८२

विश्वास-प्रस्तुतिः

द्व्यशीतितमोऽध्यायः

मार्कण्डेय उवाच

और्वस्य वचनं श्रुत्वा सगरस्तं मुनिं पुनः ।
पप्रच्छेदं द्विजश्रेष्ठां हर्षसम्प्लुतमानसः ॥ १ ॥

मूलम्

सगर उवाच

अमोघायां कथं यज्ञे लौहित्यो ब्रह्मणः सुतः ।
कथं शान्तनुजायायां रतः स कमलासनः ॥ २ ॥

पारस्त्रैणेयपुत्रो वा कथं जज्ञे पितामहात् ।
तत् सर्वं श्रोतुमिच्छामि कथयस्व द्विजोत्तम ॥ ३ ॥

और्व उवाच
शृणु त्वं राजशार्दूल कथयामि महत्तरम् ।
आख्यानं ब्रह्मपुत्रस्य लौहित्यत्य महात्मनः ॥ ४ ॥

हरिवर्षे महावर्षे शान्तनुर्नाम नामतः ।
मुनिरासीन्महाभागो ज्ञानवान् स तपोरतः ॥ ५ ॥

तस्य भार्या महाभागा अमोघाख्या महासती ।
हिरण्यगर्भस्य मुनेस्तृणबिन्द्वाश्रमोद्भवा ॥ ६ ॥

तया सार्धं स कैलासं मर्यादापर्वते वसन् ।
लोहिताख्यस्य सरसस्तीरे वै गन्धमादने ॥ ७ ॥

एकदा स तपोनिष्ठो निजपुष्पादिगोचरम् ।
जगाम वनन्ध्यं तु चिन्वन् बहुफलानि च ॥ ८ ॥

तस्मिन्नवसरे ब्रह्मा सर्वलोकपितामहः ।
तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया ॥ ९ ॥

तां दृष्ट्वा देवगर्भायां युवतीमतिसुन्दरीम् ।
मोहितो मदनेनाशु तदाऽभूद् दूषितेन्द्रियः ॥ १० ॥

उदीरितेन्द्रियो भूत्वा जिघृक्षुस्ताँ महासतीम् ।
अथाधावत् ततो ब्रह्मा सम्मुखो मदनार्दितः ॥ ११ ॥

धावमानं विधातारं दृष्ट्वाऽमोघा महासती ।
नैवं नैवमिति प्रोक्त्वा पर्णशालां व्यलीयत ॥ १२ ॥

इदं चोवाच धातारममोघा कुपिता तदा ।
पर्णशालान्तरं गत्वा द्वारमावृत्य तत्क्षणात् ॥ १३ ॥

अकार्यं न मया कार्यं मुनिपत्न्या विगर्हितम् ।
बलात् प्रमथ्या चहां चेत् त्वया त्वां च शपाम्यहम् ॥ १४ ॥

अमोघया चैवमुक्ते विधातुश्च तदा नृप ।
रेतश्चस्कन्द तत्रैव आश्रमे शान्तनोर्मुनेः ॥ १५ ॥

च्युते रतसि धातापि हंसयानं समुत्थितः ।
लज्जयाऽतिपरीतात्मा द्रुतं वै स्वाश्रमं ययौ ॥ १६ ॥

गते वेधसि शान्तनुश्च निजमाश्रममागतः ।
आगत्य दृष्ट्वा हंसानां पदक्षोभं तदा भुवि ॥ १७ ॥

तेजश्च पतितं भूमौ विधातुर्ज्वलनोपमम् ।
अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् ॥ १८ ॥

किमेतदत्र सुभगे प्रवृत्तं दृश्यते तु यत् ।
पक्षिणां च पदक्षोभं तेजश्चेदं च कीदृशम् ॥ १९ ॥

सा तस्य वचनं श्रुत्वा शान्तनुं मुनिसत्तमम् ।
अमर्षितैव न्यगददाकुला विकलाननाम् ॥ २० ॥

हंसयुक्तस्यन्दनेन कोऽप्यागत्य चतुर्मुखः ।
कमण्डलु करोऽतीव रतिं मां समयाचतम् ॥ २१ ॥

अतो मया तर्जितः स उटजान्तरलीनया ।
प्रच्याव्य तेजः संयातो मम शापभयार्दितः ॥ २२ ॥

कुरु तत्र प्रतीकारं यदि शक्नोषि शान्तनो ।
न हीमां धर्षणां सोढुं कश्चिच्छक्नोति जीवभृत् ॥ २३ ॥

स तस्या वचनं श्रुत्वा स्वयं ब्रह्मा समागतः ।
इति निश्चित्य अनसा अदा ध्यानपरोऽभवत् ॥ २४ ॥

दिव्यज्ञानेन स ज्ञात्वा देवकार्यमुपस्थितम् ।
तीर्थावतरणं चापि हिताय जगतां मुनिः ॥ २५ ॥

ज्ञात्वोदर्कं चिन्तयित्वा स्वभार्यामिदमब्रवीत् ।
इदं तेजो ब्रह्मणस्त्वं पिबामोघं ममाज्ञया ॥ २६ ॥

हिताय सर्वजगतां देवकार्यार्थसिद्धये ।
भवत्या निकटं ब्रह्मा स्वयमेव समागतः ॥ २७ ॥

त्वामप्राप्य महत् कृत्यमावयोः स समर्प्य च ।
गतो निजास्पदं तत् त्वं कर्तुमर्हसि तद् वचः ॥ २८ ॥

तच्छ्रुत्वा शान्तनोर्वाक्यममोघातीव लज्जिता ।
सान्त्वयन्तीव तं प्राह पतिं नत्वा महासती ॥ २९ ॥

नान्यस्य तेजो धास्यामि न च ते विमनस्कता ।
अवश्यं यदि कर्तव्यं पीत्वा त्वं मयि चोत्सृज ॥ ३० ॥

ततस्तस्या वचः श्रुत्वा युक्तं तथ्यं च शान्तनुः ।
स्वयं पीत्वा तु तत् तेजः वभार्यायां न्यसे।चयत् ॥ ३१ ॥

सङ्क्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती ।
गर्भं दधारामोघाख्या हिताय जगतां ततः ॥ ३२ ॥

तस्याः काले तु सम्प्राप्ते नासातो जलसञ्चयः ।
तन्मध्ये तनयश्चापि नीलवासाः कीरीटधृक् ॥ ३३ ॥

रत्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत् ।
चतुर्भुजः पद्मविद्याध्वजशक्तिधरस्तथा ॥ ३४ ॥

शिशुमारशिरस्थश्च तुल्यकायो जलोत्करैः ।
तज्जातं च तथाभूतं शान्तनुर्लोकशान्तनुः ॥ ३५ ॥

चतुर्णां पर्वतानां च मध्यदेशे न्यवीविशत् ।
कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः ॥ ३६ ॥

रारुधिः पश्चिमे शैलः पूर्वे संवर्तकाद्वयः ।
तेषां मध्ये स्वयं कुण्डं पर्वतानां विधेः सुतः ॥ ३७ ॥

कृत्वाऽतिववृधे नित्य शरदीव निशाकरः ।
तं तोयमध्यगं पुत्रमासाद्य द्रुहिणः सुतम् ॥ ३८ ॥

क्रमतस्तस्य संस्कारानकरोद् देहशुद्धये ।
अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः ॥ ३९ ॥

तोयराशिस्वरूपेण ववृधे पञ्चयोजनान् ।
तस्मिन् देवाः पपुः सस्नुर्द्वितीय इव सागरे ॥ ४० ॥

सितामलजले हृद्ये दिव्यैश्चाप्सरसां गणैः ।
तस्मिन्नवसरे रामो जामदग्न्यः प्रतापवान् ॥ ४१ ॥

चक्रे मातृवधं घोरमयुक्तं पितुराज्ञया ।
तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः ॥ ४२ ॥

स जगाम महाकुण्डं ब्रह्माख्य स्नातुमिच्छया ।
तत्र स्नात्वा च पीत्वा च मातृहत्यामपानयन् ।
वीथीं परशुना कृत्वा तं मह्यामवतारयवत् ॥ ४३ ॥

जमदग्नेः सुतो रामः किमर्थं निजमातरम् ।
जघान तस्य माता च किन्नाम्नो कस्य चात्मजा ॥ ४४ ॥

मुनेः पुत्रः कथं जातस्तथा क्रूरो महाबलः ।
यो युद्धकुशलो वीरो राजन्यान् समपोथयत् ॥ ४५ ॥

तदहं श्रोतुमिच्छामि तत्त्वतो मुनिसत्तम ।
कथयस्व महाभाग यदि गुह्यं तथापि मे ॥ ४६ ॥

शृणु राजन्नवहितो जमदग्नेः सुतस्य वै ।
चरितं स यथा जघ्ने प्रसूं क्रूरतरश्च सः ॥ ४७ ॥

ब्रह्मपुत्रो भृगुर्नाम ऋचीकस्तत्सुतोऽभवत् ।
स भार्यार्थी चरन् भूमौ कान्यकुब्जं गतः पुरा ॥ ४८ ॥

ददर्श चारण्यगतं जह्नोर्वंशसमुद्भवम् ।
कुशिकस्य सुतं गाधिं तपःस्थं नृपसत्तम ॥ ४९ ॥

अरण्यस्थस्य तस्याथ पुत्रकामस्य भूभृतः ।
सभार्यस्य सुता जज्ञे देवकन्यासमा गुणैः ॥ ५० ॥

ऋचीको भृगुपुत्रस्तां भार्यार्थं समयाचत ।
दातूं योग्या सुता मेऽद्य तद्विधाय महामुने ॥ ५१ ॥

किं त्वेकः कुलधर्मो मे विद्यते शुल्कसङ्ग्रहे ।
एकत्र ऋष्णवर्णानामश्वानां चन्द्रवर्चसाम् ।
सहस्रमेकं यो दद्यात् तस्मै पुत्री प्रदीयते ॥ ५२ ॥

ऋचीक उवाच

दास्याम्यश्वसहस्रं वै तव राजंस्तथाविधम् ।
किञ्चित् कालं प्रतीक्षस्व यावत् तदहमानये ॥ ५३ ॥

एवमस्त्विति त गाधिरुवाच भृगुसूनवे ।
गङ्गातीरं कान्यकुब्जं सोऽगच्छद्धयसाधने ॥ ५४ ॥

तत्राराध्य भृगोः पुत्रो वरुणं यादसां पतिम् ।
तेन दत्तं तदा लेभे सहस्रं वाजिनां मुनिः ॥ ५५ ॥

तेन यत्र तदा लब्धा अश्वान् नृपतिसत्तम ।
तदश्वतीर्थं विख्यातं महाफलकरं परम् ॥ ५६ ॥

गङ्गाजलादुत्थितं तु दत्तं सम्यक् प्रचेतसा ।
आदायाश्वसहस्रं तु मुनिर्गाधिमथाम्ययात् ॥ ५७ ॥

तानश्वान् गाधिरादाय पुत्रीं सत्यवतीं सुताम् ।
ऋचीकाय ददौ लक्ष्मीं केशवायेव सागरः ॥ ५८ ॥

ऋचीको गाधितनयां लब्ध्वा भार्यामनिन्दिताम् ।
मुदितः स तया रेमे यथाकामं स्वकाश्रमे ॥ ५९ ॥

कृतदारं सुतं श्रुत्वा द्रष्टुं पुत्रं स्नुषां भृगुः ।
अथाजगाम मतिमान् स्नुषां दृष्ट्वा ननन्द च ॥ ६० ॥

दम्पती तं समासीनं भृगुं देवगणार्चितम् ।
पूजयित्वा यथान्यायं तस्थतुस्तौ कृताञ्जली ॥ ६१ ॥

ततो भृगुः स्नुषां स्वीयां सुप्रीत इदमब्रवीत् ।
वरं वृणीष्व दास्यामि वाञ्छितं वरवर्णिनि ॥ ६२ ॥

अदेयं दुष्करं वापि यत्र ते विद्यते स्पृहा ।
ततः सत्यवतीं पुत्रं तप आम्नाय-पारगम् ॥ ६३ ॥

मातुश्च वीरमतुलं पुत्रं वरमयाचत ।
स चैवमस्त्वित्युक्त्वैव भूत्वा ध्यानपरस्तदा ॥ ६४ ॥

विश्वमाधृत्य मनसा यत्नाच्छ्वासं ससर्ज सः ।
तस्य निःश्वासवातात् तु निःसृतं वै चरुद्वयम् ॥ ६५ ॥

तस्यै तद्द्वितयं दत्त्वा भृगुस्तामिदमब्रवीत् ।
चरुद्वयं गृहाणेदं स्नुषे सत्यवति स्वयम् ॥ ६६ ॥

स्नात्वा ऋतौ ऋतौ माता स्नुषे त्वं च करिष्यथः ।
आलिङ्ग्याश्वत्थवृक्षं ते माता पुंसवनाय वै ॥ ६७ ॥

चरुमारक्तकं चेमं सा भोक्ष्यति सुतस्ततः ।
त्वं चोदुम्बरवृक्षं तु समालिङ्ग्यासितं चरुम् ॥ ६८ ॥

भोक्ष्यसे तव पुत्रस्तु भविष्यति सनातनः ।
एवमुक्त्वा भृगुर्यातो यथेच्छं सापि सम्मुदम् ॥ ६९ ॥

अवाप मात्रा सहिता भर्त्रा पित्रा च भामिनी ।
अथ स्नानदिनेऽश्वत्थमालिङ्ग्यारक्तकं चरुम् ॥ ७० ॥

आदात् सत्यवती तस्या माता फल्गुं सितं चरुम् ।
परिवर्तं तु तज् ज्ञात्वा दिव्यज्ञानो भृगुर्मुनिः ॥ ७१ ॥

अथागत्य स्नुषां तां तु वचनं चेदमब्रवीत् ।
विपर्ययस्त्वया भद्रे वृक्षालिङ्गनकर्मणि ॥ ७२ ॥

तथा अरुप्राशने तु अत्रेदं ते भविष्यति ।
ब्राह्मणः क्षत्रियाचारस्तव पुत्रो भविष्यति ॥ ७३ ॥

क्षत्रियो ब्राह्मणाचारो मातुस्ते भविता सुतः ।
इत्युक्त्वा भृगुणा साध्वी तदा सत्यवती भृगुम् ॥ ७४ ॥

पुनः प्रसादयामास पौत्रो मेऽस्त्विति तादृशः ।
एवमस्त्विति स प्रोच्य तत्रैवान्तर्दधे भृगुः ॥ ७५ ॥

अथ काले सुतं दीप्तं जमदग्निं च गाधिजा ।
सुषुवे जननी तस्या विश्वामित्रं तपोनिधिम् ॥ ७६ ॥

जमदग्निस्ततो वेदांश्चतुरः प्राप मा चिरम् ।
प्रादुरासीद् धनुर्वेदः स्वयं तस्मिन् महात्मनि ॥ ७७ ॥

विश्वामित्रोऽपि सकलान् वेदानाप् तथाऽचिरात् ।
धनुर्वेदं तथा कृत्स्नं विप्रश्चाभूत् तपोबलात् ॥ ७८ ॥

जाज्वल्यमानस्तेजस्वी जमदग्न्र्महातपाः ।
वेदैस्तपोभिः स मुनिनत्यक्रामच्च सूर्यवत् ॥ ७९ ॥

इति श्रीकालिकापुराणे व्यशीतितमोऽध्यायः ॥ ८२ ॥