विश्वास-प्रस्तुतिः
चतुरशीतितमोऽध्यायः
ऋषय ऊचुः -
कथितो भवता सर्गः संशयश्चापि शातिताः ।
त्वत्प्रसादान्महाभाग कृतकृत्या वयं गुरो ॥ १ ॥
मूलम्

भूयश्च श्रोतुमिच्छामो वयमेतद् द्विजोत्तम ।
कोऽन्यो भृङ्गी महाकाओ जातौ वेतालभैरवौ ॥ २ ॥

वेतालं च महाकालं भैरवं भृङ्गिणं तथा ।
शृणुमो द्विजशार्दूल कथमेषां चतुष्टयम् ॥ ३ ॥

मार्कण्डेय उवाच -
भुवं गते महाकाले मानुष्यस्थे च भृङ्गिणि ।
वेतालभैरवाख्ये च तयोर्भूते द्विजोत्तमाः ॥ ४ ॥

वरलब्धे च वेताले भैरवे तेन सङ्गते ।
अन्धकं तपसा युक्तं भृङ्गिणं चाकरोद्धरः ॥ ५ ॥

अन्धकस्तु हरं पूर्वं विरुध्यापदमागतः ।
पश्चाद्धरं समाराध्य पुत्रोऽभूत् तस्य सोऽसुरः ॥ ६ ॥

भृङ्गिस्नेहाद् भृङ्गिणं तं सञ्ज्ञया चाकरोद्धरः ।
स्नेहेन तु महाकाले बाणं बलिसुतं हरः ।
विष्णुना छिन्नबाहुं तु महाकालमथाकरोत् ॥ ७ ॥

एवं मुनिवरस्तेषां संयतं च चतुष्टयम् ।
वेतालभैरवौ भृङ्गिमहाकालौ ह्यनुक्रमात् ॥ ८ ॥

ऋषय उवाच
यत् पृष्टं सगरेणैव मुनिमौर्व महाधियम् ।
नीत्या योज्या यया भार्या सुत आत्माऽथवा गुरो ॥ ९ ॥

राजनीतौ सतां नीतौ सदाचारे च ये स्थिताः ।
विशेषास्तेन ये प्रोक्ता और्वेण सुमहात्मना ॥ १० ॥

विशेषेण द्विजश्रेष्ठ श्रोतुं सम्यक् तपोधन ।
इच्छामस्तान् महाभाग कथयस्व जगद्गुरो ॥ ११ ॥

मार्कण्डेय उवाच
ये ये विशेषाः कथिता और्वेण सुमहात्मना ।
तद् वः सर्वं प्रवक्ष्यामि शृण्वन्तु मुनिसत्तमाः ॥ १२ ॥

श्रुत्वैवं सगरो राजा मन्त्रकल्पादिकं पुनः ।
विशेषं परिपप्रच्छ नीत्यादीनां महामुनिम् ॥ १३ ॥

सगर उवाच -
यया नीत्या प्रयोक्तव्यः सुत आत्मा प्रिया तथा ।
तेषाँ विशेषैः सहितं सदाचारं वदस्व मे ॥ १४ ॥

और्व उवाच -
क्रमेण शृणु राजेन्द्र यया नीत्या नियोजिताः ।
आत्मा सुतो वा भार्या वा तद्विशेषं शृणुष्व मे ॥ १५ ॥

ज्ञानविद्यातपोवृद्धान् वयोवृद्धान् सुदक्षिणान् ।
सेवेत प्रथमं विप्रानसूयापरिवर्जितान् ॥ १६ ॥

तेभ्यश्च शृणुयान्न्नित्यं वेदशास्त्रविनिश्चयम् ।
यदूचुस्ते च तत् कार्यं प्राज्ञं चैव नृपश्चरेत् ॥ १७ ॥

पञ्चेन्द्रियाणि पञ्चाश्वाः शरीरं रथ उच्यते ।
आत्मा रथी कशा ज्ञानं सारथिर्मन उच्यते ॥ १८ ॥

अश्वान् सुदान्तान् कुर्वीत सारथिं चात्मनो वशम् ।
कशा दृढा सदा कार्या शरीरस्थिरता तथा ॥ १९ ॥

अदान्तांस्तु समारुह्य सैन्धवान् स्यन्दनी यथा ।
अश्वानामिच्छया गच्छन्नुत्पथं प्रतिपद्यते ॥ २० ॥

तत्रावशः सारथिस्तु स्वेच्छया प्रेरयन् हयान् ।
नयेत् परवशं सम्यग् रथितं वीरमप्युत ॥ २१ ॥

तथेन्द्रियाणि नृपतिर्विषयाणां परिग्रहे ।
स्ववश्यानि प्रकुर्वीत मनो ज्ञानं दृढं तथा ॥ २२ ॥

ज्ञाने दृढे कशायां च दृढायां नृपसत्तम ।
सारथिः स्ववशो दान्तानीशः प्रेरयितुं हयान् ॥ २३ ॥

अतो नृपः स्वेन्द्रियाणि वशे कृत्वा मनस्तथा ।
ज्ञानमार्गमधिष्ठाय प्रकुर्वीतात्मनो हितम् ॥ २४ ॥

भोक्तव्यं स्वेच्छया भूयो न कुर्याल्लोभमासवे ।
द्रष्टव्यमिति द्रष्टव्यं न द्रष्टव्यं च स्वेच्छया ॥ २५ ॥

श्रोतव्यमिति श्रोतव्यं नाधिकं श्रवणे चरेत् ।
शास्त्रतत्त्व मृते धीरः श्रुतिवश्यो भवेन्न हि ॥ २६ ॥

एवं घ्राणं त्वचं चापि वशीकृत्येच्छया नृपः ।
स्वेच्छया नोपभुञ्जीत नोद्दामं विषयं व्रजेत् ॥ २७ ॥

एवं यदि भवेद्राजा तदा स स्याज्जितेन्द्रियः ।
जितेन्द्रियत्वे हेतुश्च शास्त्रवृद्धोपसेवनम् ॥ २८ ॥

अवृद्धसेव्यशास्त्रज्ञो नृपः शत्रुवशो भवेत् ।
तस्माच्छास्त्रमधिष्ठाय भवेद्राजा जितेन्द्रियः ॥ २९ ॥

धृतिः प्रागल्भ्यमुत्साहो वाक्पटुत्वं विवेचनम् ।
दक्षत्वं धारयिष्णुत्वं दानमैत्रीकृतज्ञता ॥ ३० ॥

दृढशासनता सत्यं शौचं मतिविनिश्चयम्ः ।
पराभिप्रायवेदित्वं चरित्रं धैर्यमापदि ॥ ३१ ॥

क्लेशधारणशक्तिश्च गुरुदेवद्विजार्चनम् ।
अनसूया ह्यकोपित्वं गुणानेतान्नृपोऽभ्यसेत् ॥ ३२ ॥

कार्याकार्यविभागश्च धर्मार्थो काम एव च ।
सततं प्रतिबुध्येत कुर्यादवसरेऽपि तत् ॥ ३३ ॥

सामदानं च भेदश्च दण्डश्चेति चतुष्टयम् ।
ज्ञात्वोपायांस्तु तत्काले तदुपायान् प्रयोजयेत् ॥ ३४ ॥

साम्नस्तु विषये भेदो मध्यमः परिकीर्तितः ।
दानस्य विषये साम योग्यमेवोपलक्ष्यते ॥ ३५ ॥

दानस्य विषये दण्डो ह्यधनः परिकीर्तितः ।
दण्डस्य विषये दानं तदप्यधममुच्यते ॥ ३६ ॥

साम्नस्तु गोचरे दण्डो ह्यधमादधमः स्मृतः ।
सौजन्यं सततं ज्ञेयं भूभृतो भेददण्डयोः ॥ ३७ ॥

साम्नो दानस्य च तथा सौजन्यं याति गोचरे ।
कामः क्रोधश्च लोभश्च हर्षो मानो मदस्तथा ॥ ३८ ॥

एतानतिशयान् राजा शत्रूनिव विशातयेत् ।
सेव्याः काले संयुक्तौ ते लोभगर्वौ विवर्जयेत् ॥ ३९ ॥

तेज एव नृपाणां तु तीव्रं सूर्यस्य वै यथा ।
तत्र गर्वं रोगयुक्तं कायवांस्तं तु सन्त्यजेत् ॥ ४० ॥

आखेटकाक्षौ स्त्रीसेवा पानं चैवार्थदूषणम् ।
वाग्दण्डयोश्च पारुष्यं सप्तैतानि विवर्जयेत् ॥ ४१ ॥

परस्त्रीषु विरक्तासु सेवामेकान्ततस्त्यजेत् ।
सतीषु निजनारीषु युक्तं कुर्यान्निवेशनम् ॥ ४२ ॥

रतिपुत्रफला दारास्तांस्तु नैकान्ततस्त्यजेत् ।
तयोः सिद्धयै स्त्रियः सेव्या वर्जयित्वातिसक्तताम् ॥ ४३ ॥

मृगयां तु प्रमादानां स्थानं नित्यं विवर्जयेत् ।
अक्षांस्तथा न कुर्वीत सत्कार्यासक्तिनाशनम् ॥ ४४ ॥

अन्यैः कृतं कदाचित् तु सेवेत नात्मनाचरेत् ।
अकार्यकरणे बीजं कृत्यानां च विवर्जने ॥ ४५ ॥

अकालभेन्त्रभेदे च कलहे सत्कृतिक्षये ।
वर्जयेत् सततं पानं शौचमाङ्गल्यनाशनम् ॥ ४६ ॥

अर्थक्षयकरं नित्यं त्यजेच्चैवात्मदूषणम् ।
अभिशस्तेषु चोरेषु घातकेष्वाततायिषु ॥ ४७ ॥

सततं पृथिवीपालो दण्डपारुष्यमाचरेत् ।
नान्यत्र दण्डपारुष्यं कुर्यान्नृपतिसत्तमः ॥ ४८ ॥

वाक्पारुष्यं च सर्वत्र नैव कुर्यात् कदाचन ।
रक्षणीयं सदा सत्यं सत्यमेकं परायणम् ॥ ४९ ॥

क्षमां तेजस्वितां चैव प्रस्तावान्नृप आचरेत् ।
यानासनाश्रयद्वैधसन्धयो विग्रहस्तथा ॥ ५० ॥

अभ्यसेत् षड्गुणानेतांस्तेषां स्थानं च शाश्वतम् ।
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये ॥ ५१ ॥

कोषे जनपदे दण्डे न स राज्येऽवतिष्ठते ।
कोषे जनपदे दण्डे चैकैकत्र त्रयं त्रयम् ॥ ५२ ॥

प्रस्तावाद्विनियुञ्जीत रक्षेन्नैकांस्ततस्त्विमान् ।
मित्रे शत्रावुदासीने प्रभावं त्रिष्वपीरयेत् ॥ ५३ ॥

उत्साहो विजिगीषायां धर्मकृत्येऽष्टवर्गके ।
शरीरयात्रानिर्वाहे क्रियेत सततं नृपैः ॥ ५४ ॥

मन्त्रनिश्चयसम्भूतां बुद्धिं सर्वत्र योजयेत् ।
अमात्ये शात्रवे राज्ये पुत्रेष्वन्तःपुरेषु च ॥ ५५ ॥

कृषिं दुर्गं च वाणिज्यं खड्गानां करसाधनम् ।
आदानं सैन्यकरयोर्बन्धनं गजवाजिनोः ॥ ५६ ॥

शून्ये सद्ममुखानां च योजनं सततं जनैः ।
रयाणां सारसेतूनां बन्धनं चेति चाष्टमम् ॥ ५७ ॥

एतदष्टसु वर्गेषु चारान् सम्यक् प्रयोजयेत् ।
कार्याकार्यविभागाय चाष्टवर्गाधिकारिणाम् ॥ ५८ ॥

अष्टौ चारान्नियुञ्जीयादष्टवर्गेषु पार्थिवः ।
दश शून्येषु युञ्जीत क्रमतः शृणु तानि मे ॥ ५९ ॥

स्वामी सचिव-राष्ट्राणि मित्रं कोशो बलं तथा ।
दुर्गं तु सप्तमं ज्ञेयं राज्याङ्गं गुरुभाषितम् ॥ ६० ॥

उर्गमुक्तं चाष्टवर्गे चारान्नात्मनि योजयेत् ।
तस्मादिमानि शेषाणि पञ्च चारपदानि च ॥ ६१ ॥

शुद्धान्तेषु च पुत्रेषु सऊय्यादौ महानसे ।
शत्रदासीनयोश्चापि बलाबलविनिश्चये ॥ ६२ ॥

अष्टादशसु चैतेषु चारान् राजा प्रयोजयेत् ।
न यत्प्रकाशं जानीयात् तत् तच्चारैर्निरूपयेत् ॥ ६३ ॥

निरूप्य तत्-प्रतीकारमवश्यं छिद्रतश्चरेत् ।
यथानियोगमेतेषां यो यो यत्रन्यथाचरेत् ॥ ६४ ॥

ज्ञात्वा तत्र नृपश्चारैदण्डयेद् वा वियोजयेत् ।
चारांस्तु मन्त्रिणा सार्धं रहस्ये संस्थितो नृपः ॥ ६५ ॥

प्रदोषसमये पृच्छेत् तदानीमेव साधयेत् ।
स्वपुत्रे चाथ शुद्धान्ते ये तु चारा महानसे ॥ ६६ ॥

नियुक्तास्तान्मध्यरात्रे पृच्छेत् स्वोऽपिच मन्त्रिणि ।
एतांश्चारान् स्वयं पश्येन्नृपतिर्मन्त्रिणा विना ॥ ६७ ॥

अन्यांस्तु मन्त्रिणा सार्धं निरूप्य प्रदिशेत् फलम् ।
नैकवेशधरश्चारो नैको नोत्साहवर्जितः ॥ ६८ ॥

संस्तुतो नहि सर्वत्र नातिदीर्घो न वामनः ।
सततं न दिवाचारी न रोगी नाप्यबुद्धिमान् ॥ ६९ ॥

न वित्तविभवैर्हीनो न भार्यापुत्रवर्जितः ।
कार्यश्चारो नृपतिना तत्त्वगुह्यविनिर्णये ॥ ७० ॥

अनेकवेशग्रहणक्षम भार्यासुतैर्युतम् ।
अहुदेशवचोऽभिज्ञं पराभिप्रायवेदकम् ॥ ७१ ॥

दृढभक्तं प्रकुर्वीत चारं शक्तमसाध्वसम् ।
अभितिष्ठेत् स्वयं राजा कृषिमात्मसमैस्तथा ॥ ७२ ॥

वणिक्पथे तु दुर्गादौ तेषु शक्तान्नियोजयेत् ।
अन्तःपुरे पितुस्तुल्यान् धीरान् वृद्धान्नियोजयेत् ॥ ७३ ॥

षण्ढान् पण्डांस्तथा वृद्धां स्त्रियौ वा बुद्धितत्पराः ।
शुद्धान्ते द्वारि युञ्जीयात् स्त्रियो वृद्धा मनीषिणीः ॥ ७४ ॥

नैकः स्वपेत् कदाचित् तु नैको भुञ्जीत पार्थिवः ।
नैकाकिनीं तु महिषीं ब्रजेन्मैत्राय नैककः ॥ ७५ ॥

अमात्यानुपधाशुद्धान् भार्याः पुत्रांस्तथैव च ।
प्रकुर्यात् सततं भूपः सप्रसादं समाचरन् ॥ ७६ ॥

धर्मार्थकाममोक्षैश्च प्रत्येकं परिशोधनैः ।
उपेत्य धीयते यस्मादुपधा सा प्रकीर्तिता ॥ ७७ ॥

अर्थकामोपधाभ्यां तु भार्यापुत्रांश्च शोधयेत् ।
धर्मोपधाभिर्विप्रांस्तु सर्वाम्भिः सचिवान् पुनः ॥ ७८ ॥

एभिर्यज्ञैतस्था दानैरिहैव नृपतिर्भवेत् ।
तस्माद् भवांस्तु राज्यार्थी धर्ममेवं समाचरेत् ॥ ७९ ॥

अनेनैवाभिचारेण यज्ञैर्वां पार्थिवो ह्ययम् ।
प्राणांस्त्यजति राजा त्वं भविष्यसि न संशयः ॥ ८० ॥

इति धर्मो नृपस्यैव अश्वमेधादिकश्च यः ।
स्वयं न कुरुते भूपस्तस्मात् त्वं कुरु सत्तम ॥ ८१ ॥

एवं मन्त्रैर्मन्त्रयित्वा नृपः कार्यान्तिकाद् द्विजात् ।
ऐरज्ञातान् स्वयं ज्ञात्वा गृह्णीयात् तस्य तैर्मनः ॥ ८२ ॥

यदि राज्याभिलाषेण सचिवोऽधर्ममाचरेत् ।
नृपतौ भाधकं कुर्याद् धर्मं तं हीनतां नयेत् ॥ ८३ ॥

आभिचारिकमत्यर्थं कुर्वाणं तु विघातयेत् ।
प्रवासयेद् ब्राह्मणं तु पार्थिवश्चाभिचारिकम् ॥ ८४ ॥

एषा घर्मोपधा ज्ञेया तैरमात्यान् सताञ्जयेत् ।
एतादृशीं तथैवान्यामुपधां धर्मतश्चरेत् ॥ ८५ ॥

कोशाध्यक्षान् समामन्त्र्य राजामात्यान् प्रतारयेत् ।
पुत्रानन्यान् प्रति तथा मन्त्रसंवरणाक्षमान् ॥ ८६ ॥

अयं हि प्रचुरः कोषो मदायत्तो नरोत्तम ।
आनये तव सम्मत्या तद् यदि त्वं प्रतीक्षसि ॥ ८७ ॥

तवार्थलग्नादस्माकं जीवनं च भविष्यति ।
त्वं चापि प्रचुरैः कोषैः किं किं वा न करिष्यसि ॥ ८८ ॥

एवमन्यैः कोषगतैरुपायैर्नृपसत्तमः ।
पुत्रामात्यादिकान् सर्वान् सततं परिशोधयेत् ॥ ८९ ॥

कोषदोषकरान् हन्यात् कर्तुमिच्छन् विवासयेत् ।
द्वैधचित्तान् विमन्येत कुर्याद् वै कोशरक्षणम् ॥ ९० ॥

दासीश्च शिल्पिनीर्वृद्धा मेधाधृतिमतीः स्त्रियः ।
अन्तर्बहिश्च या यान्ति विदिताः सचिवादिभिः ॥ ९१ ॥

ता राजा रहसि स्थित्वा भार्यादिभिरलक्षितः ।
अभिमन्त्र्याथ सम्मन्त्र्य प्रेषयेत् सचिवान् प्रति ॥ ९२ ॥

ता गत्वा हृदयं बुद्धा स्त्रियो विज्ञानतत्पराः ।
महिषीप्रमुखा राज्ञस्त्वां वै कामयते शुभा ॥ ९३ ॥

तत्राहं योजयिष्यामि यदि ते विद्यते स्पृहा ।
सचिवस्त्वां कामयते त्वद्योग्यो वरवर्णिनि ॥ ९४ ॥

तं सङ्गमयितुं शक्ता यदि श्रद्धा तवास्त्यहम् ।
इत्यनेन प्रकारेण नानोपायैस्तथोत्तरैः ॥ ९५ ॥

भार्याः पुत्रदुहित्रीश्च स्नुषाश्च प्रस्नुषास्तथा ।
शोधयेत् सचिवान् पुत्रान् पौत्रादीन् सेवकांस्तथा ॥ ९६ ॥

कामोपधाऽविशुद्धांस्तु हातयेदविचारयन् ।
स्त्रियस्तु योज्या दण्डेन ब्राह्मणांस्तु प्रवासयेत् ॥ ९७ ॥

मोक्षमार्गावसक्तं तु हिंसापैशुन्यवर्जितम् ।
क्षमैकसारं नृपतिः सचिवं परिवर्जयेत् ॥ ९८ ॥

मोक्षमार्गविरक्तांस्तु दण्डयानपि न दण्डयेत् ।
समबुद्धिस्तु सर्वत्र तस्मात् तं परिवर्जयेत् ॥ ९९ ॥

इति सूत्रं चोपधानामुपधा बहुधा पुनः ।
विवेचिता चोशनसा तच्छास्त्रे तत्र बोधयेत् ॥ १०० ॥

विग्रहं सततं राजा परैर्न सम्यगाचरेत् ।
भूवित्तमित्रलाभेषु निश्चितेष्वेव विग्रहाः ॥ १०१ ॥

सप्ताङ्गेषु प्रसादश्च सदा कार्यो नृपोत्तमैः ।
कोषस्य सञ्चयं रक्षां सततं सम्यगाचरेत् ॥ १०२ ॥

मन्त्रिणस्तु नृपः कुर्याद् विप्रान् विद्याविशारदान् ।
विनयाज्ञान् कुलीनांश्च धर्मार्थकुशलानृजून् ॥ १०३ ॥

मन्त्रयेत् तैः समं ज्ञानं नात्यर्थं बहुभिश्चरेत् ।
एकैकेनैव कर्तव्यं मन्त्रस्य च विनिश्चयम् ॥ १०४ ॥

यस्तैः समस्तैश्चान्यस्य व्यपदेशैः समन्ततः ।
सुसंवृतं मन्त्रगृहं स्थलं वारुह्य मन्त्रयेत् ॥ १०५ ॥

अरण्ये निःशलाके वा न आमिन्यां कदाचन ।
शिशूञ्छाखामृगान् पण्डाञ्छुकान् वै सारिकास्तथा ॥ १०६ ॥

वर्जयेन्मन्त्रगेहे तु मनुष्यान् विकृतांस्तथा ।
दूषणं मन्त्रभेदेषं नृपाणां यत् तु जायते ॥ १०७ ॥

न तच्छक्यं समाधातुं दक्षैर्नृपशतैरपि ।
दण्ड्यांस्तु दण्डयेद् दण्डैरदण्यान् दण्डयेन्नहि ॥ १०८ ॥

अदण्डयन् नृपो दण्ड्यान्नदण्ड्यांश्चापि दण्डयन् ।
नृपतिर्वाच्यतां प्राप्य चौरकिल्विषमाप्नुयात् ॥ १०९ ॥

दुर्गे तु समतां कुर्यात् प्राकाराट्टालतोरणैः ।
भूषितान्नगराद्राजा दूरे दुर्गाश्रयं चरेत् ॥ ११० ॥

दुर्गं बलं नृपाणां तु नित्यं दुर्गं प्रशस्यते ।
शतमेको योधयति दुर्गस्थो यो धनुर्द्धरः ॥ १११ ॥

शतं दशसहस्राणि तस्माद् दुर्गं रशस्यते ।
जलदुर्गं भूमिदुर्गं वृक्षदुर्गं तथैव च ॥ ११२ ॥

आरण्यम्मौदुर्गं च शैलजम् अरिखोद्भवम् ।
दुर्गं कार्यं नृपतिना यथा दुर्गंस्वदेशतः ॥ ११३ ॥

दुर्गं कुर्वन् पुरं कुर्यात् त्रिकोणं धनुराकृति ।
वर्तुलं च चतुष्कोणं नान्यथा नगरं चरेत् ॥ ११४ ॥

ऋदङ्गाकृतिदुर्गं तु सततं कुलनाशनम् ।
यथा राक्षसराज्यस्य लङ्का दुर्गान्विता पुरा ॥ ११५ ॥

वलेः पुरं शोणिताख्यं तेजो दुर्गैः प्रतिष्ठितम् ।
तद् यस्माद् व्यजनाकारं मनोभ्रष्टः शिवावलिः ॥ ११६ ॥

सौभाग्यं साल्वराजस्य नगरं पञ्चकोणकम् ।
दिवि यद् वर्तते राज्यं तच्च भ्रष्टं भविष्यति ॥ ११७ ॥

यच्चायोध्याह्वयं भूप पुरमिक्ष्वाकुभूभृताम् ।
धनुराकृति तचापि ततोऽभूद् विजयप्रदम् ॥ ११८ ॥

दुर्गभूभौ यजेद् दुर्गां दिक्पालांश्चैव द्वारतः ।
पूजयित्वा विधानेन जयं भूपः समाप्नुयात् ॥ ११९ ॥

अतो दुर्गं नृपः कुर्यात् सततं जयवृद्धये ।
न ब्राह्मणान् सदा राजा केनाप्यवमनीकृतान् ॥ १२० ॥

अवमन्य नृपो विप्रान् प्रेत्येह दुःखभाग् भवेत् ।
न विरोधस्तु तै कार्यः स्वानि तेषां न चाददेत् ॥ १२१ ॥

कृत्यकालेषु सततं तानेव परिपूजयेत् ।
नैषां निन्दां प्रकुर्वीत नाभ्यसूयां तथाचरेत् ॥ १२२ ॥

एवं नृपो महाबुद्धिस्तत्त्वमण्डलसंयुतः ।
अप्रभादी चारचक्षुर्गुणवान् सुप्रियंवदः ॥ १२३ ॥

प्रेत्येह महतीं सिद्धिं प्राप्नोति सुखभोगवान् ।
यैर्गुणैर्योजितश्चात्मा तैः पुत्रानपि योजयेत् ॥ १२४ ॥

ऋपस्य च स्वतन्त्रत्वं सततं स्वं विनाशयेत् ।
स्वतन्त्रो भूपतनयो विकारं याति निश्चितम् ॥ १२५ ॥

निर्विकाराय सततं वृद्धांश्च परियोजयेत् ।
भोजने शयने याने पुरुषाणां च वीक्षणे ॥ १२६ ॥

वियोजयेत् सदा दारान् भूपः कामविचेष्टने ।
अस्वतन्त्राः स्त्रियः कार्याः सततं पार्थिवेन तु ॥ १२७ ॥

ताः स्वतन्त्राः स्त्रियो नित्यं हानये सम्भवन्ति हि ।
तस्मात् कुमारं महिषीमुपधाभिर्मनोहरैः ॥ १२८ ॥

शोधयित्वा नियुञ्जीत यौवराज्यावरोधयोः ।
अन्तःपुरप्रवेशे तु स्वतन्त्रत्वं निषेधयेत् ॥ १२९ ॥

भूपपुत्रस्य भार्याया बहिःसारे तथैव च ।
अयं विशेषः सङ्क्षेपान्नृपधर्मो मयोदितः ॥ १३० ॥

पुत्राणां गुणविन्यासे भार्याणामपि भूपते ।
उशना राजनीतीनां तन्त्राणि तु बृहस्पतिः ॥ १३१ ॥

चकारान्यान् विशेषांस्तु तयोस्तन्त्रेषु बोधयेत् ।
एवं राजा महाभागे राजनीतौ विशेषताम् ।
कुर्वन्न सीदति सदा भूयसीं श्रियमश्नुते ॥ १३२ ॥

इति श्रीकालिकापुराणे नृपधर्मकथने अतुरशीतितमोऽध्यायः ॥ ८४ ॥