विश्वास-प्रस्तुतिः
अष्टाशीतितमोऽध्यायः
और्व उवाच -
ज्येष्ठ दशहरायां तु विष्णोरिष्टिं नृप शृणु । येन वा विधिना
कुर्यादिष्टिं विष्नोर्नृपः सदा ॥ १ ॥
मूलम्

प्रत्यब्दं पार्थिवः कुर्यात् प्रतिमां काञ्चनीं हरेः ।
अन्यतेजीमयीं वापि दारवीं वा शिलामयीम् ॥ २ ॥

तां प्रतिष्ठाप्य विधिना मानोन्मानैस्तु शिल्पिभिः ।
प्रतिष्ठां विधिवत् तस्याः कुर्याद् विप्रैः पुरोहितैः ॥ ३ ॥

तां संस्थाप्य सुरागारे स्वयं वा यत्नतः कृते ।
वासुदेवस्य बीजेन पूर्वोक्तविधिना तथा ॥ ४ ॥

सर्वोपचारैर्भक्त्या नु वासुदेवं प्रपूजयेत् ।
पूजान्ते संस्कृते वह्नौ कुण्डमध्ये स्थितो द्विजः ॥ ५ ॥

आज्यैः सहस्रं जुहुयादाहुतीनां हरेः प्रियम् ।
सम्पूज्य वासुदेवं तु होमं कृत्वा ततो द्विजः ॥ ६ ॥

नृपस्यानुमते तां तु प्रतिमां मण्डलं नयेत् ।
प्रतिमायाः कपोलौ द्वौ स्पृष्ट्वा दक्षिणपाणिना ॥ ७ ॥

प्राणप्रतिष्ठां कुर्वीत तस्यां देवस्य वै हरेः ।
कृतायां तु प्रतिष्ठायां प्राणानां नृपसत्तम ॥ ८ ॥

विष्णुप्राणास्तां प्रतिमामायान्ति नियतं स्वयम् ।
प्राणेष्वथागतेष्वस्यां देवत्वं नियतं भवेत् ॥ ९ ॥

अकृतायां प्रतिष्ठायां प्राणानां प्रतिमासु च ।
यथापूर्वं तथाभावः स्वर्णादीनां न विष्णुता ॥ १० ॥

अन्येषामपि देवानां प्रतिमास्वपि पार्थिव ।
प्राणप्रतिष्ठा कर्तव्या तस्या देवत्वसिद्धये ॥ ११ ॥

सुवर्णं तु सुवर्णं स्याच्छिला दारु तथा शिला ।
अन्यच्च स्वस्वरूपं स्यात् प्राणस्थानमृते सदा ॥ १२ ॥

वासुदेवस्य बीजेन तद् विष्णोरित्यनेन च ।
तथैवाङ्गाङ्गिमन्त्राभ्यां प्रतिष्ठामाचरेद्धरेः ॥ १३ ॥

तथैव हृदयेऽङ्गुष्ठं दत्त्वा शश्वच्च मन्त्रवित् ।
एभिर्मन्त्रैः प्रतिष्ठाप्य हृदयेऽपि समाचरेत् ॥ १४ ॥

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु यत् ।
असौ देवत्वसङ्ख्यायै स्वाहेति यजुरुच्चरन् ॥ १५ ॥

अङ्गमन्त्रैरङ्गिमन्त्रैर्वैदिकैरित्यनेन च ।
प्राणप्रतिष्ठां सर्वत्र प्रतिमासु समाचरेत् ॥ १६ ॥

प्रतिमापूजने कुर्यादात्मन्यपि च मन्त्रवित् ।
प्राणप्रतिष्ठां प्रथमं पूजाभागविशुद्धये ॥ १७ ॥

अस्मिन् प्राणप्रतिष्ठां तु प्रतिमापूजनादृते ।
न कश्चित् तु बुधः कुर्यात् कृत्वा मृत्युमवाप्नुयात् ॥ १८ ॥

विष्णोरिष्टिमिमां कृत्वा दशम्यां पार्थिवोत्तमः ।
तस्यामेव तु पूर्णायां प्रतिमां स्थापयेत् ततः ॥ १९ ॥

एवं दशहरायां तु कृत्वेष्टिं पार्थिवो हरेः ।
सर्वान् कामानवाप्नोति निर्विघ्नोऽपि स जायते ॥ २० ॥

श्रीपञ्चम्यां श्रियं देवीं कुन्दैः सम्पूजयेत्सदा ।
वासवं गजराजस्थमुपहारैस्तथोत्तमैः ॥ २१ ॥

लक्ष्म्यास्तन्त्रं महामन्त्रं वासवस्य पुरोदितम् ।
अत्रापि पूजने ग्राह्यं मण्डलादि यथाक्रमम् ॥ २२ ॥

एवं कृते पूजने तु श्रीपञ्चम्यां विशेषतः ।
श्रीयुतो नृपतिर्भूयान्न श्रीहानिमवाप्नुयात् ॥ २३ ॥

सदाचारविशेषोऽयं कथितस्तव पार्थिव ।
निषेधे तु विशेषांश्च शृणु येन श्रियेष्यते ॥ २४ ॥

असम्पूज्य तथा विष्णुँ शिवमग्निं पुरन्दरम् ।
अदत्त्वा च तथा दानं न भुञ्जीत नृपः क्वचित् ॥ २५ ॥

हावयेदग्निहोत्रं तु नित्यमेव पुरोहितैः ।
अकृत्वा चाग्निहोत्रं तु भुञ्जन्नरकमाप्नुयात् ॥ २६ ॥

नारक्षिते गृहे राजा रत्नदीपविवर्जिते ।
स्वपेत् तथा स्त्रिया सार्धं न कदाचन संविशेत् ॥ २० ॥

भुक्त्वान्नं श्रीफलं नाद्यात् तथा धात्रीफलं नृपः ।
बुद्धिक्षयकरा ह्येता माष आसवमृत्तिकाः ॥ २८ ॥

निम्बाटरूषच्युताश्च बुद्धिवृद्धिकरा मताः ।
बुद्धिक्षयकरान् नित्यं त्वजेद्राजा च भोजने ॥ २९ ॥

भक्षयेदन्वहं बुद्धिवृद्धिहेतुं नृपोत्तमः ।
न पर्यायविहीनं तु प्रारोहेदासनं नृपः ॥ ३० ॥

न यानं न गजं नाश्वमारोहेद्धीनमासनैः ।
नैकस्तु विचरेद्राजा कदाचिदपि निर्जने ॥ ३१ ॥

मदहेतुं न भुञ्जीयात् कदाचिदपि भोजने ।
कदाचिन्नापि सेवेत ह्यष्टम्यां मांसमैथुने ॥ ३२ ॥

दर्शश्राद्धं गयाश्राद्धं तिलैस्तर्पणमेव च ।
न जीवत्पितृको भूप कुर्यात् कृत्वाघमाप्नुयात् ॥ ३३ ॥

न क्षेत्रजादींस्तनयान् राज्ये राजाभिषेचयेत् ।
पितृणां शूद्धये नित्यमौरसे तनये सति ॥ ३४ ॥

औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे ॥ ३५ ॥

कात्तीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयन्दत्तश्च दासश्च षडते पुत्रपांसुलाः ॥ ३६ ॥

अभावे पूर्वपुर्वेषां परान्त् समभिषेचये ।
पौनर्भवं स्वयन्दत्तं दासं राज्ये न योजयेत् ॥ ३७ ॥

दत्ताद्याश्चापि तनया निजगोत्रेण संस्कृताः ।
आयान्ति पुत्रतां सम्यगन्यबीजसमुद्भवाः ॥ ३८ ॥

पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपतेः ।
आचूडान्तं प पुत्रः न पुत्रतां याति चान्यतः ॥ ३९ ॥

चूडाद्या यदि संस्कारा निजगोत्रेण संस्थिताः ।
दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते ॥ ४० ॥

ऊर्ध्वं तु पञ्चमाद् वर्षाद् दत्ताद्यांश्च सुतान्नृप ।
गृहीत्वा पञ्चवर्षीयं पुत्रेष्टिं प्रथमं चरेत् ॥ ४१ ॥

पौनर्भवं तु तनयं जातमात्रं समानयेत् ।
कृत्वा पौनर्भवष्टोमं जातमात्रस्य तस्य वै ॥ ४२ ॥

सर्वांस्तु कुर्यात् संस्कारान् जातकर्मादिकान्नरः ।
कृते पौनर्भवष्टोमे सुतः पौनर्भवः स्मृतः ॥ ४३ ॥

एकोद्दिष्टं पितुः कुर्यान्न श्राद्धं पार्वणादिकम् ।
क्रीता या वनिता मूल्यैः सा दासीति निगद्यते ॥ ४४ ॥

तस्यां यो जायते पुत्रो दासः पुत्रस्तु स स्मृतः ।
न राज्ञो राज्यभाक् स स्याद् विप्राणां नापि श्राद्धकृत् ॥ ४५ ॥

अधमः सर्वपुत्रेभ्यस्तं तस्मात् परिवर्जयेत् ।
पुराणं धर्मशास्त्राणि संहिताश्च मुनीरिताः ॥ ४६ ॥

नाध्यापयेन्नृपः शूद्रैर्विहितानि यदृच्छया ।
यस्य राज्ये सदा शूद्राः पुराणं संहितां तथा ॥ ४७ ॥

पठन्ति स्यात् स हीनायुः राजा राष्ट्रेण सान्वयः ।
मोहाद् वा कामतः शूद्रः पुराणं संहितां स्मृतिम् ॥ ४८ ॥

पठन्नरकमाप्नोति पितृभिः सह पापकृत् ।
शूद्रेभ्यो विहितं यत् तु यश्च मन्त्र उराहृतः ॥ ४९ ॥

तद्विप्रवचनाद् ग्राह्यं द्वयं शूद्रैः सदैव हि ।
य योजयेन्नृपः शूद्रं व्यवहारस्य दर्शने ॥ ५० ॥

नियोज्य तत्र तं भूपस्तामिस्रे तेन पच्यते ।
हीनायुश्च भवेल्लोको राजा वापि सहायजः ॥ ५१ ॥

का।ङ्म् व्यङ्गमपुत्रं या नाभिज्ञमजितेन्द्रियम् ।
न ह्रस्व व्याधितं वापि नृपः कुर्यात् पुरोहितम् ॥ ५२ ॥

कृपणस्य घनं राजा न गृह्णीयात् कदाचन ।
न द्विजानां तथा दद्याद् धनानि विपुलान्यपि ॥ ५३ ॥

नारोहेत् कामुकोन्मत्तगजं राजा कदाचन ।
आरुह्य कामुकस्तं तु परत्रेह विषीदति ॥ ५४ ॥

अनायुष्यं न कुर्यात् कर्म भूपः कदाचन ।
सततं चायुषो वृद्ध्यै यतेत सकलैर्धनैः ॥ ५५ ॥

न क्रूरवारे नाष्टम्यां न षष्ठ्यां च नृपोत्तमः ।
अञ्जनाभ्यञ्जने कुर्यात् ताम्बूलस्यापि भोजनम् ॥ ५६ ॥

अतिसूक्ष्मं तथा पूर्णं ग्रहणं चन्द्रसूर्ययोः ।
नालोकयेत् स्वयं राजा रक्तं सूर्यं तथैव च ॥ ५७ ॥

उत्पातं जायते यत्तु दिव्यं भौमं च नाभसम् ।
नेक्षेत यत्नान्नृपतिर्दृष्ट्वा नाद्यात् त्र्यहं पुनः ॥ ५८ ॥

सर्वदा मङ्गलं रत्नं धारयेत् सह दूर्वया ।
अवस्त्राच्छादितं गात्रं न विप्रेभ्यः प्रदर्शयेत् ॥ ५९ ॥

न तोयेषु मखं पश्येन्नाद्यान्मांसानि पर्वसु ।
नारोहयेत् खरं चोष्ट्रं न वामामपि गुर्विणीम् ॥ ६० ॥

एवं नययुतो राजा चतुरङ्गं विवर्धयन् ।
आत्मानं सततं रक्षन् सदा वीर्यं विवर्धयेत् ॥ ६१ ॥

बीजक्षयकरन्नित्यं भक्ष्यं भोज्यं च पानकम् ।
वर्जयेत् क्षारशाकाद्यान् बह्वम्लं बहुतिक्तकम् ॥ ६२ ॥

कांस्य-राजतपात्रस्थं तोयं नद्याश्च वर्धनम् ।
मूत्रवृद्धिकरं वीर्यक्ष्यकारि विवर्जयेत् ॥ ६३ ॥

ताम्रायःस्वर्णशीसानां पात्रस्थं फलचर्मणोः ।
शुक्रवृद्धिकरं तोयं तदुपासीत यत्नतः ॥ ६४ ॥

सर्वमूलेषु कृत्येषु सदाचारेषु तिष्ठतः ।
भुक्त्वेह विविधान् भोगानैन्द्रं स्थानं व्रजेत् परम् ॥ ६५ ॥

मार्कण्डेय उवाच -
एवमौर्वस्तु सगरं शशास मुनिपुङ्गवः ।
शास्त्राणि चैव सर्वाणि सदाचारांश्च गृह्यकान् ॥ ६६ ॥

बहुशः कथयामास सगराय महात्मने ।
तन्नास्ति यत् पुरौर्वेण कथितं सगराय न ॥ ६७ ॥

राजनीतिः सतां नीतिर्यच्चान्यच्छास्त्रसम्भवम् ।
संहितासु पुराणेषु यच्चागमचये स्थितम् ॥ ६८ ॥

सर्वं शुश्राव सगरो मुखादौर्वस्य धीमतः ।
तेषां तु कथितं किञ्चिदुद्धृत्य द्विजसत्तमाः ॥ ६९ ॥

विष्णुधर्मोत्तरे पूर्वं मया रहसि भाषितम् ।
राजनीतिं सदाचारं वेदवेदाङ्गसङ्गतम् ॥ ७० ॥

रहस्यं सततं विष्णोर्वीक्षध्वं द्विजसत्तमाः ।
यच्चान्नदितमन्यत्र गदितं वा ससंशयम् ॥ ७१ ॥

संशयच्छेदनं तेषु युष्मभ्यं कथितं द्विजाः ।
अनुक्तसंशयच्छेदि पुराणं कालिकाह्वयम् ।
योऽभ्यसेत् सततं विप्रः स वेदानां फलं लभेत् ॥ ७२ ॥

इति श्रीकालिकापुराणे अष्टाशीतितमोऽध्यायः ॥ ८८ ॥