विश्वास-प्रस्तुतिः
सप्ताशीतितमोऽध्यायः
और्व उवाच -
अथातः शृणु राजेन्द्र शकोत्थानं ध्वजोत्सवम् ।
यत् कृत्वा नृपतिर्याति न कदाचित् पराभवम् ॥ १ ॥
मूलम्

रवौ हरिस्थे द्वादश्यां श्रवणेन विडौजसम् ।
अराधयेन्नपः सम्यक् सर्वविघ्नोपशान्तये ॥ २ ॥

राजोपरिर्चरो नाम वसुनामापरस्तु यः ।
नृपस्तेनायमतुलो यज्ञः प्रावर्तितः पुरा ॥ ३ ॥

प्रावृट्काले च नभसि द्वादश्यामसितेतरे ।
पुराहितो वहुविधैर्वाद्यस्तूर्यैः समन्वितः ॥ ४ ॥

प्रथमं शककेत्वर्थ वृक्षमामन्त्र्य वर्धयेत् ।
आंवत्सरो वार्धङ्किश्च कृतमङ्गलकौतुकः ॥ ५ ॥

उद्याने देवतागारे श्मशाने मार्गमध्यतः ।
ये जातास्तरवस्तांस्तु वर्जयेद् वासवध्वजे ॥ ६ ॥

बहुवल्लीयुतं शुष्कं बहुकण्टकसंयुतम् ।
कुब्जं वृक्षादनीयुक्तं लताच्छन्नतरुअं त्यजेत् ॥ ७ ॥

पक्षिवाससमाकीर्णं कोटरैर्बहुभिर्युतम् ।
पवनानलविध्वस्तं तरुं यत्नेन वर्जयेत् ॥ ८ ॥

नारीसञ्ज्ञाश्च ये वृक्षा अतिह्रस्वा अतिकृशाः ।
तान् सदा वर्जयेद् धीरः सर्वदा शक्रपूजने ॥ ९ ॥

अर्जुनोऽप्यश्वकर्णश्च वटः प्रियकोषक श्च ।
औदुम्बरश्च पञ्चैते केत्वर्थे ह्युत्तमाः स्मृताः ॥ १० ॥

अन्ये च देवदार्वाद्याः शालाद्यास्तरवस्तथा ।
प्रशस्तास्तु परिग्राह्या नाप्रशस्ताः कदाचन ॥ ११ ॥

धृत्वा वृक्षं ततो रात्रौ स्पृष्ट्वा मन्त्रमिमं पठेत् ।
यानि वृक्षेषु भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः ॥ १२ ॥

उपहारं गृहीत्वेमं क्रियतां वासवध्वजम् ।
पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम ॥ १३ ॥

ध्वजार्थं देवराजस्य पूजेयं प्रतिगृह्यताम् ।
ततोऽपरेऽह्नि तं छित्त्वा मूलमष्टाङ्गुलं पुनः ॥ १४ ॥

जले क्षिपेत् तथाग्रस्य छित्वैव चतुरङ्गुलम् ।
ततो नीत्वा पुरद्वारं केतुं निर्माय तत्र वै ॥ १५ ॥

शुक्लाष्टम्यां भाद्रपदे केतुं वेदीं प्रवेशयेत् ।
द्वाविंशद्धस्तमानस्तु अधमः केतुरुच्यते ॥ १६ ॥

द्वात्रिंशत् तु ततो ज्यायान् द्वाचत्वारिंशदेव च ।
ततोऽधिकः समाख्यातो द्वापञ्चाशत् तथोत्तमः ॥ १७ ॥

कुमार्यः पञ्च कर्तव्याः शक्रस्य नृपसत्तम ।
शलमय्यस्तु ताः सर्वा अपराः शक्रमातृकाः ॥ १८ ॥

केतोः पादप्रमाणेन कार्याः शक्रकुमारिकाः ।
मातृकार्धप्रमाणास्तु यन्त्रं हस्तद्वयं तथा ॥ १९ ॥

एवं कृत्वा कुमारीश्च मातृकाः केतुमेव च ।
एकादश्यां सिते पक्षे यष्टिं तामधिवासयेत् ॥ २० ॥

अधिवास्य ततो यष्टिं गन्धद्वारादिमन्त्रकैः ।
द्वादश्यां मण्डलं कृत्वा वासवं विस्तृतात्मकम् ॥ २१ ॥

अच्युतं पूजयित्वा तु शक्रं पश्चात् प्रपूजयेत् ।
शक्रस्य प्रतिमां कुर्यात् काञ्चनीं दाखीं च वा ॥ २२ ॥

अन्यतैजससम्भूतां सर्वाभावे तु मृन्मयीम् ।
तां मण्डलस्य मध्ये तु पूजयित्वा विशेषतः ॥ २३ ॥

ततः शुभे मुहूर्ते तु केतुमुत्थापयेन्नृपः ।
वज्रहस्त सुरारुघ्न बहुनेत्र पुरन्दर ।
क्षेमार्थं सर्वलोकानां पूजेयं प्रतिगृह्यताम् ॥ २४ ॥

एह्येहि सर्वामरसिद्धसङ्घैरभिष्टुतो वज्रधरामरेश ।
समुत्थितस्त्वं श्रवणाद्यपादे गृहाण पूजां भगवन्नमस्ते ॥ २५ ॥

एवमुत्तरतन्त्रोक्तैर्दहनप्लवनादिभिः ।
इति मन्त्रेण तन्त्रेण नानामैवेद्यवेदनैः ॥ २६ ॥

अपपैः पायसैः पानैर्गुडैर्धानाभिरेव च ।
भक्ष्यैर्भोज्यैश्च विविधैः पूजयेच्छ्रीविवृद्धये ॥ २७ ॥

घटे तु दशदिक्पालान् ग्रहांश्च परिपूजयेत् ।
साध्यादीन् सकलान् देवान् मातृः सर्वा अनुक्रमात् ॥ २८ ॥

ततः शुभे मुहूर्ते तु ज्ञानिवर्धकिसंयुतः ।
केतूत्थापनभूमिं तु यज्ञवेद्यास्तु पश्चिमे ॥ २९ ॥

विप्रैः पुरोहितैः सार्धं गच्छेद्राजा सुमङ्गलैः ।
रज्जुभिः पञ्चभिर्बद्धं यन्त्रश्लिष्टं समातृकम् ॥ ३० ॥

कुमारीभिस्तु संयुक्तं दिक्पालानां च पट्टकैः ।
बृहद्भिरतिकान्तैश्च नानाद्रव्यैः सुपूरितैः ॥ ३१ ॥

यथावर्णैर्यथादेशे योजितैर्वस्त्रवेष्टितैः ।
युक्तं तं किङ्किणीजालैर्बृहद्घण्टौघचामरै ॥ ३२ ॥

भूषितं मुकुरैरुच्चिअर्माल्यैर्बहुविधैस्तथा ।
बहुपुष्पैः सुगन्धैश्च भूषितं रत्नमालया ॥ ३३ ॥

चितमाल्याम्बरैश्चैव चतुर्भिरपि तोरणैः ।
उत्थापयेन्महाकेतुं राजकीयै शनैः शनैः ॥ ३४ ॥

तमुत्थाय महाकेतुं पूजितं मण्डलान्तरे ।
प्रतिमां तां नयेन्मूलं केतोः शक्रं विचिन्तयन् ॥ ३५ ॥

यजेत् तं पूर्ववत् तत्र शचीं मातलिमेव च ।
जयन्तं तनयं तस्य वज्रमैरावतं तथा ॥ ३६ ॥

ग्रहांश्चाप्यथ दिक्पालान् सर्वाश्च गणदेवताः ।
अपूपाद्यैः पूतयेत् तु वलिभिः पायसादिभिः ॥ ३७ ॥

पूजितानां च देवानां शश्वद्धोमं समाचरेत् ।
होमान्ते तु बलिं दद्याद् वासवाय महात्मने ॥ ३८ ॥

तिलं घृतं चाक्षतं च पूष्पं दूर्वां तथैव च ।
एतैस्तु जुहुयाद् देवान् स्वैः स्वैर्मन्त्रैर्नरोत्तम ॥ ३९ ॥

ततो होमावसाने तु भोजयेद् ब्राह्मणानपि ।
एवं सम्पूजयेन्नित्यं सप्तरात्रं दिने दिने ॥ ४० ॥

ब्राह्मणैः सहिता राजा वेदवेदाङ्गपारगैः ।
सर्वत्र शक्रपूजासु यज्ञेसु परिकीर्तितः ॥ ४१ ॥

त्रातारमिति मन्त्रोऽयं वासवस्य प्रियः परः ।
एवं कृत्वा दिवाभागे शक्रोत्थापनमादितः ॥ ४२ ॥

श्रवणर्क्षयुतायां तु द्वादश्यां पार्थिवः स्वयम् ।
अन्त्यपादे भरण्यां तु निशि शक्रं विसर्जयेत् ॥ ४३ ॥

सुप्तेषु सर्वलोकेषु यथा राजा न पश्यति ।
षण्मासान्मृत्युमाप्नोति राजा दृष्ट्वा विसर्जनम् ॥ ४४ ॥

शक्रस्य नृपशार्दूल तस्मान्नेक्षेत तन्नपः ।
विसर्जनस्य मन्त्रोऽयं पुराविद्भिरुदीरितः ॥ ४५ ॥

सार्धं सुरासुरगणैः पुरन्दर शतक्रतो ।
उपहारं गृहीत्वेम महेन्द्रध्वज गम्यताम् ॥ ४६ ॥

सूतके तु समुत्पन्ने वारे भौमस्य वा शनैः ।
भूमिकम्पादिकोत्पाते वासवं न विसर्जयेत् ॥ ४७ ॥

उत्पाते सप्तरात्रं तु तथोपप्लवदर्शने ।
व्यतीत्य शनिभौमौ च ह्यन्यर्क्षेऽपि विसर्जयेत् ॥ ४८ ॥

सूतके त्वथ सम्प्राप्ते व्यतीते सूतके पुनः ।
यस्मिन् तस्मिन् द्ने चैव सूतकान्ते विसर्जयेत् ॥ ४९ ॥

तथा केतुं नृपो रक्षेत् पतन्ति शकुना यथा ।
न केतौ नृपशार्दूल यावन्नहि विसर्जनम् ॥ ५० ॥

शनैः शनैः पातयेत् तु यथोत्थापनमादितः ।
कृतं तथा यथा भग्ने केतौ मृत्युमवाप्नुयात् ॥ ५१ ॥

विसृष्टं शक्रकेतुं तु सालङ्कारं तथा निशि ।
क्षिपेदनेन मन्त्रेण त्वगाधे सलिले नृप ॥ ५२ ॥

तिष्ठ केतो महाभाग यावत् संवत्सरं जले ।
भवाय सर्वलोकानामन्तराय विनाशक ॥ ५३ ॥
मूलम्
तिष्ठ केतो महाभाग यावत् संवत्सरं जले ।
भवाय सर्वलोकानामन्तराय विनाशक ॥ ५३ ॥
विश्वास-प्रस्तुतिः
उत्थपयेत् तूर्यरवैः सर्वलोकस्य वै पुरः ।
रहो विसर्जयेत् केतुं विशेषो यः प्रपूजने ॥ ५४ ॥

एवं यः कुरुते पूजां वासवस्य महात्मनः ।
स चिरं पृथिवीं भुक्त्वा वासवं लोकमाप्नुयात् ॥ ५५ ॥

न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयः क्वचित् ।
स्थास्यन्ति मृत्युर्नाकाले जनानां तत्र जायते ॥ ५६ ॥

तत्तुल्यः कोऽपि नान्योऽस्ति प्रियः शक्रस्य पार्थिव ।
तस्य पूजा सर्वपूजा केशवाद्याश्च तत्रगाः ॥ ५७ ॥

सकलकलुषहारि व्याधिदुर्भिक्षनाशं
सकलभवनिवेशं सर्वसौभाग्यकारि ।
सुरपतिगृहगाभिर्वार्चनं शक्रकेतोः
प्रतिशरदमनेकैः पूजयेच्छ्रीविवृद्धयै ॥ ५८ ॥

इति श्रीकालिकापुराणे सप्ताशीतितमोऽध्यायः ॥ ८७ ॥