६. ओजायते आजवीवाचरति ।

अथवा नैनावदस्मिन्नभिनिवेष्टव्यमस्माभिः । अनुकूल एव खल्वयमस्माकमाशुगानलज्वालासंधुक्षणे सर्वथापि ॥
यश्चेष्टतेऽवकाशेषु ये चाप्येनं समाश्रिताः ।
निरुन्धीमहि तान् सर्वान्नीरन्ध्रे शरपञ्जरे ॥ ३७॥

इति कतिपये दैत्या वात्यानिबर्हणकौतुका-
द्धनुरनुगुणं यावज्ज्यावल्लिभिः सह युञ्जते । प्रसभमभितस्तावत्सावज्ञदैत्यभटोज्झिता
दिशि दिशि जगत्प्राणप्राणच्छिदो न्यपतञ्छराः॥३८॥

वाय्वर्कशक्रवरुणानलदैवतान्य ।
प्यस्त्राणि निर्जरवरैरभिमन्त्रितानि ।
ईशांबभूवुरसुरेषु न शासनानि
राज्यच्युतस्य नृपतेरिव नागरेषु ॥ ३९ ॥ दनुजभुजविकृष्टकोदण्डदण्डोपसंपातुक-
ज्वलदनलदुरापनाराचधारासमीराहताः। युगविगमसमुच्चलच्चण्डचण्डीशभूषोरग-
प्रतिभयमुखवातजातां दशामुञ्जगुर्निर्जराः ॥ ४० ॥

प्रचण्डे च वलति पवमाने, तूलवदुत्सार्यमाणेषु दूरत एव वारिधरेषु, सागरानपि शोषयतस्तस्य सनीडमागन्तुमनीहमानेषु च यादोगणेषु,

विस्तारः

सनीडं समीपम् ।

स्वात्मैकशेषतया भग्नचेताः प्रचेताः, प्राकृतलोक साधारणस्तटस्थ एव बहिरवतस्थे । अपि च रिपुचमूसमूहस मुत्सृज्यमानशरवर्षधर्षितेषु वर्मसु, भिद्यमानेषु चर्मसु, कर्मदेवाः ‘कस्मादयमस्माकमाकस्मिको बुद्धिविपर्ययः, कस्मै वयमसुरैर्युध्या्महे, कस्य हेतोर्वध्यामहे, बुध्यामहे न हेतुमस्मिन्नायासे, के नो देवाः के च नो दानवाः, सभृत्य तपांसि दुश्चराणि संप्राप्ता वयममरपदं, केन शक्या निग्रहीतुं, केन शक्या अनुग्रहीतुं, अधिष्ठास्यति यः स्वर्गं, अतिथयस्तस्य वयं भवाम’ इति कृतनिश्चयाः संमन्त्र्य परस्परं सघशोऽपचक्रमुः समन्ततोऽपि समरमुखात् । अथ ये केचिदाहवमखे हुतशरीरा दनुजवीरा देव भावमापद्य दिवमारूढा गूढाभिसंधयस्ते किल सहृदया इव कंचित्कालमहृदया एव परिक्रम्य, परिज्ञातमर्माणः सर्वतो निर्वापयामासुरतर्किता एव गीर्वाणबलम् । अपसरतः कर्मदेवान् , अभिघ्नतो दैत्यदेवान् , आपततः शरानाशीविषानिव दृष्टिविषान् , उत्सर्पतो विशृङ्खलमसुरभटानुल्लङ्घितवेलानिव कल्लोलान्महोदधेः,
अप्रभवतः सेनापतीन् , अप्रतिपत्तिमूढमपि पश्यन्तः स्वामिनं, अपश्यन्तस्त्रातारं, अवशा देवमुनिशापतेजसा प्रविश्य हृदयानि प्रक्षोभ्यमाणाः, स्तब्धा इव, मुग्धा इव, दग्धा इव विषानलैः, दिग्धा इव मोहनचूर्णैः, लुब्धाः परं जीवितेषु, लब्धामपि जयश्रियं चिरादीपद्विवेकसुनियन्त्रणेन क्षणिकदुर्मन्त्रणेन विनाशयन्तः, पश्यन्तोऽप्यचक्षुषः, शृण्वन्तोऽपि बधिराः, जानन्तोऽपि जडाः, परिगृहीता इव दुर्यशसा, परिष्वक्ता इव भाग्यविपर्ययेन, विस्मृत्य कुलशीलानि, विसृज्य निःशेषमपत्रपां, अवरोप्य निषङ्गं, आवेशयन्तः पृष्ठतो बुद्धिं, अवमुच्य जयायुधानि, आददाना भिक्षाकपालानि पाणिभिः, आसर्गादा च महाप्रळयादध्वरहविर्भिरेव द्विजन्मनामविश्रान्तपरिपुष्टतयेव, प्राप्ते समरे सायुधाश्व, सवाहनाश्च सैकता इव सेतवः, सर्वतोऽपि विजघटिरे विबुधभटाः ॥
धावद्दैवतयोधयूथपदवीसंरोधकौतूहल-
क्रामड्डामरघोरवैरिपरिषन्नासीरसीमोद्भवैः । भेरीमांकरणैरमर्त्यनगरीसंवर्तमौहूर्तिकैः
संभ्रान्ताः प्रतिपेदिरे युधि निवृत्ताशा दिगीशा दिशः ॥

वल्मीकेष्वहयो वसन्ति मुनयो घोराः समीराशनाः
कान्तारेषु च कन्दरेषु लवणे सिन्धौ क्व वातस्थितिः। आक्रान्ते भुवने परैस्तृणमपि स्प्रष्टुं न शक्यं मया
किं कर्तव्यमिति व्यलीयत जवाद्दैत्याशुगेष्वाशुगः ॥४२॥

अनन्तरमित्थमतर्कितमनिमित्तमपध्वंसमानमसुरबलमभितोऽपि विप्रकीर्णमिव भुवि निपत्य गगनतलं परिवहदिव भिन्नमर्यादमर्णवस्रोतः, शतशः परीक्षितमपि सौहार्दे सहस्रश गृहीतजयमपि समरसंमर्दे, कदाप्यशिक्षितायुधग्रहमिव अनाकर्णितसंग्रामसंकथमिव, वायसयूथमिव, वानरानीकमिव, केरळसैन्यमिव, प्रामपालकजालमिव, करतालिकामात्रकातरममर्त्य बलमप्यालोकयन् , दशभिः शतैरक्ष्णां वामकः स्वयमेवमालोचयामास । अहो दुर्वाससो ब्राह्मण्यं, अहो निगमागमप्रामाण्यं, अहो पाशुपतेषु माहात्म्यं, अहो दुर्निमित्तेपु याथार्थ्यं, अहो कर्मपरिणतेः प्राबल्यं, अहो देहिषु श्रियश्चाञ्चल्यं, अहा पुरुषाकारस्य वैफल्यं, अहो परमेष्ठिनः कौशल्यं, आहवो नाम कियत् नयं, असुरा नाम कियन्त इमे, कीदृशाः पलायन्ते, कीदृश पराक्रमन्ते, किं बन्धुभिः, किं सचिवैः, किं बलेन, किं धनेन किमनेन दम्भोळिना, किमन्तताऽपि मया, कथं दृश्या दाग कथं दृश्याः पौगः, किमितो निह्तेन जीवितेन, किं करिष्यति विपरीतो विधिरितोऽपि, न चिकीर्षामि सौवर्गमाधिपत्यं, जिहीर्षामि दानवानामौद्धत्यं, यावदीदृशोऽहं न कस्यचिद्दृष्टि्गोचरे पतेयं तावदस्मिन्नेव समरे तनुं त्यजामीति मन पुरश्चरन् शचीपतिरशृणादन्तरिक्षगां वाणीम् ॥
अहो ते शक्र धीमान्धमग्रे भाव्यं किलान्यथा । अन्तर्धेहि रणादस्मादन्तर्धेहि च मद्गिरम् ॥ ४३॥
इत्याकाशगिरा शक्रो मत्या च क्रूरया स्वया। यावड्डोलायते तावदागत्याबोधयद्गुरुः ॥४४॥
हन्त कथमेतदमरपते धीमतोऽपि ते दुर्व्यवसितम् । अविदितं न ते वेदितव्यं, अवशेषितं वा गुरूणामुपासनं, कि न जानानि भवितव्यतां, किं वाभिमन्यसे जयश्रियो नैयत्यम् । ननु श्रूयत एव पुराणेषु भवता, यत्किल मालिसुमालिसङ्गरे महति परिवर्तमाने पराचीने पतगपतौ भगवतापि पराववृते । अन्धकेन किलेदमधिष्ठितं त्रैलोक्यम् । विध्यण्डान्येव कियन्ति विजितानि तारकेण । तदलमनुस्मर शापान्तवचनमत्याश्रमस्य मुनेः । भवेयुरपि कदाचिदन्यथा भापितानि महेश्वरस्य, न तु जातु माहेश्वराणाम् । यत्पुरोदितं गोविन्द एव कुशलानि करिष्यतीति महर्षिणा, तदनूदितमग्रे भवितव्यमन्यथेत्यधुना परमेष्टिना । तदेहि कंचित्कालमन्तर्हिता एव क्वचिदावसाम इत्यनुशिष्य शिष्यमन्तर्धाप्य स्वयोगमायया तिरोदधे स्वयमपि देशिको देवतानाम् ॥
विद्राणे वरुणे गते हुतवहे वैवस्वते मूच्छिते __ सद्यो लोचनगोचरादपगते संक्रन्दनस्यन्दने । संवर्तव्यतिषक्तसप्तजलधिस्रोतःप्रभूतध्वनि
स्फारः कोऽपि बभूव दानवबले हर्षाट्टहासध्वनिः ॥४५|| चकितपलायितस्खलितमूच्छितनिष्पतित
क्षतविबुधानुधावननिषेधिमहारथिकम् ।
विजहि जहीहि पाहि निगृहाण गृहाण हरे
त्युपचितनादमेदुरमवरतत दैत्यबलम् ॥ ४६ ॥ अपिच आवृत्यावर्तयन्तो दिशि दिशि तुरगान्वारणान्वारयन्तो __ मुष्णन्तो भूषणानि प्रसभमभिनिपत्यायुधान्याहरन्तः। घ्नन्तः संतर्जयन्तः पथि पथि विबुधान्मुक्तकेशान्दिगीशा
नभ्येत्यामन्त्रयन्तः प्रजहसुरसुराः सर्वतो निर्विशङ्कम् ॥४७॥ किंच.
शस्त्राशस्त्रिक्षतपतिसुतालोकशोकावलुप्त
प्राणस्त्रैणव्रजमशरणध्वस्तलुप्तापणान्तम् । धावद्देवप्रवरसमरोदन्तयाथार्थ्यबोध
भ्राम्यत्पौरं नगरमभवज्जर्जरं निर्जराणाम् ॥ ४८॥

विस्तारः

शस्त्रेण शस्त्रेण प्रहृत्य प्रवृत्तमिदं युद्धं शस्त्राशस्त्रि । स्त्रीणां समूहः स्त्रैणम् ।

ततो मुहूर्तादेव मूर्ता इव कोपानलविस्फुलिङ्गा मुनेर्बलिमुखा मखद्विषः पराक्रमेण महता परिक्रामन्तस्तिरोहिते मरुत्वति द्रागेव रणमूर्धनि पलायित इति प्रमीत इति प्रविष्टोऽमरावतीमिति च तादात्विकैः प्रवादभेदैस्तत्वमनवबुध्यमाना अपि, भवतु नाम सर्वथैव वयं प्रविशेम तावदमरावतीं, परिशोधयेम ततः प्रवृत्ति शचीपतेः, अपहरेम सुरकामिनीः, अवस्कन्देम कोशमन्दिरं, अधितिष्ठेम सुधर्मां, आक्रामेम त्रैलोक्यमिति कृतनिश्चयाः, कल्पद्रुमा बलेः, कामधेनुर्बाणस्य, हास्तिकं नमुचेः,

विस्तारः

हस्तिनां समूहः हास्तिकम् ।

अश्वीयं शम्बरस्य, चिन्तामणिर्जम्भस्य, विलासिन्यो विरोचनस्य, वारुणं पदमस्य, वायवीयं तस्य, वैश्रवणीयममुष्य, वैश्वानरी यमेतस्य, प्रविष्टं प्रवेष्टुः, अपहृत्य लब्धमपहर्तुः, प्रहृत्य लब्धं प्रहर्तुः, आलोकितुरालोकितं, उपायवक्तुरर्धं, उत्तर साधकस्य तदर्धं, समसमयप्रवृत्तयोस्तु साधारणं वस्तु, परतस्तु यथारुचि परस्परच्छन्देनेति समयबन्धेन पर्यवस्थाप्य पताकिनीं, आरुह्य मतङ्गजानत्युन्नतान् , आलोकयन्तो नगरोपशल्यानि, प्रशंसन्तः प्राकारदुर्गसामग्रीं, परिहसन्तो बुद्धिलाघवं प्रतिद्वन्द्विनां, निर्दया विपक्षजातीयेषु, निर्विशङ्का दुर्गगुल्मेषु, ग्राहयन्तो वधूदर्शं,

विस्तारः

वधूमिव दृष्ट्वा वधूदर्शम् ।

घातयन्तः पुरुषदर्शं,

विस्तारः

पुरुषमिव दृष्ट्वा पुरुषदर्शम् ।

आकर्णयन्तः कर्णामृतान्याक्रन्दितानि नाकसदां, हसन्तो दर्शदर्शमशरणान्वध्यमानान् ,

विस्तारः

दर्शं दर्शं पुनः पुनदृष्ट्वा ।

कुप्यन्तो दयालुषु, कुतूहलिनो दारुणेषु, विसर्जयन्तो नैऋतीयान् जात्यभिमानेन, विद्रावयन्तः कर्मदेवानट्टहासैः, उन्माथयन्तो गोपुरद्वारं, उल्लङ्घयन्तः प्राकारं, अपश्यन्तः शरणागतान् , अशृण्वन्तो याच्ञाक्षराणि सुरर्षीणां, आज्ञापयन्तो जिह्वाच्छेदममरवैतालिकानां, चरणावकर्तनं चाराणां, चपेटाघातममरमौहूर्तिकानां, अङ्गुलिच्छेदमक्षरलेखिनां, आस्यविदारणममात्यानां, भञ्जयन्तः प्रतिमां देवतानां, अपमार्जयन्तः सुरपरक्रममालेख्यसमर्पित, अशारणहन्यमानरक्तधारावसिक्तं,

विस्तारः

ग्रामन्तिमुपशल्य स्यादित्यमर ।

(??)अग्रचरणग्राहमाकृष्यगणमुनिजनशरीर
संमृष्टं, अनुपददह्यमानदेवतागारधूमधूपितं, अपकृष्यमाणकुल- पालिकाजनाहन्यमानमुखवाद्यनादमेदुरं, अपहृतसर्वस्वदीनजना- क्रोशजयाशीर्वचोमुखरं, आकस्मिकपतदशनिनिर्घोषनिर्वर्तितलोह- यन्त्रनिनादमङ्गळं, अभितःपतदुल्कासहस्रदीपमालापरिष्कृतमनु- प्रविश्य नगरं, अभिवन्द्य पुरोधसं भार्गवं, अपक्रान्तहर्यक्षमेरु- गुहासधर्मां सुधर्मामध्यासांचक्रिरे । आसीनाः क्षणममरसभान्तरे, परिष्वज्यमानाः परस्परं, प्रशस्यमाना वन्दिमागधैः, अभिनन्द्य मानाः कुलवृद्धैः, अनुगृह्यमाणा भार्गवेण, निष्क्रम्य ततो बहि- रचिरपरिगृहीतविजयेन्दिरापरिरम्भसंभृतकुचकुम्भकुङ्कुमक्षोदैरिव सेनारजोभिरभिरञ्जिताः, निरङ्कुशचंक्रम्यमाणविशृङ्खलदैत्यसंघ बाहाबलोन्मुक्तहाहारवमालक्ष्य सर्वतो नगरं, उल्लोलजलधिकल्लोलहल्लोहलशमनशीलया वेलयेव तनीयस्या विरमतेति कयाचिदेवाज्ञया चिरलब्धसुस्थमिव पर्यवस्थाप्य नगरं, क्षणादाघोपयामासुरास्कन्दनोपरमजयकाहळीम् । आदिष्टाश्च दिक्पालपदेष्वसुरवराः स्वयमनतिक्रामन्तो धर्ममौशनसं, अनुल्लङ्घमाना बलेः शासनं, अनुवर्तमाना हिरण्याक्षदर्शितां सरणि, अवलुम्पन्तो वैदिकं पन्थानं, अप्रमत्ताः स्वं स्वमधिकारमनुपालयांचक्रिरे ॥
देवद्विषश्चिरतरं निरयेषु मग्ना-
नुत्तार्य दैवतपदेषु निवेशयन्तः । रक्षोघ्नमन्त्रकुशलाञ्छतशो महर्षीन्
प्रत्यक्षिपन्नरकवेश्मसु दैत्यदूताः ॥ ४९ ॥
ब्रह्मर्षयोऽपि दनुजेन्द्रसभां प्रविष्टा
मन्त्राक्षराणि मघवादिपदाङ्कितानि । ऊहेन दानवपदान्युपवेशयन्तो
हर्षाय पेठुरसुरेन्द्रपुरोहितानाम् ॥ ५० ॥

विस्तारः

ऊहो नाम प्रकृतावन्यथा दृष्टस्य मन्त्रस्य विकृतावन्यथाभावः । प्रथा-प्रकृतावायचरनिर्वापे विनियुक्तस्य ‘अग्नये त्वा जुष्टं निर्वपामि’ इति मन्त्रस्य विकृतौ सूर्यचरौं ‘सूर्याय त्या जुष्ट निर्वपामि’ इत्यूह । एवं ‘इन्द्राय खाहा वरुणाय स्वाहा प्रजापतये वाहा’ इत्यादिमन्त्राणा हिरण्याय वाहा बलये स्वाहा नमुचये वाहा’ इत्यादिविपरिणामेन ब्रह्मर्षिभिरूहः कृत ॥

विद्वांसः प्रथमेऽभवन्विवसनाः सौत्रान्तिकाः साधवो
मुख्या माध्यमिकास्त्रिलोकगुरवश्चार्वाकतन्त्रे स्थिताः । पाषण्डा निगमागमव्यसनिनः कालः कलिः शाश्वतो
दैत्ये शासति देवराज्यमजनि त्रैलोक्यमित्थं तदा ॥५१॥

विस्तारः

विवसनाः (दिगम्बरा.) मौत्रान्तिका मा चमिकाश्च बौद्धविशेषाः ॥

अपक्रान्तश्च तदा शचीपतिः, अभिगम्य सह सर्वैः सुपर्वभिरखिलभुवनसुन्दरं मन्दरं शैलमनुज्ञया बृहस्पतेः अन्तर्हित एव कतिचिदतिबाहयामास वर्षगणान् ।।

इति श्रीमद्-भरद्वाज-कुल-जलधि-कौस्तुभ-
श्री-कण्ठ-मत-प्रतिष्ठापनाचार्य-
चतुरधिक-शत-प्रबन्ध-निर्वाहक-
श्रीमन्-महाव्रत-याजि–श्रीमद्-अप्पय-दीक्षित-सौदर्य–
श्रीमद्-आच्चान्-दीक्षित-पात्रेण नारायण-दीक्षितात्मजेन श्री-भूमि-देवी-गर्भ-संभवेन
श्री-नीलकण्ठ-दीक्षितेन विरचिते
श्रीनीलकण्ठ-विजये चम्पुकाव्ये
प्रथम आश्वासः ॥