श्यामला-दण्डकम्

श्यामला-दण्डकम् {कालिदासविरचितम्}

माणिक्यवीणाम् उपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम्।
माहेन्द्रनीलद्युति-कोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि॥१॥

चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे।
पुण्ड्रेक्षु-पाशाङ्कुश-पुष्पबाण-हस्ते नमस्ते जगदेकमातः॥२॥

माता मरकतश्यामा मातङ्गी मधुशालिनी।
कुर्यात् कटाक्षं कल्याणी कदंबवन-वासिनी॥३॥

जय मातङ्गतनये जय नीलोत्पलद्युते।
जय सङ्गीतरसिके जय लीलाशुकप्रिये॥४॥

{श्यामलादेव्याः मुखवर्णनम्}

जय जननि सुधासमुद्रान्त-रुद्यन्मणिद्वीप-संरूढ-बिल्वाटवीमध्य- कल्पद्रु-माकल्प-कादंबकान्तार-वासप्रिये कृत्तिवासप्रिये सर्वलोकप्रिये

सादरारब्ध-सङ्गीत-संभावना-संभ्रमालोल~नीपस्रगाबद्ध-चूलीसनाथत्रिके सानुमत्पुत्रिके

शेखरीभूत-शीतांशुरेखा-मयूखावलीनद्ध-सुस्निग्ध-नीलालकश्रेणि-शृङ्गारिते लोकसंभाविते

कामलीला-धनुस्सन्निभ-भ्रूलता-पुष्पसन्दोह-सन्देहकृल्लोचने वाक्सुधासेचने

चारुगोरोचनापङ्क - केलीललामाभिरामे सुरामे रमे

प्रोल्लसद्द्वालिका-मौक्तिकश्रेणिका-चन्द्रिकामण्डलोद्भासि-लावण्य-गण्ड-स्थल~ न्यस्त-कस्तूरिकापत्र-रेखासमुद्भूत-सौरभ्य-संभ्रान्त-भृङ्गाङ्गनागीत-सान्द्रीभवन्~ मन्द्रतन्त्रीस्वरे सुस्वरे भास्वरे

वल्लकीवादन-प्रक्रियालोल-तालीदलाबद्ध~ ताटङ्कभूषा-विशेषान्विते सिद्ध-सम्मानिते

दिव्यहालामदोद्वेल-हेला-लसच्चक्षुरान्दोलनश्री-समाक्षिप्त~ कर्णैक-नीलोत्पले श्यामले

पूरिताशेष-लोकाभिवाञ्छाफले श्रीफले

स्वेदबिन्दूल्लसद्-फाल-लावण्य-निष्यन्द~ सन्दोह-सन्देहकृन्नासिका-मौक्तिके सर्वमन्त्रात्मिके कालिके

मुग्द्धमन्दस्मितोदारवक्त्र-स्फुरत्-पूग-कर्पूर-ताम्बूलखण्डोत्करे ज्ञानमुद्राकरे सर्वसंपत्करे पद्मभास्वत्करे श्रीकरे

कुन्दपुष्पद्युति-स्निग्ध-दन्तावली-निर्मलालोल-कल्लोल-सम्मेलनस्मेर-शोणाधरे चारुवीणा धरे पक्वबिंबाधरे

{श्यामलादेव्याः शरीरवर्णनम्}

सुललित-नवयौवनारंभ-चन्द्रोदयोद्वेल-लावण्य-दुग्धार्णवाविर्भवत्~ कम्बु-बिम्बोकभृत्कन्धरे सत्कलामन्दिरे मन्थरे

दिव्यरत्नप्रभाबन्धुरच्छन्न-हारादिभूषासमुद्योतमान~अनवद्याङ्गशोभे शुभे

रत्नकेयूर-रश्मिच्छटापल्लव-प्रोल्लसद्दोर्ल्लताराजिते योगिभिः पूजिते

विश्वदिङ्मण्डलव्याप्त-माणिक्य-तेजःस्फुरत्-कङ्कणालङ्कृते विभ्रमालङ्कृते साधुभिः सत्कृते

वासरारंभ-वेला-समुज्जृम्भमाणारविन्द-प्रतिद्वन्द्वपाणिद्वये सन्ततोद्यद्वये अद्वये

दिव्यरत्नोर्मिका-दीधितिस्तोम-सन्ध्यायमानाङ्गुली-पल्लवोद्यन्नखेन्दु-प्रभामण्डले सन्नुताखण्डले चित्प्रभामण्डले प्रोल्लसत्कुण्डले

तारकाराजिनीकाश-हारावलिस्मेर~ चारुस्तनाभोग-भारानमन्मध्यवल्ली-वलि-च्छेदविचीसमुल्लास-सन्दर्शिताकार-सौन्दर्यरत्नाकरे वल्लकीभृत्करे किङ्करश्रीकरे

हेमकुंभोपमोत्तुङ्ग-वक्षोजभारावनम्रे त्रिलोकावनम्रे

लसद्वृत्तगंभीर-नाभीसरस्तीर शैवालशङ्काकरश्याम-रोमावलीभूषणे मञ्जु-संभाषणे

चारुशिञ्चत्कटीसूत्र-निर्भत्सितानङ्ग-लीलाधनुश्शिञ्जिनीडंबरे दिव्य-रत्नाम्बरे

पद्मरागोल्लसन्मेखला-भास्वरश्रोणि-शोभाजितस्वर्णभूभृत्तले चन्द्रिका-शीतले

{श्यामलादेव्याः पादवर्णनम्}

विकसित-नवकिंशुका-ताम्रदिव्यांशुकच्छन्न- चारूरुशोभापराभूत-सिन्दूर-शोणायमानेन्द्रमातङ्ग-हस्तार्ग्गले वैभवानर्ग्गले श्यामले

कोमलस्निग्द्ध-नीलोत्पलोत्पादितानङ्ग-तूणीरशङ्काकरोद्दाम-जङ्घालते चारुलीलागते

नम्रदिक्पालसीमन्तिनी-कुन्तलस्निग्द्ध नीलप्रभापुञ्ज-सञ्जात-दूर्वाङ्कुराशङ्क- सारङ्ग-संयोगरिङ्खन्-नखेन्दुज्ज्वले प्रोज्ज्वले निर्मले

प्रह्वदेवेश लक्ष्मीश भूतेश तोयेश वागीश कीनाश दैत्येश यक्षेश वाय्वग्नि कोटीर-माणिक्यसङ्घृष्ट-बालातपोद्दाम- लाक्षारसारुण्य-तारुण्य लक्ष्मी-गृहिताङ्घ्रिपद्मे सुपद्मे उमे

{श्यामलादेव्याः सभामण्डपवर्णनम्}

सुरुचिर-नवरत्नपीठस्थिते सुस्थिते

रत्नपद्मासने रत्नसिंहासने शङ्खपद्मद्वयोपाश्रिते विश्रुते

तत्र विघ्नेशदुर्गावटुक्षेत्रपालैर्युते मत्तमातङ्ग-कन्यासमूहान्विते मञ्जुला-मेनका-द्यङ्गनामानिते भैरवैरष्टभिर्वेष्टिते

देवि वामादिभिः शक्तिभिस्सेविते धात्रि लक्ष्म्यादिशक्त्यैष्टकैः संयुते मातृकामण्डलैर्मण्डिते यक्षगन्धर्व-सिद्धाङ्गना-मण्डलैरर्चिते पञ्च-बाणात्मिके पञ्चबाणेन रत्या च संभाविते प्रीतिभाजा वसन्तेन चानन्दिते

भक्तिभाजं परं श्रेयसे कल्पसे, योगिनां मानसे द्योतसे, छन्दसामोजसा भ्राजसे, गीतविद्या विनोदाति तृष्णेन कृष्णेन संपूज्यसे, भक्तिमच्चेतसा वेधसा स्तूयसे, विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे

श्रवणहरणदक्षिणक्वाणया वीणया किन्नरैर्ग्गीयसे, यक्षगन्धर्वसिद्धाङ्गना मण्डलैरर्च्यसे,

सर्वसौभाग्यवाञ्छावतीभिर्वधूभिः सुराणां समाराध्यसे

सर्वविद्याविशेषात्मकं, चाटुगाथा-समुच्चारणं, कण्ठमूलोल्लसद्- वर्णराजित्रयं, कोमलश्यामलोदारपक्षद्वयं, तुण्डशोभातिधूरीभवत्किंशुकं, तं शुकं, ललयन्ती परिक्रीडसे

{श्यामलादेव्याः सर्वैश्वर्यप्रदातृत्त्ववर्णनम्}

पाणिपद्मद्वयेनाक्षमालामपि स्फाटिकीं, ज्ञानसारात्मकं पुस्तकञ्चापरेणाङ्कुशं, पाशमाबिभ्रति येन सञ्चिन्त्यसे चेतसा, तस्य वक्त्रान्तरात् गद्यपद्यात्मिका भारती निस्सरेत्।
येन वा यावकाभाकृतिर्भाव्यसे, तस्य वश्या भवन्ति स्त्रियः पूरुषाः, येन वा शातकुंभद्युतिर्भाव्यसे, सोपि लक्ष्मीसहस्रैः परिक्रीडते

किन्न सिद्ध्येत्, वपुः श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः, तस्य लीला सरोवारिधिः, तस्य केलीवनं नन्दनं, तस्य भद्रासनं भूतलं, तस्य गीर्देवता किङ्करी, तस्य चाज्ञाकरी श्रीस्स्वयम्।

{श्यामलादेव्याः सर्वात्मकत्ववर्णनम्}

सर्वतीर्थात्मिके सर्वमन्त्रात्मिके सर्वतन्त्रात्मिके सर्वयन्त्रात्मिके सर्वचक्रात्मिके सर्वशक्त्यात्मिके सर्वपीठात्मिके सर्वतत्त्वात्मिके सर्वविद्यात्मिके सर्वयोगात्मिके सर्वनादात्मिके सर्वशब्दात्मिके सर्ववर्णात्मिके सर्वविश्वात्मिके सर्वदीक्षात्मिके सर्वसर्वात्मिके सर्वगे हे जगन्मातृके पाहि मां, पाहि मां, पाहि मां, देवि तुभ्यं नमो, देवि तुभ्यं नमो, देवि तुभ्यं नमो, देवि तुभ्यं नमः॥

इति महाकवि-कालिदास-विरचितं श्यामलादण्डकं सम्पूर्णम्