विश्वास-प्रस्तुतिः
एकोननवतितमोऽध्यायः
ऋषय ऊचुः
सङ्क्षेपतः सदाचारो विशेषो राजनीतिषु ।
श्रुतस्त्वद्वचनादौर्वः सगराय यथोक्तवान् ॥ १ ॥
मूलम्

विष्णुधर्मोत्तरे तन्त्रे बाहुल्यं सर्वतः पुनः ।
द्रष्टव्यस्तु सराचारो द्रष्टव्यास्ते प्रसादतः ॥ २ ॥

भूयो न संशयो योऽस्ति तदनुक्तं त्वया पुरा ।
छिन्धि विप्रेन्द्र पृच्छामः परं कौतूहलं हि नः ॥ ३ ॥

अपुत्रस्य गतिर्नास्ति श्रूयते वेदलोकयोः ।
वेतालभैरवो यातौ पुरा वै तपसे गिरिम् ॥ ४ ॥

पूर्वस्त्वकृतदारौ तौ तयोः पुत्रा न च श्रुताः ।
न जाता अथवा जाता यदि नाना द्विजोत्तम ।
तेषां तु सम्यगिच्छामि श्रोतुं स स्थानमुत्तमम् ॥ ५ ॥

मार्कण्डेय उवाच =
अपुत्रस्य गतिर्नास्ति निश्चितं चेति सत्तमाः ।
स्वपुत्रैर्भ्रातृपुत्रैर्वा पुत्रवन्तो हि स्वर्गताः ॥ ६ ॥

जातापत्यौ च तौ विप्रा धीरौ वेतालभैरवौ ।
तयोर्वशान् प्रवक्ष्यामि शृण्वन्तु च महर्षयः ॥ ७ ॥

सम्यक् सिद्धिमवाप्यैव यदा वेतालभैरवो ।
हरस्य मन्दिरं प्राप्तौ कैलासं प्रतिहर्षितौ ॥ ८ ॥

तदा हरस्य वचनान्नन्दी तौ रहसि द्विजाः ।
प्राहेदं वचनं तथ्यं सान्त्वयन्निवं बोधकृत् ॥ ९ ॥

नन्द्युवाच
अपुत्रौ पुत्रजनने भवन्तौ शङ्करात्मजौ ।
यततां जातपुत्रस्य सर्वत्र सुलभा गतिः ॥ १० ॥

पुन्नाम नरकं पुत्रविहीनः परिपश्यति ।
न तपोभिर्न धर्मेण तन्मोचयितुमीश्वरः ॥ ११ ॥

केवलात् पुत्रजननात् तस्मान्मोक्षः प्रजायते ।
तदुत्पादयतां पुत्रं भवन्तौ देवयोनिषु ॥ १२ ॥

अमर्त्यता तु युवयोः क्षीरपानादजायत ।
कात्यायन्यास्ततः पुत्रानमर्त्याः स्वसमा यतः ॥ १३ ॥

तस्माद् यथा तथा पुत्रानुत्पाद्य् सुरयोनिषु ।
प्रियौ भवन्तौ शिवयोर्भवनं न चिरादिति ॥ १४ ॥

मार्कण्डेय उवाच -
तस्येति वचनं श्रुत्वा नन्दिनः प्रीतमानसौ ।
एवमेव करिष्यावो नन्दिनं चेत्यभाषताम् ॥ १५ ॥

ततस्तौ सततं कृत्वा नन्दिनौ वचनं हृदि ।
अचेष्टतां स्वपुत्रार्थे व्रजन्तौ तावितस्ततः ॥ १६ ॥

अथैकदा भैरवोऽसौ उर्वशीमप्सरोवराम् ।
हिमवत्-पर्वतप्रस्थे ददर्श सुमनोहराम् ॥ १७ ॥

अथ तां कामुको भूत्वा ययाचे सुरतोत्सवम् ।
वेश्याभावाच्च सुप्रीता सा यथेच्छमुवाच तम् ॥ १८ ॥

ततस्तस्यां भैरवस्तु चकार सुरतोत्सवम् ।
प्रीतायामुर्वशीदेव्यां सुप्रीतोऽभूच्च केलिभिः ॥ १९ ॥

सुप्रीतायामथोर्वश्यां तेजोभिर्भैरवस्य तु ।
सद्योजातोऽभवत् पुत्रो बालसूर्यसमप्रभः ॥ २० ॥

तं तु पुत्र परित्यज्य ययौ स्वस्थानमुर्वशी ।
आदाय तनयं पश्चाद् भैरवः स्वपदं ययौ ॥ २१ ॥

संस्कृत्य तनयं तं तु भैरवो मोदसंयुतः ।
उवेशमिति तन्नाम चकार सगणाधिपः ॥ २२ ॥
मूलम्
संस्कृत्य तनयं तं तु भैरवो मोदसंयुतः ।
उवेशमिति तन्नाम चकार सगणाधिपः ॥ २२ ॥
विश्वास-प्रस्तुतिः
अथ तं जातवयसं शक्रसूर्यसमप्रभम् ।
विद्याधराधिपत्ये तु उवेशमभ्यषेचयत् ॥ २३ ॥

स तु विद्याधराध्यक्षस्तनयामतिसुन्दरीम् ।
येमे गन्धर्वराजस्य धृतराष्ट्राह्वयस्य च ॥ २४ ॥

तस्यां तस्य सुतो जज्ञे रुरुर्नाम मनोहरः ।
रुरोस्तु तनयो बाहुर्मैनाक्यामभ्यजायत ॥ २५ ॥

बाहोस्तु पुत्राश्चत्वारस्तपनोऽङ्गद ईश्वरः ।
कुमुदोऽभूत् कनीयांस्तु चार्वत्यां तु मनोहरः ॥ २६ ॥

कुमदस्य सुतो जज्ञे देवसेनो महाबलः ।
स देवसेनः पृथिवीमवतीर्य मनोहरः ॥ २७ ॥
मूलम्
कुमदस्य सुतो जज्ञे देवसेनो महाबलः ।
स देवसेनः पृथिवीमवतीर्य मनोहरः ॥ २७ ॥
विश्वास-प्रस्तुतिः
मान्धातुर्यौवनाश्वस्य तनयां केशिनीं मुहुः ।
वरयामास भार्यार्थे मृद्वङ्गीमप्सरःसमाम् ॥ २८ ॥

यौवनाश्वोऽपि मान्धाता शक्रस्य वचनाद् ददौ ।
केशिनीं तनयां स्वीयां देवसेनाय वाञ्छया ॥ २९ ॥

केशिनीमुपयम्याथ देवसेनस्तया सह ।
वाराणस्यां शम्भुपुर्यां हरमाराधयच्छिवम् ॥ ३० ॥

आराधितो हरः प्रीतस्तस्येष्टं प्रददौ वरम् ।
सोऽप्याददे हरात् तस्मादिष्टमेव वरत्रयम् ॥ ३१ ॥

यावच्च सूर्यो भविता तावत् स्थास्यति सन्ततिः ।
अस्यामेव नगर्यां ये मद्वंशस्यापि राजता ॥ ३२ ॥

प्रसन्नो मम वंशे त्वं नित्यमेव भविष्यसि ।
इत्यादाय वरं सोऽपि देवसेनो महाकृती ॥ ३३ ॥

शङ्करस्य प्रसादेन चिरं तां बुभुजे पुरीम् ।
देवसेनोऽथ केशिन्यां जनयामास पुत्रकान् ॥ ३४ ॥

यूयं शृणुत सप्तैतान्नामतः कीर्तितांस्तथा ।
सुमना वसुदानश्च ऋतुधृग् यवनः कृती ॥ ३५ ॥

नीलो विवेकी ह्येते वै सर्वशास्त्रविशारदाः ।
सर्वे वंशकराः पुत्रा देवसेनस्य सत्तमाः ॥ ३६ ॥

अथ काले तु सम्प्राप्ते देवसेनोऽपि भार्यया ।
पुत्रेष राज्यं निःक्षिप्य यातो विद्याधरक्षयम् ॥ ३७ ॥

ततस्ते तस्य तनयाः कृत्वा सुतनसं नृपम् ।
वसुदानादयः सर्वे बुभुजुश्चोत्तमां श्रियम् ॥ ३८ ॥

जाताः सुमनसः पुत्रास्त्रयः शूरा महाबलाः ।
सुमतिश्च विरूपश्च सत्यः शास्त्रार्थपारगाः ॥ ३९ ॥

सुमतेरभवत् कन्या सुतः सत्यस्य डिण्डिमः ।
विरूपस्याभवद् गाधिर्गाधेर्मित्रोऽभवत् सुतः ॥ ४० ॥

तेषां कल्पोऽभवद्राजा कल्पात् तु विजयोऽभवत् ।
यो विजित्य क्षितिं सर्वां पार्थिवान् भूरितेजसः ॥ ४१ ॥

शक्रस्यानुमते चक्रे खाण्डवं शतयोजनम् ।
यत् सव्यसाची ह्यदहत् पाण्डुपुत्रः प्रतापवान् ।
आवहत् परमां प्रीतिं ज्वलनस्य महात्मनः ॥ ४२ ॥

ऋषय ऊचुः -
कथं स खाण्डवं चक्रे विजयः शतयोजनम् ।
तद् वयं श्रोतुमिच्छामः कथयस्य तपोधन ॥ ४३ ॥
मूलम्
ऋषय ऊचुः -
कथं स खाण्डवं चक्रे विजयः शतयोजनम् ।
तद् वयं श्रोतुमिच्छामः कथयस्य तपोधन ॥ ४३ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच -
सोमवंशेऽभवद्राजा महाबलपराक्रमः ।
धीरः सुदर्शनो नाम चारुरूपः प्रतापवान् ॥ ४४ ॥

स वै हिमवतो नातिदूरे भङ्क्त्वा महावनम् ।
सिंहान् व्याघ्रान् समुत्सार्य क्वचिच्चापि तपोधनान् ॥ ४५ ॥

खण्डवीं नाम नगरीमकरीत् तत्र शोभनाम् ।
त्रिंशद्योजनविस्तीर्णामायतां शतयोजनाम् ॥ ४६ ॥

उच्चप्राकारसंयुक्तां साट्टालम्बुदतोरणाम् ।
निम्नाभिरतिदीर्घाभिः परिखाभिः समावृताम् ॥ ४७ ॥

अघृष्यामपरैर्वीरैर्नानाजनसमावृताम् ।
दीर्घिकाभिश्चोपवनैर्बहुभिश्चाप्सरोगणैः ॥ ४८ ॥

आकीर्णां च तथारामैरुत्तैरपि मानवैः ।
सोत्सवाः सततं यत्र जना देवान् दिवि स्थितान् ॥ ४९ ॥

स्पर्धन्ते स्म मुदा युक्ता आद्या-भोगसमन्विताः ।
स वै सुदर्शनो राजा खात्वा भूमिं विदार्य च ॥ ५० ॥

गङ्गां कनखलां देवीं वाहयामास खाण्डवीम् ।
सम्प्लाव्याखाण्डवीमध्यं तेन खातैश्च वर्त्मभिः ॥ ५१ ॥

वक्रानुवक्रगा भूत्वा याति सीतां नदीं प्रति ।
स जित्वा सकलान् भूपान् वित्तान्याहृत्य भूरिशः ॥ ५२ ॥

वशीचकार खाण्डव्यां मध्ये रत्नैरनेकशः ।
अन्येषां नगरेभ्यस्तु जनानानीय भूपतिः ॥ ५३ ॥

खाण्डव्यां वासयामास हठादपि सुदर्शनः ।
देवदानवगन्धर्वाञ् जित्वा जित्वा युधा कृती ॥ ५४ ॥

देववृक्षं देवरत्नं देवीं चापि तथौषधिम् ।
खाण्डव्यां रोपयामास स भूपालः सुदर्शनः ॥ ५० ॥

विष्णुस्तोऽपि वै विष्णुर्नृपतिं तं सुदर्शनम् ।
कृतापकारं च बहुधा देवानां च तथा नृणाम् ॥ ५६ ॥

वाराणसीपतिं वीरं विजयं जयशालिनम् ।
युद्धाय कृतसाचिव्यं तद्वैरे समयोजयत् ॥ ५७ ॥

विजयो विवरं प्राप्य महाबलपराक्रमः ।
सुदर्शनस्य नृपतेरवस्कन्दमथाकरोत् ॥ ५८ ॥
मूलम्
विजयो विवरं प्राप्य महाबलपराक्रमः ।
सुदर्शनस्य नृपतेरवस्कन्दमथाकरोत् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
नासहत् स ह्यवस्कन्दं विजयस्य सुदर्शनः ।
चतुरङ्गबलेनाशु युद्धायाभिमुखोऽभवत् ॥ ५९ ॥

विजयो रथमारुह्य नियोज्य चतुरङ्गिणीम् ।
ततः सुदर्शनं योद्धुं सम्मुखोऽभवदञ्जसा ॥ ६० ॥

तदा महायुद्धमासीद्विजयेन महात्मना ।
सुदर्शनस्य नृपतेर्वृत्रवासवयोर्यथा ॥ ६१ ॥

सुदर्शनस्य सेनानां रुमण्वान्नाम वीर्यवान् ।
काञ्चनं रथमारुह्य विजयसम्मुखोऽभ्ययात् ॥ ६२ ॥

अक्षौहिण्यस्तु सप्तास्य परिवायं समन्ततः ।
व्यधमत्तां शत्रुसेनां यावतीमुद्यतायुधः ॥ ६३ ॥

विजयस्य च सेनानीः सञ्जयः स रिपुञ्जयः ।
नागानीकेन जग्राह रुमण्वन्तं ससैनिकम् ॥ ६४ ॥

तयोर्महदभूद् युद्धं सेनान्योर्वीरयोर्महत् ।
ववर्ष शरवर्षेण रुमण्वानथ सञ्जयम् ॥ ६५ ॥

कुर्वंश्चापि महानादं गजं दृष्ट्वैव केशरी ।
रुमण्वानथ विशत्या बाणैर्विध्वाथ सञ्जयम् ॥ ६६ ॥

क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत ।
सोऽपि कार्मुकमादाय तदाऽन्यत् सञ्जयस्त्रिभिः ॥ ६७ ॥

बाणैर्विव्याध भल्लेन धनुश्चिच्छेद तत्क्षणात् ।
शतान्यष्टौ च नागानां सहस्राणि च पञ्चषट् ॥ ६८ ॥

पत्तीनां वाजिनां त्रीणि सहस्राणि समन्ततः ।
सञ्जयो निर्जघानाशु बाणवर्षैः सुदारुणैः ॥ ६९ ॥

अथान्यद् धनुरादाय रुमण्वान् कुपितो भृशम् ।
भल्लेन सारथेरस्य शिरः कायादपाहरत् ॥ ७० ॥

हयांश्चास्य चतुर्भिस्तु बाणैर्निन्ये यमक्षयम् ।
चतुरः पञ्चभिर्बाणैरविध्यच्चापि शञ्जयम् ॥ ७१ ॥

सञ्जयोऽप्यतिवेगेन गमामादाय तत् क्षणात् ।
अवतीर्य रथोपस्थाद्रुमण्वन्तमधावत ॥ ७२ ॥

स धावन्तं सञ्जयं तं रुमण्वान् द्रुतहस्तवत् ।
शरवर्षेण सञ्छाद्य वारयामास सञ्जयम् ॥ ७३ ॥

गदाया भ्रामणेनासौ निवार्य शरवर्षणम् ।
आससाद रुमण्वन्तं केसरीव महागजम् ॥ ७४ ॥
मूलम्
गदाया भ्रामणेनासौ निवार्य शरवर्षणम् ।
आससाद रुमण्वन्तं केसरीव महागजम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
आसाद्य तां गदां गुर्वीमाविध्यातीव सञ्जयः ।
एकेनैव प्रहारेण सरथं तं व्यपोथयत् ॥ ७५ ॥

स पपात महावीरः पृथिव्यां गदया हतः ।
वज्रहतो यथा शालः प्रफुल्लो वनमध्यगः ॥ ७६ ॥

रुमण्वन्तं निपतितं दृष्ट्वा राजा सुदर्शनः ।
शोक-कोपसमाविष्टः सधूम इव पावकः ॥ ७७ ॥

जज्वालाकुलदेहोऽपि क्रोधेनातीव संयुतः ।
आरुह्य जवनैरश्वैर्युक्तं वैयाघ्रकृत्तिना ॥ ७८ ॥

रथं काञ्चन-चित्राङ्गं सिंहध्वज-विभूषितम् ।
आमुक्तो धनुरादाय विस्फार्य च पुनः पुनः ॥ ७९ ॥

ससैन्यः सञ्जयं राजा समाद्रवत वेगवान् ।
अथास्य निशितैः शस्त्रैः सेनामग्रगतां भृशम् ॥ ८० ॥

न्यहनत् सकलां राजा मृगानिव मृगाधिपः ।
एकामक्षौहिणीमग्रगामिनीं विपुलौजसाम् ॥ ८१ ॥

क्रोशद्वयेन न्यहनत् तमांसीव दिवाकरः ।
हत्वा चाक्षौहिणीमेकामासाद्य सञ्जयं नृपः ॥ ८२ ॥

बाणैः षष्ट्या तु विव्याध ध्वजमेकेन चिच्छिदे ।
सञ्जयोऽप्यथ विंशत्या हृदि विद्ध्वा सुदर्शनम् ॥ ८३ ॥

ललाटे त्वेकबाणेन प्राविध्यत् कृतहस्तवत् ।
क्षुरप्रेणास्य कोदण्डं छित्त्वा राज्ञः प्रतापवान् ॥ ८४ ॥

सारथिं दशभिर्बाणैः पुनर्विव्याध सञ्जयः ।
कोदण्डमन्यमादाय तदा राजा सुदर्शनः ॥ ८५ ॥

शरवर्षेण तीव्रेण ववर्षातीव सञ्जयम् ।
तयोर्महद्भूद् युद्धं मुनिविस्मयकारकम् ॥ ८६ ॥

शस्त्रैरस्त्रैर्भृशं तीक्ष्णैर्बलिवासवयोरिव ।
ततः सुदर्शनो राजा भल्लेनास्य दृढं धनुः ॥ ८७ ॥

चिच्छेद सारथिं चास्य जघान निशितैः शरैः ।
स्वयं संयम्य वाहान् स सञ्जयः परवीरहा ॥ ८८ ॥

धनुरन्यत् समादाय परिवार्य सुदर्शनम् ।
विव्याध दशभिर्बाणैर्धनुरप्यच्छिनद् दृढम् ॥ ८९ ॥

शरासनान्तरं राजा समादाय सुदर्शनः ।
सञ्जयस्य चतुर्वाहाञ्छरैर्निन्ये यमक्षयम् ॥ ९० ॥

मुष्टौ धनुश्च चिच्छेद तं च विव्याध पञ्चभिः ।
विरथश्छिन्नवाहश्च सञ्जयः खड्गचर्मणी ॥ ९१ ॥

आदाय सम्मुखं राज्ञोऽभ्यद्रवत् कुपितो भृशम् ।
तस्य चापं ततः खड्गं क्षुरप्रेण सुदर्शनः ॥ ९२ ॥

द्विधा चिच्छेद भल्लेन चर्म चाप्यच्छिनत्तदा ।
अथ द्रुतं तदोपेत्य सञ्जयः स्यन्दनोत्तमम् ॥ ९३ ॥

सुदर्शनस्य सूतं तु कराभ्यां पातयत् क्षितौ ।
रथाभ्याशे गतस्यास्य सञ्जयस्य सुदर्शनः ॥ ९४ ॥

शिरश्चिच्छेद खड्गेन ततोऽसौ न्यपतद् भुवि ।
स पपात तदा तस्य रथाभ्याशे महाबलः ॥ ९५ ॥

कृत्तः परशुनाऽरण्ये पुष्पितः शालवृक्षवत् ।
सञ्जयं पतितं दृष्ट्वा विजयः क्रोधमूर्च्छितः ॥ ९६ ॥

महता शङ्खनादेन नादयंस्तु नभःस्थलम् ।
रथेन स्वर्णचित्रेण व्याघ्रचर्मविराजिना ॥ ९७ ॥

केतुना वृषभेणाथ योजनार्धोच्छ्रितेन च ।
नादयन् ककुभः सर्वा रथौघपरिवेष्टितः ॥ ९८ ॥

विमुञ्चञ्छरवर्षाणि ससाद च सुदर्शनम् ।
आसाद्यं तं नृपं भूपो विजयः परवीरहा ॥ ९९ ॥

हृदि विद्ध्वा त्रिभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ।
सुदर्शनोऽपि विजयं नदन्तं कुञ्जरोपमम् ॥ १०० ॥

दशभिर्निशितैर्बाणैर्विदध्वा चिच्छेद तद् धनुः ।
अथैनं छिन्नधन्वानं जत्रुदेशे त्रिभिः शरैः ॥ १०१ ॥

निर्भिद्याथ महानादं ननाद स सुदर्शनः ।
सोऽन्यद्धनुः समादाय कङ्कपत्रैस्त्रिभिः शरैः ॥ १०२ ॥

विव्याध हृदये वीरो विजयोऽपि सुदर्शनम् ।
ततस्तन्नृपमुद्दिश्य महाशक्तिं सुदीपिताम् ॥ १०३ ॥

नागकन्यां कोपयुक्तां लेलिहानामिवातुलाम् ।
स्वर्णदण्डां सुतीक्ष्णाग्रां तैलधौतां सुनिर्मलाम् ॥ १०४ ॥

समुद्यम्याथाचिक्षेप विजयः शात्रवं प्रति ।
सुदर्शनस्य हृदयं सा शक्तिः प्रविवेश ह ॥ १०५ ॥

स विह्वलो रथोपस्थे ह्यधोवक्त्र उपाविशत् ।
तस्मिन् मोह-समापन्ने नृपतौ च सुदशने ॥ १०६ ॥

तस्याग्रतस्तथा पार्श्वे ये स्थितास्तत्र सैनिकाः ।
तान् सर्वानहनद्राजा क्षणमात्राद् द्विजोत्तमाः ॥ १०७ ॥

रथान् दशसहस्राणि तावन्त्येव च दन्तिनाम् ।
पञ्चविंशसहस्राणि वाजिनां च तरस्विनाम् ॥ १०८ ॥

लक्षद्वयं तु पत्तीनां क्षणमात्रादपोथयत् ।
स तु लब्ध्वा ततः सञ्ज्ञां धनुरादाय वै दृढम् ॥ १०९ ॥

शरवर्षेण विजयं ववर्ष स सुदर्शनः ।
निवार्य शरवर्षेण विजयं तु सुदर्शनः ॥ ११० ॥

भल्लेन कार्मुकं सज्यं तस्य चिच्छेद तत्क्षणात् ।
सारथेस्तु शिरः कायाद् भल्लेनापाहरत् ततः ॥ १११ ॥

हयांश्च चतुरश्चास्य प्रेषयामास मृत्यवे ।
अथैवं विरथं भूपं दशभिः कङ्कपत्रिभिः ॥ ११२ ॥

विव्याध हृदये भूयो ननाद च सुदर्शनः ।
स च्छिन्नधन्वा विरथो गदामादाय वेगवान् ॥ ११३ ॥

विजयो विजयाकाङ्क्षी सुदर्शनमधावत ।
आपतन्तं महावीरं बाणवर्षिः सुदर्शनः ॥ ११४ ॥

ववर्ष वर्षासु यथा वारिदः पृथिवीधरम् ।
विजयः शरवृष्टिं तां प्राच्छाद्य स्वशरेण वै ॥ ११५ ॥

गदया तं रथारूढमाससाद तु तत्क्षणात् ।
आसाद्य तं महावीर्यं विजयोऽथ सुदर्शनम् ॥ ११६ ॥

शीर्ष प्रहृत्य गदया पातयामास भूतले ।
गिरेः शृङ्गं यथा तुङ्गं वज्राशनिविदारितम् ॥ ११७ ॥

तथा सुदर्शनो राजा दारितो गदयाऽपतत् ।
तस्मिन्निपतिते वीरे सेनाभिस्तस्य सैनिकाः ॥ ११८ ॥

भयात् सम्प्राद्रवंस्तस्माद् दिशश्च प्रदिशस्तथा ।
नष्टेषु तस्य सैन्येषु विजयः खाण्डवीं पुरीम् ॥ ११९ ॥

प्रविश्य ददृशे तत्र राशीभूतान् गिरीनिव ।
सुवर्णानां च रत्नानां सञ्चयान् बहुशः पुनः ॥ १२० ॥

दृष्ट्वा सरांसि तत्रैष प्रफुल्लकमलानि च ।
हंसकारण्डवानादैर्नादितानि समन्ततः ॥ १२१ ॥

राशीन् सुवर्णरत्नानां पर्वतानिव विस्तृतान् ।
पुष्पितान् देववृक्षांश्च भ्रमद्भ्रमरभूषितान् ॥ १२२ ॥

प्रासादान् विपुलाञ्छुभ्रान् कैलाससदृशान् गजान् ।
प्रस्फुटांश्च सुगन्धाढ्यान् प्रतिगेहे व्यवस्थितान् ॥ १२३ ॥

उत्फुल्लनयनो राजा विजयः परवीरहा ।
मेनेऽमरावतीं तां तु पुरीम् क्षितिगतामिव ॥ १२४ ॥

तं वाक्षन्तं नरपतिं नगरीं तां सुरेश्वरः ।
समेत्य विजयं प्राह सान्त्वयन् श्लक्ष्णया गिरा ॥ १२५ ॥

इन्द्र उवाच -
राजन् महावनमिदमासीद् देवगणावृतम् ।
अ च्च गन्धर्वयक्षाणां मुनीनां च मनोहरम् ॥ १२६ ॥

सर्वानुत्सार्य देवादीन् मम चाप्यप्रिये रतः ।
भङ्क्त्वा वनमिदं गुह्यमुत्साद्य च तपोधनम् ॥ १२७ ॥

खाण्डवीं नगरीं चक्रे हठाद्राजा सुदर्शनः ।
तदिदं पुनरेव त्वं वनं कुरु नरोत्तम ॥ १२८ ॥

तत्राहं विहरिष्यामि तक्षकेण समं रहः ।
मुनीनां च तपः स्थानमतुलं ते प्रसादतः ।
भविष्यति च यक्षाणां किन्नराणां च पार्थिव ॥ १२९ ॥
मूलम्
तत्राहं विहरिष्यामि तक्षकेण समं रहः ।
मुनीनां च तपः स्थानमतुलं ते प्रसादतः ।
भविष्यति च यक्षाणां किन्नराणां च पार्थिव ॥ १२९ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच -
एतच्छ्रत्वा वचस्तस्य शक्रस्य विजयस्तदा ।
वनमेवाकरोत् तान्तं खाण्डवीं शक्रगौरवात् ॥ १३० ॥

गच्छन्तु भो यथास्थानं प्रजाः सर्वा यथेच्छया ।
येषां वाञ्छास्ति लोकानां मद्राज्यगमने पुनः ॥ १३१ ॥

वाराणसीं ते गच्छन्तु मयैव प्रतिपालिताम् ।
ततस्तस्य वचः श्रुत्वा जनाः केचिन्निजास्पदम् ॥ १३२ ॥

जग्मुर्वाराणसीं केचिद् विजयेनाभिपालिताम् ।
ततो धनानां तान् राशीन् रत्नानां च पृथक् पृथक् ॥ १३३ ॥

मणीनां कनकानां च कुप्यानां विजयस्तथा ।
विविधैर्वारयामास पुरीं वाराणसीं प्रति ॥ १३४ ॥

गन्धर्वाणां च देवानां यदानीतं हठात् पुरा ।
रत्नदार्वादिकं यत् तु विजयं तत् प्रसाद्य च ॥ १३५ ॥

तैस्तैर्नीतं च खाण्डव्याः स्वस्थानं प्रतिहर्षितैः ।
त्रिंशद्योजनविस्तीर्णां शतयोजनमायताम् ॥ १३६ ॥

तां पुरीं विजयश्चक्रे नचिरादेव वै वनम् ।
तस्मिञ्छक्रस्य सम्मत्या तक्षकः सहितो गणैः ॥ १३७ ॥

उवास सुचिरं तत्र ततोऽभून्निर्जनं वनम् ।
तत्र देवाः सगन्धर्वाः क्रीडन्तेऽप्सरसां गणाः ॥ १३८ ॥

आशंसन्तश्च विजयं रणेषु विजयावहम् ।
प्राप्तेऽष्टाविंशतितमे युगे द्वापरशेषतः ॥ १३९ ॥

वह्निर्ब्राह्मणरूपेण भिक्षां जिष्णुममाचत ।
दातुमङ्गीकृते भिक्षां तदा पाण्डुसुतेन वै ॥ १४० ॥

वह्निः स्वरूपमास्थाय जिष्णुं वचनमब्रवीत् ।
अहमग्निः पाण्डुपुत्र अज्ञभागातिभोजनात् ॥ १४१ ॥

व्याधितोऽहं ततो व्याधिं मम त्वं नाशयाधुना ।
खाण्डवं नाम विपिनं सपत्रिमृगराक्षसम् ॥ १४२ ॥

यदि त्वं मां भोजयितुं शक्रोषि श्वेतवाहन ।
तदा मम ह्यसौ व्याधिरपयास्यति नो चिरात् ॥ १४३ ॥

पुरा तु विजयो राजा खाण्डवीं नाम तां पुरीम् ।
भङ्क्त्वा वन यतश्चक्रे तेन तत् खाण्डवं वनम् ॥ १४४ ॥

मदर्थं देवविहितं वनं तु श्वेतवाहन ।
विरोधात् तत् तु शक्रस्य न स्वयं भोक्तुमुत्सहे ॥ १४५ ॥

तस्मात् त्राहि महाभाग वने तस्मिन्नियोजय ।
यथाहं सकलं भोक्त्तुं शक्नोमि तत्प्रसादतः ॥ १४६ ॥

तस्य तद्वचनं श्रुत्वा सव्यसाची महाबलः ।
दाहयामास विपिनं तत्सर्वं प्राणिसंयुतम् ॥ १४७ ॥

देवकीतनयेनासौ वासुदेवेन पालितः ।
खाण्डवं दाहयामास ज्वलनस्य हिते रतः ॥ १४८ ॥

सुप्रीतः प्रददौ तस्मादर्जुनाय महात्मने ।
वह्निर्धनुश्च गाण्डीवं वारुणं देवनिर्मितम् ॥ १४९ ॥

अक्षय्ये चेषुधी दिव्यें रूपाढ्यांश्चतुरो हयान् ।
हनूमताधिष्ठितं तु महान्तं वानरध्वजम् ॥ १५० ॥

खड्गं च त्रिशिखं तीक्ष्णं दहनः सव्यसाचिने ।
नीरोगश्चाभवद् वह्निस्तथा जिष्णुप्रसादतः ॥ १५१ ॥

तैर्बाणैस्तेन धनुषा तेन खड्गेन केतुना ।
तदश्वस्यन्दनेनापि विजिग्ये फाल्गुनो रिपून् ॥ १५२ ॥

एवं भैरववंशेषु सञ्जातो विजयो नृपः ।
खाण्डवं नाम विपिनं चकार सुमहाकृती ॥ १५३ ॥

विजयस्य सुता जातास्त्रयोदश महाबलाः ।
द्युतिमान् सौम्यदर्शी च भूरिः प्रद्युम्न एव च ॥ १५४ ॥

क्रतुस्तुण्डो विरूपाक्षो विक्रान्तोऽथ धनञ्जयः ।
प्रहर्षः प्रबलः केतुस्तथोपरिचरोऽपरः ॥ १५५ ॥

एषां राजाऽभवद् वीरः शेषोपरिचरस्तु यः ।
वाराणस्यां नगर्यां यो यज्ञलक्षं पुराऽकरोत् ॥ १५६ ॥

लक्षयज्ञकरः कोऽपि नासीन्नापि भविष्यति ।
राजा क्षितौ महाभागो यथोपरिचरस्तथा ॥ १५७ ॥

एषां सूतिप्रसूतैश्च व्याप्तं सर्वमिदं जगत् ।
चिरेण तान् कः सङ्ख्यातुं शक्नोति भुवि मानुषः ॥ १५८ ॥

क्रमाद् भैरववंशेन व्याप्तं लोकत्रयं त्विदम् ।
एतद् वः कथितं विप्राः सन्तानं भैरवस्य तु ॥ १५९ ॥

येषां श्रुत्वा कथामात्रं नापुत्रो जायते नरः ।
इदं यः कीर्तयेत् पुण्यं चरितं विजयस्य तु ॥ १६० ॥

सततं विजयस्तस्य जायते न पराभवः ।
एकाग्रमनसा यस्तु शृणुयादिदमुत्तमम् ।
तस्य वंशस्य विच्छेदो न कदाचिद् भविष्यति ॥ १६१ ॥

इति श्रीकालिकापुराणे एकोननवतितमोऽध्यायः ॥ ८९ ॥