विश्वास-प्रस्तुतिः
पञ्चाशीतितमोऽध्यायः
और्व उवाच
सदाचारेषु राजेन्द्र विशेषाञ् शृणु सम्प्रति ।
यानबश्यं नृपः कुर्यात् तान्मत्तः सकलाञ् शृणु ॥ १ ॥
मूलम्

साधवः क्षीणदोषाश्च सच्छब्दः साधुवाचकः ।
तेषामाचरणं यत् तत् सदाचारः स उच्यते ॥ २ ॥

आगमेषु पुराणेषु संहितासु यथोदितान् ।
समुद्दिष्टसदाचारान् गृह्णीयात् तान् गृहस्थवत् ॥ ३ ॥

ऋषीन् यजेद् वेदपाठैर्देवान् होमैः प्रपूजयेत् ।
श्राद्धैः पितृंस्तर्पयेत् तु भूतानि वलिभिस्तथा ॥ ४ ॥

मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् ।
सर्वं गृहस्थवत् कुर्यान्निषेकाद्यं विधिं तथा ॥ ५ ॥

षट्कर्मसु नियुञ्जीत राजा विप्रान् समन्ततः ।
तथैव क्षतिर्यादींश्च स्वे स्वे हर्मे नियोजयेत् ॥ ६ ॥

यः स्वधर्मं परित्यज्य परधर्मं समाचरेत् ।
तं शतेन नृपो दण्डं पुनस्तस्मिन् नियोजयेत् ॥ ७ ॥

सांवत्सरेषु कृत्येषु विशिष्यैतान् समाचरेत् । वश्यं पार्थिवो राजन् तान्
विशेषाञ् शृणुष्व मे ॥ ८ ॥

शरत्काले महाष्टम्यां दुर्गायाः परिपूजनम् ।
नीराजनं दशम्यां तु कुर्याद् वै बलवृद्धये ॥ ९ ॥

पौषे मासि तृतीयायां कुर्यात् पुष्याभिषेचनम् ।
पूजयित्वा श्रियं देवीम् अञ्चम्याँ ऋपतिश्चरेत् ॥ १० ॥

श्रीयज्ञं धनधान्यस्य वृद्धये नृपसत्तम ।
ज्यैष्ठे दशहरायां तु विष्णोरिष्टिं तथाचरेत् ॥ ११ ॥

रवौ हरिस्थे द्वादश्यां शक्रपूजां समाचरेत् ।
विशिष्यैतांस्तु नृपतिः कुर्याद् यज्ञान् बहुव्ययैः ॥ १२ ॥

एभिः कृतैर्बलं राज्यं कोषश्चापि विवर्धते ।
अकृतेष्वेषु यज्ञेषु दुर्भिक्षं मरणं तथा ॥ १३ ॥

जायन्ते चेतयः सर्वा विशिष्यैतांस्ततश्चरेत् ।
शरत्काले महाष्टम्यां दुर्गायाः पूजने विधिः ॥ १४ ॥

पुरा प्रोक्तस्तु विधिना तेन कार्यं तु पूजनम् ।
विधिं नीराजनस्य त्वं शृणु पार्थिवसत्तम ॥ १५ ॥

कृतेन येन चाश्वानां गजानामपि अर्धनम् ।
आश्विने शुक्लपक्षै तु तृतीया स्वातीयोगिनी ॥ १६ ॥

ऐशान्यां स्वपुरस्यैव गृह्णीयात् स्थानमुत्तमम् ।
नीराजनं ततः कुर्यात् सम्प्राप्ते दिवसेऽष्तमे ॥ १७ ॥

नीराजनस्य कालस्तु पूर्वमुक्तो मया तव ।
विधानमात्रं शृणु मे कृतकृत्यो भविष्यसि ॥ १८ ॥

एकं हयं महासत्त्वं सुमनोहरमेव च ।
पूजयेत् सप्तदिवसान् गन्धपुष्पांशुकादिभिः ॥ १९ ॥

तृतीयादौ पूजयित्वा नयेत यज्ञमण्डलम् ।
चेष्टां निरूपयंस्तस्य जानीयात् तु शुभाशुभम् ॥ २० ॥

परराष्ट्रावमर्दः स्यादश्वो यदि पलायते ।
रियते राजपुत्रस्तु यदि चाश्रूणि मुञ्चति ॥ २१ ॥

नीयमानो न गच्छेत् तु महिषीमरणं ततः ।
तथैव मुखनासाक्षि शब्दं कुर्याद्धयो यदि ॥ २२ ॥

यः काष्ठाभिमुखः कुर्यात् तत् काष्ठायां जयेद्रिपून् ।
उत्क्षिप्य दक्षिणाग्रं तु पदमश्वो भवेत् पुरः ॥ २३ ॥

तदा यदि समस्तांश्च नृपतिर्विजयेद्रिपून् ।
प्रातर्नीराजनं कुर्याद् दशम्यां नृपसत्तम ॥ २४ ॥

तदप्राप्तौ च द्वादश्यां तस्यामेव समाचरेत् ।
कार्तिके पञ्चदश्यां वा तत्राभावे तु पार्थिव ॥ २५ ॥

ऐशान्यां स्वपुरस्योच्चैर्हस्तमानेन षोडश ।
दशहस्तं तु विपुलां कुर्याद् वै तत्र तोरणम् ॥ २६ ॥

द्वात्रिंशद्धस्तमात्रं तु हस्तषोडशविस्तृतम् ।
यज्ञार्थं मण्डलं कुर्यान्मध्ये वेदिं विनिर्दिशेत् ॥ २७ ॥

वेद्याश्चोत्तरतश्चाश्व वेदिं कुर्यादनुत्तमाम् ।
यत्र संस्थाप्य चाश्वश्च पूजितव्यः पुरोहितैः ॥ २८ ॥

सर्जोदुम्बरशाखानामर्जुनस्याथवा नृप ।
मत्स्यशङ्खाङ्कितैश्चक्रैर्ध्वजैश्चाप्यभिभूषयेत् ॥ २९ ॥

तोरणं कनकरत्नेस्तथा नानाविधैः फलैः ।
भल्लातकं शालिकुष्ठं सिद्ध्यर्थं सैन्धवस्य तु ॥ ३० ॥

कण्ठदेशे निबध्नीयात् पुष्टिशान्त्यर्थमेव च ।
वैष्णवं मण्डलं कृत्वा दिक्पालांश्च नवग्रहान् ॥ ३१ ॥

विश्वेदेवांस्तु मन्त्रेण विष्णुमुख्यान् प्रपूजयेत् ।
आज्यैस्तिलैश्च पुष्पैश्च मिश्रीकृत्य पुरोहितः ॥ ३२ ॥

रवेस्तु वरुणस्यैव प्रजेशस्य तथैव च ।
पुरुहूतस्य विष्णोश्च होमं सप्ताहमाचरेत् ॥ ३३ ॥

एकैकस्य सहस्रं वा अष्टोत्तरशतं च वा ।
कुर्यात् तु प्रत्यहं होमं चतुर्वर्गस्य सिद्धये ॥ ३४ ॥

समिधश्चापि होतव्याः पालाशाः खादिरास्तथा ।
औदुम्बर्यश्च काश्मर्या आश्वत्थाश्च पुरोधसा ॥ ३५ ॥

सौवर्णान् राजतान् वापि मार्तिकान् वा यथेच्छया ।
कुर्यात् तु कलशानष्टौ फलाम्राम्वरयोजितान् ॥ ३६ ॥

क्षिपेत् तेषु घटेष्वेव समङ्गहरितालकम् ।
चन्दनं च तथा कुष्ठं प्रियङ्गुं च मनःशिलाम् ॥ ३७ ॥

ञ्जनं च हरिद्रां च श्वेतां दन्तीं तथैव च ।
भल्लातकं पूर्णकोशं सहदेवीं शतावरीम् ॥ ३८ ॥

वचां सनागकुसुमां सोमराजीं सुगुप्तिकाम् ।
उत्थं च करवीरं च तुलसीदलमेव च ॥ ३९ ॥

एतानि निक्षिपेन्मध्ये कलशानां पुरोहितः ।
कनकरम्बुजैर्यज्ञदारुभिः स्रुक्स्रुवौ तथा ॥ ४० ॥

कर्तव्ये शान्तिकामेन नीराजनविधौ नृप ।
एवं सप्ताहपर्यन्तं पूजाभिर्हवनैस्तथा ॥ ४१ ॥

पूर्वोक्तान् पूजयित्वा तु नृपः सप्ताहमाचरेत् ।
यावन्नीराजनं कुर्यात् तावद्राजा वसेद् गृहे ॥ ४२ ॥

रात्रौ न यज्ञभूमौ तु निवसेच्छान्तिमिच्छुकः ।
नारोहयेत् तुरङ्गं तं गजं वा तत्र पार्थिवः ॥ ४३ ॥

यावत् सप्ताहपर्यन्तं यानेनान्येन वै व्रजेत् ।
भक्ष्यैर्नानाविधैश्चैव मधुपायसयावकैः ॥ ४४ ॥

मोदकैर्वा बलिं कुर्यादन्नव्यञ्जनसम्भवैः ।
पूर्वोक्तानां तु देवानां सप्ताहं यावदुत्तमम् ॥ ४५ ॥

सप्तमेऽह्नि तु रेभन्तं पूजयेत् तोरणान्तरे ।
सूर्यपुत्रं महाबाहुं द्विभुजं कवचोज्ज्वलम् ॥ ४६ ॥

ज्वलन्तं शुक्लवस्त्रेण केशानुद्ग्रथ्य वासवा ।
कशां वामकरे बिभ्रद् दक्षिणं तु करं पुनः ॥ ४७ ॥

स खड्गं न्यस्य आमायां सितसैन्धवसंस्थितम् ।
एवंविधं तु रेभन्तं प्रतिमायां घटेऽपि वा ॥ ४८ ॥

सूर्यपूजाविधानेन पूजयेत तोरणान्तरे ।
पूजयित्वा तु रेभन्त द्विरदं तुरगं तथा ॥ ४९ ॥

अहताम्बरसंवीतं स्रक्चन्दनसमन्वितम् ।
सुवर्णविद्धनिस्त्रिंशं विचित्रं कवचादिभिः ॥ ५० ॥

युक्तं तु होमकुण्डस्य ऐशान्यामश्ववेदिकाम् ।
पूर्वं कृतां नयेदश्वगजपालौ पृथक् पृथक् ॥ ५१ ॥

नीयमाने गजे चाश्वे पूर्वोक्तं तु निमित्तकम् ।
यत्नाद् वीक्षेत नृपतिः फलं चैवावधारयेत् ॥ ५२ ॥

होमकुण्डस्योत्तरस्यां वैयाघ्रे चर्मणि स्थितः ।
एदविदा चाश्वविदा सहितो वीक्ष्य सैन्धवम् ॥ ५३ ॥

नीताय तुरगायाशु भक्तपिण्डीं सुगन्धिनीम् ।
दद्यात् पुरोहितस्तत्र सम्मन्त्र्य शान्तिमन्त्रकैः ॥ ५४ ॥

भक्षणाद् यदि जिघ्रेत् तदश्नीयाद् वा हयः सच ।
तदा स्यात् सर्वकल्याणं विपरीतमतोऽन्यथा ॥ ५५ ॥

शाखामौदुम्बरीमाम्रीं सकुशां च घटोदके ।
आप्लाव्याप्लाव्य तुरगान् गजान् भूपं च सैनिकान् ॥ ५६ ॥

रथांश्च संस्पृशेन्मन्त्रैः शान्तिकैः पौष्टिकैस्तथा ।
सेचयेत् सहितैर्विप्रैश्चतुरङ्गं पुरोहितः ॥ ५७ ॥

दिक्पालानां ग्रहाणां च मन्त्रैश्च वैष्णवैस्तथा ।
बहुधा चाभिषिच्याथ ततः सौवर्ण अर्पणम् ॥ ५८ ॥

वीक्षयित्वा नृपं चर्त्विक् ततो मन्त्रिणमेव च ।
राजपुत्रं तथामात्यानन्यानपि च सैनिकान् ॥ ५९ ॥

कम्पयन् द्विजशार्दूलः सर्वानेव तु दर्शयेत् ।
चतुरङ्गस्य स्वस्यापि कृत्वैवं शान्तिपौष्टिके ॥ ६० ॥

मृन्मयं शात्रवं कृत्वा चाभिचारिकमन्त्रकैः ।
हृदि शूलेन विध्वा तं शिरं खड्गेन छेदयेत् ॥ ६१ ॥

आचार्यः कविकां पश्चादभिमन्त्र्य हयाय वै ।
ऐन्द्रैः प्राभाकरैर्मन्त्रैर्दद्याद् वक्त्रे स्वयं पुनः ॥ ६२ ॥

तमनेन तु मन्त्रेण समारुह्य नृपस्तदा ।
गच्छेदुत्तरपूर्वां तु दिशं सर्वैर्बलैर्युतः ॥ ६३ ॥

ऋत्विक् पुरोहिताचार्याः सर्व एव नृपं तदा ।
अनुगच्छेयुरन्यानि निमित्तानि विलोकितुम् ॥ ६४ ॥

वादित्रघोषैस्तुमुलैरातपत्रैर्वृतस्तथा ।
गच्छेन्निराजने राजा दारयन्निव मेदिनीम् ॥ ६५ ॥

मणिविद्रुममुक्तादि-स्वर्ण-रत्नैरलङ्कृतः ।
क्रोशमात्रं ततो गत्वा पूर्वद्वारेण पार्थिवः ॥ ६६ ॥

स्वपुरं प्रविशेद् विप्रैर्यज्ञं यायात् पुरोहितः ।
तत्र गत्वा दक्षिणां तु हिरण्यं गां तथा तिलम् ॥ ६७ ॥

दत्त्वा पश्चाद् द्विजेभ्यस्तु दद्याद् दानानि शक्तितः ।
एवं नीराजनं कृत्वा बलानाञ्च् अ महीक्षितः ॥ ६८ ॥

प्रेत्येह सुस्थिरां लक्ष्मीं नृपतिः प्राप्नुयात् तथा ।
त्वमश्वामृतसञ्जात सागरोद्भव सैन्धव ॥ ६९ ॥

येन सत्येन बहसे शक्रं तेनेह मां वह ।
येन सत्येन रेभन्तं येन सत्येन भास्करम् ॥ ७० ॥

वहसे तेन सत्येन विजयाय वहस्व माम् ।
आभ्यां तु भूप मन्त्राभ्यामश्वारोहणमाचरेत् ॥ ७१ ॥

आरुह्याग्रे महिष्यास्तु शुद्धान्ते लम्बयेत् ततः ।
महिषी च ततो भूपं पर्यङ्कोपरि संस्थितम् ॥ ७२ ॥

दूर्वाक्षतैः ससिद्धार्थैः स्त्रीभिः सह तमर्चयेत् ।
कृते तु भूमिग्रहणे तृतीयायां निराजने ॥ ७३ ॥

सूतकं यदि जायेत तत्र दुष्यति केवलम् ।
सूतकी मृतकी वापि पार्थिवस्तु यथा तथा ॥ ७४ ॥

बलनीराजनं कुर्यात् तन्मात्रं च विशेषतः ।
सद्यः शौचं भवेद्राज्ञो व्यवहारविलोकने ॥ ७५ ॥

तथाधिवासने यज्ञे परराष्ट्रविमर्दने ।
अयं ते कथितो राजन्नीराजनक्रमो मया ।
पुष्यस्नानविधानं तु पार्थिव शृणु साम्प्रतम् ॥ ७६ ॥

इति श्रीकालिकापुराणे पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥