[[आर्यासप्तशती Source: EB]]
[
गोवर्धनाचार्यविरचिता
आर्यासप्तशती
॥ श्रीः ॥
ग्रन्थारम्भव्रज्या
पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति ।
अङ्कुरित इव मनोभूर्यस्मिन् भस्मावशेषोऽपि ॥१॥
मा वम संवृणु विषमिदमिति सातङ्कं पितामहेनोक्तः ।
प्रातर्जयति सलज्जः कज्जलमलिनाधरः शम्भुः ॥२॥
जयति प्रियापदान्ते गरलग्रैवेयकः स्मरारातिः ।
विषमविशिखे विशन्निव शरणं गलबद्धकरवालः ॥३॥
जयति ललाटकटाक्षः शशिमौलेः पक्ष्मलः प्रियाग्रणतौ ।
धनुषि स्मरेण निहितः सकण्टकः केतकेषुरिव ॥४॥
जयति जटाकिञ्जल्कं गङ्गामधु मुण्डवलयबीजमयम् ।
गलगरलपङ्कसम्भवमभोरुहमाननं शम्भोः ॥५॥
सन्ध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन् ।
गौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥६॥
प्रतिबिम्बितगौरीमुखविलोकनोत्कम्पशिथिलकरगलितः ।
स्वेदभरपूर्यमाणः शम्भोः सलिलाज्जलिर्जयति ॥७॥
प्रणयकुपितप्रियापदलाक्षासन्ध्यानुबन्धमधुरेन्दुः ।
तद्वलयकनकनिकषग्रावग्रीवः शिवो जयति ॥८॥
पूर्णनखेन्दुर्द्विगुणितमञ्जीरा प्रेमशृङ्खला जयति ।
हरशशिलेखा गौरीचरणाङ्गुलिमध्यगुल्फेषु ॥९॥
श्रीकरपिहितं चक्षुः सुखयतु वः पुण्डरीकनयनस्य ।
जघनमिवेक्षितुमागतमब्जनिभं नाभिसुषिरेण ॥१०॥
श्यामं श्रीकुचकुङ्कुमपिञ्जरितमुरो मुरद्विषो जयति ।
दिनमुखनभ इव कौस्तुभविभाकरो यद्विभूषयति ॥११॥
प्रतिबिम्बितप्रियातनु सकौस्तुभं जयति मधुभिदो वक्षः ।
पुरुषायितमभ्यस्यति लक्ष्मीर्यद्वीक्ष्य मुकुरमिव ॥१२॥
केलिचलाङ्गुलिलम्भितलक्ष्मीनाभिर्मुरद्विषश्चरणः ।
स जयति येन कृता श्रीरनुरूपा पद्मनाभस्य ॥१३॥
रोमावली मुरारेः श्रीवत्सनिषेविताग्रभागा वः ।
उन्नालनाभिनलिनच्छायेवोत्तापमपहरतु ॥१४॥
आदाय सप्ततन्त्रोचितां विपञ्चीमिव त्रयीं गायन् ।
मधुरं तुरङ्गवदनोचितं हरिर्जयति हयमूर्धा ॥१५॥
स जयति महाबाहो जलनिधिजठरे चिरं निमग्नापि ।
येनान्त्रैरिव सह फणिगणैर्बलादुद्धृता धरणी ॥१६॥
ब्रह्माण्डकुम्भकारं भुजगाकारं जनार्दनं नौमि ।
स्फारे यत्फणचक्रे धरा शरावश्रियं वहति ॥१७॥
चण्डीजङ्घाकाण्डः शिरसा चरणस्पृशि प्रिये जयति ।
शङ्करपर्यन्तजितो विजयस्तम्भः स्मरस्येव ॥१८॥
उन्नालनाभिपङ्केरुह इव येनावभाति शम्भुरपि ।
जयति पुरुषायितायास्तदाननं शैलकन्यायाः ॥१९॥
अङ्कनिलीनगजाननशङ्काकुलबाहुलेयहृतवसनौ ।
सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः ॥२०॥
कण्ठोचितोऽपि हुङ्कृतिमात्रनिरस्तः पदान्तिके पतितः ।
यस्याश्चन्द्रशिखः स्मरभल्लनिभो जयति सा चण्डी ॥२१॥
देवेऽर्पितवरणस्रजि बहुमाये वहति कैटभीरूपम् ।
जयति सुरासुरहसिता लज्जाजिह्मेक्षणा लक्ष्मीः ॥२२॥
तानसुरानपि हरिमपि तं वन्दे कपटकैटभीरूपम् ।
यैर्यद्बिम्बाधरमधुलुब्धैः पीयुषमपि मुमुचे ॥२३॥
तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति ।
फणशतपीतश्वासो रागान्धायाः श्रियः केलिः ॥२४॥
स्मेराननेन हरिणा यत्स्पृहमाकारवेदिनाकलितम् ।
जयति पुरुषायितायाः कमलायाः कैटभीध्यानम् ॥२५॥
कृतकान्तकेलिकुतुकश्रीशीतश्वाससेकनिद्राणः ।
घोरितविततालिरुतो नाभिसरोजे विधिर्जयति ॥२६॥
एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजापि पञ्चकर ।
जय षण्मुखनुत सप्तच्छदगन्धिमदाष्टतनुतनय ॥२७॥
मङ्गलकलशद्वयमयकुम्भमदम्भेन भजत गजवदनम् ।
यद्दानतोयतरलैस्तिलतुलनालम्बि रोलम्बैः ॥२८॥
याभिरनङ्गः साङ्गीकृतः स्त्रियोऽस्त्रीकृताश्च ता येन ।
वामाचरणप्रवणौ प्रणम्ततौ कामिनीकामौ ॥२९॥
विहितघनालङ्कारं विचित्रवर्णावलीमयस्फुरणम् ।
शक्रायुधमिव वक्रं वल्मीकभुवं कविं नौमि ॥३०॥
व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।
भूषणयैव सञ्ज्ञां यदङ्कितां भारती वहति ॥३१॥
सति काकुत्स्थकुलोन्नतिकारिणि रामायणे किमन्येन ।
रोहति कुल्या गङ्गापूरे किं बहुरसे वहति ॥३२॥
अतिदीर्घजीविदोषाद्व्यासेन यशोऽपहारितं हन्त ।
कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥३३॥
श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः ।
त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्भिन्ना ॥३४॥
साकूतमधुरकोमलविलासिनीकण्ठकूजितप्राये ।
शिक्षसमयेऽपि मुदे रतलीलाकालिदासोक्ती ॥३५॥
भवभूतेः सम्बन्धाद्भूधरभूरेव भारती भाति ।
एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ॥३६॥
जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि ।
प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥३७॥
यं गणयति गुरोरनु यस्यास्ते धर्मकर्म सङ्कुचितम् ।
कविमहमुशनसमिव तं तातं नीलाम्बरं वन्दे ॥३८॥
सकलकलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुदबन्धोश्च ।
सेनकुलतिलभूपतिरेको राकाप्रदोषश्च ॥३९॥
काव्यस्याक्षरमैत्रीभाजो न च कर्कशा न च ग्राम्याः ।
शब्दा अपि पुरुषा अपि साधव एवार्थबोधाय ॥४०॥
वंशे घुण इव न विशति दोषो रसभाविते सतां मनसि ।
रसमपि तु न प्रतीच्छति बहुदोषः सन्निपातीव ॥४१॥
विगुणोऽपि काव्यबन्धः साधूनामाननं गतः स्वदते ।
फूत्कारोऽपि सुवंशैरनूद्यमानः श्रुतिं हरति ॥४२॥
स्वयमपि भूरिच्छिद्रश्चापलमपि सर्वतोमुखं तन्वन् ।
तितौस्तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥४३॥
अन्तर्गूढानर्थानव्यञ्जयतः प्रसादरहितस्य ।
सन्दर्भस्य नदस्य च न रसः प्रीत्यै रसज्ञानाम् ॥४४॥
यदसेवनीयमसताममृतप्रायं सुवर्णविन्यासम् ।
सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः ॥४५॥
सत्कविरसनाशूर्पीनिस्तुषतरशब्दशालिपाकेन ।
तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी ॥४६॥
अकलितशब्दालङ्कृतिरनुकूला स्खलिपदनिवेशापि ।
अभिसारिकेव रमयति सूक्तिः सोत्कर्षशृङ्गारा ॥४७॥
अध्वनि पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम् ।
काव्यमभिज्ञसभायां मञ्जीरं केलिवेलायाम् ॥४८॥
आस्वादितदयिताधरसुधारसस्यैव सूक्तयो मधुराः ।
अकलितरसालमुकुलो न कोकिलः कलमुदञ्चयति ॥४९॥
बालाकटाक्षसूत्रितमसतीनेत्रत्रिभागकृतभाष्यम् ।
कविमाणवका दूतीव्याख्यातमधीयते भावम् ॥५०॥
मसृणपदगीतिगतयः सज्जनहृदयाभिसारिकाः सुरसाः ।
मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्याः ॥५१॥
वाणी प्राकृतसमुचितरसा बलेनैव संस्कृतं नीता ।
निम्नानुरूपनीरा कलिन्दकन्येव गगनतलम् ॥५२॥
आर्यासप्तशतीयं प्रगल्भमनसामनादृता येषाम् ।
दूतीरहिता इव ते न कामिनीमनसि निविशन्ते ॥५३॥
रतरीतिवीतवसना प्रियेव शुद्धापि वाङ्मुदे सरसा ।
अरसा सालङ्कृतिरपि न रोचते शालभञ्जीव ॥५४॥
इति ग्रन्थारम्भव्रज्या समाप्ता ।
**********************************************************
अकारव्रज्या
अवधिदिनावधिजीवाः प्रसीद जीवन्तु पथिकजनजायाः ।
दुर्लङ्घ्यवर्त्मशैलौ स्तनौ पिधेहि प्रपापालि ॥गस्स्_१॥
अतिवत्सला सुशीला सेवाचतुरा मनोऽनुकूला च ।
अजनि विनीता गृहिणी सपदि सप्त्नीस्तनोद्भेदे ॥गस्स्_२॥
अयि कूलनिचुलमूलोच्छेदनदुःशीलवीचिवाचाले ।
बकविघसपङ्कसारा न चिरात्कावेरि भवितासि ॥गस्स्_३॥
अयि विविधवचनरचने ददासि चन्द्रं करे समानीय ।
व्यसनदिवसेषु दूति क्व पुनस्त्वं दर्शनीयासि ॥गस्स्_४॥
अस्तु म्लानिर्लोको लाञ्छनमपदिशतु हीयतामोजः ।
तदपि न मुञ्चति स त्वां वसुधाछायामिव सुधांशुः ॥गस्स्_५॥
अतिचापलं वितन्वन्नन्तर्निविशन्निकामकाठिन्यः ।
मुखरयसि स्वयमेतां सद्वृत्तां शङ्कुरिव घण्टाम् ॥गस्स्_६॥
अङ्गेषु जीर्यति परं खञ्जनयूनोर्मनोभवप्रसरः ।
न पुनरनन्तर्गर्भितनिधिनि धरामण्डले केलिः ॥गस्स्_७॥
अन्धत्वमन्धसमये बधिरत्वं बधिरकाल आलम्ब्य ।
श्रीकेशवयोः प्रणयी प्रजापतिर्नाभिवास्तव्यः ॥गस्स्_८॥
अयि कोषकार कुरुषे वनेचराणां पुरो गुणोद्गारम् ।
यन्न विदार्य विचारितजठरस्त्वं स खलु ते लाभः ॥गस्स्_९॥
अगणितमहिमा लङ्घितगुरुरधनेहः स्तनन्धयविरोधी ।
इष्टाकीर्तिस्तस्यास्त्वयि रागः प्राणनिरपेक्षः ॥गस्स्_१०॥
अपराधादधिकं मां व्यथयति तव कपटवचनरचनेयम् ।
शस्त्राघातो न तथा सूचीव्यधवेदना यादृक् ॥गस्स्_११॥
असतीलोचनमुकुरे किमपि प्रतिफलति यन्मनोवर्ति ।
सारस्वतमपि चक्षुः सतिमिरमिव तन्न लक्षयति ॥गस्स्_१२॥
अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः ।
इतरेन्धनजन्मा यो धूमः सोऽगुरुभवो धूपः ॥गस्स्_१३॥
अयि सुभग कुतुकतरला विचरन्ती सौरभानुसारेण ।
त्वयि मोहाय वराकी पतिता मधुपीव विषकुसुमे ॥गस्स्_१४॥
अयि मुग्धगन्धसिन्धुरशङ्कामात्रेण दन्तिनो दलिताः ।
उपभुञ्जते करेणूः केवलमिह मत्कुणाः करिणः ॥गस्स्_१५॥
अतिविनयवामनतनुर्विलङ्घते गेहदेहलीं न वधूः ।
अस्याः पुनरारभटीं कुसुम्भवाटी विजानाति ॥गस्स्_१६॥
अन्तर्गतैर्गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।
स गुणो गीतेर्यदसौ वनेचरं हरिणमपि हरति ॥गस्स्_१७॥
अलुलितसकलविभूषां प्रातर्बालां विलोक्य मुदितं प्राक् ।
प्रियशिरसि वीक्ष्य यावकमथ निःश्वसितं सपत्नीभिः ॥गस्स्_१८॥
अयि लज्जावति निभरनिशीथरतनिःसहाङ्गि सुखसुप्ते ।
लोचनकोकनदच्छदमुन्मीलय सुप्रभातं ते ॥गस्स्_१९॥
अमिलितवदनमपीडितवक्षोरुहमतिविदूरजघनोरु ।
शपथशतेन भुजाभ्यां केवलमालिङ्गितोऽस्मि तया ॥गस्स्_२०॥
अतिपूजिततारेयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनु ।
जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥गस्स्_२१॥
अलमविषयभयलज्जावञ्चितमात्मानमियमियत्समयम् ।
नवपरिचितदयितगुणा शोचति नालपति शयनसखीः ॥गस्स्_२२॥
अनुरागवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।
त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टैव ॥गस्स्_२३॥
अन्यप्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः ।
तद्गतिमिच्छन्त्यः सखि भवन्ति विफलश्रमाः हास्याः ॥गस्स्_२४॥
अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सततम् ।
स लुठति विरहे जीवः कण्ठेऽस्यास्त्वमिव सम्भोगे ॥गस्स्_२५॥
अनयनपथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।
म्लानैव केवलं निशि तपनशिला वासरे ज्वलति ॥गस्स्_२६॥
अविभाव्यो मित्रेऽपि स्थितिमात्रेणैव नन्दयन् दयितः ।
रहसि व्यपदेशादयमर्थः इवाराजके भोग्यः ॥गस्स्_२७॥
अश्रौषीरपराधान्मम तथ्यं कथय मन्मुखं वीक्ष्य ।
अभिधीयते न किं यदि न मानचौराननः कितवः ॥गस्स्_२८॥
अन्योन्यमनु स्रोतसमन्यदथान्यत्तटात्तटं भजतोः ।
उदितेऽर्केऽपि न माघस्नानं प्रसमाप्यते यूनोः ॥गस्स्_२९॥
अयि चूतवल्लि फलभरनताङ्गि विष्वग्विकासिसौरभ्ये ।
श्वपचघटकर्पराङ्का त्वं किल फलितापि विफलैव ॥गस्स्_३०॥
अञ्जलिरकारि लोकैर्म्लानिमनाप्तैव रञ्जिता जगती ।
सन्ध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥गस्स्_३१॥
अगृहीतानुनयां मामुपेक्ष्य सख्यो गता बतैकाहम् ।
प्रसभं करोषि मयि चेत्त्वदुपरि वपुरद्य मोक्ष्यामि ॥गस्स्_३२॥
अस्थिररागः कितवो मानी चपलो विदूषकस्त्वमसि ।
मम सख्याः पतसि करे पश्यामि यथा ऋजुर्भवसि ॥गस्स्_३३॥
अकरुण कातरमनसो दर्शितनीरा निरन्तरालेयम् ।
त्वामनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥गस्स्_३४॥
अन्तःकलुषस्तम्भितरसया भृङ्गारनालयेव मम ।
अप्युन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः ॥गस्स्_३५॥
अयि सरले सरलतरोर्मदमुदितद्विपकपोलपालेश्च ।
अन्योन्यमुग्धगन्धव्यतिहारः कषणमाचष्टे ॥गस्स्_३६॥
अस्याः कररुहखण्डितकाण्डपटप्रकटनिर्गता दृष्टिः ।
पटविगलितनिष्कलुषा स्वदते पीयूषधारेव ॥गस्स्_३७॥
अस्याः पतिगृहगमने करोति माताश्रुपिच्छिलां पदवीम् ।
गुणगर्विता पुनरसौ हसति शनैः शुष्करुदितमुखी ॥गस्स्_३८॥
अङ्के निवेश्य कूणितदृशः शनैरकरुणेति शंसन्त्याः ।
मोक्ष्यामि वेणिबन्धं कदा नखैर्गन्धतैलाक्तैः ॥गस्स्_३९॥
अलमनलङ्कृतिसुभगे भूषणमुपहासविषयमितरासाम् ।
कुरुषे वनस्पतिलता प्रसूनमिव बन्ध्यवल्लीनाम् ॥गस्स्_४०॥
अबुधा अजङ्गमा अपि कयापि गत्या परं पदमवाप्ताः ।
मन्त्रिण इति कीर्त्यन्ते नयबलगुटिका इव जनेन ॥गस्स्_४१॥
अतिशीलशीतलतया लोकेषु सखी मृदुप्रतापा नः ।
क्षणवाम्यदह्यमानः प्रतापमस्याः प्रियो वेद ॥गस्स्_४२॥
अन्यास्वपि गृहिणीति ध्यायन्नभिलषितमाप्नोति ।
पश्यन् पाषाणमयीः प्रतिमा इव देवतात्वेन ॥गस्स्_४३॥
अनुपेत्य नीचभावं बालक परितो गभीरमधुरस्य ।
अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव ॥गस्स्_४४॥
अधिवासनमाधेयं गुणमार्गमपेक्षते न च ग्रथनाम् ।
कलयति युवजनमौलिं केतककलिका स्वरूपेण ॥गस्स्_४५॥
अपनीतनिखिलतापां सुभग स्वकरेण विनिहितां भवता ।
पतिशयनवारपालिज्वरौषधं वहति सा मालाम् ॥गस्स्_४६॥
अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् ।
भवतानन्यगतिः सा विहितावर्तेन तरणिरिव ॥गस्स्_४७॥
अनुरक्तरामया पुनरागतये स्थापितोत्तरीयस्य ।
अप्येकवाससस्तव सर्वयुवभ्योऽधिका शोभा ॥गस्स्_४८॥
अर्धः प्राणित्येको मृत इतरो मे विधुन्तुदस्येव ।
सुधयेव प्रियया पथि सङ्गत्यालिङ्गितार्धस्य ॥गस्स्_४९॥
अवधीरितोऽपि निद्रामिषेण माहात्म्यमसृणया प्रियया ।
अवबोधितोऽस्मि चपलो बाष्पस्थितमितेन तल्पेन ॥गस्स्_५०॥
अयि शब्दमात्रसाम्यादास्वादितशर्करस्य तव पथिक ।
स्वल्पो रसनाच्छेदः पुरतो जनहास्यता महती ॥गस्स्_५१॥
अभिनवयौवनदुर्जयविपक्षजनहन्यमानमानापि ।
सूनोः पितृप्रियत्वाद्बिभर्ति सुभगामदं गृहिणी ॥गस्स्_५२॥
अपमानितमिव सम्प्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् ।
स्नानोत्सुकतरुणीस्तनकलशनिबद्धं पयो विशति ॥गस्स्_५३॥
अलसयति गात्रमखिलं क्लेशं मोचयति लोचनं हरति ।
स्वाप इव प्रेयान्मम मोक्तुं न ददाति शयनीयम् ॥गस्स्_५४॥
अंसावलम्बिकरधृतकचमभिषेकार्द्रधवलनखरेखम् ।
धौताधरनयनं वपुरस्त्रमनङ्गस्य तव निशितम् ॥गस्स्_५५॥
अविनिहितं विनिहितमिव युवसु स्वच्छेषु वारवामदृशः ।
उपदर्शयन्ति हृदयं दर्पणबिम्बेषु वदनमिव ॥गस्स्_५६॥
अतिलज्जया त्वयैव प्रकटः प्रेयानकारि निभृतोऽपि ।
प्रासादमौलिरुपरि प्रसरन्त्या वैजयन्त्येव ॥गस्स्_५७॥
अन्योन्यग्रथनागुणयोगाद्गावः पदार्पणैर्बहुभिः ।
खलमपि तुदन्ति मेढीभूतं मध्यस्थमालम्ब्य ॥गस्स्_५८॥
अननुग्रहेण न तथा व्यथयति कटुकूजितैर्यथा पिशुनः ।
रुधिरादानादधिकं दुनोति कर्णे क्वणन्मशकः ॥गस्स्_५९॥
अग्रे लघिमा पश्चान्महतापि पिधीयते न हि महिम्ना ।
वामन इति त्रिविक्रममभिदधति दशावतारविदः ॥गस्स्_६०॥
अङ्के स्तनन्धयस्तव चरणे परिचारिका प्रियः पृष्ठे ।
अस्ति किमु लभ्यमधिकं गृहिणि यदा शङ्कसे बालाम् ॥गस्स्_६१॥
अधर उदस्तः कूजितमामीलितमक्षि लोलितो मौलिः ।
आसादितमिव चुम्बनसुखमस्पर्शेऽपि तरुणाभ्याम् ॥गस्स्_६२॥
अतिरभसेन भुजोऽयं वृतिविवरेण प्रवेशितः सदनम् ।
दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन ॥गस्स्_६३॥
अम्बरमध्यनिविष्टं तवेदमतिचपलमलघु जघनतटम् ।
चातक इव नवमभ्रं निरीक्षमाणो न तृप्यामि ॥गस्स्_६४॥
अयमन्धकारसिन्धुरभाराक्रान्तावनीभराक्रान्तः ।
उन्नतपूर्वाद्रिमुखः कूर्मः सन्ध्यास्रमुद्वमति ॥गस्स्_६५॥
अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव ।
अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ॥गस्स्_६६॥
अगणितजनापवादा त्वत्पाणिस्पर्शहर्षतरलेयम् ।
आयास्यतो वराकी ज्वरस्य तल्पं प्रकल्पयति ॥गस्स्_६७॥
अप्येकवंशजनुषोः पश्यत पूर्णत्वतुच्छताभाजोः ।
ज्याकार्मुकयोः कश्चिद्गुणभूतः कश्चिदपि भर्ता ॥गस्स्_६८॥
अभिनवकेलिक्लान्ता कलयति बाला क्रमेण घर्माम्भः ।
ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्लतेव मधु ॥गस्स्_६९॥
असती कुलजा धीरा प्रौढा प्रतिवेशिनी यदासक्तिम् ।
कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥गस्स्_७०॥
अविरलपतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतमिदम् ।
शतधौतमाज्यमिव मे स्मरशरदाहव्यथां हरति ॥गस्स्_७१॥
अन्तर्निपतितगुञ्जागुणरमणीयश्चकास्ति केदारः ।
निजगोपीविनयव्ययखेदेन विदीर्णहृदय इव ॥गस्स्_७२॥
अमुना हतमिदमिदमिति रुदती प्रतिवेशिनेऽङ्गमङ्गमियम् ।
रोषमिषदलितलज्जा गृहिणी दर्शयति पतिपुरतः ॥गस्स्_७३॥
इति विभाव्याख्यासमेता अकारव्रज्या ॥
**********************************************************
आकारव्रज्या
आन्तरमपि बहिरि व हि व्यञ्जयितुं रसमशेषतः सततम् ।
असती सत्कविसूक्तिः काचघटीति त्रयं वेद ॥गस्स्_७४॥
आलोक एव विमुखी क्वचिदपि दिवसे न दक्षिणा भवसि ।
छायेव तदपि तापं त्वमेव मे हरसि मानवति ॥गस्स्_७५॥
आज्ञा काकुर्याच्ञाक्षेपो हसितं च शुष्करुदितं च ।
इति निधुवनपाण्डित्यं ध्यायंस्तस्या न तृप्यामि ॥गस्स्_७६॥
आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।
असमयमानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ॥गस्स्_७७॥
आसाद्य भङ्गमनया द्यूते विहिताभिरुचितकेलिपणे ।
निःसारयताक्षानिति कपटरुषोत्सारिताः सख्यः ॥गस्स्_७८॥
आदरणीयगुणा सखि महता निहितासि तेन शिरसि त्वम् ।
तव लाघवदोषोऽयं सौधपताकेव यच्चलसि ॥गस्स्_७९॥
आर्द्रमपि स्तनजघनान्निरस्य सुतनु त्वयैतदुन्मुक्तम् ।
खस्थमवाप्तुमिव त्वां तपनांशूनंशुकं पिबति ॥गस्स्_८०॥
आरोपिता शिलायामश्मेव त्वं भवेति मन्त्रेण ।
मग्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥गस्स्_८१॥
आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।
अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ॥गस्स्_८२॥
आसाद्य दक्षिणां दिशमविलम्बं त्यजति चोत्तरां तरणिः ।
पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥गस्स्_८३॥
आदानपानलेपैः काश्चिद्गरलोपतापहारिण्यः ।
सदसि स्थितैव सिद्धौषधिवल्ली कापि जीवयति ॥गस्स्_८४॥
आन्दोललोलकेशीं चलकाञ्चीकिङ्किणीगणक्वणिताम् ।
स्मरसि पुरुषायितां तां स्मरचामरचिह्नयष्टिमिव ॥गस्स्_८५॥
आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धस्त्वया त्रिधा मध्ये ।
इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ॥गस्स्_८६॥
आक्षेपचरणलङ्घनकेशग्रहकेलिकुतुकतरलेन ।
स्त्रीणां पतिरपि गुरुरिति धर्मं न श्राविता सुतनुः ॥गस्स्_८७॥
आगच्छतानवेक्षितपृष्ठेनार्थी वराटकेनेव ।
मुषितास्मि तेन जघनांशुकमपि वोढुं नशक्तेन ॥गस्स्_८८॥
आकुञ्चितैकजङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।
सुतनोः श्वसितक्रमनमदुदरस्फुटनाभि शयनमिदम् ॥गस्स्_८९॥
आदाय धनमनल्पं ददानया सुभग तावकं वासः ।
मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैर्निःस्वा ॥गस्स्_९०॥
आस्तां वरमवकेशी मा दोहदमस्य रचय पूगतरोः ।
एतस्मात्फलितादपि केवलमुद्वेगमधिगच्छ ॥गस्स्_९१॥
आरब्धमब्धिमथनं स्वहस्तयित्वा द्विजिह्वममरैर्यत् ।
उचितस्तत्परिणामो विषमं विषमेव यज्जातम् ॥गस्स्_९२॥
आवर्जितालकालि श्वासोत्कम्पस्तनार्पितैकभुजम् ।
शयनं रतिविवशतनोः स्मरामि शिथिलांशुकं तस्याः ॥गस्स्_९३॥
आम्राङ्कुरोऽयमरुणश्यामलरुचिरस्थिनिर्गतः सुतनु ।
नवकमठकर्परपुटान्मूर्धेवोर्ध्वं गतः स्फुरति ॥गस्स्_९४॥
आभङ्गुराग्रबहुगुणदीर्घास्वादप्रदा प्रियादृष्टिः ।
कर्षति मनो मदीयं ह्रदमीनं बडिशरज्जुरिव ॥गस्स्_९५॥
आलप यथा यथेच्छसि युक्तं तव कितव किमपवारयसि ।
स्त्रीजातिलाञ्छनमसौ जीवितरङ्का सखी सुभग ॥गस्स्_९६॥
आस्वादितोऽसि मोहाद्बत विदिता वदनमाधुरी भवतः ।
मधुलिप्तक्षुर रसनाच्छेदाय परं विजानासि ॥गस्स्_९७॥
आकृष्टिभग्नकटकं केन तव प्रकृतिकोमलं सुभगे ।
धन्येन भुजमृणालं ग्राह्यं मदनस्य राज्यमिव ॥गस्स्_९८॥
आरुह्य दूरमगणितरौद्रक्लेशा प्रकाशयन्ती स्वम् ।
वातप्रतीच्छनपटी वहित्रमिव हरसि मां सुतनु ॥गस्स्_९९॥
आयासः परहिंसा वैतंसिकसारमेय तव सारः ।
त्वामपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ॥गस्स्_१००॥
आनयति पथिकतरुणं हरिण इह प्रापयन्निवात्मानम् ।
उपकलमगोऽपि कोमलकलमावलिकवलनोत्तरलः ॥गस्स्_१०१॥
आसीदेव यदार्द्रः किमपि तदा किमयमाहतोऽप्याह ।
निष्ठुरभावादधुना कटूनि सखि रटति पटह इव ॥गस्स्_१०२॥
आज्ञाकरश्च ताडनपरिभवसहनश्च सत्यमहमस्याः ।
न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद ॥गस्स्_१०३॥
आधाय दुग्धकलशे मन्थानं श्रान्तदोर्लता गोपी ।
अप्राप्तपारिजाता दैवे दोषं निवेशयति ॥गस्स्_१०४॥
आस्तां मानः कथनं सखीषु वा मयि निवेद्यदुर्विनये ।
शिथिलितरतिगुणगर्वा ममापि सा लज्जिता सुतनुः ॥गस्स्_१०५॥
आवर्तैरातर्पणशोभां डिण्डीरपाण्डुरैर्दधती ।
गायति मुखरितसलिला प्रियसङ्गममङ्गलं सुरसा ॥गस्स्_१०६॥
इति विभाव्याख्यासमेता आकारव्रज्या ॥
**********************************************************
इकारव्रज्या
इयमुद्गतिं हरन्तीनेत्रनिकोचं च विदधती पुरतः ।
न विजानीमः किं तव वदति सपत्नीव दिननिद्रा ॥गस्स्_१०७॥
इदमुभयभित्तिसन्ततहारगुणान्तर्गतैककुचमुकुलम् ।
गुटिकाधनुरिव बालावपुः स्मरः श्रयति कुतुकेन ॥गस्स्_१०८॥
इह शिखरिशिखरावलम्बिनि विनोददरतरलवपुषि तरुहरिणे ।
पश्याभिलषति पतितुं विहगी निजनीडमोहेन ॥गस्स्_१०९॥
इक्षुर्नदीप्रवाहो द्यूतं मानग्रहश्च हे सुतनु ।
भ्रूलतिका च तवेयं भङ्गे रसमधिकमावहति ॥गस्स्_११०॥
इन्दोरिवास्य पुरतो यद्विमुखी सापवारणा भ्रमसि ।
तत्कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥गस्स्_१११॥
इह कपटकुतुकतरलितदृशि विश्वासं कुरङ्ग किं कुरुषे ।
तव रभसतरलितेयं व्याधवधूर्वालधौ वलते ॥गस्स्_११२॥
इह वहति बहु महोदधिविभूषणा मानगर्वमियमुर्वी ।
देवस्य कमठमूर्तेः न पृष्ठमपि निखिलमाप्नोति ॥गस्स्_११३॥
इति विभाव्याख्यासमेता इकारव्रज्या ॥
**********************************************************
ईकारव्रज्या
ईर्ष्यारोषज्वलितोनिजपतिसङ्गं विचिन्तयंस्तस्याः ।
च्युतवसनजघनभावनसान्द्रानन्देन निर्वामि ॥गस्स्_११४॥
ईश्वरपरिग्रहोचितमोहोऽस्यां मधुप किं मुधा पतसि ।
कनकाभिधानसारा वीतरसा कितवकलिकेयम् ॥गस्स्_११५॥
ईषदवशिष्टजडिमा शिशिरे गतमात्र एव चिरमङ्गैः ।
नवयौवनेव तन्वी निषेव्यते निर्भरं वापी ॥गस्स्_११६॥
इति विभाव्याख्यासमेता ईकारव्रज्या ॥
**********************************************************
उकारव्रज्या
उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचिराङ्गि ।
अचला अपि न महान्तः के चञ्चलभावमानीताः ॥गस्स्_११७॥
उपनीय यन्नितम्बे भुजङ्गमुच्चैरलम्बि विबुधैः श्रीः ।
एकः स मन्दरगिरिः सखि गरिमाणं समुद्वहतु ॥गस्स्_११८॥
उल्लसितलाञ्छनोऽयं ज्योत्स्नावर्षी सुधाकरः स्फुरति ।
आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ॥गस्स्_११९॥
उपचारानुनयास्ते कितवस्योपेक्षिताः सखीवचसा ।
अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि ॥गस्स्_१२०॥
उषसि परिवर्तयन्त्या मुक्तादामोपवीततां नीतम् ।
पुरुषायितवैदग्ध्यं व्रीडावति कैर्न कलितं ते ॥गस्स्_१२१॥
उड्डीनानामेषां प्रासादात्तरुणि पक्षिणां पङ्क्तिः ।
विस्फुरति वैजयन्तीपवनच्छिन्नापविद्धेव ॥गस्स्_१२२॥
उज्जागरितभ्रामितदन्तुरदलरुद्धमधुकरप्रकरे ।
काञ्चनकेतकि मा तव विकसतु सौरभ्यसम्भारः ॥गस्स्_१२३॥
उल्लसितभ्रूः किमतिक्रान्तं चिन्तयसि निस्तरङ्गाक्षि ।
क्षुद्रापचारविरसः पाकः प्रेम्णो गुडस्येव ॥गस्स्_१२४॥
उद्दिश्य निःसरन्तीं सखीमियं कपटकोपकुटिलभ्रूः ।
एवमवतंसमाक्षिपदाहतदीपो यथा पतति ॥गस्स्_१२५॥
उदितोऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः ।
कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥गस्स्_१२६॥
उद्गमनोपनिवेशनशयनपरावृत्तिवलनचलनेषु ।
अनिशं स मोहयति मां हृल्लग्नः श्वास इव दयितः ॥गस्स्_१२७॥
उज्झितसौभाग्यमदस्फुटयाच्ञानङ्गभीतयोर्यूनोः ।
अकलितमनसोरेका दृष्टिर्दूती निसृष्टार्थी ॥गस्स्_१२८॥
उत्तमभुजङ्गसङ्गमनिस्पन्दनितम्बचापलस्तस्याः ।
मन्दरगिरिरिव विबुधैरितस्ततः कृष्यते कायः ॥गस्स्_१२९॥
उपनीय कलमकुडवं कथयति सभयश्चिकित्सके हलिकः ।
शोणं सोमार्धनिभं वधूस्तने व्याधिमुपजातम् ॥गस्स्_१३०॥
उन्मुकुलिताधरपुटेभूतिकणत्रासमीलितार्धाक्षि ।
धूमोऽपि नेह विरमभ्रमरोऽयं श्वसितमनुसरति ॥गस्स्_१३१॥
उपरि परिप्लवते मम बालेयं गृहिणि हंसमालेव ।
सरस इव नलिननाला त्वमाशयं प्राप्य वससि पुनः ॥गस्स्_१३२॥
उत्कम्पघर्मपिच्छिलदोःसाधिकहस्तविच्युतश्चौरः ।
शिवमाशास्ते सुतनुस्तनयोस्तव पञ्चलाञ्चलयोः ॥गस्स्_१३३॥
उत्क्षिप्तबाहुदर्शितभुजमूलं चूतमुकुल मम सख्या ।
आकृष्यमाण राजति भवतः परमुच्चपदलाभः ॥गस्स्_१३४॥
उच्चकुचकुम्भनिहितो हृदयं चालयति जघनलग्नाग्रः ।
अतिनिम्नमध्यसङ्क्रमदारुनिभस्तरुणि तव हारः ॥गस्स्_१३५॥
उल्लसितशीतदीधितिकलोपकण्ठे स्फुरन्ति तारौघाः ।
कुसुमायुधविधृतधनुर्निर्गतमकरन्दबिन्दुनिभाः ॥गस्स्_१३६॥
उपनीय प्रियमसमयविदं च मे दग्धमानमपनीय ।
नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥गस्स्_१३७॥
उत्तमवनितैकगतिः करीव सरसीपयः सखीधैर्यम् ।
आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन् हरसि ॥गस्स्_१३८॥
इति विभाव्याख्यासमेता उकारव्रज्या ॥
**********************************************************
ऊकारव्रज्या
ऊढामुनातिवाहय पृष्ठे लग्नापि कालमचलापि ।
सर्वंसहे कठोरत्वचः किमङ्केन कमठस्य ॥गस्स्_१३९॥
इति विभाव्याख्यासमेता ऊकारव्रज्या ॥
**********************************************************
ऋकारव्रज्या
ऋजुना निधेहि चरणौ परिहर सखि निखिलनागराचारम् ।
इह डाकिनीति पल्लीपतिः कटाक्षेऽपि दण्डयति ॥गस्स्_१४०॥
ऋषभोऽत्र गीयत इति श्रुत्वा स्वरपारगा वयं प्राप्ताः ।
को वेद गोष्ठमेतद्गोशान्तौ विहितबहुमानम् ॥गस्स्_१४१॥
इति विभाव्याख्यासमेता ऋकारव्रज्या ॥
**********************************************************
एकारव्रज्या
एको हरः प्रियाधरगुणवेदी दिविषदोऽपरे मूढाः ।
विषममृतं वा सममिति यः पश्यन् गरलमेव पपौ ॥गस्स्_१४२॥
एष्यति मा पुनरयमिति गमने यदमङ्गलं मयाकारि ।
अधुना तदेव कारणमवस्थितौ दग्धगेहपतेः ॥गस्स्_१४३॥
एकैकशो युवजनं विलङ्घमानाक्षनिकरमिव तरला ।
विश्राम्यति सुभग त्वामङ्गुलिरासाद्य मेरुमिव ॥गस्स्_१४४॥
एकः स एव जीवति स्वहृदयशून्योऽपि सहृदयो राहुः ।
यः सकललघिमकारणमुदरं न बिभर्ति दुष्पूरम् ॥गस्स्_१४५॥
एकेन चूर्णकुन्तलमपरेण करेण चिबुकमुन्नमयन् ।
पश्यामि बाष्पधौतश्रुति नगरद्वारि तद्वदनम् ॥गस्स्_१४६॥
एकं जीवनमूलं चञ्चलमपि तापयन्तमपि सततम् ।
अन्तर्वहति वराकी सा त्वां नासेव निःश्वासम् ॥गस्स्_१४७॥
एकं वदति मनो मम यामि न यामीति हृदयमपरं मे ।
हृदयद्वयमुचितं तव सुन्दरि हृतकान्तचित्तायाः ॥गस्स्_१४८॥
एरण्डपत्त्रशयना जनयन्ती स्वेदमलघुजघनतटा ।
धूलिपुटीव मिलन्ती स्मरज्वरं हरति हलिकवधूः ॥गस्स्_१४९॥
इति विभाव्याख्यासमेता एकारव्रज्या ॥
**********************************************************
ककारव्रज्या
केलिनिलयं सखीमिव नयति नवोढां स्वयं न मां भजते ।
इत्थं गृहिणीमर्ये स्तुवति प्रतिवेशिना हसितम् ॥गस्स्_१५०॥
कालक्रमकमनीयक्रोडेयं केतकीति काशंसा ।
वृद्धिर्यथा यथा स्यास्तथा तथा कण्टकोत्कर्षः ॥गस्स्_१५१॥
कृतकस्वाप मदीयश्वासध्वनिदत्तकर्ण किं तीव्रैः ।
विध्यसि मां निःश्वासैः स्मरः शरैः शब्दवेधीव ॥गस्स्_१५२॥
क्व स निर्मोकदुकूलः क्वालङ्करणाय फणिमणिश्रेणी ।
कालियभुजङ्गगमनाद्यमुने विश्वस्य गम्यासि ॥गस्स्_१५३॥
किञ्चिन्न बालयोक्तं न सप्रसादा निवेशिता दृष्टिः ।
मयि पदपतिते केवलमकारि शुकपञ्जरो विमुखः ॥गस्स्_१५४॥
कृतहसितहस्ततालं मन्मथतरलैर्विलोकितां युवभिः ।
क्षिप्तः क्षिप्तो निपतन्नङ्गे नर्तयति भृङ्गस्ताम् ॥गस्स्_१५५॥
कमलमुखि सर्वतोमुखनिवारणं विदधदेव भूषयति ।
रोधोऽरुद्धस्वरसास्तरङ्गिणीस्तरलनयनाश्च ॥गस्स्_१५६॥
कितव प्रपञ्चिता सा भवता मन्दाक्षमन्दसञ्चारा ।
बहुदायैरपि सम्प्रति पाशकसारीव नायाति ॥गस्स्_१५७॥
कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यम् ।
प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयम् ॥गस्स्_१५८॥
किमशकनीयं प्रेम्णः फणिनः कथयापि या बिभेति स्म ।
सा गिरिशभुजभुजङ्गमफेणोपधानाद्य निद्राति ॥गस्स्_१५९॥
कृत्रिमकनकेनेव प्रेम्णा मुषितस्य वारवनिताभिः ।
लघुरिव वित्तविनाशक्लेशो जनहास्यता महती ॥गस्स्_१६०॥
किं पर्वदिवसमार्जितदन्तोष्ठि निजं वपुर्न मण्डयसि ।
स त्वां त्यजति न पर्वस्वपि मधुरामिक्षुयष्टिमिव ॥गस्स्_१६१॥
कष्टं साहसकारिणि तव नयनार्धेन सोऽध्वनि स्पृष्टः ।
उपवीतादपि विदितो न द्विजदेहस्तपस्वी ते ॥गस्स्_१६२॥
क्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्येव ।
रौद्रेऽनभ्रेऽपि नभःसुरापगावारिवृष्टिरेव ॥गस्स्_१६३॥
कूपप्रभवाणां परमुचितमपां पट्टबन्धनं मन्ये ।
याः शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥गस्स्_१६४॥
कररुहशिखानिखात भ्रान्त्वा विश्रान्त रजनिदुरवाप ।
रविरिव यन्त्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशम् ॥गस्स्_१६५॥
किं करवाणि दिवानिशमपि लग्ना सहजशीतलप्रकृतिः ।
हन्त सुखयामि न प्रियमात्मानमिवात्मनश्छाया ॥गस्स्_१६६॥
केशैः शिरसो गरिमा मरणं पीयूषकुण्डपातेन ।
दयितवहनेन वक्षसि यदि भारस्तदिदमचिकित्स्यम् ॥गस्स्_१६७॥
किञ्चित्कर्कशतामनु रसं प्रदास्यन्निसर्गमधुरं मे ।
इक्षोरिव ते सुन्दरि मानस्य ग्रन्थिरपि काम्यः ॥गस्स्_१६८॥
केन गिरिशस्य दत्ता बुद्धिर्भुजगं जटावनेऽर्पयितुम् ।
येन रतिरभसकान्ताकरचिकुराकर्षणं मुषितम् ॥गस्स्_१६९॥
करचरणकाञ्चिहारप्रहारमवचिन्त्य बलगृहीतकचः ।
प्रणयी चुम्बति दयितावदनं स्फुरदधरमरुणाक्षम् ॥गस्स्_१७०॥
कुरुतां चापलमधुना कलयतु सुरसासि यादृशी तदपि ।
सुन्दरि हरीतकीमनु परिपीता वारिधारेव ॥गस्स्_१७१॥
कज्जलतिलककलङ्कितमुखचन्द्रे गलितसलिलकणकेशि ।
नवविरहदहनतूलो जीवयितव्यस्त्वया कतमः ॥गस्स्_१७२॥
कृच्छ्रानुवृत्तयोऽपि हि परोपकारं त्यजन्ति न महान्तः ।
तृणमात्रजीवना अपि करिणो दानद्रवार्द्रकराः ॥गस्स्_१७३॥
किं हसथ किं प्रधावथ किं जनमाह्वयथ बालका विफलम् ।
तदथ दर्शयति यथारिष्टः कण्ठेऽमुना जगृहे ॥गस्स्_१७४॥
कातरताकेकरितस्मरलज्जारोषमसृणमधुराक्षी ।
योक्तुं न मोक्तुमथवा वलतेऽसावर्थलब्धरतिः ॥गस्स्_१७५॥
केतकगर्भे गन्धादरेण दूरादमी द्रुतमुपेताः ।
मदनस्यन्दनवाजित इव मधुपा धूलिमाददते ॥गस्स्_१७६॥
को वक्रिमा गुणाः के का कान्तिः शिशिरकिरणलेखानाम् ।
अन्तः प्रविश्य यासामाक्रान्तं पशुविशेषेण ॥गस्स्_१७७॥
कृतविविधमथनयत्नः पराभावाय प्रभुः सुरासुरयोः ।
इच्छति सौभाग्यमदात्स्वयंवरेण श्रियं विष्णुः ॥गस्स्_१७८॥
किं पुत्रि गण्डशैलभ्रमेण नवनीरदेषु निद्रासि ।
अनुभव चपलाविलसितगर्जितदेशान्तरभ्रान्तीः ॥गस्स्_१७९॥
कान्तः पदेन हत इति सरलामपराध्य किं प्रसादयथ ।
सोऽप्येवमेव सुलभः पदप्रहारः प्रसादः किम् ॥गस्स्_१८०॥
कर्णगतेयममोघा दृष्टिस्तव शक्तिरिन्द्रदत्ता च ।
सा नासादितविजया क्वचिदपि नापार्थपतितेयम् ॥गस्स्_१८१॥
क्लेशयसि किमिति दूतीर्यदशक्यं सुमुखि तव कटाक्षेण ।
कामोऽपि तत्र सायकमकीर्तिशङ्की न सन्धत्ते ॥गस्स्_१८२॥
को वेद मूल्यमक्षद्यूते प्रभुणा पणीकृतस्य विधोः ।
प्रतिविजये यत्प्रतिपणमधरं घरनन्दिनी विदधे ॥गस्स्_१८३॥
कुपितां चरणप्रहरणभयेन मुञ्चामि न खलु चण्डि त्वाम् ।
अलिरनिलचपलकिसलयताडनसहनो लतां भजते ॥गस्स्_१८४॥
कोपाकृष्टभ्रूस्मरशरासने संवृणु प्रिये पततः ।
छिन्नज्यामधुपानिव कज्जलमलिनाश्रुजलबिन्दून् ॥गस्स्_१८५॥
कामेनापि न भेत्तुं किमु हृदयमपारि बालवनितानाम् ।
मूढविशिखप्रहारोच्छूनमिवाभाति यद्वक्षः ॥गस्स्_१८६॥
किं परजीवैर्दीव्यसि विस्मयमधुराक्षि गच्छ सखि दूरम् ।
अहिमधिचत्वरमुरगग्राही खेलयतु निर्विघ्नः ॥गस्स्_१८७॥
करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षी ।
रोषयति परुषवचनैस्तथा तथा प्रेयसीं रसिकः ॥गस्स्_१८८॥
कस्तां निन्दति लुम्पति कः स्मरफलकस्य वर्णकं मुग्धः ।
को भवति रत्नकण्टकममृते कस्यारुचिरुदेति ॥गस्स्_१८९॥
कोपवति पाणिलीलाचञ्चलचूताङ्कुरे त्वयि भ्रमति ।
करकम्पितकरवाले स्मर इव सा मूर्च्छिता सुतनुः ॥गस्स्_१९०॥
कौलीन्यादलमेनां भजामि नकुलं स्मरः प्रमाणयति ।
तद्भावनेन भजतो मम गोत्रस्खलनमनिवार्यम् ॥गस्स्_१९१॥
कुत इह कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।
तृणबाणस्तृणधन्वा तृणघटितः कपटपुरुषोऽयम् ॥गस्स्_१९२॥
इति विभाव्याख्यासमेता ककारव्रज्या ॥
**********************************************************
खकारव्रज्या
खलसख्यं प्राङ्मधुरं वयोऽनतराले निदाघदिनमन्ते ।
एकआदिमध्यपरिणतिरमणीया साधुजनमैत्री ॥गस्स्_१९३॥
इति विभाव्याख्यासमेता खकारव्रज्या ॥
**********************************************************
गकारव्रज्या
गुणमधिगतमपि धनवान्न चिरान्नाशयति रक्षति दरिद्रः ।
मज्जयति रज्जुमम्भसि पूर्णः कुम्भः सखि न तुच्छः ॥गस्स्_१९४॥
गुरुरपि लघूपनीतो न निमज्जति नियतमाशये महतः ।
वानकरोपनीतः शैलो मकरालयस्येव ॥गस्स्_१९५॥
गौरीपतेर्गरीयो गरलं गत्वा गले जीर्णम् ।
जीर्यति कर्णे महतां दुर्वादो नाल्पमपि विशति ॥गस्स्_१९६॥
गृहपतिपुरतो जारं कपटकथाकथितमन्मथावस्थम् ।
प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य ॥गस्स्_१९७॥
गतिगञ्जितवरयुवतिः करी कपोलौ करोतु मदमलिनौ ।
मुखबन्धमात्रसिन्धुर लबोदर किं मदं वहसि ॥गस्स्_१९८॥
गेहिन्याः शृण्वन्ती गोत्रस्खलितापराधतो मानम् ।
स्निग्धां प्रिये सगर्वां सखीषु बाला दृशं दिशति ॥गस्स्_१९९॥
ग्रीष्ंमये समयेऽस्मिन् विनिर्मितं कलय केलिवनमूले ।
अलमालवालवलयच्छलेन कुण्डलितमिव शैत्यम् ॥गस्स्_२००॥
गुणबद्धचरण इति मा लीलाविहगं विमुञ्च सखि मुग्धे ।
अस्मिन् वलयितशाखे क्षणेन गुणयन्त्रणं त्रुटति ॥गस्स्_२०१॥
गुरुगर्जिसान्द्रविद्युद्भयमुद्रितकर्णचक्षुषां पुरतः ।
बाला चुम्बति जारं वज्रादधिको हि मदनेषुः ॥गस्स्_२०२॥
गृहिणीगुणेषु गणिता विनयः सेवा विधेयतेति गुणाः ।
मानः प्रभुता वाम्यं विभूषणं वामनयनानाम् ॥गस्स्_२०३॥
गुणमान्तरमगुणं वा लक्ष्मीर्गङ्गा च वेद हरिहरयोः ।
एका पदेऽपि रमते न वसति निहिता शिरस्यपरा ॥गस्स्_२०४॥
गत्वा जीवितसंशयमभ्यस्तः सोढुमतिचिराद्विरहः ।
अकरुणः पुनरपि दित्ससि सुरतदुरभ्यासमस्माकम् ॥गस्स्_२०५॥
गोत्रस्खलितप्रश्नेऽप्युत्तरमतिशीलशीतलं दत्त्वा ।
निःश्वस्य मोघरूपे स्ववपुषि निहितं तया चक्षुः ॥गस्स्_२०६॥
गन्धग्राहिणि शालोन्मीलितनिर्यासनिहितनिखिलाङ्गि ।
उपभुक्तमुक्तभूरुहशतेऽधुना भ्रमरि न भ्रमसि ॥गस्स्_२०७॥
गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।
उचितज्ञासि तुले किं तुलयसि गुञ्जाफलैः कनकम् ॥गस्स्_२०८॥
गेहिन्या ह्रियमाणं निरुध्यमानं नवोढया पुरतः ।
मम नौकाद्वितयार्पितगुण इव हृदयं द्विधा भवति ॥गस्स्_२०९॥
गुण आकर्षणयोग्यो धनुष इवैकोऽपि लक्षलाभाय ।
लूतातन्तुभिरिव किं गुणैर्विमर्दासहैर्बहुभिः ॥गस्स्_२१०॥
गायति गीते वंशे वादयति स विपञ्चीषु ।
पाठयति पञ्जरशुकं तव सन्देशाक्षरं रामा ॥गस्स्_२११॥
गणयति न मधुव्ययमयमविरतमापिबतु मधुकरः कुमुदम् ।
सौभाग्यमानवान् परमसूयति द्युमणये चन्द्रः ॥गस्स्_२१२॥
गुणविधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं ते ।
हृतममुना मालायाः समीरणेनेव सौरभ्यम् ॥गस्स्_२१३॥
गुरुसदने नेदीयसि चरणगते मयि च मूकयापि तया ।
नूपुरमपास्य पदयोः किं न प्रियमीरितं प्रियया ॥गस्स्_२१४॥
ग्रन्थिलतया किमिक्षोः किमपभ्रंशेन भवति गीतस्य ।
किमनार्जवेन शशिनः किं दारिद्र्येण दयितस्य ॥गस्स्_२१५॥
गेहिन्या चिकुरग्रहसमयससीत्कारमीलितदृशापि ।
बालाकपोलपुलकं विलोक्य निहितोऽस्मि शिरसि पदा ॥गस्स्_२१६॥
गुरुपक्ष्म जागरारुणघूर्णत्तारं कथञ्चिदपि वलते ।
नयनमिदं स्फुटनखपदनिवेश् अकृतकोपकुटिलभ्रु ॥गस्स्_२१७॥
इति विभाव्याख्यासमेता गकारव्रज्या ॥
**********************************************************
घकारव्रज्या
घटितजघनं निपीडितपीनोरु न्यस्तनिखिलकुचभारम् ।
आलिङ्गन्त्यपि बाला वदत्यसौ मुञ्च मुञ्चेति ॥गस्स्_२१८॥
घटितपलाशकपाटं निशि निशि सुखिनो हि शेरते पद्माः ।
उज्जागरेण कैरव कति शक्या रक्षितुं लक्ष्मीः ॥गस्स्_२१९॥
घूर्णन्ति विप्रलब्धाः स्नेहापायात्प्रदीपकलिकाश्च ।
प्रातः प्रस्थितपान्थस्त्रीहृदयं स्फुटति कमलं च ॥गस्स्_२२०॥
इति विभाव्याख्यासमेता घकारव्रज्या ॥
**********************************************************
चकारव्रज्या
चपलस्य पलितलाञ्छितचिकुरं दयितस्य मौलिमवलोक्य ।
खेदोचितेऽपि समये संमदमेवाददे गृहिणी ॥गस्स्_२२१॥
चण्डि प्रसारितेन स्पृशन् भुजेनापि कोपनां भवतीम् ।
तृप्यामि पङ्किलामिव पिबन्नदीं नलिननालेन ॥गस्स्_२२२॥
चपलभुजङ्गीभुक्तोज्झित शीतलगन्धवह निशि भ्रान्त ।
अपराशां पूरयितुं प्रत्यूषसदागते गच्छ ॥गस्स्_२२३॥
चिरपथिक द्राघिममिलदलकलताशैवलावलिग्रथिला ।
करतोयेव मृगाक्ष्या दृष्टिरिदानीं सदानीरा ॥गस्स्_२२४॥
चण्डि दरचपलचेलव्यक्तोरुविलोकनैकरसिकेन ।
धूलिभयादपि न मया चरणहृतौ कुञ्चितं चक्षुः ॥गस्स्_२२५॥
चलकुण्डलचलदलकस्खलदुरसिजवसनसज्जदूरुयुगम् ।
जघनभरक्लमकूणितनयनमिदं हरति गतमस्याः ॥गस्स्_२२६॥
चरणैः परागसैकतमफलमिदं लिखसि मधुप केतक्याः ।
इह वसति कान्तिसारे नान्तःसलिलापि मधुसिन्धुः ॥गस्स्_२२७॥
चिरकालपथिक शङ्कातरङ्गिताक्षः किमीक्षसे मुग्ध ।
त्वन्निस्त्रिंशाश्लेषव्रणकिणराजीयमेतस्याः ॥गस्स्_२२८॥
चपलां यथा मदान्धश्छायामयमात्मनः करो हन्ति ।
आस्फालयति करं प्रतिगजस्तथायं पुरो रुद्धः ॥गस्स्_२२९॥
चुम्बनलोलुपमदधरहृतकाश्मीरं स्मरन्न तृप्यामि ।
हृदयद्विरदालानस्तम्भं तस्यास्तदूरुयुगम् ॥गस्स्_२३०॥
चिकुरविसारणतिर्यङ्नतकण्ठी विमुखवृत्तिरपि बाला ।
त्वामियमङ्गुलिकल्पितकचावकाशा विलोकयति ॥गस्स्_२३१॥
चुम्बनहृताञ्जनार्घं स्फुटजागररागमीक्षणं क्षिपसि ।
किमुषसि वियोगकातरमसमेषुरिवार्धनाराचम् ॥गस्स्_२३२॥
इति विभाव्याख्यासमेता चकारव्रज्या ॥
**********************************************************
छकारव्रज्या
छायाग्राही चन्द्रः कूटत्वं सततमम्बुजं व्रजति ।
हित्वोभयं सभायां स्तौति तवैवाननं लोकः ॥गस्स्_२३३॥
छायामात्रं पश्यन्नधोमुखोऽप्युद्गतेन धैर्येण ।
तुदति मम हृदयनिपुणा राधाचक्रं किरीतीव ॥गस्स्_२३४॥
इति विभाव्याख्यासमेता छकारव्रज्या ॥
**********************************************************
जकारव्रज्या
जलबिन्दवः कतिपये नयनाद्गमनोद्यमे तव स्खलिताः ।
कान्ते मम गन्तव्या भूरेतैरेव पिच्छिलिता ॥गस्स्_२३५॥
जृम्भोत्तम्भितदोर्युगयन्त्रितताटङ्कपीडितकपोलम् ।
तस्याः स्मरामि जलकणलुलिताञ्जनमलसदृष्टि मुखम् ॥गस्स्_२३६॥
जागरित्वा पुरुषं परं वने सर्वतो मुखं हरसि ।
अति शरदनुरूपं तव शीलमिदं जातिशालिन्याः ॥गस्स्_२३७॥
इति विभाव्याख्यासमेता जकारव्रज्या ॥
**********************************************************
झकारव्रज्या
झङ्कृतकङ्कणपाणिक्षेपैः स्तम्भावलम्बनैर्मौनैः ।
शोभयसि शुष्करुदितैरपि सुन्दरि मन्दिरद्वारम् ॥गस्स्_२४६॥
इति विभाव्याख्यासमेता झकारव्रज्या ॥
**********************************************************
ढकारव्रज्या
ढक्कामाहत्य मदं वितन्वते करिण इव चिरं पुरुषाः ।
स्त्रीणां करिणीनामिव मदः पुनः स्वकुलनाशाय ॥गस्स्_२४७॥
इति विभाव्याख्यासमेता ढकारव्रज्या ॥
**********************************************************
तकारव्रज्या
तां तापयन्ति मन्मथबाणास्त्वां प्रीणयन्ति बत सुभग ।
तपनकरास्तपनशिलां ज्वलयन्ति विधुं मधुरयन्ति ॥गस्स्_२४८॥
तव सुतनु सानुमत्या बहुधातुजनितनितम्बरागायाः ।
गिरिवरभुव इव लाभेनाप्नोमि द्व्यङ्गुलेन दिवम् ॥गस्स्_२४९॥
त्यक्तो मुञ्चति जीवनमुज्झति नानुग्रहेऽपि लोलुत्वम् ।
किं प्रावृषेव पद्माकरस्य करणीयमस्य मया ॥गस्स्_२५०॥
त्वद्विरहापदि पाण्डुस्तन्वङ्गी छाययैव केवलया ।
हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया ॥गस्स्_२५१॥
त्वयि विनिवेशितचित्ता सुभग गता केवलेन कायेन ।
घनजालरुद्धमीना नदीव सा नीरमात्रेण ॥गस्स्_२५२॥
त्वयि संसक्तं तस्याः कठोरतर हृदयमसमशरतरलम् ।
मारुतचलमञ्चलमिव कण्टकसम्पर्कतः स्फुटितम् ॥गस्स्_२५३॥
त्वमसूर्यंपश्या सखि पदमपि न विनापवारणं भ्रमसि ।
छाये किमिह विधेयं मुञ्चन्ति न मूर्तिमन्तस्त्वाम् ॥गस्स्_२५४॥
तव विरहे विस्तारितरजनौ जनितेन्दुचन्दनद्वेषे ।
विसिनीव माघमासे विना हुताशने सा दग्धा ॥गस्स्_२५५॥
तरुणि त्वच्चरणाहतिकुसुमितकङ्केल्लिकोरकप्रकरम् ।
कुटिलचरिता सपत्नी न पिबति बत शोकविकलापि ॥गस्स्_२५६॥
तल्पे प्रभुरिव गुरुरिव मनसिजतन्त्रे श्रमे भुजिष्येव ।
गेहे श्रीरिव गुरुजनपुरतो मूर्तेव सा व्रीडा ॥गस्स्_२५७॥
त्वमलभ्या मम तावन्मोक्तुमशक्तस्य संमुखं व्रजतः ।
छायेवापसरन्ती भित्त्या न निवार्यसे यावत् ॥गस्स्_२५८॥
तपसा क्लेशित एष प्रौढबलो न खलु फाल्गुनेऽप्यासीत् ।
मधुना प्रमत्तमधुना को मदनं मिहिरमिव सहते ॥गस्स्_२५९॥
त्वद्गमनदिवसगणनावलक्षरेखाभिरङ्किता सुभग ।
गण्डस्थलीव तस्याः पाण्डुरिता भवनभित्तिरपि ॥गस्स्_२६०॥
तस्याग्राम्यस्याहं सखि वक्रस्निग्धमधुरया दृष्ट्या ।
विद्धा तदेकनेया पोत्रिण इव दंष्ट्रया धरणी ॥गस्स्_२६१॥
त्वयि कुग्रामवटद्रुम वैश्रवणो वसतु वा लक्ष्मीः ।
पामरकुठारपातात्कासरशिरसैव ते रक्षा ॥गस्स्_२६२॥
तव मुखर वदनदोषं सहमाना मोक्तुमक्षमा सुतनुः ।
सा वहति विट भवन्तं घुणमन्तः शालभञ्जीव ॥गस्स्_२६३॥
तृणमुखमिव न खलु त्वां त्यजन्त्यमी हरिण वैरिणः शवराः ।
यशसैव जीवितमिदं त्यज योजितशृङ्गसङ्ग्रामः ॥गस्स्_२६४॥
त्रिपुररिपोरिव गङ्गा मम मानिनि जनितमदनदाहस्य ।
जीवनमर्पितशिरसो ददासि चिकुरग्रहेणैव ॥गस्स्_२६५॥
त्वत्सङ्कथासु मुखरः सनिन्दसानन्दसावहित्थ इव ।
स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः ॥गस्स्_२६६॥
त्वयि सर्पति पथि दृष्टिः सुन्दर वृतिविवरनिर्गता तस्याः ।
दरतरलभिन्नशैवलजाला शफरीव विस्फुरति ॥गस्स्_२६७॥
ते सुतनु शून्यहृदया ये शङ्खं शून्यहृदयमभिदधति ।
अङ्गीकृतकरपत्त्रो यस्तव हस्तग्रहं कुरुते ॥गस्स्_२६८॥
ते श्रेष्ठिनः क्व सम्प्रति शक्रध्वज यैः कृतस्तवोच्छ्रायः ।
ईषां वा मेढिं वाधुनातनास्त्वां विधित्सन्ति ॥गस्स्_२६९॥
तानवमेत्य छिन्नः परोपहितरागमदनसङ्घटितः ।
कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥गस्स्_२७०॥
तस्मिन् गतार्द्रभावे वीतरसे शुण्ठिशकल इव पुरुषे ।
अपि भूतिभाजि मलिने नागरशब्दो विडम्बाय ॥गस्स्_२७१॥
तमसि घने विषमे पथि जम्बुकमुल्कामुखं प्रपन्नाः स्मः ।
किं कुर्मः सोऽपि सखे स्थितो मुखं मुद्रयित्वैव ॥गस्स्_२७२॥
त्वामभिलषतो मानिनि मम गरिमगुणोऽपि दोषतां यातः ।
पङ्किलकूलां तटिनीं यियासतः सिन्धुरस्येव ॥गस्स्_२७३॥
तिमिरेऽपि दूरदृश्या कठिनाश्लेषे च रहसि मुखरा च ।
शङ्खमयवलयराजी गृहपतिशिरसा सह स्फुटतु ॥गस्स्_२७४॥
तव वृत्तेन गुणेन च समुचितसम्पन्नकण्ठलुठनायाः ।
हारस्रज इव सुन्दरि कृतः पुनर्नायकस्तरलः ॥गस्स्_२७५॥
इति विभाव्याख्यासमेता तकारव्रज्या ॥
**********************************************************
दकारव्रज्या
दर्शनविनीतमाना गृहिणी हर्षोल्लसत्कपोलतलम् ।
चुम्बननिषेधमिषतो वदनं पिदधाति पाणिभ्याम् ॥गस्स्_२७६॥
देहस्तम्भः स्खलनं शैथिल्यं वेपथुः प्रियध्यानम् ।
पथि पथि गगनाश्लेषः कामिनि कस्तेऽभिसारगुणः ॥गस्स्_२७७॥
द्राघयता दिवसानि त्वदीयविरहेण तीव्रतापेन ।
ग्रीष्मेणेव नलिन्या जीवनमल्पीकृतं तस्याः ॥गस्स्_२७८॥
दुर्जनसहवासादपि शीलोत्कर्षं न सज्जनस्त्यजति ।
प्रतिपर्वतपनवासी निःसृतमात्रः शशी शीतः ॥गस्स्_२७९॥
दयितप्रहितां दूतीमालम्ब्य करेण तमसि गच्छन्ती ।
स्वेदच्युतमृगनाभिर्दूराद्गौराङ्गि दृश्यासि ॥गस्स्_२८०॥
दयितागुणः प्रकाशं नीतः स्वस्यैव वदनदोषेण ।
प्रतिदिनविदलितवाटीवृतिगह्टनैः खिद्यसे किमिति ॥गस्स्_२८१॥
दाक्षिण्यान्म्रदिमानं दधतं मा भानुमेनमवमंस्थाः ।
रौद्रीमुपागतेऽस्मिन् कः क्षमते दृष्टिमपि दातुम् ॥गस्स्_२८२॥
दृष्ट्यैव विरहकातरतारकया प्रियमुखे समर्पितया ।
यान्ति मृगवल्लभायाः पुलिन्दबाणार्दिताः प्राणाः ॥गस्स्_२८३॥
दूरस्थापितहृदयो गूढरहस्यो निकाममाशङ्कः ।
आश्लेषो बालानां भवति खलानां च सम्भेदः ॥गस्स्_२८४॥
द्वारे गुरवः कोणे शुकः सकाशे शिशुर्गृहे सख्यः ।
कालासह क्षमस्व प्रिय प्रसीद प्रयातमहः ॥गस्स्_२८५॥
दधिकणमुक्ताभरणश्वासोत्तुङ्गस्तनार्पणमनोज्ञम् ।
प्रियमालिङ्गति गोपी मन्थनश्रममन्थरैरङ्गैः ॥गस्स्_२८६॥
दलितोद्वेगेन सखि प्रियेण लग्नेन रागमावहता ।
मोहयता शयनीयं ताम्बूलेनेव नीतास्मि ॥गस्स्_२८७॥
दृष्टमदृष्टप्रायं दयितं कृत्वा प्रकाशितस्तनया ।
हृदयं करेण ताडितमथ मिथ्या व्यञ्जितत्रपया ॥गस्स्_२८८॥
दर्शितयमुनोच्छ्राये भ्रूविभ्रमभाजि वलति तव नयने ।
क्षिप्तहले हलधर इव सर्वं पुरमर्जितं सुतनु ॥गस्स्_२८९॥
दयितप्रार्थितदुर्लभमुखमदिरासारसेकसुकुमारः ।
व्यथयति विरहे बकुलः क्व परिचयः प्रकृतिकठिनानाम् ॥गस्स्_२९०॥
द्वित्रैरेष्यामि दिनैरिति किं तद्वचसि सखि तवाश्वासः ।
कथयति चिरपथिकं तं दूरनिखातो नखाङ्कस्ते ॥गस्स्_२९१॥
दयितस्पर्शोन्मीलितधर्मजलस्खलितचरणखलाक्षे ।
गर्वभरमुखरिते सखि तच्चिकुरान् किमपराधयसि ॥गस्स्_२९२॥
दुष्टग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन ।
भौमेनेव निजं कुलमङ्गारकवत्कृतं येन ॥गस्स्_२९३॥
दर्शितचापोच्छ्रायैस्तेजोवद्भिः सुगोत्रसञ्जातैः ।
हीरैरप्स्वपि वीरैरापत्स्वपि गम्यते नाधः ॥गस्स्_२९४॥
दरनिद्राणस्यापि स्मरस्य शिल्पेन निर्गतासून्मे ।
मुग्धे तव दृष्टिरसावर्जुनयन्त्रेषुरिव हन्ति ॥गस्स्_२९५॥
दुर्गतगृहिणी तनये करुणार्द्रा प्रियतमे च रागमयी ।
मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥गस्स्_२९६॥
दुर्गतगेहिनि जर्जरमन्दिरसुप्तैव वन्दसे चन्द्रम् ।
वयमिन्दुवञ्चितदृशो निचुलितदोलाविहारिण्यः ॥गस्स्_२९७॥
दीपदशा कुलयुवतिर्वैदग्ध्येनैव मलिनतामेति ।
दोषा अपि भूषायै गणिकायाः शशिकलायाश्च ॥गस्स्_२९८॥
दीर्घगवाक्षमुखान्तर्निपातिनस्तरणिरश्मयः शोणाः ।
नृहरिनखा इव दानववक्षः प्रविशन्ति सौधतलम् ॥गस्स्_२९९॥
दरतरलेऽक्षणि वक्षसि दरोन्नते तव मुखे च दरहसिते ।
आस्तां कुसुमं वीरः स्मरोऽधुना चित्रधनुषापि ॥गस्स्_३००॥
दुष्टसखीसहितेयं पूर्णेन्दुमुखी सुखाय नेदानीम् ।
राकेव विष्टियुक्ता भवतोऽभिमताय निशि भवतु ॥गस्स्_३०१॥
दलिते पलालपुञ्जे वृषभं परिभवति गृहपतौ कुपिते ।
निभृतनिभालितवदनौ हलिकवधूदेवरौ हसतः ॥गस्स्_३०२॥
दीप्यन्तां ये दीप्त्यै घटिता मणयश्च वीरपुरुषाश्च ।
तेजः स्वविनाशाय तु नृणां तृणानामिव लघूनाम् ॥गस्स्_३०३॥
इति विभाव्याख्यासमेता दकारव्रज्या ॥
**********************************************************
धकारव्रज्या
धूमैरश्रु निपातय दह शिखया दहनमलिनयाङ्गारैः ।
जागरयिष्यति दुर्गतगृहिणी त्वां तदपि शिशिरनिशि ॥गस्स्_३०४॥
धैर्यं निधेहि गच्छतु रजनी सोऽप्यस्तु सुमुखि सोत्कण्ठः ।
प्रविश हृदि तस्य दूरं क्षणधृतमुक्ता स्मरेषुरिव ॥गस्स्_३०५॥
धवलनखलक्ष्म दुर्बलमकलैतनेपथ्यमलकपिहिताक्ष्याः ।
द्रक्ष्यामि मदवलोकद्विगुणाश्रु वपुः पुरद्वारि ॥गस्स्_३०६॥
धर्मारम्भेऽप्यसतां परहिंसैव प्रयोजिका भवति ।
काकानामभिषेकेऽकारणतां वृष्टिरनुभवति ॥गस्स्_३०७॥
इति विभाव्याख्यासमेता धकारव्रज्या ॥
**********************************************************
नकारव्रज्या
नीरावतरणदन्तुरसैकतसम्भेदमेदुरैः शिशिरे ।
राजन्ति तूलराशिस्थूलपटैरिव तटैः सरितः ॥गस्स्_३०८॥
निजकायच्छायायां विश्रम्य निदाघविपदमपनेतुम् ।
बत विविधास्तनुभङ्गीर्मुग्धकरङ्गीयमाचरति ॥गस्स्_३०९॥
न हसन्ति जरठ इति यद्वल्लववनिता नमन्ति नन्दमपि ।
सखि स यशोदातनयो नित्यं कन्दलितकन्दर्पः ॥गस्स्_३१०॥
नीता स्वभावमर्पितवपुरपि वाम्यं न कामिनी त्यजति ।
हरदेहार्धग्रथिता निदर्शनं पार्वती तत्र ॥गस्स्_३११॥
नागरभोगानुमितस्ववधूसौन्दर्यगर्वतरलस्य ।
निपतति पदं न भूमौ ज्ञातिपुरस्तन्तुवायस्य ॥गस्स्_३१२॥
निपतति चरणे कोणे प्रविश्य निशि यन्निरीक्षते कस्तत् ।
सखि स खलु लोकपुरतः खलः स्वगरिमाणमुद्गिरति ॥गस्स्_३१३॥
न विमोचयितुं शक्यः क्षमां महान्मोचितो यदि कथंचित् ।
मन्दरगिरिरिव गरलं निवर्तते ननु समुत्थाप्य ॥गस्स्_३१४॥
नियतैः पदैर्निषेव्यं स्खलितेऽनर्थावहं समाश्रयति ।
सम्भवदन्यगतिः कः सङ्क्रमकाष्ठं दुरीशं च ॥गस्स्_३१५॥
निजपदगतिगुणरञ्जितजगतां करिणां च सत्कवीनां च ।
वहतामपि महिमानं शोभायै सज्जना एव ॥गस्स्_३१६॥
नोत्तपने न स्नेहं हरति न निर्वाति न मलिनो भवति ।
तस्योज्ज्वलो निशि निशि प्रेमा रत्नप्रदीप इव ॥गस्स्_३१७॥
निहितान्निहितानुज्झति नियतं मम पार्थिवानपि प्रेम ।
भ्रामं भ्रामं तिष्ठति तत्रैव कुलालचक्रमिव ॥गस्स्_३१८॥
निर्भरमपि सम्भुक्तं दृष्ट्या प्रातः पिबन्न तृप्यामि ।
जघनमनंशुकमस्याः कोक इवाशिशिरकरबिम्बम् ॥गस्स्_३१९॥
निविडघटितोरुयुगलां श्वासोत्तब्धस्तनार्पितव्यजनाम् ।
तां स्निग्धकुपितदृष्टिं स्मरामि रतनिःसहां सुतनुम् ॥गस्स्_३२०॥
निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ विद्धि ।
पश्य धनुर्गुणशून्यं निर्जीवं तदिह शंसन्ति ॥गस्स्_३२१॥
निजसूक्ष्मसूत्रलम्बी विलोचनं तरुण ते क्षणं हरतु ।
अयमुद्गृहीतवडिशः कर्कट इव मर्कटः पुरतः ॥गस्स्_३२२॥
नागर गीतिरिवासौ ग्रामस्थित्यापि भूषिता सुतनुः ।
कस्तूरी न मृगोदरवासवशाद्विस्रतामेति ॥गस्स्_३२३॥
नखलिखितस्तनि कुरबकमयपृष्ठे भूमिलुलितविरसाङ्गि ।
हृदयविदारणनिःसृतकुसुमास्रशरेव हरसि मनः ॥गस्स्_३२४॥
नीता लघिमानमियं तस्यां गरिमाणमधिकमर्पयसि ।
भार इव विषमभार्यः सुदुर्वहो भवति गृहवासः ॥गस्स्_३२५॥
न च दूती न च याच्ञा न चाञ्जलिर्न च कटाक्षविक्षेपः ।
सौभाग्यमानिनां सखि कचग्रहः प्रथममभियोगः ॥गस्स्_३२६॥
निशि विषमकुसुमविशिखप्रेरितयोर्मौनलब्धरतिरसयोः ।
मानस्तथैव विलसति दम्पत्योरशिथिलग्रन्थिः ॥गस्स्_३२७॥
निजगात्रनिर्विशेषस्थापितमपि सारमखिलमादाय ।
निर्मोकं च भुजङ्गी मुञ्चति पुरुषं च वारवधूः ॥गस्स्_३२८॥
नृत्यश्रमघर्मार्द्रं मुञ्चसि कृच्छ्रेण कञ्चुकं सुतनु ।
मकरन्दोदकजुष्टं मदनधनुर्वल्लिरिव चोलम् ॥गस्स्_३२९॥
नाहं वदामि सुतनु त्वमशीला वा प्रचण्डचरिता वा ।
प्रेमस्वभावसुलभं भयमुदयति मम तु हृदयस्य ॥गस्स्_३३०॥
न निरूपितोऽसि सख्या नियतं नेत्रत्रिभागमात्रेण ।
हारयति येन कुसुमं विमुखे त्वयि कण्ठ इव देवे ॥गस्स्_३३१॥
नखदशनमुष्टिपातैरदयैरालिङ्गनैश्च सुभगस्य ।
अपराधं शंसन्त्यः शान्तिं रचयन्ति रागिण्यः ॥गस्स्_३३२॥
न गुणे न लक्षणेऽपि च वयसि च रूपे च नादरो विहितः ।
त्वयि सौरभेयि घण्टा कपिलापुत्रीति बद्धेयम् ॥गस्स्_३३३॥
निष्कारणापराधं निष्कारणकलहरोषपरितोषम् ।
सामान्यमरणजीवनसुखदुःखं जयति दाम्पत्यम् ॥गस्स्_३३४॥
न प्राप्यसे कराभ्यां हृदयान्नापैषि वितनुषे बाधाम् ।
त्वं मम भग्नावस्तितकुसुमायुधविशिखफलिकेव ॥गस्स्_३३५॥
नाथेति परुषमुचितं प्रियेति दासेत्यनुग्रहो यत्र ।
तद्दाम्पत्यमितोऽन्यन्नारी रज्जुः पशुः पुरुषः ॥गस्स्_३३६॥
निहितायामस्यामपि सैवैका मनसि मे स्फुरति ।
रेखान्तरोपधानात्पत्त्राक्षरराजिरिव दयिता ॥गस्स्_३३७॥
निधिनिक्षेपस्थानस्योपरि चिह्नार्थमिव लता निहिता ।
लोभयति तव तनूदरि जघनतटादुपरि रोमाली ॥गस्स्_३३८॥
निहितार्धलोचनायास्त्वं तस्या हरसि हृदयपर्यन्तम् ।
न सुभग समुचितमीदृशमङ्गुलिदाने भुजं गिलसि ॥गस्स्_३३९॥
नीत्वागारं रजनीजागरमेकं च सादरं दत्त्वा ।
अचिरेण कैर्न तरुणैर्दुर्गापत्त्रीव मुक्तासि ॥गस्स्_३४०॥
नक्षत्रेऽग्नाविन्दावुदरे कनके मणौ दृशि समुद्रे ।
यत्खलु तेजस्तदखिलमोजायितमब्जमित्रस्य ॥गस्स्_३४१॥
न सवर्णो न च रूपं न संस्क्रिया कापि नैव सा प्रकृतिः ।
बाला त्वद्विरहापदि जातापभ्रंशभाषेव ॥गस्स्_३४२॥
न विभूषणे तवास्था वपुर्गुणेनैव जयसि सखि यूनः ।
अवधीरितास्त्रशस्त्रा कुसुमेषोर्मल्लविद्येव ॥गस्स्_३४३॥
नेत्राकृष्टो भ्रामं भ्रामं प्रेयान् यथा यथास्ति तथा ।
सखि मन्थयति मनो मम दधिभाण्डं मन्थदण्ड इव ॥गस्स्_३४४॥
नानावर्णकरूपं प्रकल्पयन्ती मनोहरं तन्वी ।
चित्रकरतूलिकेव त्वां सा प्रतिभित्ति भावयति ॥गस्स्_३४५॥
इति विभाव्याख्यासमेता नकारव्रज्या ॥
**********************************************************
पकारव्रज्या
पथिकासक्ता किंचिन्न वेद घनकलमगोपिता गोपी ।
केलिकलाहुङ्कारैः कीरावलि मोघमपसरसि ॥गस्स्_३४६॥
प्रणमति पश्यति चुम्बति संश्लिष्यति पुलकमुकुलितैरङ्गैः ।
प्रियसङ्गाय स्फुरितां वियोगिनी वामबाहुलताम् ॥गस्स्_३४७॥
प्रविशसि न च निर्गन्तुं जानासि व्याकुलत्वमातनुषे ।
बालक चेतसि तस्याश्चक्रव्यूहेऽभिमन्युरिव ॥गस्स्_३४८॥
पश्यानुरूपमिन्दिन्दिरेण माकन्दशेखरो मुखरः ।
अपि च पिचुमन्दमुकुले मौकुलिकुलमाकुलं मिलति ॥गस्स्_३४९॥
प्रतिबिम्बसम्भृताननमादर्शं सुमुख मम सखीहस्तात् ।
आदातुमिच्छसि मुधा किं लीलाकमलमोहेन ॥गस्स्_३५०॥
प्राचीनाचलमौलेर्यथा शशी गगनमध्यमधिवसति ।
त्वां सखि पश्यामि तथा छायामिव सङ्कुचन्मानाम् ॥गस्स्_३५१॥
प्राङ्गणकोणेऽपि निशापतिः स तापं सुधामयो हरति ।
यदि मां रजनिज्वर इव सखि स न निरुणद्धि गेहपतिः ॥गस्स्_३५२॥
पतिपुलकदूनगात्री स्वच्छायावीक्षणेऽपि या सभया ।
अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि ॥गस्स्_३५३॥
प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसङ्कथा गुरुषु ।
पुरुषायितं पणस्तद्बाले परिभाव्यतां दायः ॥गस्स्_३५४॥
परमोहनाय मुक्तो निष्करुणे तरुणि तव कटाक्षोऽयम् ।
विशिख इव कलितकर्णः प्रविशति हृदयं न निःसरति ॥गस्स्_३५५॥
प्रपदालम्बितभूमिश्चुम्बन्ती प्रीतिभीतिमधुराक्षी ।
प्राचीराग्रनिवेशितचिबुकतया न पतिता सुतनुः ॥गस्स्_३५६॥
प्रातरुपागत्य म्र्षा वदतः सखि नास्य विद्यते व्रीडा ।
मुखलग्नयापि योऽयं न लज्जते दग्धकालिकया ॥गस्स्_३५७॥
पश्योत्तरस्तनूदरि फाल्गुनमासाद्य निर्जितविपक्षः ।
वैराटिरिव पतङ्गः प्रत्यानयनं करोति गवाम् ॥गस्स्_३५८॥
प्रमदवनं तव च स्तनशैलं मूलं गभीरसरसां च ।
जगति निदाघनिरस्तं शैत्यं दुर्गत्रयं श्रयति ॥गस्स्_३५९॥
प्रोञ्छति तवापराधं मानं मर्दयति निर्वृतिं हरति ।
स्वकृतान्निहन्ति शपथाञ्जागरदीर्घा निशा सुभग ॥गस्स्_३६०॥
प्रिय आयाते दूरादभूत इव सङ्गमोऽभवत्पूर्वः ।
मानरुदितप्रसादाः पुनरासन्नपरसुरतादौ ॥गस्स्_३६१॥
पूर्वमहीधरशिखरे तमः समासन्नमिहिरकरकलितम् ।
शूलप्रोतं सरुधिरमिदमन्धकवपुरिवाभाति ॥गस्स्_३६२॥
परिवृत्तनाभि लुप्तत्रिवलि श्यामस्तनाग्रमलसाक्षि ।
बहुधवलजघनरेखं वपुर्न पुरुषायितं सहते ॥गस्स्_३६३॥
प्रारब्धनिधुवनैव स्वेदजलं कोमलाङ्गि किं वहसि ।
ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्लतेव मधु ॥गस्स्_३६४॥
पुंसां दर्शय सुन्दरि मुखेन्दुमीषत्त्र्पामपाकृत्य ।
जायाजित इति रूढा जनश्रुतिर्मे यशो भवतु ॥गस्स्_३६५॥
प्रसरतु शरत्त्रियामा जगन्ति धवलयतु धाम तुहिनांशोः ।
पञ्जरचकोरिकाणां कणिकाकल्पोऽपि न विशेषः ॥गस्स्_३६६॥
प्रथमागत सोत्कण्ठा चिरचलितेयं विलम्बदोषे तु ।
वक्ष्यन्ति साङ्गरागाः पथि तरवस्तव समाधानम् ॥गस्स्_३६७॥
पतितेऽंशुके स्तनार्पितहस्तां तां निविडजघनपिहितोरुम् ।
रदपदविकलितफूत्कृतिशतधुतदीपां मनः स्मरति ॥गस्स्_३६८॥
परितः स्फुरितमहौषधिमणिनिकरे केलितल्प इव शैले ।
काञ्चीगुण इव पतितः स्थितैकरत्नः फणी स्फुरति ॥गस्स्_३६९॥
प्रावृषि शैलश्रेणीनितम्बमुह्हन् दिगन्तरे भ्रमसि ।
चपलान्तर घन किं तव वचनीयं पवनवश्योऽसि ॥गस्स्_३७०॥
प्रतिदिवसक्षीणदशस्तवैष वसनाञ्चलोऽतिकरकृष्टः ।
निजनायकमतिकृपणं कथयति कुग्राम इव विरलः ॥गस्स्_३७१॥
पथिक कथं चपलोज्ज्वलमम्बुदजलबिन्दुनिह्वहमविषह्यम् ।
मयपुरकनकद्रवमिव शिवशरशिखिभावितं सहसे ॥गस्स्_३७२॥
पथिकं श्रमेण सुप्तं दरतरला तरुणि सुमधुरच्छाया ।
व्यालम्बमानवेणिः सुखयसि शाखेव सारोहा ॥गस्स्_३७३॥
प्रददाति नापरासां प्रवेशमपि पीनतुङ्गजघनोरूः ।
या लुप्तकीलभावं याता हृदि बहिरदृश्यासि ॥गस्स्_३७४॥
प्रातर्निद्राति यथा यथात्मजा लुलितनिःसहैरङ्गैः ।
जामातरि मुदितमनास्तथा तथा सादरा श्वश्रूः ॥गस्स्_३७५॥
प्रणयचलितोऽपि सकपटकोपकटाक्षैर्मयाहितस्तम्भः ।
त्रासतरलो गृहीतः सहासरभसं प्रियः कण्ठे ॥गस्स्_३७६॥
प्रियदुर्नयेन हृदय स्फुटसि यदि स्फुटनमपि तव श्लाघ्यम् ।
तत्केलिसमरतल्पीकृतस्य वसनाञ्चलस्येव ॥गस्स्_३७७॥
पवनोपनीतसौरभदूरोदकपूरपद्मिनीलुब्धः ।
अपरीक्षितस्वपक्षो गन्ता हन्तापदं मधुपः ॥गस्स्_३७८॥
प्रेमलघूकृतकेशव वक्षोभरविपुलपुलककुचकलशा ।
गोवर्धनगिरिगुरुतां मुग्धवधूर्निभृतमुपहसति ॥गस्स्_३७९॥
प्रियविरहनिःसहायाः सहजविपक्षाभिरपि सपत्नीभिः ।
रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृहभङ्गभीताभिः ॥गस्स्_३८०॥
प्रकटयसि रागमधिकं लपनमिदं वक्रिमाणमावहति ।
प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥गस्स्_३८१॥
प्रविशन्त्याः प्रियहृदयं बालायाः प्रबलयौवतव्याप्तम् ।
नवनिशितदरतरङ्गितनयनमयेनासिना पन्थाः ॥गस्स्_३८२॥
प्रणयापराधरोषप्रसादविश्वासकेलिपाण्डित्यैः ।
रूढप्रेमा ह्रियते किं बालाकुतुकमात्रेण ॥गस्स्_३८३॥
पूर्वैरेव चरितैर्जरतोऽपि पूज्यता भवतः ।
मुञ्च मदमस्य गन्धाद्युवभिर्गज गऊजनीयोऽसि ॥गस्स्_३८४॥
प्रथमं प्रवेशिता या वासागारं कथञ्चन सखीभिः ।
न शृणोतीव प्रातः सा निर्गमनस्य सङ्केतम् ॥गस्स्_३८५॥
पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च ।
तदुभयविप्रतिपन्नः पश्यतु गीर्वाणपाषाणम् ॥गस्स्_३८६॥
पूर्वाधिको गृहिण्यां बहुमानः प्रेमनर्मविश्वासः ।
भीरधिकेयं कथयति रागं बालाविभक्तमिव ॥गस्स्_३८७॥
पुलिकतकठोरपीवरकुचकलशाश्लेषवेदनाभिज्ञः ।
शम्भोरुपवीतफणी वाञ्छति मानग्रहं देव्याः ॥गस्स्_३८८॥
प्रिय आयातो दूरादिति या प्रीतिर्बभूव गेहिन्याः ।
पथिकेभ्यः पूर्वागत इति गर्वात्सापि शतशिखरा ॥गस्स्_३८९॥
पृष्ठं प्रयच्छ मा स्पृश दूरादपसर्प विहितवैमुख्य ।
त्वामनुधावति तरणिस्तदपि गुणाकर्षतरलेयम् ॥गस्स्_३९०॥
प्रियया कुङ्कुमपिञ्जरपाणिद्वययोजनाङ्कितं वासः ।
प्रहितं मां याच्ञाञ्जलिसहस्रकरणाय शिक्षयति ॥गस्स्_३९१॥
प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति ।
प्राग्गिरिपिहिता रात्रिः सन्ध्यारागं दिनस्येव ॥गस्स्_३९२॥
परपतिनिर्दयकुलटाशोषित शठ नेष्यता न कोपेन ।
दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥गस्स्_३९३॥
प्राङ्गण एव कदा मां श्लिष्यन्ती मन्य्कम्पिकुचकलशा ।
अंसनिषण्णमुखी सा स्नपयति बाष्पेण मम पृष्ठम् ॥गस्स्_३९४॥
प्रेतैः प्रशस्तसत्त्वा साश्रु वृकैर्वीक्षिता स्खलद्ग्रासैः ।
चुम्बति मृतस्य वदनं भूतमुखोल्केक्षितं बाला ॥गस्स्_३९५॥
पिशुनः खलु सुजनानां खलमेव पुरो विधाय जेतव्यः ।
कृत्वा ज्वरमात्मीयं जिगाय बाणं रणे विष्णुः ॥गस्स्_३९६॥
पिब मधुप बकुलकलिकां दूरे रसनाग्रमात्रमाधाय ।
अधरविलेपसमाप्ये मधुनि मुधा वदनमर्पयसि ॥गस्स्_३९७॥
प्रायेणैव हि मलिना मलिनानामाश्रयत्वमुपयान्ति ।
कालिन्दीपुटभेदः कालियपुटभेदनं भवति ॥गस्स्_३९८॥
पश्य प्रियतनुविघटनभयेन शशिमौलिदेहसंलग्ना ।
सुभगैकदैवतमुमा शिरसा भागीरथीं वहति ॥गस्स्_३९९॥
पथिकवधूजनलोचननीरनदीमातृकप्रदेशेषु ।
धनमण्डलमाखण्डलधनुषा कुण्डलितमिव विधिना ॥गस्स्_४००॥
प्रतिवेशिमित्रबन्धुषु दूरात्कृच्छ्रागतोऽपि गेहिन्या ।
अतिकेलिलम्पटया दिनमेकमगोपि गेहपतिः ॥गस्स्_४०१॥
परपट इव रजकीभिर्मलिनो भुक्त्वापि निर्दयं ताभिः ।
अर्थग्रहणेन विना जघन्य मुक्तोऽसि कुलटाभिः ॥गस्स्_४०२॥
इति विभाव्याख्यासमेता पकारव्रज्या ॥
**********************************************************
बकारव्रज्या
बहुयोषिति लाक्षारुणशिरसि वयस्येन दयित उपहसिते ।
तत्कालकलितलज्जा पिशुनयति सखीषु सौभाग्यम् ॥गस्स्_४०३॥
बन्धनभाजोऽमुष्याश्चिकुरकलापस्य मुक्तमानस्य ।
सिन्दूरितसीमन्तच्छलेन हृदयं विदीर्णमिव ॥गस्स्_४०४॥
बलमपि वसति मयीति श्रेष्ठिनि गुरुगर्वगद्गदं वदति ।
तज्जायया जनानां मुखमीक्षितमावृतस्मितया ॥गस्स्_४०५॥
बलवदनिलोपनीतस्फुटितनवाम्भोजसौरभो मधुपः ।
आकृष्यते नलिन्या नासानिक्षिप्तबडिशरज्जुरिव ॥गस्स्_४०६॥
बाणं हरिरिव कुरुते सुजनो बहुदोषमप्यदोषमिव ।
यावद्दोषं जाग्रति मलिम्लुचा इव पुनः पिशुनाः ॥गस्स्_४०७॥
बौद्धस्येव क्षणिको यद्यपि बहुवल्लभस्य तव भावः ।
भग्ना भग्ना भ्रूरिव न तु तस्या विघटते मैत्री ॥गस्स्_४०८॥
बाष्पाकुलं प्रलपतोर्गृहिणि निवर्तस्व कान्त गच्छेति ।
यातं दम्पत्योर्दिनमनुगमनावधि सरस्तीरे ॥गस्स्_४०९॥
बालाविलासबन्धानप्रभवन्मनसि चिन्तयन् पूर्वम् ।
संमानवर्जितां तां गृहिणीमेवानुशोचामि ॥गस्स्_४१०॥
इति विभाव्याख्यासमेता बकारव्रज्या ॥
**********************************************************
भकारव्रज्या
भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणमपि श्रयसि ।
धिङ्मानं तव कुञ्जर जीवं न जुहोषि जठराग्नौ ॥गस्स्_४११॥
भूतिमयं कुरुतेऽग्निस्तृणमपि संलग्नमेनमपि भजतः ।
सैव सुवर्ण दशा ते शङ्के गरिमोपरोधेन ॥गस्स्_४१२॥
भवति निदाघे दीर्घे यथेह यमुनेव यामिनी तन्वी ।
द्वीपा इव दिवसा अपि तथा क्रमेण प्रथीयांसः ॥गस्स्_४१३॥
भवता महति स्नेहानलेऽर्पिता पथिक हेमगुटिकेव ।
तन्वी हस्तेनापि स्प्रष्टुमशुद्धैर्न सा शक्या ॥गस्स्_४१४॥
भूमिलुलितैककुण्डलमुत्तंसितकाण्डपटमियं मुग्धा ।
पश्यन्ती निःश्वासैः क्षिपति मनोरेणुपूरमपि ॥गस्स्_४१५॥
भवतालिङ्गि भुजङ्गी जातः किल भोगिचक्रवर्ती त्वम् ।
कञ्चुक वनेचरीस्तनमभिलषतः स्फुरति लघिमा ते ॥गस्स्_४१६॥
भैक्षभुजा पल्लीपतिरिति स्तुतस्तद्वधूसुदृष्टेन ।
रक्षक जयसि यदेकः शून्ये सुरसदसि सुखमस्मि ॥गस्स्_४१७॥
भोगाक्षमस्य रक्षां दृङ्मात्रेणैव कुर्वतोऽनभिमुखस्य ।
वृद्धस्य प्रमदापि श्रीरपि भृत्यस्य भोगाय ॥गस्स्_४१८॥
भवितासि रजनि यस्यामध्वश्रमशान्तये पदं दधतीम् ।
स बलाद्वलयितजङ्घाबद्धां मामुरसि पातयति ॥गस्स्_४१९॥
भूषणतां भजतः सखि कषणविशुद्धस्य जातरूपस्य ।
पुरुषस्य च कनकस्य च युक्तो गरिमा सरागस्य ॥गस्स्_४२०॥
भस्मपुरुषेऽपि गिरिशे स्नेहमयी त्वमुचितेन सुभगासि ।
मोघस्त्वयि जनवादो यदोषधिप्रस्थदुहितेति ॥गस्स्_४२१॥
भयपिहितं बालायाः पीवरमूरुद्वयं स्मरोन्निद्रः ।
निद्रायां प्रेमार्द्रः पश्यति निःश्वस्य निःश्वस्य ॥गस्स्_४२२॥
भ्रमरीव कोषगर्भे गन्धहृता कुसुममनुसरन्ती त्वाम् ।
अव्यक्तं कूजन्ती सङ्केतं तमसि सा भ्रमति ॥गस्स्_४२३॥
भ्रामं भ्रामं स्थितया स्नेहे तव पयसि तत्र तत्रैव ।
आवर्तपतितनौकायितमनया विनयमपनीय ॥गस्स्_४२४॥
भ्रमयसि गुणमयि कण्ठग्रहयोग्यानात्ममन्दिरोपान्ते ।
हालिकनन्दिनि तरुणान् ककुद्मिनो मेढिरज्जुरिव ॥गस्स्_४२५॥
भालनयनेऽग्निरिन्दुर्मौलौ गात्रे भुजङ्गमणिदीपाः ।
तदपि तमोमय एव त्वमीश कः प्रकृतिमतिशेते ॥गस्स्_४२६॥
इति विभाव्याख्यासमेता भकारव्रज्या ॥
**********************************************************
मकारव्रज्या
मधुमदवीतव्रीडा यथा यथा लपति संमुखं बाला ।
तन्मुखमजाततृप्तिस्तथा तथा वल्लभः पिबति ॥गस्स्_४२७॥
मित्रैरालोच्य समं गुरु कृत्वा कदनमपि समारब्धः ।
अर्थः सतामिव हतो मुखवैलक्ष्येण मानोऽयम् ॥गस्स्_४२८॥
मम रागिणो मनस्विनि करमर्पयतो ददासि पृष्ठमपि ।
यदि तदपि कमलबन्धोरिव मन्ये स्वस्य सौभाग्यम् ॥गस्स्_४२९॥
मा स्पृश मामिति सकुपितमिव भणितं व्यञ्जिता न च व्रीडा ।
आलिङ्गितया सस्मितमुक्तमनाचार किं कुरुषे ॥गस्स्_४३०॥
मूलानि च निचुलानां हृदयानि च कूलवसतिकुलटानाम् ।
मुदिरमदिराप्रमत्ता गोदावरि किं विदारयसि ॥गस्स्_४३१॥
मलयद्रुमसाराणामिव धीराणां गुणप्रकर्षोऽपि ।
जडसमयनिपतितानामनादरायैव न गुणाय ॥गस्स्_४३२॥
मधुमथनमौलिमाले सखि तुलयसि तुलसि किं मुधा राधाम् ।
यत्तव पदमदसीयं सुरभयितुं सौरभोद्भेदः ॥गस्स्_४३३॥
मयि यास्यति कृत्वावधिदिनसङ्ख्यं चुम्बनं तथाश्लेषम् ।
प्रिययानुशोचिता सा तावत्सुरताक्षमा रजनी ॥गस्स्_४३४॥
मृगमदनिदानमटवी कुङ्कुममपि कृषकवाटिका वहति ।
हट्टविलासिनि भवती परमेका पौरसर्वस्वम् ॥गस्स्_४३५॥
मधुदिवसेषु भ्राम्यन् यथा विशति मानसं भ्रमरः ।
सखि लोहकण्टकनिभस्तथा मदनविशिखोऽपि ॥गस्स्_४३६॥
मयि चलिते तव मुक्ता दृशः स्वभावात्प्रिये सपानीयाः ।
सत्यममूल्याः सद्यः प्रयान्ति मम हृदयहारत्वम् ॥गस्स्_४३७॥
मुग्धे मम मनसि शराः स्मरस्य पञ्चापि सन्ततं लग्नाः ।
शङ्के स्तनगुटिकाद्वयमर्पितमेतेन तव हृदये ॥गस्स्_४३८॥
मधुमथनवदनविनिहितवंशीसुषिरानुसारिणो रागाः ।
हन्त हरन्ति मनो मम नलिकाविशिखाः स्मरस्येव ॥गस्स्_४३९॥
महतोः सुवृत्तयोः सखि हृदयग्रहयोग्ययोः समुच्छ्रितयोः ।
सज्जनयोः स्तनयोरिव निरन्तरं सङ्गतं भवति ॥गस्स्_४४०॥
मम वारितस्य बहुभिर्भूयो भूयः स्वयं च भावयतः ।
जातो दिशीव तस्यां सखे न विनिवर्तते मोहः ॥गस्स्_४४१॥
मग्नोऽसि नर्मदाया रसे हृतो वीचिलोचनक्षेपैः ।
यद्युच्यसे तरुवर भ्रष्टो भ्रंशोऽपि ते श्लाघ्यः ॥गस्स्_४४२॥
मेनामुल्लासयति स्मेरयति हरिं गिरिं च विमुखयति ।
कृतकरबन्धविलम्बः परिणयने गिरिशकरकम्पः ॥गस्स्_४४३॥
मधुगन्धि घर्मतिम्यत्तिलकं स्खलदुक्तिं घूर्णदरुणाक्षम् ।
तस्याः कदाधरामृतमाननमवधूय पास्यामि ॥गस्स्_४४४॥
मेदिन्यां तव निपतति न पदं बहुवल्लभेति गर्वेण ।
आश्लिष्य कैर्न तरुणैस्तुरीव वसनैर्विमुक्तासि ॥गस्स्_४४५॥
मूले निसर्गमधुरं समर्पयन्तो रसं पुरो विरसाः ।
इक्षव इव परपुरुषा विविधेषु रसेषु विनिधेयाः ॥गस्स्_४४६॥
महति स्नेहे निहितः कुसुमं बहु दत्तमर्चितो बहुशः ।
वक्रस्तदपि शनैश्चर इव सखि दुष्टग्रहो दयितः ॥गस्स्_४४७॥
मा शबरतरुणि पीवरवक्षोरुहयोर्भरेण भज गर्वम् ।
निर्मोकैरपि शोभा ययोर्भुजङ्गीभिरुन्मुक्तैः ॥गस्स्_४४८॥
मम कुपितायाश्छायां भूमावालिङ्ग्य सखि मिलत्पुलकः ।
स्नेहमयत्वमनुज्झन् करोति किं नैष मामरुषम् ॥गस्स्_४४९॥
मुषित इव क्षणविरहे रिपुरिव कुसुमेषुकेलिसङ्ग्रामे ।
दास इव श्रमसमये भजन्नताङ्गीं न तृप्यामि ॥गस्स्_४५०॥
मुञ्चसि किं मानवतीं व्यवसायाद्द्विगुणमन्युवेगेति ।
स्नेहभवः पयसाग्निः सान्त्वेन च रोष उन्मिषति ॥गस्स्_४५१॥
मलयजमपसार्य घनं वीजनविघ्नं विधाय बाहुभ्याम् ।
स्मरसन्तापादगणितनिदाघमालिङ्गते मिथुनम् ॥गस्स्_४५२॥
महतोऽपि हि विश्वासान्महाशया दधति नाल्पमपि लघवः ।
संवृणुतेऽद्रीनुदधिर्निदाघनद्यो न भेकमपि ॥गस्स्_४५३॥
मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् ।
कृतमुखभङ्गापि रसं ददासि मम सरिदिवाम्भोधेः ॥गस्स्_४५४॥
मदनाकृष्टनुर्ज्याघातैरिव गृहिणि पथिकतरुणानाम् ।
वीणातन्त्रीक्वाणैः केषां न विकम्पते चेतः ॥गस्स्_४५५॥
मम भयमस्याः कोपो निर्वेदोऽस्या ममापि मन्दाक्षम् ।
जातं क्व चान्तरिक्षे स्मितसंवृतिनमितकन्धरयोः ॥गस्स्_४५६॥
मुक्ताम्बरैव धावतु निपततु सहसा त्रिमार्गगा वास्तु ।
इयमेव नर्मदा मम वंशप्रभवानुरूपरसा ॥गस्स्_४५७॥
मृगमदलेपनमेनं नीलनिचोलैव निशि निषेव त्वम् ।
कालिन्द्यामिन्दीवरमिन्दिन्दिरसुन्दरीव सखि ॥गस्स्_४५८॥
मम सख्या नयनपथे मिलितः शक्तो न कश्चिदपि चलितुम् ।
पतितोऽसि पथिक विषमे घट्टकुटीयं कुसुमकेतोः ॥गस्स्_४५९॥
महता प्रियेण निर्मितमप्रियमपि सुभग सह्यतां याति ।
सुतसम्भवेन यौवनविनाशनं न खलु खेदाय ॥गस्स्_४६०॥
मानग्रहगुरुकोपादनु दयितात्येव रोचते मह्यम् ।
काञ्चनमयी विभूषा दाहाञ्चितशुद्धभावेव ॥गस्स्_४६१॥
इति विभाव्याख्यासमेता मकारव्रज्या ॥
**********************************************************
यकारव्रज्या
यूनः कण्टकविटपानि विआञ्चलग्राहिणस्त्यजन्ती सा ।
वन इव पुरेऽपि विचरति पुरुषं त्वामेव जानन्ती ॥गस्स्_४६२॥
युष्मासूपगताः स्मो विबुधा वाङ्मात्रपाटवेन वयम् ।
अन्तर्भवति भवत्स्वपि नाभक्तस्तन्न विज्ञातम् ॥गस्स्_४६३॥
यत्र न दूती यत्र स्निग्धा न दृशोऽपि निपुणया निहिताः ।
न गिरोऽद्यापि व्यक्तीकृतः स भावोऽनुरागेण ॥गस्स्_४६४॥
या नीयते सपत्न्य्प्रविश्य यावर्जिता भुजङ्गेन ।
यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ॥गस्स्_४६५॥
यस्मिन्न् अयशोऽपि यशो ह्रीर्विघ्नो मान एव दौःशील्यम् ।
लघुता गुणज्ञता किं नवो युवा सखि न ते दृष्टः ॥गस्स्_४६६॥
यद्वीक्ष्यते खलानां माहात्म्यं क्वापि दैवयोगेन ।
काकानामिव शौक्ल्यं तदपि हि न चिरादनर्थाय ॥गस्स्_४६७॥
यत्खलु खलमुखहुतवहविनिहितमपि शुद्धिमेव परमेति ।
तदनलशौचमिवांशुकमिह लोके दुर्लभं प्रेम ॥गस्स्_४६८॥
यन्नावधिमर्थयते पाथेयार्थं ददाति सर्वस्वम् ।
तेनानयातिदारुणशङ्कामारोपितं चेतः ॥गस्स्_४६९॥
यूनामीर्ष्यावैरं वितन्वता तरुणि चक्ररुचिरेण ।
तव जगह्नेनाकुलिता निखिला पल्ली खलेनेव ॥गस्स्_४७०॥
यावज्जीवनभावी तुल्याशयोयोर्नितान्तनिर्भेदः ।
नदयोरिवैष युवयोः सङ्गो रसमधिकमावहतु ॥गस्स्_४७१॥
यन्निहितां शेखरयसि मालां सा यातु शठ भवन्तमिति ।
प्रहरन्तीं शिरसि पदा स्मरामि तां गर्वगुरुकोपाम् ॥गस्स्_४७२॥
यौवनगुप्तिं पत्यौ बन्धुषु मुग्धत्वमार्जवं गुरुषु ।
कुर्वाणा हलिकवधूः प्रशस्यते व्याजतो युवभिः ॥गस्स्_४७३॥
यो न गुरुभिर्न मित्रैर्न विवेकेनापि नैव रिपुहसितैः ।
नियमितपूर्वः सुन्दरि स विनीतत्वं त्वया नीतः ॥गस्स्_४७४॥
यन्मूलमार्द्रमुदकैः कुसुमं प्रतिपर्व फलभरः परितः ।
द्रुम तन्माद्यसि वीचीपरिचयपरिणाममविचिन्त्य ॥गस्स्_४७५॥
यस्याङ्के स्मरसङ्गरविश्रान्तिप्राञ्जला सखी स्वपिति ।
स वहतु गुणाभिमानं मदनधनुर्वल्लिचोल इव ॥गस्स्_४७६॥
यदि दानगन्धमात्राद्वसन्ति सप्तच्छदेऽपि दन्तिन्यः ।
किमिति मदपङ्कमलिनां करी कपोलस्थलीं वहति ॥गस्स्_४७७॥
यदवधि विवृद्धमात्रा विकसितकुसुमोत्करा शणश्रेणी ।
पीतांशुकप्रियेयं तदवधि पल्लीपतेः पुत्री ॥गस्स्_४७८॥
यमुनातरङ्गतरलं न कुवलयं कुसुमलावि तव सुलभम् ।
यदि सौरभानुसारी झङ्कारी भ्रमति न भ्रमरः ॥गस्स्_४७९॥
इति विभाव्याख्यासमेता यकारव्रज्या ॥
**********************************************************
रकारव्रज्या
राज्याभिषेकसलिलक्षालितमौलेः कथासु कृष्णस्य ।
गर्वभरमन्थराक्षी पश्यति पदपङ्कजं राधा ॥गस्स्_४९०॥
रतिकलहकुपितकान्ताकरचिकुराकर्षमुदितगृहनाथम् ।
भवति भवनं तदन्यत्प्राग्वंशः पर्णशाला वा ॥गस्स्_४९१॥
रोगो राजायत इति जनवादं सत्यमद्य कलयामि ।
आरोग्यपूर्वकं त्वयि तल्पप्रान्तागते सुभग ॥गस्स्_४९२॥
रुद्धस्वरसप्रसरस्यालिभिरग्रे नतं प्रियं प्रति मे ।
स्रोतस इव निम्नं प्रति रागस्य द्विगुण आवेगः ॥गस्स्_४९३॥
रूपमिदं कान्तिरसावयमुत्कर्षः सुवर्णरचनेयम् ।
दुर्गतमिलिता ललिते भ्रमसि प्रतिमन्दिरद्वारम् ॥गस्स्_४९४॥
रचिते निकुञ्जपत्रैर्भिक्षुकपात्रे ददाति सावज्ञम् ।
पर्युषितमपि सुतीक्ष्णश्वासकदुष्णं वधूरन्नम् ॥गस्स्_४९५॥
रक्षति न खलु निजस्थितिमलघुः स्थापयति नायकः स यथा ।
तिष्ठति तथैव तद्गुणविद्धेयं हारयष्ठिरिव ॥गस्स्_४९६॥
राजसि कृशाङ्गि मङ्गलकलशी सहकारपल्लवेनेव ।
तेनैव चुम्बितमुखी प्रथमाविर्भूतरागेण ॥गस्स्_४९७॥
रूपगुणहीनहार्या भवति लघुर्धूलिरनिलचपलेव ।
प्रथयति पृघुगुणनेया तरुणी तरणिरिव गरिमाणम् ॥गस्स्_४९८॥
रागे नवे विजृम्भति विरहक्रममन्दमन्दमन्दाक्षे ।
सस्मितसलज्जमीक्षितमिदमिष्टं सिद्धमाचष्टे ॥गस्स्_४९९॥
रोषोऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा ।
वर्षाणामुपलोऽपि हि सुस्निग्धः क्षणिककल्पश्च ॥गस्स्_५००॥
रोदनमेतद्धन्यं सखि किं बहु मृत्युरपि ममानर्घः ।
स्वप्नेनेव हि विहितो नयनमनोहारिणा तेन ॥गस्स्_५०१॥
रोषेणैव मया सखि वक्रोऽपि ग्रन्थिलोऽपि कठिनोऽपि ।
ऋजुतामनीयतायं सद्यः स्वेदेन वंश इव ॥गस्स्_५०२॥
रजनीमियमुपनेतुं पितृप्रसूः प्रथममुपतस्थे ।
रञ्जयति स्वयमिन्दुं कुनायकं दुष्टदूतीव ॥गस्स्_५०३॥
इति विभाव्याख्यासमेता रकारव्रज्या ॥
**********************************************************
लकारव्रज्या
लग्नासि कृष्णवर्त्मनि सुस्निग्धे वर्ति हन्त दग्धासि ।
अयमखिलनयनसुभगो नु भुक्तमुक्तां पुनः स्पृशति ॥गस्स्_५०४॥
लक्ष्मीः शिक्षयति गुणानमून् पुनर्दुर्गतिर्विधूनयति ।
पूर्णो भवति सुवृत्तस्तुषाररुचिरपचये वक्रः ॥गस्स्_५०५॥
लूनातन्तुनिरुद्धद्वारः शून्यालयः पतत्पतगः ।
पथिके तस्मिन्नञ्चलपिहितमुखो रोदितीव सखि ॥गस्स्_५०६॥
लग्नं जघने तस्याः सुविशाले कलितकरिकरक्रीडे ।
वप्रे सक्तं द्विपमिव शृङ्गारस्त्वां विभूषयति ॥गस्स्_५०७॥
लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण ।
अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥गस्स्_५०८॥
लग्नं जघने तस्याः शुष्यति नखलक्ष्म मानसं च मम ।
भुक्तमविशदमवेदनमिदमधिकसरागसाबाधम् ॥गस्स्_५०९॥
लज्जयितुमखिलगोपीनिपीतमनसं मधुद्विषं राधा ।
अज्ञेव पृच्छति कथां शम्भोर्दयितार्धतुष्टस्य ॥गस्स्_५१०॥
लक्ष्मीनिःश्वासानलपिण्डीकृतदुग्धजलधिसारभुजः ।
क्षीरनिधितीरसुदृशो यशांसि गायन्ति राधायाः ॥गस्स्_५११॥
लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया ।
प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥गस्स्_५१२॥
इति विभाव्याख्यासमेता लकारव्रज्या ॥
**********************************************************
वकारव्रज्या
वर्णहृतिर्न ललाटे न लुलितमङ्गं न चाधरे दंशः ।
उत्पलमहारि वारि च न स्पृष्टमुपायचतुरेण ॥गस्स्_५१३॥
विविधायुधव्रणार्बुदविषमे वक्षःस्थले प्रियतमस्य ।
श्रीरपि वीरवधूरपि गर्वोत्पुलका सुखं स्वपिति ॥गस्स्_५१८॥
वैमुख्येऽपि विमुक्ताः शरा इवान्याययोधिनो वितनोः ।
भिन्दन्ति पृष्ठपतिताः प्रिय हृदयं मम तव श्वासाः ॥गस्स्_५१९॥
व्यक्तमधुना समेतः खण्डो मदिराक्षि दशनवसने ते ।
यन्नवसुधैकसारे लोभिनि तत्किमपि नाद्राक्षम् ॥गस्स्_५२०॥
वीजयतोरन्योन्यं यूनोर्वियुतानि सकलगात्राणि ।
सन्मैत्रीव श्रोणी परं निदाघेऽपि न विघटिता ॥गस्स्_५२१॥
व्यारोषं मानिन्यास्तमो दिवः कासरं कलमभूमेः ।
बद्धमलिं च नलिन्याः प्रभातसन्ध्यापसारयति ॥गस्स्_५२२॥
वक्षसि विजृम्भमाणे स्तनभिन्नं त्रुटति कञ्चुकं तस्याः ।
पूर्वदयितानुरागस्तव हृदि न मनागपि त्रुटति ॥गस्स्_५२३॥
व्यक्तिमवेक्ष्य तदन्यां तस्यामेवेति विदितमधुना तु ।
हर्म्यहरिमुखमिव त्वामुभयोः साधारणं वेद्मि ॥गस्स्_५२४॥
व्यजनस्येव समीपे गतागतैस्तापहारिणो भवतः ।
अञ्चलमिव चञ्चलतां मम सख्याः प्रापितं चेतः ॥गस्स्_५२५॥
वितरन्ती रसमन्तर्ममार्द्रभावं तनोषि तनुगात्रि ।
अन्तःसलिला सरिदिव यन्निवससि बहिरदृश्यापि ॥गस्स्_५२६॥
विहितविविधानुबन्धो मानोन्नतयावधीरितो मानी ।
लभते कुतः प्रबोधं स जागरित्वैव निद्राणः ॥गस्स्_५२७॥
व्रीडाविमुखीं वीतस्नेहामाशङ्क्य काकुवाङ्मधुरः ।
प्रेमार्द्रसापराधां दिशति दृशं वल्लभे बाला ॥गस्स्_५२८॥
वक्षःप्रणयिनि सान्द्रश्वासे वाङ्मात्रसुभटि घनघर्मे ।
सुतनु ललाटनिवेशितललाटिके तिष्ठ विजितासि ॥गस्स्_५२९॥
विचरति परितः कृष्णे राधायां रागचपलनयनायाम् ।
दशदिग्वेधविशुद्धं विशिखं विदधाति विषमेषुः ॥गस्स्_५३०॥
विमुखे चतुर्मुखे श्रितवति चानीशभावमीशेऽपि ।
मग्नमहीनिस्तारे हरिः परं स्तब्धरोमाभूत् ॥गस्स्_५३२॥
वापीकच्छे वासः कण्टकवृतयः सजागरा भ्रमराः ।
केतकविटप किमेतैर्ननु वारय मञ्जरीगन्धम् ॥गस्स्_५३३॥
विचलसि मुग्धे विधृता यथा तथा विशसि हृदयमदये मे ।
शक्तिः प्रसूनधनुषः प्रकम्पलक्ष्यं स्पृशन्तीव ॥गस्स्_५३४॥
विहितआसमशरसमरो जितगाङ्गेयच्छविः कृताटोपः ।
पुरुषायिते विराजति देहस्तव सखि शिखण्डीव ॥गस्स्_५३५॥
वृतिविवरनिर्गतस्य प्रमदाबिम्बाधरस्य मधु पिबते ।
अवधीरितपीयूषः स्पृहयति देवाधिराजोऽपि ॥गस्स्_५३६॥
वासितमधुनि वधूनामवतंसे मौलिमण्डने यूनाम् ।
विलसति सा पुरुकुसुमे मधुपीव वनप्रसूनेषु ॥गस्स्_५३७॥
व्रीडाप्रसरः प्रथमं तदनु च रसभावपुष्टचेष्टेयम् ।
जवनीविनिर्गमादनु नटीव दयिता मनो हरति ॥गस्स्_५३८॥
वाससि हरिद्रयेव त्वयि गौराङ्ग्या निवेशितो रागः ।
पिशुनेन सोऽपनीतः सहसा पतता जलेनेव ॥गस्स्_५३९॥
विष्वग्विकासिसौरभरागान्धव्याघबाधनीयस्य ।
क्वचिदपि कुरङ्ग भवतो नाभीमादाय न स्थानम् ॥गस्स्_५४०॥
वटकुटजशालशाल्मलिरसालबहुसारसिन्धुवाराणाम् ।
अस्ति भिदा मलयाचलसम्भवसौरभ्यसाम्येऽपि ॥गस्स्_५४१॥
विनिहितकपर्दकोटिं चापलदोषेण शङ्करं त्यक्त्वा ।
वटमेकमनुसरन्ती जाह्नवि लुठसि प्रयागतटे ॥गस्स्_५४२॥
वेद चतुर्णां क्षणदा प्रहराणां सङ्गमं वियोगं च ।
चरणानामिव कूर्मी सङ्कोचमपि प्रसारमपि ॥गस्स्_५४३॥
वृतिविवरेण विशन्ती सुभग त्वामीक्षितुं सखी दृष्टिः ।
हरति युवहृदयपञ्जरमध्यस्था मन्मथेषुरिव ॥गस्स्_५४४॥
विपणितुलासामान्ये मा गणयैनं निरूपणे निपुण ।
धर्मघटोऽसावधरीकरोति लघुमुपरि नयति गुरुम् ॥गस्स्_५४५॥
वासरगम्यमनूरोरम्बरमवनी च वामनैकपदम् ।
जलधिरपि पोतलङ्घ्यः सतां मनः केन तुलयामः ॥गस्स्_५४६॥
वितततमोमषिलेखालक्ष्मोत्सङ्गस्फुटाः कुरङ्गाक्षि ।
पत्राक्षरनिकरा इव तारा नभसि प्रकाशन्ते ॥गस्स्_५४७॥
विविधाङ्गभङ्गिषु गुरुर्नूतनशिष्यां मनोभवाचार्यः ।
वेत्रलतयेव बालां तल्पे नर्तयति रतरीत्या ॥गस्स्_५४८॥
विपरीतमपि रतं ते स्रोतो नद्या इवानुकूलमिदम् ।
तटतरुमिव मम हृदयं समूलमपि वेगतो हरति ॥गस्स्_५४९॥
वैभवभाजां दूषणमपि भूषणपक्ष एव निक्षिप्तम् ।
उग्णमात्मनामधर्मं द्वेषं च गृणन्ति काणादाः ॥गस्स्_५५०॥
वक्राः कपटस्निग्धाः मलिनाः कर्णान्तिके प्रसज्जन्तः ।
कं वञ्चयन्ति न सखे खलाश्च गणिकाकटाक्षाश्च ॥गस्स्_५५१॥
विद्युज्ज्वालावलयितजलधरपिठरोदराद्विनिर्यान्ति ।
विशदौदनद्युतिमुषः प्रेयसि पयसा समं करकाः ॥गस्स्_५५२॥
व्यजनादिभिरुपचारैः किं मरुपथिकस्य गृहिणि विहितैर्मे ।
तापस्त्वदूरुकदलीद्वयमध्ये शान्तिमयमेति ॥गस्स्_५५३॥
वैगुण्येऽपि हि महता विनिर्मितं भवति कर्म शोभायै ।
दुर्वहनितम्बमन्थरमपि हरति नितम्बिनीनृत्यम् ॥गस्स्_५५४॥
वीक्ष्य सतीनां गणने रेखामेकां तया स्वनामाङ्काम् ।
सन्तु युवानो हसितुं स्वयमेवापारि नावरितुम् ॥गस्स्_५५५॥
विन्ध्याचल इव देहस्तव विविधावर्तनर्मदनितम्बः ।
स्थगयति गतिं मुनेरपि सम्भावितरविरथस्तम्भः ॥गस्स्_५५६॥
वृतिभञ्जन गञ्जनसह निकाममुद्दाम दुर्नयाराम ।
परवाटीशतलम्पट दुष्टवृष स्मरसि गेहमपि ॥गस्स्_५५७॥
वंशावलम्बनं यद्यो विस्तारो गुणस्य यावनतिः ।
तज्जालस्य खलस्य च निजाङ्कसुप्तप्रणाशाय ॥गस्स्_५५८॥
विन्ध्यमहीधरशिखरे मुदिरश्रेणीकृपाणमयमनिलः ।
उद्यद्विद्युज्ज्योतिः पथिकवधायैव शातयति ॥गस्स्_५५९॥
व्यालम्बमानवेणीधुतधूलि प्रथममश्रुभिर्धौतम् ।
आयातस्य पदं मम गेहिन्या तदनु सलिलेन ॥गस्स्_५६०॥
वक्षःस्थलसुप्ते मम मुखमुपधातुं न मौलिमालभसे ।
पीनोत्तुङ्गस्तनभरदूरीभूतं रतश्रान्तौ ॥गस्स्_५६१॥
वदनव्यापारान्तर्भावादनुरक्तमानयन्ती त्वम् ।
दूति सतीनाशार्थं तस्य भुजङ्गस्य दंष्ट्रासि ॥गस्स्_५६२॥
इति विभाव्याख्यासमेता वकारव्रज्या ॥
**********************************************************
शकारव्रज्या
श्रीरपि भुजङ्गभोगे मोहनविज्ञेन शीलिता येन ।
सोऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः ॥गस्स्_५६३॥
शङ्के या स्थैर्यमयी श्लथयति बाहू मनोभवस्यापि ।
दर्पशिलामिव भवतीं कतरस्तरुणो विचालयति ॥गस्स्_५६४॥
शार्दूलनखरभङ्गुर कठोरतरजातरूपरचनोऽपि ।
बालानामपि बालासा यस्यास्त्वमपि हृदि वससि ॥गस्स्_५६५॥
श्रुत एव श्रुतिहारिणि रागोत्कर्षेण कण्ठमधिवसति ।
गीत इव त्वयि मधुरे करोति नार्थग्रहं सुतनुः ॥गस्स्_५६६॥
श्रीः श्रीफलेन राज्यं तृणराजेनाल्पसाम्यतो लब्धम् ।
कुचयोः सम्यक्साम्याद्गतो घटश्चक्रवर्तित्वम् ॥गस्स्_५६७॥
श्रोणी भूमावङ्के प्रियो भयं मनसि पतिभुजे मौलिः ।
गूढश्वासो वदने सुरतमिदं चेत्तृणं त्रिदिवम् ॥गस्स्_५६८॥
श्लिष्यन्निव चुम्बन्निव पश्यन्निव चोल्लिखन्निवातृप्तः ।
दधदिव हृदयस्यान्तः स्मरामि तस्या मुहुर्जघनम् ॥गस्स्_५६९॥
शिरसि चरणप्रहारं प्रदाय निःसार्यतां स ते तदपि ।
चक्राङ्कितो भुजङ्गः कालिय इव सुमुखि कालिन्द्याः ॥गस्स्_५७०॥
शोच्यैव सा कृशाङ्गी भूतिमयी भवतु गुणमयी वापि ।
स्नेहैकवश्य भवता त्यक्ता दीपेन वर्तिरिव ॥गस्स्_५७१॥
शुक इव दारुशलाकापिञ्जरमनुदिवसवर्धमानो मे ।
कृन्तति दयिताहृदयं शोकः स्मरविशिखतीक्ष्णमुखः ॥गस्स्_५७२॥
श्रुत्वाकस्मिकमरणं शुकसूनोः सकलकौतुकैकनिधेः ।
ज्ञातो गृहिणीविनयव्यय आगत्यैव पथिकेन ॥गस्स्_५७३॥
शीलितभुजङ्गभोगा क्रोडेनाभुद्धृतापि कृष्णेन ।
अचलैव कीर्त्यते भूः किमशक्यं नाम वसुमत्याः ॥गस्स्_५७४॥
श्यामा विल्चनहरी बालेयं मनसि हन्त सज्जन्ती ।
लुम्पति पूर्वकलत्रं धूमलता भित्तिचित्रमिव ॥गस्स्_५७५॥
शतशो गतिरावृत्तिः शतशः कण्ठावलम्बनं शतशः ।
शतशो यामीति वचः स्मरामि तस्याः प्रवासदिने ॥गस्स्_५७६॥
श्रुतपरपुष्टरवाभिः पृष्टो गोपीभिरभिमतं कृष्णः ।
शंसति वंशस्तनितैः स्तनविनिहितलोचनोऽनुमतम् ॥गस्स्_५७७॥
शङ्करशिरसि निवेशितपदेति मा गर्वमुद्वहेन्दुकले ।
फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥गस्स्_५७८॥
शाखिशिखरे समीरणदोलायितनीडनिर्वृतं वसति ।
कर्मैकशराणमगणितभयमशिथिलकेलि खगमिथुनम् ॥गस्स्_५७९॥
शुक सुरतसमरनारद हृदयरहस्यैकसार सर्वज्ञ ।
गुरुजनसमक्षमूक प्रसीद जम्बूफलं दलय ॥गस्स्_५८०॥
शिरसा वहसि कपर्दं रुद्र रुदित्वापि रजतमर्जयसि ।
अस्याप्युदरस्यार्धं भजतस्तव वेत्ति कस्तत्त्वम् ॥गस्स्_५८१॥
श्रोतव्यैव सुधेव श्वेतांशुकलेव दूरदृश्यैव ।
दुष्टभुजङ्गपरीते त्वं केतकि न खलु नः स्पृश्या ॥गस्स्_५८२॥
श्रवणोपनीतगुणया समर्पयन्त्या प्रणम्य कुसुमानि ।
मदनधनुर्लतयेव त्वया वशं दूति नीतोऽस्मि ॥गस्स्_५८३॥
शाखोटकशाखोटजवैखानसकरटपूज्य रट सुचिरम् ।
नादरपदमिह गणकाः प्रमाणपुरुषो भवानेकः ॥गस्स्_५८४॥
शशिरेखोपमकान्तेस्तवान्यपाणिग्रहं प्रयातायाः ।
मदनासिपुत्रिकाया इवाङ्गशोभां कदर्थयति ॥गस्स्_५८५॥
शैथिल्येन भृता अपि भर्तुः कार्यं त्यजन्ति न सुवृत्ताः ।
बलिनाकृष्टे बाहौ वलयाः कूजन्ति धावन्ति ॥गस्स्_५८६॥
इति विभाव्याख्यासमेता शकारव्रज्या ।
**********************************************************
षकारव्रज्या
षट्चरणकीटजुष्टं परागघुणपूर्णमायुधं त्यक्त्वा ।
त्वां मुष्टिमेयमध्यामधुना शक्तिं स्मरो वहति ॥गस्स्_५८७॥
इति विभाव्याख्यासमेता षकारव्रज्या ।
**********************************************************
सकारव्रज्या
सा दिवसयोग्यकृत्यव्यपदेशा केवलं गृहिणी ।
द्वितिथेर्दिवसस्य परा तिथिरिव सेव्या निशि त्वमसि ॥गस्स्_५८८॥
स्तननूतननखलेखालम्बी तव घर्मबिन्दुसन्दोहः ।
आभाति पट्टसूत्रे प्रविशन्निव मौक्तिकप्रसरः ॥गस्स्_५८९॥
सौभाग्यगर्वमेका करोतु यूथस्य भूषणं करिणी ।
अत्यायामवतोर्या मदान्धयोर्मध्यमधिवसति ॥गस्स्_५९०॥
स्वचरणपीडानुमितत्वन्मौलिरुजाविनीतमात्सर्या ।
अपराद्धा सुभग त्वां स्वयमहमनुनेतुमायाता ॥गस्स्_५९१॥
स्नेहमयान् पीडयतः किं चक्रेणापि तैलकारस्य ।
चालयति पार्थिवानपि यः स कुलालः परं चक्री ॥गस्स्_५९२॥
सरले न वेद भवती बहुभङ्गा बहुरसा बहुविवर्ता ।
गतिरसतीनेत्राणां प्रेम्णां स्रोतस्वतीनां च ॥गस्स्_५९३॥
सखि मध्याह्नद्विगु॑नद्युमणिकरश्रेणिपीडिता छाया ।
मज्जितुमिवालवाले परितस्तरुमूलमाश्रयति ॥गस्स्_५९४॥
सखि शृणु मम प्रियोऽयं गेहं येनैव वर्त्मनायातः ।
तन्नगरग्रामनदीः पृच्छति सममागतानन्यान् ॥गस्स्_५९५॥
सायं रविरनलमसौ मदनशरं स च वियोगिनीचेतः ।
इदमपि तमःसमूहं सोऽपि नभो निर्भरं विशति ॥गस्स्_५९६॥
स्मरसमरसमयपूरितकम्भुनिभो द्विगुणपीनगलनालः ।
शीर्णप्रासादोपरि जिगीषुरिव कलरवः क्वणति ॥गस्स्_५९७॥
स्फुरदधरमविरताश्रु ध्वनिरोधोत्कम्पकुचमिदं रुदितम् ।
जानूपनिहितहस्तन्यस्तमुखं दक्षिणप्रकृतेः ॥गस्स्_५९८॥
स्वयमुपनीतैरशनैः पुष्णन्ती नीडनिर्वृतं दयितम् ।
सहजप्रेमरसज्ञा सुभगागर्वं बकी वहतु ॥गस्स्_५९९॥
स्वरसेन बध्नतां करमादाने कण्टकोत्करैस्तुदताम् ।
पिशुनानां पनसानां कोषाभोगोऽप्यविश्वास्यः ॥गस्स्_६००॥
सौभाग्यं दाक्षिण्यान्नेत्युपदिष्टं हरेण तरुणीनाम् ।
वामार्धमेव देव्याः स्ववपुःशिल्पे निवेशयता ॥गस्स्_६०१॥
सुभग स्वभवनभित्तौ भवता संमर्द्य पीडिता सुतनुः ।
सा पीडयैव जीवति दधती वैद्येषु विद्वेषम् ॥गस्स्_६०२॥
सा गुणमयी स्वभावस्वच्छा सुतनुः करग्रहायत्ता ।
भ्रमिता बहुमन्त्रविदा भवता काश्मीरमालेव ॥गस्स्_६०३॥
सव्रीडस्मितसुभगे स्पृष्टास्पृष्टेव किंचिदपयान्ती ।
अपसरसि सुन्दरि यथा यथा तथा स्पृशसि मम हृदयम् ॥गस्स्_६०४॥
सखि सुखयत्यवकाशप्राप्तः प्रेयान् यथा तथा न गृही ।
वातादवारितादपि भवति गवाक्षानिलः शीतः ॥गस्स्_६०५॥
सततमरुणितमुखे सखि निगिरन्ती गरलमिव गिरां गुम्फम् ।
अवगणितौषधिमन्त्रा भुजङ्गि रक्तं विरञ्जयसि ॥गस्स्_६०६॥
स्थलकमलमुग्धवपुषा सातङ्काङ्कस्थितैकचरणेन ।
आश्वासयति विसिन्याः कूले विसकण्ठिका शफरम् ॥गस्स्_६०७॥
सनखपदमधिकगौरं नाभीमूलं निरंशुकं कृत्वा ।
अनया सेवित पवन त्वं किं कृतमलयभृगुपातः ॥गस्स्_६०८॥
सर्वाङ्गमर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् ।
अलसमपि भाग्यवन्तं भजते पुरुषयितेव श्रीः ॥गस्स्_६०९॥
सुदितं तदेव यत्र स्मारं स्मारं वियोगदुःखानि ।
आलिङ्गति सा गाढं पुनः पुनर्यामिनीप्रथमे ॥गस्स्_६१०॥
सान्तर्भयं भुजिष्या यथा यथाचरति समधिकां सेवाम् ।
साशङ्कसेर्ष्यसभया तथा तथा गेहिनी तस्य ॥गस्स्_६११॥
सुन्दरि दर्शयति यथा भवद्विपक्षस्य तत्सखी कान्तिम् ।
पतति तथा मम दृष्टिस्त्वदेकदासस्य सासूया ॥गस्स्_६१२॥
स्वाधीनैरधरव्रणनखाङ्कपत्रावलोपदिनशयनैः ।
सुभगा सुभगेत्यनया सखि निखिला मुखरिता पल्ली ॥गस्स्_६१३॥
सरित इव यस्य गेहे शुष्यन्ति विशालगोत्रजा नार्यः ।
क्षारास्वेव स तृप्यति जलनिधिलहरीषु जलद इव ॥गस्स्_६१४॥
सकलकटकैकमण्डनि कठिनीभूताशये शिखरदन्ति ।
गिरिभुव इव तव मन्ये मनः शिला समभवच्चण्डि ॥गस्स्_६१५॥
सखि दुरवगाहगहनो विदधानो विप्रियं प्रियजनेऽपि ।
खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरि स्थितः कोपः ॥गस्स्_६१६॥
स्वेदसचेलस्नाता सप्तपदी सप्त मण्डलीर्यान्ती ।
समदनदहनविकारा मनोहरा व्रीडिता नमति ॥गस्स्_६१७॥
सुरसप्रवर्तमानः सङ्घाटोऽयं समानवृत्तानाम् ।
एत्यैव भिन्नवृत्तैर्भङ्गुरितः काव्यसर्ग इव ॥गस्स्_६१८॥
सर्वासामेव सखे पय इव सुरतं मनोहारि ।
तस्या एव पुनः पुनरावृत्तौ दुग्धमिव मधुरम् ॥गस्स्_६१९॥
स्वप्नेऽपि यां न मुञ्चसि या तेऽनुग्राहिणी हृदिस्थापि ।
दुष्टां न बुद्धिमिव तां गूढव्यभिचारिणीं वेत्सि ॥गस्स्_६२०॥
सपरावृति चरन्ती वात्येव तृणं मनोऽनवद्याङ्गि ।
हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि ॥गस्स्_६२१॥
सा बहुलक्षणभावा स्त्रीमात्रं वेति कितव तव तुल्यम् ।
कोटिर्वराटिका वा द्यूतविधेः सर्व एव पणः ॥गस्स्_६२२॥
सा विरहदहनदूना मृत्वा मृत्वापि जीवति वराकी ।
शारीव कितव भवतानुकूलिता पातिताक्षेण ॥गस्स्_६२३॥
स्पर्शादेव स्वेदं जनयति न च मे ददाति निद्रातुम् ।
पिर्य इव जघनांशुकमपि न निदाघः क्षणमपि क्षमते ॥गस्स्_६२४॥
सा भवतो भावनया समयविरुद्धं मनोभवं बाला ।
नूतनलतेव सुन्दर दोहदशक्त्या फलं वहति ॥गस्स्_६२५॥
स्पृशति नखैर्न च विलिखति सिचयं गृह्णाति न च विमोचयति ।
न च मुञ्चति न च मदयति नयति निशां सा न निद्राति ॥गस्स्_६२६॥
स्तनजघनद्वयमस्या लङ्घितमध्यः सखे मम कटाक्षः ।
नोज्झति रोधस्वत्यास्तटद्वयं तीर्थकाक इव ॥गस्स्_६२७॥
सव्रीडस्मितमन्दश्वसितं मां मा स्पृशेति शंसन्त्या ।
आकोपमेत्य वातायनं पिधाय स्थितं प्रियया ॥गस्स्_६२८॥
सकरग्रहं सरुदितं साक्षेपं सनखमुष्टि सजिगीषम् ।
तस्याः सुरतं सुरतं प्राजापत्यक्रतुरतोऽन्यः ॥गस्स्_६२९॥
सखि न खलु निमलानां विदधत्यभिधानमपि मुखे मलिनाः ।
केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः ॥गस्स्_६३०॥
स्वल्पा इति रामबलैर्ये न्यस्ता नाशये पयोराशेः ।
ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहुमानः ॥गस्स्_६३१॥
सा श्यामा तन्वङ्गी दहता शीतोपचारतीव्रेण ।
विरहेण पाण्डिमानं नीता तुहिनेन दूर्वैव ॥गस्स्_६३२॥
सुनिरीक्षितनिश्चलकरवल्लभधाराजलोक्षिता न तथा ।
सोत्कम्पेन मया सखि दृष्टा सा माद्यति स्म यथा ॥गस्स्_६३३॥
सखि मोघीकृतमदने पतिव्रते कस्तवादरं कुरुते ।
नाश्रौषीर्भगवानपि स कामविद्धो हरः पूज्यः ॥गस्स्_६३४॥
सा मयि न दासबुद्धिर्न रतिर्नापि त्रपा न विश्वासः ।
हन्त निरीक्ष्य नवोढां मन्ये वयमपिर्या जाताः ॥गस्स्_६३५॥
सुचिरायाते गृहिणी निशि भुक्ता दिनमुखे विदग्धेयम् ।
धवलनखाङ्कं निजवपुरकुङ्कुमार्द्रं न दर्शयति ॥गस्स्_६३६॥
स्तनजघनोरुप्रणयी गाढं लग्नो निवेशितस्नेहः ।
प्रिय कालपरिणतिरियं विरज्यसे यन्नखाङ्क इव ॥गस्स्_६३७॥
सा विच्छाया निशि निशि सुतनुर्बहुतुहिनशीतले तल्पे ।
ज्वलति त्वदीयविरहादोषधिरिव हिमवतः पृष्ठे ॥गस्स्_६३८॥
सा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम् ।
सुन्दर सखी दिवसकरबिम्बे तुहिनांशुरेखेव ॥गस्स्_६३९॥
सुकुमारत्वं कान्तिर्नितान्तसरअत्वमान्तराश्च गुणाः ।
किं नाम नेन्दुलेखे शशग्रहेणैव तव कथितम् ॥गस्स्_६४०॥
सौरभ्यमात्रमनसामास्तां मलयद्रुमस्य न विशेषः ।
धर्मार्थिनां तथापि स मृग्यः पूजार्थमश्वत्थः ॥गस्स्_६४१॥
संवाहयति शयानं यथोपवीजयति गृहपतिं गृहिणी ।
गृहवृतिविवरनिवेशितदृशस्तथाश्वासनं यूनः ॥गस्स्_६४२॥
सत्यं स्वल्पगुणेषु स्तब्धा सदृशे पुनर्भुजङ्गे सा ।
अर्पितकोटिः प्रणमति सुन्दर हरचापयष्टिरिव ॥गस्स्_६४३॥
सर्वंसहां महीमिव विधाय तां बाष्पवारिभिः पूर्णाम् ।
भवनान्तरमयमधुना सङ्क्रान्तस्ते गुरुः प्रेमा ॥गस्स्_६४४॥
सम्भवति न खलु रक्षा सरसानां प्रकृतिचपलचरितानाम् ।
अनुभवति हरशिरस्यपि भुजङ्गपरिशीलनं गङ्गा ॥गस्स्_६४५॥
सुलभेषु कमलकेसरकेतकमाकन्दकुन्दकुसुमेषु ।
वाञ्छति मनोरथान्धा मधुपी स्मरधनुषि गुणीभावम् ॥गस्स्_६४६॥
सा लज्जिता सपत्नी कुपिता भीतः प्रियः सखी सुखिता ।
बालायाः पीडायां निदानिते जागरे वैद्यैः ॥गस्स्_६४७॥
सुचिरागतस्य संवाहनच्छलेनाङ्गमङ्गमालिङ्ग्य ।
पुष्यति च मानचर्चां गृहिणी सफलयैत्चोत्कलिकाम् ॥गस्स्_६४८॥
सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति ।
वचनपटोस्तव रागः केवलमास्ये शुकस्येव ॥गस्स्_६४९॥
सायं कान्तभुजान्तरपतिता रतिनीतसकलरजनीका ।
उषसि ददती प्रदीपं सखीभिरुपहस्यते बाला ॥गस्स्_६५०॥
सा तीक्ष्णमानदहना महतः स्नेहस्य दुर्लभः पाकः ।
त्वां दर्वीमिव दूति प्रयासयन्नस्मि विश्वस्तः ॥गस्स्_६५१॥
स्नेहक्षतिर्जिगीषा समरः प्राणव्ययावधिः करिणाम् ।
न वितनुते कमनर्थं दन्तिनि तव यौवनोद्भटः ॥गस्स्_६५२॥
सदनादपैति दयितो हसति सखी विशति घरणिमिव बाला ।
ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदति ॥गस्स्_६५३॥
सङ्कुचिताङ्गीं द्विगुणांशुकां मनोमात्रविस्फुरन्मदनाम् ।
दयितां भजामि मुग्धामिव तुहिन तव प्रसादेन ॥गस्स्_६५४॥
सखि लग्नैव वसन्ती सदाशये महति रसमये तस्य ।
बाडवशिखेव सिन्धोर्न मनागप्यार्द्रतां भजसि ॥गस्स्_६५५॥
सखि मिहिरोद्गमनादिप्रमोदमपिधाय सोऽयमवसाने ।
बन्ध्योऽवधिवासर इव तुषारदिवसः कदर्थयति ॥गस्स्_६५६॥
सुरभवने तरुणाभ्यां परस्पराकृष्टदृष्टिहृदयाभ्याम् ।
देवार्चनार्थमुद्यतमन्योन्यस्यार्पितं कुसुमम् ॥गस्स्_६५७॥
सायं कुशेशयान्तर्मधुपानां निर्यतां नादः ।
मित्रव्यसनविषण्णैः कमलैराक्रन्द इव मुक्तः ॥गस्स्_६५८॥
सुमहति मन्युनिमित्ते मयैव विहितेऽपि वेपमानोरुः ।
न सखीनामपि रुदती ममैव वक्षःस्थले पतिता ॥गस्स्_६५९॥
सुभग व्यजनविचालनशिथिलभुजाभूदियं वयस्यापि ।
उद्वर्तनं न सख्याः समाप्यते किञ्चिदपगच्छ ॥गस्स्_६६०॥
सव्रीडा नखरदनार्पणेषु कुपिता प्रगाढमचिरोढा ।
बहुयाच्ञाचरणग्रहसाध्या रोषेण जातेयम् ॥गस्स्_६६१॥
सुगृहीतमलिनपक्षा लघवः परभेदिनः परं तीक्ष्णाः ।
पुरुषा अपि विशिखा अपि गुणच्युताः कस्य न भयाय ॥गस्स्_६६२॥
स्वकपोलेन प्रकटीकृतं प्रमत्तत्वकारणं किमपि ।
द्विरदस्य दुर्जनस्य च मदं चकारैव दानमपि ॥गस्स्_६६३॥
सत्यं पतिरविदग्धः सा तु स्वधियैव निधुवने निपुणा ।
मार्त्तिकमाधाय गुरुं धनुरधिगतमेकलव्येन ॥गस्स्_६६४॥
सौभाग्यमानवान् स त्वयावधीर्यापमानमानीतः ।
स्वं विरहपाण्डिमानं भस्मस्नानोपमं तनुते ॥गस्स्_६६५॥
सखि मम करञ्जतैलं बहुसन्देशं प्रहेष्यसीत्युदिता ।
श्वशुरगृहगमनमिलितं बाष्पजलं संवृणोत्यसती ॥गस्स्_६६६॥
सन्दर्शयन्ति सुन्दरि कुलटानां तमसि विततमविकल्पे ।
मौलिमणिदीपकलिका वर्तिनिभा भोगिनोऽध्वानम् ॥गस्स्_६६७॥
सर्वं वनं तृणाल्या पिहितं पीताः सितांशुरविताराः ।
प्रध्वंसाः पन्थानो मलिनेनोद्गम्य मेघेन ॥गस्स्_६६८॥
सम्यगनिष्पन्नः सन् योऽर्थस्त्वरया स्वयं स्फुटीक्रियते ।
स व्यङ्ग एव भवति प्रथमो विनतातनूज इव ॥गस्स्_६६९॥
सज्जन एव हि विद्या शोभनायै भवति दुर्जने मोघा ।
न विदूरदर्शनतया कैश्चिदुपादीयते गृध्रः ॥गस्स्_६७०॥
सुभगं वदति जनस्तं निजपतिरिति नैष रोचते मह्यम् ।
पीयूषेऽपि हि भेषजभावोपनते भवत्यरुचिः ॥गस्स्_६७१॥
सौधगवाक्षगतापि हि दृष्टिस्तं स्थितिकृतप्रयत्नमपि ।
हिमगिरिशिखरस्खलिता गङ्गेवैरावतं हरति ॥गस्स्_६७२॥
सहघर्मचारिणी मम परिच्छदः सुतनु नेह सन्देहः ।
न तु सुखयति तुहिनदिनच्छत्रच्छायेव सज्जन्ती ॥गस्स्_६७३॥
सकलगुणैकनिकेतन दानववासेन घरणिरुहराजः ।
जातोऽसि भूतले त्वं सतामनादेयफलकुसुमः ॥गस्स्_६७४॥
सुन्दरि ताटङ्कमयं चक्रमिवोद्वहति तावके कर्णे ।
निपतति निकामतीक्ष्णं कटाक्षबाणोऽर्जुनप्रणयी ॥गस्स्_६७५॥
स्वाधीनैव फलर्द्धिर्जनोपजीव्यत्वमुच्छ्रयच्छाया ।
सत्पुंसो मरुभूरुह इव जीवनमात्रमाशास्यम् ॥गस्स्_६७६॥
सन्तापमोहकम्पान् सम्पादयितुं निहन्तुमपि जन्तून् ।
सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव ॥गस्स्_६७७॥
सुखयिततरां न रक्षति परिचयलेशं गणाङ्गनेव श्रीः ।
कुककामिनीव नोज्झति वाग्देवी जन्मजन्मापि ॥गस्स्_६७८॥
स्वसदननिकटे नलिनीमभिनवजातच्छदां निरीक्ष्यैव ।
हा गृहिणीति प्रलपंश्चिरागतः सखि पतिः पतितः ॥गस्स्_६७९॥
सचि चतुराननभावाद्वैमुख्यं क्वापि नैव दर्शयति ।
अयमेकहृदय एव द्रुहिण इव प्रियतमस्तदपि ॥गस्स्_६८०॥
सत्यं मधुरो नियतं वक्रो नूनं कलाधरो दयितः ।
स तु वेद न द्वितीयामकलङ्कः प्रतिपदिन्दुरिव ॥गस्स्_६८१॥
स्वस्थानादपि विचलति मज्जति जलधौ च नीचमपि भजते ।
निजपक्षरक्षणमनाः सुजनो मैनाकशैल इव ॥गस्स्_६८२॥
संवृणु बाष्पजलं सखि दृशमुपरज्याञ्जनेन वलयैनाम् ।
दयितः पश्यतु पल्लवपङ्कजयोर्युगपदेव रुचम् ॥गस्स्_६८३॥
सा पाण्डुदुर्बलाङ्गी नयसि त्वं यत्र याति तत्रैव ।
कठिनीव कैतवविदो हस्तग्रहमात्रसाध्या ते ॥गस्स्_६८४॥
सखि विश्वगञ्जनीया लक्ष्मीरिव कमलमुखि कदर्यस्य ।
त्वं प्रवयसोऽस्य रक्षावीक्षणमात्रोपयोग्यासि ॥गस्स्_६८५॥
इति विभाव्याख्यासमेता सकारव्रज्या ।
**********************************************************
हकारव्रज्या
हृदयज्ञया गवाक्षे विसदृक्षं किमपि कूजितं सख्या ।
यत्कलहभिन्नतल्पा भयकपटादेति मां सुतनु ॥गस्स्_६८६॥
हरति हृदयं शलाकानिहितोऽञ्जनतन्तुरेष सखि मुग्धे ।
लोचनबाणमुचान्तर्भ्रूधनुषा किण इवोल्लिखितः ॥गस्स्_६८७॥
हससि चरणप्रहारे तल्पादपसारितो भुवि स्वपिषि ।
नासदृशेऽपि कृते प्रिय मम हृदयात्त्वं विनिःसरसि ॥गस्स्_६८८॥
हसति सपत्नी श्वश्रू रोदिति वदनं च पिदधते सख्यः ।
स्वप्नायितेन तस्यां सुभग त्वन्नाम जल्पन्त्याम् ॥गस्स्_६८९॥
हृदयं मम प्रतिक्षणविहितावृत्तिः सखे प्रियाशोकः ।
प्रबलो विदारयिष्यति जलकलशं नीरलेखेव ॥गस्स्_६९०॥
हन्त विरहः समन्ताज्ज्वलयति दुर्वारतीव्रसंवेगः ।
अरुणस्तपनशिलामिव पुनर्न मां भस्मतां नयति ॥गस्स्_६९१॥
हृत्वा तटिनि तरङ्गैर्भ्रमितश्चक्रेषु नाशये निहितः ।
फलदलवल्कलरहितस्त्वयान्तरिक्षे तरुस्त्यक्तः ॥गस्स्_६९२॥
हृतकाञ्चिवल्लिबन्धोत्तरजघनादपरभोगभुक्तायाः ।
उल्लसति रोमराजिः स्तनशम्भोर्गरललेखेव ॥गस्स्_६९३॥
इति विभाव्याख्यासमेता हकारव्रज्या ।
**********************************************************
क्षकारव्रज्या
क्षीरस्य तु दयितत्वं यतोऽपि शान्तोपचारमासाद्य ।
शैलोऽङ्गान्यानमयति प्रेम्णः शेषो ज्वरस्येव ॥गस्स्_६९४॥
क्षान्तमपसारितो यच्चरणावुपधाय सुप्त एवासि ।
उद्घाटयसि किमूरु निःश्वासैः पुलकयन्नुष्णैः ॥गस्स्_६९५॥
क्षुद्रोद्भवस्य कटुतां प्रकटयतो यच्छतश्च मदमुच्चैः ।
मधुनो लघुपुरुषस्य च गरिमा लघिमा च भेदाय ॥गस्स्_६९६॥
**********************************************************
पूर्वैर्विभिन्नवृत्तां गुणाढ्यभवभूतिबाणरघुकारैः ।
वाग्देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥गस्स्_६९७॥
सत्पात्रोपनयोचितसत्प्रतिबिम्बाभिनववस्तु ।
कस्य न जनयति हर्षं सत्काव्यं मधुरवचनं च ॥गस्स्_६९८॥
एका ध्वैन्द्वितीया तिर्भुवनसारा स्फुटोक्तिचातुर्या ।
पञ्चेषुषट्पदहिता भूषा श्रवणस्य सप्तशती ॥गस्स्_६९९॥
कविसमरसिंहनादः स्वरानुवादः सुधैकसंवादः ।
विद्वद्विनोदकन्दः सन्दर्भोऽयं मया सृष्टः ॥गस्स्_७००॥।
उदयनबलभद्राभ्यां सप्तशती शिष्यसोदराभ्यां मे ।
द्यौरिव रविचन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥गस्स्_७०१॥
हरिचरणाञ्जलिमलं कविवरहर्षाय बुद्धिमान् सततम् ।
कृतार्यासप्तशतीमेतां गोवर्धनाचार्यः ॥गस्स्_७०२॥
इति गोवर्धनाचार्यविरचिता आर्यासप्तशती समाप्ता
\Z
]