चण्डीपादः

छन्दः - स्वागता। दिनम् - 2014 Jun 30
प्रेरणा - पद्यपाने पद्यपुरणम्

[अत्र क्रमशः पाद-ऊरु-जठर-स्तन-बाहु-मुख-वर्णनम्।]

॥नमश् चण्डिकायै॥

Image

दैत्य-कण्ठमधि तिष्ठति पादे
दीर्ण-देह-गत-शूल-समीपे।
लास्य-ताण्डव-युगे रचितेऽस्मिन्
हारतां भजति नूपुर-पालिः॥

ऊरु-युग्म-बलवत्-स्थिर-भङ्गौ
स्न्यायु-पाश-परिपोषित-शक्तौ।
स्वेद-सिक्त-मृदु-रक्तिम-वस्त्रं
भाववीचिरिव कम्पनमेति॥

रक्त-पान-हुत-वह्नि-भृतो ऽयं
स्नायु-षट्क-जठरः कृशरम्यः।
शर्व-बीज-भरणे ऽपि समर्थस्
स्वादु-निम्ब-गुड-मिश्रणम् एति॥

सर्व-लोक-भरणेऽपि समर्त्थे
लास्य-ताण्डव-कृते परिबद्धम्।
श्वास-नृत्य-चलितं स्तन-युग्मं
द्वेषिणामपि विडम्बनकारि॥

अष्ट-हस्त-परिलून-विपक्षे
दीर्णताऽपि खलु हर्ष-समेता।
बाहु-मार्दव-युते कर-पद्मे
दर्शिते बत न कस्य सुखं स्यात्॥

हास-दन्त-रुचिभिः क्षणमेकं
मन्यु-लोचन-करैर् इतरञ्च।
सर्वतोऽपि तिमिरं परिभित्त्वा
पातु वः खल-निशुम्भ-निहन्त्री॥