विश्वास-प्रस्तुतिः
नवतितमोऽध्यायः
मार्कण्डेय उवाच -
वेतालस्य च सन्तानं शृण्वन्तुं मुनिसत्तमाः ।
यच्छ्रुत्वा सर्वपापेभ्यस्तत्क्षणादेव हीयते ॥ १ ॥
मूलम्

दक्षस्य तनया चाभूत् सुरभिर्नाम नामतः ।
गवां माता महाभागा सर्वलोकोपकारिणी ॥ २ ॥
मूलम्
दक्षस्य तनया चाभूत् सुरभिर्नाम नामतः ।
गवां माता महाभागा सर्वलोकोपकारिणी ॥ २ ॥
विश्वास-प्रस्तुतिः
तस्यां तु तनया जज्ञे कश्यपात् तु प्रजापतेः ।
नाम्ना सा रोहिणी शुभ्रा सर्वकामदुघा नृणाम् ॥ ३ ॥

तस्यां जज्ञे शुनःशेफान्मुनेरतितपोधनात् ।
कामधेनुरिति ख्याता सर्वलक्षणसंयुता ॥ ४४ ॥

सा सिताभ्रप्रतीकाशा चतुर्वेदचतुष्पदा ।
स्तनैश्चतुर्भिर्धर्मार्थकामप्रसवकारिणी ॥ ५ ॥

सा सुवर्णशरीरा तु कालेन महाता सती ।
निर्मलं यौवनं प्राप कामधेनुर्मनोहरम् ॥ ६ ॥

तां चरन्तीं मेरुपृष्ठे चारुरूपां सुलक्षणाम् ।ददर्श स तु वेतालः
कामुकश्चाभ्यपद्यत ॥ ७ ॥

तं कामुकं च वेतालं विदित्वा कामधेनुका ।
पशुधर्मात् स्वयं भेजे तं पुत्रं शशभृद्भृतः ॥ ८ ॥

सोऽवाप तस्यां परममामोदं शङ्करात्मजः ।
सा चापि परमां तस्मिन् मुदमापातिहर्षिता ॥ ९ ॥

तयोः प्रवृत्ते सुरते तस्यां गर्भोऽभवत् तदा ।
काले प्राप्ते तु सुषुवे कामधेनुर्महावृषम् ॥ १० ॥

सोऽचिरेणैव कालेन सुमहान् वृषभोऽभवत् ।
महाककुदसंयुक्तश्चारुशृङ्गसमन्वितः ॥ ११ ॥

उत्क्षिप्य विचलत्-कर्णयुगलो दीर्घबालधिः ।
ककुदेन च शृङ्गाभ्यां कर्णाभ्यां स सिताभ्रवत् ॥ १२ ॥

विचलन् ददृशे देवैः शृङ्गैरिव सिताचलः ।
वेतालस्त्वकरोत् तस्य नाम शृङ्ग इति द्विजाः ॥ १३ ॥

स तु शृङ्गो ज्ञानशाली समाराधयदीश्वरम् ।
सोऽपि तुष्टो वरं तस्मै ददाविष्टं हरः प्रभुः ॥ १४ ॥

तमेव वाहनं चक्रे कृत्वा देवतनुं वृषम् ।
सुचिरायुऽस्च बलवान् पृथिवीधारणे क्षमः ॥ १५ ॥

शृङ्गो नाम महातेजाः केतुः सोऽप्यभवत् प्रभोः ।
शृङ्गो भूत्वा मतो यस्माच्छङ्करस्य महात्मनः ॥ १६ ॥

अतः शृङ्ग इति ख्यातिमथ प्राह महेश्वरः ।
स तु शृङ्गी महादेवे ध्यानासक्ते क्वचित् क्वचित् ॥ १७ ॥

वरुणस्य गृहं गत्वा सुरभेस्तनयास्तु याः ।
रूपयौवनसम्पन्ना भेजेऽलं सुरतेन ताः ॥ १८ ॥

वरुणस्य गृहे गावः सर्वलक्षणसंयुताः ।
तिष्ठन्ति सततं विप्रास्तासु तास सुताः पुनः ॥ १९ ॥

वह्व्यस्तु च समुत्पन्नास्तेषां सूतिप्रसूतिभिः ।
सर्वं जगदिदं व्याप्तं तेभ्यो यज्ञं प्रवर्तते ॥ २० ॥

आज्येन देवास्तुष्यन्ति यज्ञा आज्ये प्रतिष्ठिताः ।
यज्ञाधीनमिदं सर्वं जगत् स्थावरजङ्गमम् ॥ २१ ॥

तदाज्यं तु गवाधीनं ततः सर्वं गवि स्थितम् ।
तदिदं सकलं विश्वं गवाधीनं द्विजोत्तमाः ॥ २२ ॥

वेतालस्य च ता गावो वंश्याः सर्वप्रियाः सदा ।
य इदं शृणुयान्नित्यं वेतालस्य महात्मनः ॥ २३ ॥

वंशानां जन्म विप्रेन्द्राः स सुखी बलवान् भवेत् ।
न गावो नापि विभवास्तस्य नश्यन्ति वै क्वचित् ॥ २४ ॥

न च भूतपिशाचाद्यास्तं पश्यन्ति कदाचन ।
वेतालः सततः तस्य रक्षामाचरति स्वयम् ॥ २५ ॥

इति वः कथितं विप्रा यथा वेतालभैरवौ ।
जनयामासतुः पुत्रान् विच्छिन्नाः संशयाश्च वः ॥ २६ ॥

यथा च कालिका देवी मोहयामास शङ्करम् ।
यथोत्पन्ना शरीरार्धं कृतं शम्भोर्यथा तथा ॥ २७ ॥

कालिकायै नमस्तुभ्यमिति यो भाषते स्वयम् ।
तस्य हस्ते स्थिता मुक्तिस्त्रिवर्गस्तु वशानुगः ॥ २८ ॥

इति वः कथितं पुण्यं पुराणं कालिकाह्वयम् ।
मन्त्रयन्त्रमयं शुद्धं ज्ञानदं कामदं परम् ॥ २९ ॥

इति गुह्यतमं लोके वेदेषु च तथा द्विजाः ।
देवगन्धर्वसिद्धाद्यैः स्पृहणीयमिदं सदा ॥ ३० ॥

अधीतं च श्रुतं मत्तो वसिष्ठेन महात्मना ।
इदं पुराणममृतं कालिकाह्वयमुत्तमम् ॥ ३१ ॥

तेन गुप्तमिदं सर्वं कामरूपे सुरालये ।
तमिदानीं समाख्यातं व्यक्तीकृत्य महर्षयः ॥ ३२ ॥

युस्माभिरपि नो देय गोप्यं लोकेषु सर्वदा ।
शठाय चलचिन्त्ताय नास्तिकायाजितात्मने ॥ ३३ ॥

भक्तिश्रद्धाविहीनाय न दातव्यं कदाचन ।
इदं सकृत् पठेद् यस्तु पुराणं कालिकाह्वयम् ॥ ३४ ॥

स कामानखिलान् प्राप्य शेषेऽमृतमवाप्नुयात् ।
मन्दिरे लिखितं यस्य पुराणमिदमुत्तमम् ॥ ३४ ॥

सदा तिष्ठति नो तस्य विघ्नः सञ्जायते द्विजाः ।
योऽधीतेऽहन्यहन्येतद् गुह्यं तन्त्रमिदं परम् ॥ ३६ ॥

अधीताः सकला वेदास्तेनेह द्विजसत्तमाः ।
तस्मान्नैवाधिकोऽन्योअस्ति कृतकृत्यो विचक्षणः ॥ ३७ ॥

स सुखी बल्लवाल्ँलोके दीर्घायुरपि जायते ॥ ३८ ॥

यो लोकमीशःसततं बिभर्ति
यः पालयत्यन्तकर स्तथान्ते ।
इदं समस्तं भ्रममभ्रमं वा
अदीयरूपं च नमोऽस्तु तस्मै ॥ ३९ ॥
मूलम्
यो लोकमीशःसततं बिभर्ति
यः पालयत्यन्तकर स्तथान्ते ।
इदं समस्तं भ्रममभ्रमं वा
अदीयरूपं च नमोऽस्तु तस्मै ॥ ३९ ॥
विश्वास-प्रस्तुतिः
प्रधानपुरुषो यस्य प्रपञ्चो योगिनां हृदि ।
यः पुराणाधिपो विष्णुः प्रसीदतु स वः शिवः ॥ ४० ॥

यो हेतुरुग्रः पुरुषः पुराणः
सनातनः शाश्वत ईश्वरः परः ।
पुराणकृद् वेदपुराणवेद्यः
प्रस्तौमि तन्नौमि पुराणशेषे ॥ ४१ ॥
मूलम्
यो हेतुरुग्रः पुरुषः पुराणः
सनातनः शाश्वत ईश्वरः परः ।
पुराणकृद् वेदपुराणवेद्यः
प्रस्तौमि तन्नौमि पुराणशेषे ॥ ४१ ॥
विश्वास-प्रस्तुतिः
इति सकलजगद् बिभर्ति यासां
मधुरिपुमोहकरी रमास्वरूपा ।
रमयति च हरं शिवास्वरूपा
वितरतु वो विभवं शुभानि माया ॥ ४२ ॥
मूलम्
इति सकलजगद् बिभर्ति यासां
मधुरिपुमोहकरी रमास्वरूपा ।
रमयति च हरं शिवास्वरूपा
वितरतु वो विभवं शुभानि माया ॥ ४२ ॥
विश्वास-प्रस्तुतिः
इति श्रीकालिकापुराणे नवतितमोऽध्यायः ॥ ९० ॥
मूलम्
इति श्रीकालिकापुराणे नवतितमोऽध्यायः ॥ ९० ॥
इति श्रीकालिकापुराणं समाप्तम् ।