८१

विश्वास-प्रस्तुतिः

एकाशीतितमोऽध्यायः

और्व उवाच -

कामरूपे महापीठे स्नात्वा पीत्वा च देवताः ।
पूजयित्वा च इपुला लोकाः स्वर्गं पुरा ययुः ॥ १ ॥

मूलम्

केचिद् भेजुश्च निर्वाणं केचिद् यान्ति स्म शम्भुताम् ।
न यमस्तान् वारयितुं नेतुं च निजमन्दिरम् ॥ २ ॥

क्षमोऽभून्नरशार्दूल शिवाया जातसाध्वसः ।
यमदूतं तत्र यान्तं बाधन्ते शङ्करा गणाः ॥ ३ ॥

न तद्भिया तत्र यान्ति यमदूताः प्रचोदिताः ।
तथा दृष्ट्वाथ शमनः स्वक्रियापरिवर्जितः ॥ ४ ॥

विधातारं समासाद्य वचनं चेदमब्रवीत् ।
इधातः कामरूपेऽस्मिन् स्नात्वा पीत्वा च मानवः ॥ ५ ॥

कामाख्यागणतां याति तथा शम्भुगणेशताम् ।
तत्र मे नाधिकारोऽस्ति न तान् वारयितुं क्षमः ॥ ६ ॥

विधत्स्वात्रोचितां नीतिं युज्यते यदि गोचरे ।
तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥ ७ ॥

जगाम विष्णुभवनं सहैव समवर्तिना ।
तमासाद्य तथा प्राह इष्णुंवै यमभाषितम् ॥ ८ ॥

यथावत् सर्वलोकेशः स च तद्वाक्यमग्रहीत् ।
सह ब्रह्मयमाभ्यां तु इष्णुः शम्भुम् अयौ ततः ।
सत्कृतस्ततेन पृष्टश्च प्राहेदं यमभाषितम् ॥ ९ ॥

श्रीभगवानुवाच -

सर्वदेवैः सर्वतीर्थैः सर्वक्षेत्रैस्तथैव च ।
एतद् व्याप्तं कामरूपं नातोऽन्यद् विद्यते परम् ॥ १० ॥

इदं पीठं समासाद्य देवत्वं यान्ति मानवाः ।
अमृतत्वं गणत्वं च तत्र शक्तो यमो नहि ॥ ११ ॥

अथा कुरु महादेव यथा तत्र क्षमो यमः ।
यमो निरस्तो यत्रास्ति मर्यादा न रदृश्यते ॥ १२ ॥

एतद् विष्णुवचः श्रुत्वाः विधिना सहितस्य तु ।
अङ्गीचकार हृदये तद्वचः साध्यसाधने ॥ १३ ॥

विसृज्य तान् ब्रह्मविष्णुयमान् वृषभवाहनः ।
आदाय स्वगणान् सर्वान् कामरूपान्तरं यमौ ॥ १४ ॥

उग्रतारां ततो देवीं गणं च प्राह शङ्करः ।
उत्सारयन्तु सकलान्निमाल्ँलोकान् गणा द्रुतम् ॥ १५ ॥

उग्रतारे महादेवि त्वं चाप्युत्सारय द्रुतम् ।
ततो गणाः कामरूपाद् देवी चाप्यपराजिता ॥ १६ ॥

लोकानुत्सारयामासुः पीठं कर्तुं हरस्यकम् ।
उत्सार्यमाणे लोके तु चतुर्वर्णद्विजातिषु ॥ १७ ॥

सन्ध्याचलगतो विप्रो वसिष्ठः कुपितो मुनिः ।
सोऽप्युग्रतारया देव्या उत्सारयितुमीशया ॥ १८ ॥

गणैः सह धृतः प्राह शापं कुर्वन् सुदारुणम् ।
यस्मादहं धृतो वामे त्वयोत्सारयितुं मुनिः ॥ १९ ॥

तस्मात् त्वं वाम्यभावेन पूज्या भव समन्त्रिका ।
ह्रमन्ति म्लेच्छवद् यस्माद् गणानां मन्दबुद्धयः ॥ २० ॥

भवन्तु म्लेच्छास्तस्माद् वै भवन्तः कामरूपके ।
महादेवोऽपि यस्मान्मां निःसारयितुमुद्यतः ॥ २१ ॥

तपोधनं मुनिं दान्तं म्लेच्छवद् वेदपारगम् ।
तस्माद् म्लेच्छप्रियो भूयाच्छङ्करश्चास्थिभस्मधृक् ॥ २२ ॥

एतत् तु कामरूपाख्यं म्लेच्छैर्गुप्तं मदत्वरम् ।
स्वयं विष्णुर्न चायाति यावत् स्थानमिदं पुनः ॥ २३ ॥

विरलाश्चागमाः सन्तु य एतत्प्रतिपादकाः ।
विरलं यस्तु जानाति कामरूपागमं बुधः ॥ २४ ॥

स एव प्राप्ते कालेऽपि सम्पूर्णं फलभाप्स्यति ।
एवमुक्त्वा वसिष्ठस्तु तत्रैवान्तरधीयत ॥ २५ ॥

ते गणा म्लेच्छतां याताः कामरूपे सुरालये ।
वामाऽभूद्रुग्रतारापि शम्भुर्म्लेच्छरतोऽभवत् ॥ २६ ॥

आगमा विरलाश्चासन् ये च मत्प्रतिपादकाः ।
वेदमन्त्रविहीनं तु चतुर्वर्णविवर्जितम् ॥ २७ ॥

कामरूपं क्षणाज्जातं यद् यमेनानुसाश्तिम् ।
आगतेऽपि हरौ मुक्ते शापात् पीठे फलप्रदे ॥ २८ ॥

यथा न सम्यक् स्थास्यन्ति तत्पीठे देवमानुषाः ।
गुप्तये सर्वकुण्डानां ब्रह्मोपायं तथाऽकरोत् ॥ २९ ॥

अपुनर्भवकुण्डस्य सोमकुण्डस्य चोभयोः ।
ब्रह्मोर्वशीकुण्डयोस्तु नदीनामपि भूरिशः ॥ ३० ॥

नदीनां पूर्वमुक्तानामनुक्तानां च गुप्तये ।
सर्वस्यैकफलज्ञाने ब्रह्मोपायं तथाऽकरोत् ॥ ३१ ॥

अमोघायां शान्तनोस्तु भार्यायां तनयं स्वकम् ।
जलरूपं समुत्पाद्य जामदग्न्येन धीमता ॥ ३२ ॥

अवतारयदव्यग्रं प्लावयन् कामरूपकम् ।
स तु ब्रह्मसुतो धीरः प्लावयन् कुण्डसञ्चयान् ॥ ३३ ॥

आच्छाद्य सर्वतीर्थानि भुवि गुप्तानि चाकरोत् ।
लौहित्यमात्रं ये केचिज्जानन्ति तत्र वै नराः ॥ ३४ ॥

ते लौहित्यस्नानफलं प्राप्नुवन्ति सुनिश्चितम् ।
न जानन्ति च कुण्डानि नापि तीर्थानि चान्यतः ॥ ३५ ॥

वसिष्ठशापादेतत् तु प्रवृत्तं तीर्थगोपनम् ।
यः कश्चित् तत्र जानाति तीर्थानां च विशेषताम् ॥ ३६ ॥

समवाप्नोति तत् स्नानफलं सम्यग् नरोत्तम ।
सर्वा नदीः समाप्लाव्य सर्वतीर्थानि सर्वतः ।
लौहित्यो ब्रह्मणः पुत्रो याति दक्षिणसागरम् ॥ ३७ ॥

एवं ते कथितं राजन् कामरूपस्य कीर्तनम् ।
यदन्यद्रोचते तुभ्यं तत् पृच्छ निगदामि ते ॥ ३८ ॥

इति श्रीकालिकापुराणे एकाशीतितमोऽध्यायः ॥ ८१ ॥