विश्वास-प्रस्तुतिः
षडशीतितमोऽध्यायः
और्व उवाच -
शृणु राजन् प्रवक्ष्यामि पुष्यस्नानविधिक्रमम् ।
येन विज्ञानमात्रेण विघ्ना नश्यन्ति सन्ततम् ॥ १ ॥
मूलम्

पौषे पुष्यर्क्षगे चन्द्रे पुष्यस्नानं नृपश्चरेत् ।
सौभाग्यकल्याणकरं दुर्भिक्षमरणापहम् ॥ २ ॥

विष्ट्यादिदुष्टकरणे व्यतीपाते च वैधृतौ ।
वज्रे शूले हर्षणादौ योगे तु यदि लभ्यते ॥ ३ ॥

तृतीयायुक्तपुष्यर्क्सं रविशौरिकुजेऽहनि ।
तदा समस्तदोषाणां तत् स्नानं हानिकारकम् ॥ ४ ॥

ग्रहदोषाश्च जायन्ते यदि राज्येषु चेतयः ।
तदा पुष्ये तु नक्षत्रे कुर्यान्मासान्तरेऽपि च ॥ ५ ॥

इयं तु ब्रह्मणा शान्तिरुद्दिष्टा गुरवे पुरा ।
शक्रादिसर्वदेवानां शान्त्यर्थञ्च् अ जगत्पतिः ॥ ६ ॥

तुषकेशास्थिवल्मीक-कीटदेशादिवर्जिते ।
शर्कराकृमिकुष्माण्ड-बहुकृष्टविवर्जिते ॥ ७ ॥

काकोलूकैश्च कङ्कैश्च काकालैर्गृध्रशौनकैः ।
बर्जिते कण्टकिवने विभीतकविवर्जिते ॥ ८ ॥

शिग्रुश्लेष्मातकाभ्यां तु जलौकाद्यैर्विवर्जिते ।
स्वस्थाने अम्पकाशोक-वकुलादिविराजिते ॥ ९ ॥

हंसकारण्डवाकीर्णे सरस्तीरेथवा शुचौ ।
पुष्यस्नानाय नृपतिर्गृह्णीयात् स्थानमुत्तमम् ॥ १० ॥

ततः पुरोहितो राजा नाना वादित्रनिःस्वनैः ।
प्रदोषसमये गच्छेत् तत् स्थानं पूर्ववासरे ॥ ११ ॥

तस्य स्थानस्य कौवेर्यां दिशि स्थित्वा पुरोहितः ।
सुगन्धचन्दनैः पानैः कर्पूराद्यधिवासितैः ॥ १२ ॥

गोरोचनाभिः सिद्धार्थैरक्षतैः सफलादिभिः ।
गन्धद्वारेत्यादिभिर्मन्त्रैः सर्वाधिसिक्तकैः ॥ १३ ॥

अधिवास्य तु तत्स्थानं पूजयेत् तत्र देवताः ।
गणेशं केशवं शक्रं ब्रह्माणं चापि शङ्करम् ॥ १४ ॥

उमया सहितं देवं सर्वाश्च गणदेवताः ।
मातृश्च पूजयेत् तत्र नृपतिः सपुरोहितः ॥ १५ ॥

मङ्गलान् कलशान् कृत्वा नानानैवेद्यसञ्चयान् ।
प्रदद्यात् पायसं स्वादुफलं मोदकयावकौ ॥ १६ ॥

अधिवास्य च तत् स्थानं दूर्वासिद्धार्थकाक्षतैः ।
तत्स्थानाच्चापि भूतानि सारयेन्मन्त्रमीरयन् ॥ १७ ॥

अपसर्पन्तु ते भूता ये भूता भूमिपालकाः ।
हूतानामविरोधेन स्नानकर्म करोम्यहम् ॥ १८ ॥

ततः करौ पुटीकृत्य मन्त्रेणानेन पार्थिवः ।
आवाहयेदिमान् देवान् पूज्यान् पुष्याभिषेकतः ॥ १९ ॥

आगच्छन्तु सुराः सर्वे येऽत्र पूजाभिलाषिणः ।
दिशो हि पालकाः सर्वे ये चान्येऽप्यंशभागिनः ॥ २० ॥

ततः पुष्पाञ्जलिं दत्त्वा पुनर्मन्त्रं पठेदिमम् ।
अद्य तिष्ठन्तु विबुधाः स्थानमासाद्य मामकम् ॥ २१ ॥

स्वपूजां प्राप्य पातारो दत्त्वा शान्तिं महीभुजे ।
ततस्तां नृपती रात्रिं नयेत् तु सपुरोहितः ॥ २२ ॥

स्वप्ने शुभाशुभं विद्यान्नृपस्तु सपुरोहितः ।
कृत्वा पूजां तु देवानां रात्रौ स्थाने नृपः स्वपेत् ॥ २३ ॥

शुभाशुभफलं स्वप्ने ज्ञेयम् ओषज्ञसम्मते ।
दुःस्वप्नदर्शनं चेत् स्यात् तदा पुष्याभिषेचने ॥ २४ ॥

होमं चतुर्गुणं कुर्याद् दत्त्वा चापि गवां शतम् ।
गोवाजिकुञ्जराणां तु प्रासादस्य गिरेस्तत्रोः ॥ २५ ॥

आरोहणं शुभकर्ऽम् राज्यश्रीवृद्धिकारकम् ।
दधिदेवसुवर्णानां राह्मणस्य प्रदर्शनम् ॥ २६ ॥

वीणादूर्वाक्षतफलं पुष्पच्छत्रविलेपनम् ।
शीतांशु अक्रशङ्खानां पद्मस्य सुहृदस्तथा ॥ २७ ॥

लाभाः क्षयकराः शत्रौ रत्नाकरस्य भूभृतः ।
दर्शनं चोपरागस्य निगडेन च बन्धनम् ॥ २८ ॥

मांसस्य भोजनं चैव पर्वतस्य विवर्तनम् ।
आभिमध्ये तरूत्पत्तिर्मृतं प्रत्यनुरोदनम् ॥ २९ ॥

अगम्यागमनं कूप पङ्कगर्भावतीर्णता ।
पर्वतस्य तथा नद्याः रोतसां लङ्घनं तथा ॥ ३० ॥

स्वपुत्रमरणं चैव पानं रुधिरमद्ययोः ।
भोजनं पायसस्यापि मनुष्यारोहणं तथा ॥ ३१ ॥

कल्याणसुखसौभाग्य-राज्य-शत्रुक्षयं तथा ।
एते स्वप्नाः प्रकुर्वन्ति नृपस्य नृपसत्तम ॥ ३२ ॥

खरोष्ट्रमहिषाणां च आरोहो राज्यनाशनः ।
नृत्यं गीतं तथा हास्यं पाठश्चाप्यशुभप्रदः ॥ ३३ ॥

रक्तवस्त्रपरिधानं रक्तमालानुलेपनम् ।
रक्तां कृष्णां स्त्रियं चैव कामयन् मृत्युमाप्नुयात् ॥ ३४ ॥

कूपान्तरे प्रवेशः स्याद् दक्षिणाशागतिस्तथा ।
पङ्के निमज्जनं स्नानं भार्यापुत्रविनाशनम् ॥ ३५ ॥

लाभस्तस्य भवेत् स्वप्नेअप्यरुत्पत्तिर्नृपभ्य च ।
आदाय गर्भनाडीं तु सकुनो यातिहञ्जनः ॥ ३६ ॥

स तु राज्यान्तरं प्राप्य महाकल्याणमाप्नुयात् ।
दीर्घं विंशतिहस्तं तु हस्तषोडशविस्तृतम् ॥ ३७ ॥

कुर्यात् तु लक्षणोपेतं यज्ञमण्डलमुत्तमम् ।
ततोऽपरेऽह्नि पूर्वाह्णे मातृणां पूजनं चरेत् ॥ ३८ ॥

कुड्यलग्नां वसोर्धारां वृद्धिश्राद्धं तथैव च ।
चन्दनागुरुकस्तूरीधूमकर्पूरचूर्णकैः ॥ ३९ ॥

सम्पूज्य मण्डलस्थानं तस्मिन् ह्रौं शम्भवे नमः ।
अस्त्राय हुं फडित्येवं लिखेन्मन्त्रद्वयं बुधः ॥ ४० ॥

मन्त्रविन्मण्डलज्ञश्च सूत्रैः कम्बलसम्भवैः ।
कौशेयैर्वा स्वस्तिकाख्यं प्रथमं मण्डलं लिखेत् ॥ ४१ ॥

चतुर्हस्तप्रमाणं तु मण्डलं विलिखेत् ततः ।
हस्तप्रमाणं पद्मं तु मण्डलस्य प्रकीर्तितम् ॥ ४२ ॥

द्वाराणि सार्धहस्तानि कर्णिकाकेशरोज्ज्वलम् ।
सितं रक्तं च पीतं च कृष्णं हरितमेव च ॥ ४३ ॥

शालिचूर्णैश्च कौसुम्भैर्हारिद्रैर्हरिदुद्भवैः ।
कुर्यात् तथाञ्जनैश्चूर्णै राजा मण्डलवृद्धये ॥ ४४ ॥

पद्मान्ततः समाअभ्य तालं पश्चिमगामिनम् ।
पश्चिमद्वारमध्ये च सतपत्रं विनिर्दिशेत् ॥ ४५ ॥

प्रत्येकं द्वारमध्ये तु पद्मं चैवाष्टपत्रकम् ।
कुर्यान्मण्डलभागज्ञश्चूर्णैरेव पृथक् पृथक् ॥ ४६ ॥

चूर्णैस्तु मण्डलं कृत्वा सूत्राण्युत्सारयेत् ततः ।
उत्सार्य सूत्रं प्रथमं मण्डलं पूजयेत् ततः ॥ ४७ ॥

हवनाय नम इति ततो हस्तं वियोजयेत् ।
सव्यावलम्बहस्तं तु रजःपात्रं समाचरेत् ॥ ४८ ॥

मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद् यथेच्छया ।
अधोमुखाङ्गुलीः कृत्वा पातयेच्च विचक्षणः ॥ ४९ ॥

समारेखा तु कर्तव्या विच्छित्रा पुष्परञ्जिता ।
अङ्गुष्ठपर्वनैपुण्यात् समा कार्या विजानता ॥ ५० ॥

संसक्तविषमं स्थूलं विच्छिन्नं कृसरकृतिम् ।
पर्यन्तमर्पितं ह्रस्वमालिखेन्न कदाचन ॥ ५१ ॥

संसक्ते कलहं विद्यादूर्ध्व रेखे तु विग्रहम् ।
अतिस्थूले भवेद् व्याधिर्नित्यं पीडाविमिश्रिते ॥ ५२ ॥

बिन्दुभिर्भयमाप्नोति शत्रुपक्षान्न संशयः ।
कृशायां चार्थहानि स्याच्छिन्नायां मरणं ध्रुवम् ॥ ५३ ॥

वियोगो वा भवेत् तस्य इष्टद्रव्यसुतस्य वा ।
अविदित्वा लिखेद् यस्तु मण्डलं तु यथेच्छया ॥ ५४ ॥

सर्वदोषानवाप्नोति ये दोषाः ऊर्वमीरिताः ।
सितसर्षपदूर्वाया रेखाः कार्या विजानता ॥ ५५ ॥

विमलं विजयं भद्रं विमानं शुभदं शिवम् ।
वर्धमानं च देवं च शताक्षं कामदायकम् ॥ ५६ ॥

रुचिकं स्वस्तिकं चैव द्वादशैते तु मण्डलाः ।
यथास्थानं यथायज्ञं योजनीया विचक्षणैः ॥ ५७ ॥

सागरे मध्यमाने तु पीयूषार्थं सुरोत्करैः ।
पीयूषधारणार्थाय निर्मिता विश्वकर्मणा ॥ ५८ ॥

कलां कलां तु देवानामसित्वा ते पृथक् पृथक् ।
यतः कृतास्तु कलसास्ततस्ते परिकीर्तिताः ॥ ५९ ॥

नवैव कलसाः प्रोक्ता नामतस्तान्निबोधत ।
गोह्योपगोह्यो मरुतो मयूखश्च तथापरः ॥ ६० ॥

मनोहाचार्यभद्रश्च विजयस्तनु दूषकः ।
इन्द्रियघ्नोऽथ विजयो नवमः परिकीर्तितः ॥ ६१ ॥

तेषामेव क्रमाद् भूप नव नामानि यानि तु ।
शृणु तान्यपराण्येव शान्तिदानि सदैव हि ॥ ६२ ॥

क्षितीन्द्रः प्रथमः प्रोक्तो द्वितीयो जलसम्भवः ।
पवनाग्नी ततो द्वे तु यजमनस्ततः परः ॥ ६३ ॥

कोषसम्भवाम्ना तु षष्ठः स परिकीर्तितः ।
सोमस्तु सप्तमः प्रोक्त आदित्यस्तु तथाष्टमः ॥ ६४ ॥

विजयो नाम कलसो योऽसौ नवम उच्यते ।
स तु पञ्चमुखः प्रोक्तो महादेवस्वरूपधृक् ॥ ६५ ॥

घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयं तथा ।
यथाकाष्ठां स्थितः सम्यग् वामदेवादिनामतः ॥ ६६ ॥

मण्डलस्य तु पद्मान्ते पञ्चवक्त्रं घटं न्यसेत् ।
क्षितीन्द्रं पूर्वतो न्यस्य पश्चिमे जलसम्भवम् ॥ ६७ ॥

वायव्ये वायवं न्यस्य आग्नेये ह्यग्निसम्भवम् ।
नैर्-ऋत्ये यजमानं तु ऐशान्यां कोषसम्भवम् ॥ ६८ ॥

सोममुत्तरतो योज्यं सौरं दक्षिणतो न्यसेत् ।
न्यस्यैवं कलसांश्चैव तेषु चैतान् विचिन्तयेत् ॥ ६९ ॥

कलसानां मुखे ब्रह्मा ग्रीवायां शङ्करः स्थितः ।
मूले तु संस्थितो विष्णुर्मध्ये मातृगणाः स्थिताः ॥ ७० ॥

दिक्पाला देवताः सर्वा वेष्टयन्ति दिशो दश ।
कुक्षौ तु सागराः सप्त सप्तद्वीपाश्च संस्थिताः ॥ ७१ ॥

नक्षत्राणि ग्रहाः सर्वे तथैव कुलपर्वताः ।
गङ्गाद्याः सरितः सर्वा वेदाश्चत्वार एव च ॥ ७२ ॥

कलसे संस्थिताः सर्वे तेषु तानि विचिन्तयेत् ।
अत्नानि सर्वबीजानि पुष्पाणि च फलानि च ॥ ७३ ॥

वज्रमौक्तिकवैदूर्यमहापद्मेन्द्रस्फाटिकैः ।
सर्वधाममयं बिल्वं नागरोदुम्बर तथा ॥ ७४ ॥

बीजपूरकजम्बीरकाश्मीराम्रातदाडिमम् ।
यवं शालिं च नीवारं गोधूमं सितसर्षपम् ॥ ७५ ॥

कुङ्कुमागुरुकर्पूरमदनं रोचनं तथा ।
चन्दनं च तथा मांसीमेलां कुष्ठं तथैव च ॥ ७६ ॥

अस्तूरीपत्रचूर्णं च जलनिर्यासकाम्बुदम् ।
शैलेयं बदरं जातीपत्रपुष्पे तथैव च ॥ ७७ ॥

कालशाकं तथा पृक्का देवीपर्णकमेव च ।
वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम् ॥ ७८ ॥

दूर्वां मोहनिकां भद्रां शतमूलीं शतावरीम् ।
अर्णानां सरलां क्षुद्रां सहदेवीं गजाह्वयाम् ॥ ७९ ॥

पूर्णकोषां सितां पीठां गुञ्जां शिरसिकानलौ ।
व्यामकं गजदन्तं च शतपुष्पं पुनर्नबाम् ॥ ८० ॥

ब्राह्मीं देवीं शिवां रुद्रां सर्वसन्धानिकां तथा ।
समाहृत्य शुभानेतान् कलसेषु निधार्पयेत् ॥ ८१ ॥

कलसस्य यथादेशं विधिं शम्भुं गदाधरम् ।
यथाक्रमं पूजयित्वा शम्भु मुख्यतया यजेत् ॥ ८२ ॥

प्रासादेन तु मन्त्रेण शम्भुं तन्त्रेण शङ्करम् ।
प्रथमं पूजयेन्मध्ये नाना नैवेद्यवेदनैः ॥ ८३ ॥

दिक्पालानां घटेष्वेव दिक्पालानपि पूजयेत् ।
पूर्वं बहिः स्थापितेषु ग्रहाणां कलसेषु च ॥ ८४ ॥

नवग्रहान् पूजयेत् तु मातृर्मातृघटेषु च ।
सर्वे देवा घटे पूज्या घटास्तेषां पृथक् पृथक् ॥ ८५ ॥

नवैव तत्र पूर्वोक्ताः स्मृता मुख्यतया नृप ।
भक्ष्यैर्भोज्यैश्च पेयैश्च पुष्पैर्नानाविधैः फलैः ॥ ८६ ॥

यावकैः पायसैश्चैव यथासम्भवयोजितैः ।
पुष्यस्नानाय नृपतिः पूजयेत् सकलान् सुरान् ॥ ८७ ॥

दक्षिणे मण्डलस्याथ कुण्डं निर्माय पायसैः ।
समिद्भिः शालिसिद्धार्थैर्घृतैर्दूर्वाक्षतैस्तथा ॥ ८८ ॥

केवलैश्च तथैवाज्यैः पूजितान् सकलान् सुरान् ।
होमेन तोषयेद् वृद्ध्यै नृपः सत्विक्पुरोहितः ॥ ८९ ॥

होमान्ते मण्डलोदीच्यां वेदिकायां सपट्टकम् ।
रोचनाख्यमलङ्कारांस्तथा सर्वान् नियोजयेत् ॥ ९० ॥

वृद्धावङ्गुलमङ्गुल्या षड्विंशाङ्गुलिकावधि ।
वृत्तं वा चतुरस्रं वा पद्मं त्रिकोणसञ्ज्ञकम् ॥ ९१ ॥

रत्नेशान् पद्ममध्ये तु गोमुष्टिकविनायकैः ।
श्रीश्रीवृक्षवरारोहामुमादेवीं शुभान्विताम् ॥ ९२ ॥

रत्नैः सर्वैरलङ्कारैः पट्टं कार्यं द्विहस्तकम् ।
हस्तविस्तारमुच्छ्रायं नवहस्तं दशाङ्गुलम् ॥ ९३ ॥

स्नानार्थं सार्धहस्तं च पट्टं वृत्तं गुणान्वितम् ।
शय्या चतुर्गुणा दीर्घा धनुर्मानं तु पीठकम् ॥ ९४ ॥

गजसिंहकृताटोपं हेमरत्नविभूषितम् ।
सिंहाख्यं सार्धविस्ताराद् दण्डासनमथापि वा ॥ ९५ ॥

व्याघ्रचित्रकपट्टैर्वा उपधानानि कारयेत् ।
अन्यैर्वा निर्मितां चर्ममृदुतूलकपूरिता ॥ ९६ ॥

शय्या दीर्घार्घविस्तीर्णा चतुर्हस्ता सुलक्षणा ।
वितस्त्यधिकमिच्छन्ति नृपस्य गुरुविद्यया ॥ ९७ ॥

अर्धचन्द्रसमं कुर्यादासनं चतुरस्रकम् ।
उपधानानि शय्यायाः कर्णादिमूलभेदतः ॥ ९८ ॥

षोडशैवात्र कार्याणि वर्णचित्रयुतानि च ।
यानं सिंहासन पट्टं शय्योपकरणादिकम् ॥ ९९ ॥

राज्ञो नूतनयोग्यं तद् वेद्या उत्तरतो न्यसेत् ।
तेषां तु पश्चिमे स्वर्णरत्नौघखचिते वरे ॥ १०० ॥

पर्यङ्के यज्ञदार्वौघनिर्मिते महदास्तरे ।
र्धाच्छादनसंयुक्ते चर्मावृतचतुष्टये ॥ १०१ ॥

वृषभस्य तथोर्णायाः सिंहशार्दुलयोरपि ।
पादपीठे रत्नयुते पादावारोप्य पार्थिवः ॥ १०२ ॥

अस्मिन् पर्यङ्कपीठस्थे चर्मावृतचतुष्टय ।
नानालङ्कारभूषाढ्यं नृपतिं रत्नशालिनम् ॥ १०३ ॥

स्नापयेद् ब्राह्मणैः सार्धं राजानं सुखसङ्गतम् ।
संवितकम्बलं कृष्णम् अहुवस्त्रैश्च शौभितम् ॥ १०४ ॥

कलसेवलिपुष्पाद्यैः सालिचूर्णैश्च स्नापयेत् ।
ष्टौ षौडश विंशाष्टशतमधिकं च वा ॥ १०५ ॥

कलसानां समाख्याता अधिकस्योत्तरोत्तरम् ।
जयकल्याणदैर्मन्त्रैर्मङ्गलोत्थैश्च शाम्भवैः ॥ १०६ ॥

वैष्णवैरथ दिक्पालैर्ग्रहमन्त्रैश्च मातृकैः ।
आज्यं तेजः समुद्दृष्टमाज्यं पापहरं परम् ॥ १०७ ॥

आज्यं सुराणामाहारप्राज्ये लोकाः प्रतिष्ठिताः ।
हौमान्तरिक्षं दिव्यं वा यत् ते कल्पमषमागतम् ॥ १०८ ॥

सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु ।
ततोऽपनीयगात्रात् तु कम्बलं वस्त्रमेव च ॥ १०९ ॥

कलसैः स्नापयेद् भूपं पुष्पस्नानीयपूरितैः ।
एभैर्मन्त्रैर्नरश्रेष्ठ तनुतत्त्वार्थसाधकैः ॥ ११० ॥

उरास्त्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः ।
ब्रह्मा विष्णुश्च रुद्राश्च साध्याश्च समरुद्गणाः ॥ १११ ॥

आदित्या वसवो रुद्रा अश्विनौ यो भिषग्वरौ ।
अदितिर्देवमाता च स्वाहा लक्ष्मीः सरस्वती ॥ ११२ ॥

कीर्तिर्लक्ष्मीर्घृतिः श्रीश्च सिनीवाली कुहूस्तथा ।
दितिश्च सुरसा चैव विनता कद्रुरेव च ॥ ११३ ॥

देवपत्नयश्च याः प्रोक्ता देवमातर एव च ।
सर्वास्त्वामषिञ्चन्तु सिद्धाश्चाप्स्रसां गणाः ॥ ११४ ॥

नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्रसन्धयः ।
संवत्सरा निमेषाश्च कलाः काष्ठाः क्षणा लवाः ॥ ११५ ॥

सर्वे त्वामभिषिञ्चन्तु कालस्यावयवस्तथा ।
वैमानिकाः सुरगणा मनवः सागरैः सह ॥ ११६ ॥

सरितश्च महानागा नागाः किम्पुरुषास्तथा ।
वैखानसा महाभागा द्विजा वैहायसाश्च ये ॥ ११७ ॥

सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि तु ।
मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ॥ ११८ ॥

भृगुः सनत्कुमारश्च सनकश्च सनन्दनः ।
सनातनश्च दक्षश्च जैगीषव्योऽभिनन्दनः ॥ ११९ ॥

एकतश्च द्वितश्चैव त्रितो जावालिकाश्यपौ ।
दुर्वासा दुर्विनीतश्च कण्वः कात्यायनस्तथा ॥ १२० ॥

मार्कण्डेयो दीर्घतमाः शुनःशेफो विदूरथः ।
और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः ॥ १२१ ॥

द्वैपायनो यवक्रीतो देवरातः सहात्मजः ।
एते चान्ये च बहवो वेदव्रतपरायणाः ॥ १२२ ॥

सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः ।
पर्वतास्तरवो नद्यः पुण्यान्यायततनानि च ॥ १२३ ॥

प्रजापतिः क्षितिश्चैव गावो विश्वस्य मातरः ।
वाहनानि च दिव्यानि सर्वे लोकाश्चराचराः ॥ १२४ ॥

अग्नयः पितरस्तारा जीमूताः खं दिशो जलम् ।
एते चान्ये च बहवः पुण्यसङ्कीर्तनाः शुभाः ॥ १२५ ॥

तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पातनिबर्हणैः ।
इत्येवं शुभदैरेतैर्दिव्यर्मन्त्रैस्तथापरैः ॥ १२६ ॥

सोरैर्नारायणै रौद्रैर्बह्मशक्रसमुद्भवैः ।
आपोहिष्ठा हिरण्येति सम्भवेति सुरेति च ॥ १२७ ॥

मानस्तोकेति मन्त्रेण गन्धद्वारेत्यनेन च ।
सर्वमङ्गलमाङ्गल्ये श्रीश्च ते ग्रहयोगिभिः ॥ ११८ ॥

इत्येवं स्नानमासाद्य गात्रमावृत्य कम्बलैः ।
सर्वमङ्गलमन्त्रेण वस्त्रं कार्पासकं ध्रियात् ॥ १२९ ॥

आचम्य च ततो देवान् गुरुं विप्रांश्च पूजयेत् ।
ध्वजच्छत्रं चामरं च घण्टां चाश्वान् गजांस्तथा ॥ १३० ॥

मन्त्रं जप्त्वा धारयेत् तु ततो गच्छेद्धुताशनम् ।
तत्र गत्वा वह्निमध्ये वह्नेः श्रीर्वीक्ष्य पार्थिवः ॥ १३१ ॥

इमित्तान्यनिमित्तानि लक्षयेत् तत्र बिन्दुभिः ।
दैवज्ञकञ्चुक्यमात्यवन्दिपौरजनैर्वृतः ॥ १३२ ॥

वादित्रघोषैस्तुमलैस्तथा तौर्यत्रिकैः शुभैः ।
कृत्वा शेषे पुनः शान्तिमाशीर्वाच्य च वै द्विजान् ॥ १३३ ॥

पूर्णां विधाय विधिवद् दक्षिणां कनकान्विताम् ।
धान्यानि चाथ वासांसि दत्त्वा कुर्याद् विसर्जनम् ॥ १३४ ॥

ततः शेषजलैः सर्वानमात्यादीन् पुरोहितः ।
सेचयेच्चतुरङ्गं च बलं चापि सराष्ट्रकम् ॥ १३५ ॥

एवं कृत्वा नृपः पश्चात् त्रिरात्रं संयतो भवेत् ।
मांसमैथुनहीनश्च कुर्यान्माङ्गल्यसेवनम् ॥ १३६ ॥

पुष्यनक्षत्रयुक्ता तु तृतीया यदि लभ्यते ।
तस्यां पूज्या सदा देवी चण्डिका शङ्करेण ह ॥ १३७ ॥

पाञ्चालिकाविहाराद्यैः शिशूनां कौतुकैस्तथा ।
वैवाहिकेन विधिना मोहयेच्चण्डिकां शिवाम् ॥ १३८ ॥

चतुष्पथेषु सर्वेषु देवदेवीगहेषु च ।
पताकाभिरलं कुर्यादेवं कुर्वन्न सीदति ॥ १३९ ॥

एवं कृत्वा शान्तियागं तथा पुष्याभिषेचनम् ।
चतुरङ्गैः समं राजा भार्यभिस्तु नरैः सह ॥ १४० ॥

राज्यमण्डलसंयुक्तः परत्रेह न सीदति ।
नातः परतरो यज्ञो नातः परतरोत्सवः ॥ १४१ ॥

नातः परतरा शान्तिर्नातः परतरं शिवम् ।
अनेनैव विधानेन नृपतेरभिषेचनम् ॥ १४२ ॥
मूलम्
नातः परतरा शान्तिर्नातः परतरं शिवम् ।
अनेनैव विधानेन नृपतेरभिषेचनम् ॥ १४२ ॥
विश्वास-प्रस्तुतिः
युवराज्याभिषेकं च कुर्याद्राजपुरोहितः ।
नृपाभिषेककरणमादौ यदि समाचरेत् ॥ १४३ ॥
मूलम्
युवराज्याभिषेकं च कुर्याद्राजपुरोहितः ।
नृपाभिषेककरणमादौ यदि समाचरेत् ॥ १४३ ॥
विश्वास-प्रस्तुतिः
अनेनैव विधानेन स्थिरः स्यान्नृपतिस्तदा ।
अयं यज्ञः समुद्दिष्टः शक्रार्थं ब्रह्मणा पुरा ।
एवं यज्ञं नृपः कृत्वा परत्रेह न सीदति ॥ १४४ ॥

इति श्रीकालिकापुराणे षडशीतितमोऽध्यायः ॥ ८६ ॥