८३

विश्वास-प्रस्तुतिः

त्र्यशीतितमोऽध्यायः ।

और्व उवाच

अथ काले व्यतीते तु जमदग्निर्महातपाः ।
विदर्भराजस्य सुतां प्रयत्नेन जितां स्वयम् ॥ १ ॥

मूलम्

भार्यार्थं प्रतिजग्राह रेणुकां लक्षणान्विताम् ।
सा तस्मात् सुषुवे षत्रांश्चतुरो वेदसम्मितान् ॥ २ ॥

रुषण्वन्तं सुषेणं च वसुं विश्वावसुं तथा ।
पश्चात् तस्यां स्वयं जज्ञे भगवान् मधुसूदनः ॥ ३ ॥

कार्तवीर्यवधायाशु शक्राद्यैः सकलैः सुरैः ।
याचितः पञ्चमः सोऽभूत् तेषां रामाह्वयस्तु सः ॥ ४ ॥

भारावतरणार्थाय जातः परशुना सह ।
सहजं परशुं तस्य न जहाति कदाचन ॥ ५ ॥

मूलम्

भारावतरणार्थाय जातः परशुना सह ।
सहजं परशुं तस्य न जहाति कदाचन ॥ ५ ॥

विश्वास-प्रस्तुतिः

अयं निजपितामह्याश्चरुभुक्तिविपर्ययात् ।
ब्राह्मणः क्षत्रियाचारो रामोऽभूत क्रूरकर्मकृत् ॥ ६ ॥

स वेदानखिलान् ज्ञात्वा धनुर्वेदं च सर्वशः ।
सततं कृतकृत्योऽभूद् वेदविद्याविशारदः ॥ ७ ॥

एकदा तस्य जननी स्नानार्थं रेणुका गता ।
गङ्गातोये ह्यथापश्यन्नाम्ना चित्ररथं नृपम् ॥ ८ ॥

भार्याभिः सदृशीभिश्च तलक्रीडारतं शुभम् ।
सुमालिनं सुवस्त्रं तं तरुणम् अन्द्रमालिनम् ॥ ९ ॥

तथाविधं नृपं दृष्ट्वा सञ्जातमदना भृशम् ।
रेणुका स्पृहयामास तस्मै राज्ञे सुवर्चसे ॥ १० ॥

स्पृहायुतायास्तस्यास्तु सङ्क्लेदः समजायत ।
विचेतनाम्भसा क्लिन्ना त्रस्ता सा स्वाश्रमं ययौ ॥ ११ ॥

अबोधि जमदग्निस्तां रेणुकां विकृतां तथा ।
धिग् धिक्काररतेत्येवं निनिन्द च समन्ततः ॥ १२ ॥

ततः स तनयान् प्राह चतुरः प्रथमं मुनिः ।
उषण्वत्प्रमुखान् सर्वानेकैकं क्रमतो द्रुतम् ॥ १३ ॥

छिन्धीमां पापनिरतां रेणुकां व्यभिचारिणीम् ।
ते तद्वचो नैव चक्रुर्मूकाश्चासन् जडा इव ॥ १४ ॥

कुपितो जमदग्निस्ताञ्छशापेति विचेतसः ।
(

विश्वास-प्रस्तुतिः

गाधिं नृपतिशार्दूलं स चोवाच नृपो मुनिम्) ॥ १५ ॥

भवध्वम् ऊयमाचिराज्जडा गोबुद्धिगर्धिताः ।
अथाजगाम चरमो जामदग्न्येऽतिवीर्यवान् ॥ १६ ॥

तं च रामं पिता प्राह पापिष्ठां छिन्धि मातरम् ।
स भ्रातृंश्च तथाभूतान् दृष्ट्वा ज्ञानविवर्जितान् ॥ १७ ॥

पित्रा शप्तान् महातेजाः प्रसूं परशुनाच्छिनत् ।
रामेण रेणुकां छिन्नां दृष्ट्वा विक्रोधनोऽभवत् ॥ १८ ॥

जमदग्निः प्रसन्नः सन्निति वाचमुवाच ह ।
प्रीतोऽस्मि पुत्र भद्र ते यत् त्वया मद्वचः कृतम् ॥ १९ ॥

तस्मादिष्टान् वरान् कामांस्त्वं वै वरय साम्प्रतम् ।
स तु रामो वरान् वव्रे मातुरुत्थानमादितः ॥ २० ॥

वधस्यास्मरणं तस्या भ्रातृणां शापमोचनम् ।
मातृहत्याव्यपनयं युद्धे सर्वत्र वै जयम् ॥ २१ ॥

आयुः कल्पान्तपर्यन्तं क्रमाद् वै नृपसत्तम ।
सर्वान् वरान् स प्रददौ जमदग्निर्महातपाः ॥ २२ ॥

सुप्तोत्यितेब जननी रेणुका च तदाभवत् ।
वधं न चापि सस्मार सहजा प्रकृतिस्थिता ॥ २३ ॥

युद्धे जयं चिरायुष्यं लेभे रामस्तदैव हि ।
मातृहत्याव्यपोहाय पिता तं वाक्यमव्रवीत् ॥ २४ ॥

न पुत्र वरदानेन मातृहत्यापगच्छति ।
तस्मात् त्वं ब्रह्मकुण्डाय गच्छ स्नातुं च तज्जले ॥ २५ ॥

तत्र स्नात्वा मुक्तपापो नचिरात् पुनरेष्यसि ।
जगद्धिताय पुत्र त्वं ब्रह्मकुण्डं व्रज द्रुतम् ॥ २६ ॥

स तस्य वचन श्रुत्वा रामः परशुधृक् तदा ।
उपदेशात् पितुर्घातो ब्रह्मकुण्डं वृषोदकम् ॥ २७ ॥

तत्र स्नानं च विधिवत् कृत्वा धौतपरश्वधः ।
शरीरान्निःसृतां मातृहत्यां सम्यग् व्यलोकयत् ॥ २८ ॥

जातसम्प्रत्ययः सोऽथ तीर्थमासाद्य तद्वरम् ।
वीथीं परशुना कृत्वा ब्रह्मपुत्रमवाहयत् ॥ २९ ॥

ब्रह्मकुण्डात् सृतः सोऽथ कासारे लोहिताह्वये ।
कैलासोपत्यकायां तु न्यपतद् ब्रह्मणः सुतः ॥ ३० ॥

तस्यापि सरसस्तीरे समुत्थाय महाबलः ।
कुठारेण दिशं पूर्वामनयद् ब्रह्मणः सुतम् ॥ ३१ ॥

ततः परत्रापि गिरिं हेमशृङ्गं विभिद्य च ।
कामरूपान्तरं पीठमावहद्यदमुं हरिः ॥ ३२ ॥

तस्य नाम स्वयं चक्रे विधिर्लोहितगङ्गकम् ।
लोहितात् सरसो जातो लोहिताख्यस्ततोऽभवत् ॥ ३३ ॥

स कामरूपमखिलं पीठमाप्लाव्य वारिणा ।
गोपयन् सर्वतीर्थानि दक्षिणं याति सागरम् ॥ ३४ ॥

प्रागेव दिव्ययमुनां स त्यक्त्वा ब्रह्मणः सुतः ।
पुनः पतति लौहित्ये गत्वा द्वादशयोजनम् ॥ ३५ ॥

चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः ।
चैत्रं तु सकलं मासं शुचिः प्रयतमानसः ॥ ३६ ॥

स्नाति लौहित्यतोये तु स याति ब्रह्मणः पदम् ।
लौहित्यतोये यः स्नाति स कैवल्यमवाप्नुयात् ॥ ३७ ॥

इति ते कथितं राजन् यदर्थं मातरं पुरा ।
अहन् वीरो जामदग्न्यो यस्माद् वा क्रूरकर्मकृत् ॥ ३८ ॥

इदं तु महदाख्यानं यः शृणोति दिने दिने ।
स दीर्घायुः प्रमुदितो बलवानभिजायते ॥ ३९ ॥

इति ते कथितं राजञ्छरीरार्धं यथाद्रिजा ।
शम्भोर्जहार वेतालभैरवौ च यथाह्वयौ ॥ ४० ॥

यस्य वा तनयौ जातौ यथा यातौ गणेशताम् ।
किमन्यत् कथये तुभ्यं तद्वदस्व नृपोत्तम ॥ ४१ ॥

मार्कण्डेय उवाच

इत्यौर्वस्य च संवादः सगरेण महात्मना ।
योऽसौ कायार्धहरणं शम्भोर्गिरिजया कृतः ॥ ४२ ॥

सर्वोऽद्य कथितो विप्राः पृष्टं यच्चान्यदुत्तमम् ।
सिद्धस्य भैरवाख्यस्य पीठानां च विनिर्णयम् ॥ ४३ ॥

भृङ्गिणश्च यथोत्पत्तिर्महाकालस्य चैव हि ।
उक्तं हि वः किमन्यत् तु पृच्छन्तु द्विजसत्तमाः ॥ ४४ ॥

इति सकलसुतन्त्रं तन्त्रमन्त्रावदातं
बहुतरफलकारि प्राज्ञविश्रामकल्पम् ।
उपनिषदमवेत्य ज्ञानमार्गैकतानं
स्रवति स इह नित्यं यः पठेत् तन्त्रमेतत् ॥ ४५ ॥

इति श्रीकालिकापुराणे त्र्यशीतितमोऽध्यायः ॥ ८३ ॥