८०

विश्वास-प्रस्तुतिः

अशीतितमोऽध्यायः

और्व उवाच

शाश्वती कथिता या तु नदी मत्स्यध्वजासिता ।
तस्याः पूर्वे समाख्याता नदी दीपवती मता ॥ १ ॥

मूलम्

एषा च हिमवज्जाता छिन्दन्ती दीपवत्तमः ।
तेन देवमनुष्येषु नदी दीपवती स्मृताः ॥ २ ॥

दीपवत्याः पूर्वतस्तु शृङ्गाटो नाम पर्वतः ।
तत्र देवस्य भर्गस्य लिङ्गमेकं प्रतिष्ठितम् ॥ ३ ॥

सरित् तु सिद्धा त्रिःस्रोता दक्षिणोदधिगामिनी ।
शृङ्गाटकस्य सततं स्रवन्ती सा तु पादतः ॥ ४ ॥

दक्षिणं सागरं याति भर्गस्य प्रियकारिणी ।
सलिले यो नरः स्नात्वा त्रिःस्रोताया नरोत्तमः ॥ ५ ॥

शृङ्गाटकं समारुह्य पूजयेल्लिङ्गशङ्करम् ।
स दीप्तकायः शुद्धात्मा प्राप्य कामानिहातुलान् ॥ ६ ॥

अन्ते भर्गगृहं याति ततो मोक्षमवाप्नुयात् ।
हरस्तु द्विभुजस्तस्मिन् सदा वृषभवाहनः ॥ ७ ॥

उमया रमते सार्धं वामदेवस्य मन्त्रकैः ।
तन्त्रैश्च पूजयेद् देवमुमामन्त्रेण चण्डिकाम् ॥ ८ ॥

तत्-पूर्वतो निम्नगा तु नाम्ना तु वृद्धवेदिका ।
तस्यां स्नात्वा फलं मर्त्यो देदिकास्नानजं लभेत् ॥ ९ ॥

ततो भट्टारिका नाम हिमशैलसमुद्भवा ।
महानदी देवगणैर्या सदोपास्यते सुखम् ॥ १० ॥

तस्यां यः कुरुते स्नानं युगादिषु चतुर्ष्वपि ।
स याति परमं स्थानं तद्विष्णोः परमं पदम् ॥ ११ ॥

अस्ति नाटकशैले तु सरो मानससन्निभम् ।
यत्र सार्धं शैलपुत्र्या जलक्रीडां सदा हरः ॥ १२ ॥

कुरुते नरशार्दूल स्वर्णपङ्कजशोभिते ।
तस्य पश्चान्मध्यपूर्वभागेभ्यस्तु सरित्-त्रयम् ॥ १३ ॥

अवतीर्णं प्रयात्येव दक्षिणं सागरं प्रति ।
तस्य पश्चिमभागे तु नदी दिक्करिकाह्रया ॥ १४ ॥

दिग्गजक्षतसञ्जाता तेन दिक्करिकाह्वया ।
मध्यभागात् सृता या तु शङ्करेणावतारिता ॥ १५ ॥

वृद्धगङ्गाह्वया सा तु गङ्गेव फलदायिनी ।
या निःसृता पूर्वभागात् तस्माद् गिरिवरान्नदी ॥ १६ ॥

सुवर्णश्रीरिति विख्याता सा गङ्गासदृशीफले ।
कुर्वत्याः सरसि स्नानं पार्वत्याश्च शरीरतः ॥ १७ ॥

निःसृताः स्वर्णकणिकास्ता वहन्ति अलैरिमाः ।
क्रीडार्थं शम्भुना गात्रे कणिकाभिः समाचिताः ॥ १८ ॥

स्वस्थानात् तत्र संलग्नास्ततश्चन्दनबिन्दवः ।
ता उमायाः शरीरात् तु संस्रवन्ति जलैः सह ॥ १९ ॥

ततः स्वर्णवहा नाम स्वर्णश्रीः सर्वतोऽधिका ।
एतासु चैत्रमासं तु स्नात्वा मर्त्यो नरर्षभः ॥ २० ॥

कृष्णपक्षे चतुर्दश्यां त्रिकालं यत्र मानवः ।
इरं देवीगृहे स्थित्वा शेषे ब्रह्मगृहं व्रजेत् ॥ २१ ॥

भूमाववगतः पश्चात् सार्वभौमो नृपो भवेत् ।
वृद्धगङ्गाजलस्यान्तस्तीरे ब्रह्मसुतस्य वै ॥ २२ ॥

विश्वनाथाह्वयो देवः शिवलिङ्गसमन्वितः ।
विश्वदेवी महादेवी योनिमण्डलरूपिणी ॥ २३ ॥

हयग्रीवेण युयुधे तत्र देवो जगत्पतिः ।
हयग्रीवं यत्र हत्वा मणिकूटं पुरागतम् ॥ २४ ॥

तत्र यः पूजयेद् दुर्गां शारदां तन्त्रमन्त्रकैः ।
हयग्रीवस्य मन्त्रेण तन्त्रेण गरुडध्वजम् ॥ २५ ॥

कामेश्वरस्य तन्त्रेण मन्त्रेणापि च शङ्करम् ।
यो यजेत् परया भक्त्या द्वादश्यां समुपोषितः ॥ २६ ॥

अष्टम्यां च चतुर्दश्यां तस्य पुण्यफलं शृणु ।
कल्पकोटित्रयं स्थित्वा सिवगेहे गृहे हरेः ॥ २७ ॥

तावन्तं संस्थितः कालं तावन्तं च शिवागृहे ।
शेषे भुवं समासाद्य वेदविद् ब्राह्मणो भवेत् ॥ २८ ॥

अद्याः स्वर्णश्रियः पूर्वं नदी कामाह्वया शुभा ।
कामायाः पूर्वभागे तु नदी ओमाशनाह्वया ॥ २९ ॥

ओमाशनायाः पूर्वस्यां नदी नाम्ना वृषोदका ।
ततः पूर्वे कामरूपं पीठं ते जगतां प्रसूः ॥ ३० ॥

जगन्मयी महामाया देवी दिक्करवासिनी ।
एता याः कथिता नद्यः सकला दक्षिणस्रवाः ॥ ३१ ॥

तासु स्नात्वा च पीत्वा च स्वर्गलोकमवाप्नुयात् ।
प्रान्ते दिक्करवासिन्याः सदा वहति स्वर्णदी ॥ ३२ ॥

सितगङ्गाह्वया लोके साक्षाद् गङ्गाफलप्रदा ।
सा भूमिपीठसंस्था च देवी दिक्करवासिनी ॥ ३३ ॥

अन्तर्जले प्लावयन्ती याति प्रत्यक्षतां सुरैः ।
सितगङ्गाजले स्नात्वा दृष्ट्वा शम्भुं हरिं विधिम् ॥ ३४ ॥

इष्ट्वा ललितकान्ताख्यां पुनर्योनौ न जायते ।
लिङ्गस्वरूपी भगवाञ्छम्भुस्तत्र स्वयं स्थितः ॥ ३५ ॥

विष्णुः शिलास्वरूपेण ब्रह्मलिङ्गस्वरूपधृक् ।
पीठे दिक्करवासिन्या द्विरूपा रमते शिवा ॥ ३६ ॥

तीक्ष्णकान्ताह्वया त्वेका योग्रतारा प्रकीर्तिता ।
परा ललितकान्ताख्या या श्रीमङ्गलचण्डिका ॥ ३७ ॥

तस्यास्तु सततं रूपं तीक्ष्णकान्ताह्वयं नृप ।
कृष्णा लम्बोदरी या तु सा स्यादेकजटा शिवा ॥ ३८ ॥

तेन रूपेण तां देवीं सततं परिपूजयेत् ।
अङ्गमन्त्रं च रूपं च तस्याः प्राक्प्रतिपादितम् ॥ ३९ ॥

त्रिकोणं मण्डलं चास्यः कर्तव्यं मन्त्रपूर्वकम् ।
आदौ रेखे ततः पश्चात् सुरेखेति पदं ततः ॥ ४० ॥

तथा पदं चाधिगम्य तिष्ठन्तिवति पदं ततः ।
मण्डलस्यास्य मन्त्रोऽयं तीक्ष्णायाः परिकीर्तितः ॥ ४१ ॥

नरत्रिपुरदेवादियमवेतालदुर्धराः ।
अणश्रमेत्यन्तकान्ता द्वारपालाः प्रकीर्तिताः ॥ ४२ ॥

एतांस्तु पूजयेत् सम्यङ्मण्डलस्याष्टदिक्षु वै ।
आदौ सम्बोधनं कृत्वा वज्रपुष्पं ततः परम् ॥ ४३ ॥

अह्निजायं ततः पश्चान्मन्त्रमेषां प्रकीर्तितम् ।
पात्रोपकरणादीनां थानस्यान्यस्य सर्वतः ॥ ४४ ॥

सर्वमुत्तरतन्त्रोक्तम् उह्यं रूपद्वयेऽपि च ।
चामुण्डा च कराला च सुभगा भीषणा भगा ॥ ४५ ॥

विकटेति च योगिन्यः प्रोक्ता यस्यास्तवैव षट् ।
ए भगवत्येकजटे विद्महे पदमन्ततः ॥ ४६ ॥

विकटदंष्ट्रे धीमहि तन्नस्तारे प्रचोदयात् ।
एषा तु तीक्ष्णगायत्री पीठदेव्याः प्रकीर्तिता ॥ ४७ ॥

निर्माल्यधारिणी चास्या देवी विकटचण्डिका ।
माला तु मृन्मयी प्रोक्ता रुद्राक्षसम्भवापि वा ॥ ४८ ॥

विशेष एष देव्यास्तु पूजने परिकीर्तितः ।
उपचारादिकं कृत्यं बलिदानं जपादिकम् ॥ ४९ ॥

अर्वं तु पूर्ववद् ग्राह्यं कामाख्यापूजने यथा ।
आनेषु मदिरा शस्ता नरो वलिषु पार्थिव ॥ ५० ॥

ओदको नारिकेलं च मांसव्यञ्जनमैक्षवम् ।
ऐवेद्येषु प्रियकरास्तीक्ष्णायाः परिकीर्तिताः ॥ ५१ ॥

यषा ललितकान्ताख्या देवी मङ्गलचण्डिका ।
वरदाभयहस्ता सा द्विभुजा गौरदेहिका ॥ ५२ ॥

रक्तपद्मासनस्था च मुकुटोज्ज्वलमण्डिता ।
अक्तकौशेयवसाना स्मितवक्त्रा शुभानना ॥ ५३ ॥

नवयौवनसम्पन्ना चार्वङ्गी ललितप्रभा ।
उमाया भाषितं मन्त्रं यत् पूर्वं त्वेकमक्षरम् ॥ ५४ ॥

मन्त्रमस्यास्तु तज्ज्ञेयं तेन देवीं प्रपूजयेत् ।
नारायण्यै विद्महे त्वां चण्डिकायै तु धीमहि ॥ ५५ ॥

तन्नो ललितकान्न्तेति ततः पश्चात् प्रचोदयात् ।
एषा ललितगायत्री देव्या इष्ट्यै प्रकीर्तिता ॥ ५६ ॥

लोहिताङ्गस्य दिवसः प्रियोऽस्याः परिकीर्तितः ।
कालो वसन्तकालश्च स्वरश्चापि तु पञ्चमः ॥ ५७ ॥

अष्टम्यां च नवम्यां त्र पूजा कार्या विभूतये ।
निर्माल्यधारिणी चास्या देवी ललितचण्डिका ॥ ५८ ॥

दूर्वाङ्कुरैः समायुक्तमक्षतं प्रीतिदं परम् ।
अयमस्या विशेषस्तु पूजने परिकीर्तितः ॥ ५९ ॥

वैष्णवीतन्त्रमन्त्रस्य अन्त्रं ग्राह्यं तु पूजने ।
उपचारो बलिश्चास्या विहितो यः क्रमः पुरा ॥ ६० ॥

महामायामहादेव्यास्तद्ग्राह्यं परिपूजने ।
स्वगात्ररुधिरं दद्यादात्मनश्च हिताय वै ॥ ६१ ॥

पटेषु प्रतिमायां वा घटे मङ्गलचण्डिकाम् ।
यः पूजयेद् भौमादिने शुभर्दूर्वाङ्कुरैः शिवाम्ः ॥ ६२ ॥

सततं साधकः सोऽपि काममिष्टमवाप्नुयात् ।
एवं दिक्करवासिन्याः कथितः पूजनक्रमः ॥ ६३ ॥

यच्छ्रुत्वा नाशुभं किञ्चिदाप्नोति श्रवणे रतः ।
दिक्करस्त्वरुणः प्रोक्तस्तथा शम्भुश्च दिक्करः ॥ ६४ ॥

तस्मिन्नध्युषिता देवी तस्माद् दिक्करवासिनी ।
जगत्त्रयेऽपि यस्यास्तु सदृशी क्वापि सुन्दरी ॥ ६५ ॥

नान्यास्ति ललिता तेन देवी ललितकान्तिका ।
शङ्करस्य पुरा प्रोक्तो ग्राह्यो वै पूजनक्रमः ॥ ६६ ॥

शृणु राजन्नवहितो ब्रह्मणः पूजनक्रमम् ।
ब्रह्मबीजं पुरा प्रोक्तं तन्मन्त्रं सर्वतश्चरेत् ॥ ६७ ॥

तेनैव तं तु सम्पूज्य परं निर्वाणमाप्नुयात् ।
एतस्य चाङ्गमन्त्रं तु यथा भर्गेण भाषितम् ॥ ६८ ॥

वेतालभैरवाभ्यां तु रूपं च शृणु भूमिप ।
अस्तृतीयश्च वह्निश्च शेषस्वरसमन्वितः ॥ ६९ ॥

चन्द्रबिन्दुसमायुक्तो ब्रह्ममन्त्रं प्रकीर्तितम् ।
अनेनैव तु मन्त्रेण ब्राह्मणं यः प्रपूजयेत् ॥ ७० ॥

स काममिष्टं सम्प्राप्य ब्रह्मलोकेषु मोदते ।
ब्रह्मा कमण्डलुधरश्चतुर्वक्त्रश्चतुर्भुजः ॥ ७१ ॥

कदाचिद्रक्तकमले हंसारूढः कदाचन ।
वर्णेन रक्तगौराङ्गः प्रांशुस्तुङ्गाङ्ग उन्नतः ॥ ७२ ॥

कमण्डलुं वामकरे सुर्च हस्ते च दक्षिणे ।
दक्षिणाधस्तथा मालां वामाधश्च तथा स्रुवम् ॥ ७३ ॥

वाज्यस्थाली वामपार्श्वे देवाः सर्वेऽग्रतः स्थिताः ।
सावित्री वामपार्श्वस्था दक्षिणस्था सरस्वती ॥ ७४ ॥

सर्वे च ऋषयो ह्यग्रे कुर्यादेवं विचिन्तनम् ।
चतुष्कोणम् अतुर्द्वारमष्टपत्रसमन्वितम् ॥ ५ ॥

चतुष्कोणेष्वङ्कितं तु रक्कमण्डलुस्रुक्स्रुवैः ।
सम्मार्जनादिकं सर्वं याश्चान्याः प्रतिपत्तयः ॥ ७६ ॥

दृष्ट्वाश्चोत्तरतन्त्रोक्ता योगपीठेऽङ्गिकादिकाः ।
आधारशक्तिप्रमुखांस्तथा सर्वांस्तु पूजयेत् ॥ ७७ ॥

अष्टपत्रेषु अद्मस्य दिक्पालांश्च प्रपूजयेत् ।
पद्मासनाय विद्महे हंसरूढाय धीमहि ॥ ७८ ॥

तन्नो ब्रह्मन्निति पदं ततः पश्चात् प्रचोदयात् ।
एषा तु ब्रह्मगायत्री पूजयेदनया विधिम् ॥ ७९ ॥

निर्माल्यधारी चैतस्य सनत्कुमार उच्यते ।
उपचाराः पूर्ववत् तु एत्राञ्जनविवर्जिताः ॥ ८० ॥

रक्तकौशेयवस्त्रं तु ब्रह्मप्रीतिकरं परम् ।
अन्नं सपायसं सर्पिस्तिलयुक्तं च भोजनम् ॥ ८१ ॥

सितरक्तसमायुक्तं चन्दनं परिकीर्तितम् ।
पार्श्वयोः शङ्करं विष्णुम् ऊजने पूजयेत् पुरः ॥ ८२ ॥

स्रुवादीन् करसंस्थांस्तु मण्डले परिपूजयेत् ।
सरस्वतीं च सावित्री हंस पद्मं तथैव च ॥ ८३ ॥

अयं विशेषः कथितः प्रणामश्चास्य दण्डवत् ।
पद्मबीजभवा माला जपकर्मणि कीर्तिता ॥ ८४ ॥

पूर्णादर्शौ तिथी ग्राह्यौ पूजाकर्मणि सर्वदा ।
क्षीरेणार्घ्यं प्रदद्यात् तु सर्वदा ब्रह्मणे नृप ॥ ८५ ॥

अयं ते कथितो भूप यथा भर्गेण भाषितः ।
दर्शयता स्वपुत्राभ्यां कामरूपाह्वयं शुभम् ॥ ८६ ॥

यत्र तत्र विधिञ्चैव साधकः परिपूजयेत् ।
पीठे सम्यक् पूजयित्वा परं निर्वाणमाप्नुयात् ॥ ८७ ॥

कथिता ब्रह्मणः पूजा पूजनं शृणु वैष्णवम् ।
बीजं तु वासुदेवस्य पुरैव प्रतिपादितम् ॥ ८८ ॥

तदङ्गमन्त्रं राजेन्द्र द्वादशाक्षरमुच्यते ।
अमो भगवते पूर्वं वासुदेवाय वै परम् ॥ ८९ ॥

अङ्गमन्त्रमिदं चैव वासुदेवस्य कीर्तितम् ।
अस्य रत्यङ्गरूपं तु दधिवामनसञ्ज्ञकम् ॥ ९० ॥

तस्य मन्त्रं नरश्रेष्ठ शम्भुना भाषितं शृणु ।
ॐ नमो विष्णवे पूर्वं पदं तस्य प्रकीर्तितम् ॥ ९१ ॥

पदं च सुरपतये चतुर्थ्यन्तं महाबलम् ।
स्वाहान्तं हृदयासन्नं प्रत्यङ्गवैष्णवं मतम् ॥ ९२ ॥

अन्त्रत्रयं तु यो वेद बीजं प्रत्यङ्गसञ्ज्ञकम् ।
स पुमान् देवकायस्तु न स भूयोऽभिजायते ॥ ९३ ॥

सर्व उत्तरतन्त्रोक्तः क्रमो ग्राह्यः प्रपूजने ।
त्रिषु मन्त्रेषु च सदा विशेषं शृणु भूपते ॥ ९४ ॥

रूपं तु बीजमन्त्रस्य प्रथमं शृणु भूपते ।
पूर्णचन्द्रोपमः शुक्लः पक्षिराजोपरिस्थितः ॥ ९५ ॥

चतुर्भुजः पीतवस्त्रैस्त्रिभिः संवीतदेहभृत् ।
दक्षिणोर्ध्वे गदां धत्ते तदधो विकचाम्बुजम् ॥ ९६ ॥

वामोर्ध्वे चक्रमत्युग्रं धत्तेऽधः शङ्खमेव च ।
श्रीवत्सवक्षाः सततं कौस्तुभं हृदि चांशुमत् ॥ ९७ ॥

धत्ते कक्षे ह्यधोवामे तूणीरं बाणपूरितम् ।
दक्षिणे कोषगं खड्गं नन्दकम् अशरासनम् ॥ ९८ ॥

शीर्षे किरीटं सूद्योतं कर्णयोः कुण्डलद्वयम् ।
आजानुलम्बिनीं चित्रां वनमालां गले स्थिताम् ॥ ९९ ॥

दधानं दक्षिणे देवीं श्रियं पार्श्वे तु विभ्रतम् ।
सरस्वतीं वामपार्श्वे चिन्तयेद् वरदं हरिम् ॥ १०० ॥

बीजमन्त्रस्य रूपं च कथितं तव पार्थिव ।
द्वादशाक्षरमन्त्रस्य रूपमेतच्छृणुष्व मे ॥ १०१ ॥

नीलोत्पलदलश्यामं तथैव च चतुर्भुजम् ।
दक्षिणोर्ध्वस्थितं पद्मं गदां चाथ प्रयोजयेत् ॥ १०२ ॥

वामेऽधश्चक्रमतुलमूर्ध्वे शङ्खं च बिभ्रतम् ।
चिन्तयेद् वरदं देवं सर्वमन्यच्च पूर्ववत् ॥ १०३ ॥

अष्टादशाक्षरस्यास्य प्रत्यङ्गस्य च चिन्तनम् ।
शृणु राजन्नवहितो दारिद्र्यभयनाशनम् ॥ १०४ ॥

पूर्णेन्दुसदृशं कान्त्या शुक्लवर्णं विचिन्तयेत् ।
करे विचिन्तयेद् वामे पीयूषापूरितं घटम् ॥ १०५ ॥

दध्यन्नखण्डसंयुक्तं दक्षिणे स्वर्णभाजनम् ।
पद्मासनगतं देवं चन्द्रमण्डलमधगम् ॥ १०६ ॥

शुक्लवस्त्रधरं देवं प्रमाणाद् वामनं सदा ।
ईषद्धाससमायुक्तं त्रिलोकेशं त्रिविक्रमम् ॥ १०७ ॥

चिन्तयेद् वरदं देवं सर्वकामफलप्रदम् ।
दहनप्लवनादौ च पूर्वतन्त्रोदिता यथा ॥ १०८ ॥

तथा मन्त्राः परिग्राह्यास्तथा चोत्तरतन्त्रगाः ।
मण्डलस्य क्रमं तस्य शृणु भर्गेण भाषितम् ॥ १०९ ॥

रेखया नित्यपूजासु रजोभिः पञ्चभिस्तथा ।
नैमित्तिके यथा कार्यं भेदाभेदेन साम्प्रतम् ॥ ११० ॥

अस्तमात्रं चतुर्द्वारं वत्लाम्बुजसन्निभम् ।
चतुष्कोणे चतुर्भिस्तु शङ्खैर्युक्तं मनोहरम् ॥ १११ ॥

अद्धद्वारं दिक्पतीनामायुधैः करणैस्तथा ।
अष्टासु दिक्षु निहितं सबहिर्वेष्टपद्मकम् ॥ ११२ ॥

एवं यथा रजोभिस्तु कार्यं तच्छृणु पार्थिव ।
सितैः पीतैस्तथा रक्तैः श्यामैश्च हरितैः क्रमात् ॥ ११३ ॥

रजोभिर्मण्डलं कुर्यादन्यथा न समाचरेत् ।
चतुर्हस्तं त्रिहस्तं च द्विहस्तं हस्तमात्रकम् ॥ ११४ ॥

सर्वत्र मण्डलं कुर्याद् यथोक्तं वाधिकं पुनः ।
राजसूयाश्वमेधादौ चतुर्हस्ताधिकं मतम् ॥ ११५ ॥

कल्पानतिक्रमाद् भूप यथोक्तं यत्र यत्र च ।
दिक्पालायुधपद्मानां पूर्ववल्लिखनक्रमः ॥ ११६ ॥

सितै रजोभिः कर्तव्यं मध्ये पद्मं सुवर्तुलम् ।
कर्णिका पीतवर्णास्य केशराग्रं तथारुणम् ॥ ११७ ॥

रक्तैः पीतैः पूरयेत् तु बहिः पद्मस्य सर्वतः ।
वज्रं शक्तिं लोहदण्डं खड्गं पाशाङ्कुशं गदाम् ॥ ११८ ॥

शूलमष्टदिगीशानामायुधानि क्रमात् पुनः ।

शम्भुर्गौरी तथा ब्रह्मा रामः कृष्णस्तथैव च ॥ ११९ ॥

एतास्तु सततं पूज्याः संस्थिताः पञ्चदेवताः ।
न कदाचिदबुधः कुर्याच्छम्भुगौर्यो वियोजनम् ॥ १२० ॥

वियोगे तु कृता पूजा निष्फला तस्य जायते ।
विच्छिन्नं मूर्ध्नि भूतं तु पूजितं शक्तमेव च ॥ १२१ ॥

न्यासे तु मण्डलस्यास्य रजोदोषं विवर्जयेत् ।
सर्वत्र मण्डलं कार्यं वासुदेवस्य पूजने ॥ १२२ ॥

एवमेव नृपश्रेष्ठ निष्फलं चान्यथेतरत् ।
बलभद्रश्च कामश्च ह्यनिरुद्धस्तदुद्भवः ॥ १२३ ॥

नारायणस्तथा ब्रह्मा विष्णुः षष्ठः प्रकीर्तितः ।
नरसिंहो वराहश्च ओगिन्नोऽष्टौ प्रकीर्तिताः ॥ १२४ ॥

पूर्वाद्यष्टदले श्वेतान् रूपतो मन्त्रतः पृथक् ।
पूजयेत् कर्णिकामध्ये वासुदेवं तु नायकम् ॥ १२५ ॥

विमला नायिका तस्य वासुदेवस्य कीर्तिता ।
बलभद्रमुखानां तु योगिनीः शृणु पार्थव ॥ १२६ ॥

आदावुत्कर्षिणी ज्ञेया ज्ञाना पश्चात् क्रियापरा ।
योगा प्रह्वी तथैशानी अनुग्राही तथाष्टमी ॥ १२७ ॥

सर्व चतुर्भुजाः प्रोक्ताः शङ्खचक्रगदाधराः ।
योगिनो बलभद्र तु कामं विधिमृते तथा ॥ १२८ ॥

इधे रूपं तु पूर्वोक्तं हलं च मुषलं बलः ।
हड्गं चक्रं च धत्ते यो गदां पार्श्वे स्थितां सदा ॥ १२९ ॥

कामस्तु पुष्पकोदण्डं धत्ते वामेन पाणिना ।
अदां चक्रं च पुष्पं च धत्तेऽन्यैः पाणिभिः पुनः ॥ १३० ॥

पार्श्वे पद्मं तथा धत्ते सर्वमन्यच्च पूर्ववत् ।
चक्रं शङ्खो वराहस्य दक्षिणे परिकीर्तितौ ॥ १३१ ॥

नृसिंहस्य पुनश्चक्रशङ्खौ दक्षिणवामयोः ।
शङ्खं पद्मं तथा विष्णोः पाण्योर्दक्षिणयोः स्थितम् ॥ १३२ ॥

शङ्खो गदा वामतस्तु नारायणकरस्थितौ ।
दक्षिणाधो गदां धत्ते ह्यनिरुद्धो अरोत्तम ॥ १३३ ॥

इतरक्तस्तथा पीतो भिन्नाञ्जननिभस्तथा ।
नीलोत्पलदलश्यामस्तथा रक्तघनप्रभः ॥ १३४ ॥

भ्रमरश्यामलः पिङ्गः स्वर्णगौरः क्रमादिमे ।
वर्णतो योगिनः प्रोक्ता वासुदेवस्य पार्थिव ॥ १३५ ॥

यादृग्वर्णश्च ध्यानं च यस्य यस्य च योगिनः ।
आदृशींयोगिनीं तस्य चिन्तयेत् तत्समीपगाम् ॥ १३६ ॥

आधारशक्तिप्रमुखाः सर्वा आसनदेवताः ।
ग्रहाश्च सर्वे दिक्पाला ध्यानतो मन्त्रतस्तथा ॥ १३७ ॥

पूजनीया यथोद्देशे मण्डलस्य क्रमान्नृप ।
देवस्य चिन्तितं यद्यच्छरीरे कमलादिकम् ॥ १३८ ॥

धृतास्त्रं वज्रशक्त्यादिगरुडादींश्च पूजयेत् ।
वर्णमालां शम्भुमतामासाद्य क्रमयोगतः ॥ १३९ ॥

आद्यद्वितीयक्रमतो गदादीनां तु मन्त्रकम् ।
पञ्चरात्रोदिते भागे नारदेन यथोदिताः ॥ १४० ॥

मन्त्राश्चक्रगदादीनां ग्राह्याः सर्वत्र पूजने ।
गरुत्मान् सूर्यसङ्काशो गदा कृष्णायसी पुनः ॥ १४१ ॥

सरस्वती शुक्लवर्णा लक्ष्मीर्हेमप्रभा सदा ।
मध्याह्नसूर्यप्रतिमं चक्रं तु परिकीर्तितम् ॥ १४२ ॥

सम्पूर्णचन्द्रप्रतिमः शङ्खस्तु परिकीर्तितः ।
कौस्तुभो ह्यरुणः प्रोक्तः श्रीवत्सो ह्यरुणद्युतिः ॥ १४३ ॥

आरक्तकौस्तुभो ज्ञेयो माला चित्रा प्रकीर्तिता ।
विद्युत्प्रभा सर्वबाणाः शक्रचापप्रभं धनुः ॥ १४४ ॥

स्वर्णचूर्णप्रकाशं तु वस्त्रमस्य प्रकीर्तितम् ।
बालसूर्यप्रतीकाशे कुण्डले द्वे श्रवोगते ॥ १४५ ॥

सूर्यस्य सदृशं शीर्षे किरीटं परिकीर्तितम् ।
शृणु न्यासं ततो भूप यैर्न्यासैर्विष्णुरूपधृक् ॥ १४६ ॥

साधको हि भवेन्नित्यं स्वर्गमोक्षप्रदायकम् ।
न्यासं तु प्रथमं कुर्यान्मन्त्रविद् द्वादशाक्षरैः ॥ १४७ ॥

वासुदेवस्य बीजेन बीजं चैवाथ योगिनाम् ।
ततों न्यसेन्महामन्त्रै स्ततश्चाष्टादशाक्षरैः ॥ १४८ ॥

ततस्तु हृदयादीनां षड्भिर्मन्त्रन्द्विधा पुनः ।
एवं चतुर्भिर्न्यासैस्तु पूजामेकां समाचरेत् ॥ १४९ ॥

प्रथमं दक्षिणाङ्गुष्ठे न्यसेदाद्यक्षरं बुधः ।
वादशाक्षरमन्त्रस्य शेषबीजानि तु क्रमात् ॥ १५० ॥

अर्जन्यादौ दक्षिणस्य वामाङ्गुष्ठान्तमेव च ।
शेषाक्षरद्वयं पश्चाद् न्यसेत् पाणितलद्वये ॥ १५१ ॥

हृदि शीर्षे शिखायां च स्कन्धयोर्दृक्पिचण्डयोः ।
ऋष्ठे तु भुजयोः पाष्योर्जङ्घयोः पादयोः क्रमात् ॥ १५२ ॥

द्वादशाक्षरमन्त्रस्य बीजानि च ततो न्यसेत् ।
अङ्गुष्ठयोस्तु प्रथमं वासुदेवस्य तत्त्वकम् ॥ १५३ ॥

तर्जन्यादौ योगिनां तु बीजान्यष्टौ द्वयोर्न्यसेत् ।
सिरोदृगा स्यकण्ठोरोनाभिगुह्येषु जानुनोः ॥ १५४ ॥

पादयोर्वासुदेवस्य योगिबीजानि विन्यसेत् ।
मन्त्राणि हृदयादीनां यान्युक्तानि पुरा नृप ॥ १५५ ॥

तानि न्यस्याङ्गुष्ठमूलेऽङ्गुलीजाते द्वये द्वये ।
वामदक्षिणपाण्योस्तु शेषं तु तलयोन्यसेत् ॥ १५६ ॥

हृदयाद्यस्त्रपर्यन्तं पुनस्तानि क्रमान्न्यसेत् ।
अष्टादशाक्षरस्यादिनववर्णान् न्यसेद् बुधः ॥ १५७ ॥

शिरोनेत्रादिपूर्वोक्ते नवबीजस्य गोचरे ।
शेषान् वर्णान् सङ्कीर्णम्पार्श्ववस्तिषु शेफसि ॥ १५८ ॥

कट्यामूर्वोर्जङ्घयोश्च न्यसेत् पादाङ्गुलीषु च ।
यस्य मन्त्रस्य या पूजा तन्त्रैस्तु यत्र चोदिता ॥ १५९ ॥

तस्य तन्त्रस्य तत्रैव न्यासं मन्त्री समाचरेत् ।
अथ चैकत्र सर्वेषां न्यासं कुर्याद् विचक्षणः ॥ १६० ॥

चतुर्विधैः कृतैर्न्यासैः पूतात्मा धूतकल्मषः ।
साक्षाद् विष्णुर्भवेन्मन्त्री सम्यक् पूजाफलं लभेत् ॥ १६१ ॥

विनापि पूजनं यस्तु न्यासं कुर्याच्चतुर्विधम् ।
स धीरो विष्णुसायुज्यमाप्नोति परमं पदम् ॥ १६२ ॥

योगपीठं ततो ध्यात्वा गरुडं चक्रंशङ्खं च ।
गदां लक्ष्मीं तथा पद्मं क्रमादेतेषु विन्यसेत् ॥ १६३ ॥

पूर्वदक्षिणकौबेरपश्चात् कोणेषु वै क्रमात् ।
दक्षिणे चोत्तरे वापि विन्यसेन्मन्त्रविद् बुधः ॥ १६४ ॥

वनमालां पद्ममध्ये श्रीवत्सं कौस्तुभं मणिम् ।
विन्यस्य दक्षिणे तस्य न्यसेच्छार्ङ्गं शरासनम् ॥ १६५ ॥

तणीरयुगलं वामे खड्गं दक्षिणतो न्यसेत् ।
वामे चर्म निधायाश तत्र कुर्यात् सरस्वतीम् ॥ १६६ ॥

पूजयित्वा च सर्वाणि ततो मुद्रां प्रदर्शयेत् ।
मुद्राः पुटाद्या याः प्रोक्ता विष्णुर्याश्चापि योगिनाम् ॥ १६७ ॥

ग्रहाणां दिक्पतीनां च मुद्रास्ता दर्शयेत् पृथक् ।
शेषमन्त्राः पुरा प्रोक्ता अच्छिद्रस्यावधारणे ॥ १६८ ॥

तन्मन्त्रान् सम्पठित्वैव सूर्यायार्घ्यं निवेदयेत् ।
निर्माल्यधारी विष्णोस्तु विष्वक्सेनश्चतुर्भुजः ॥ १६९ ॥

शङ्खचक्रगदापाणिर्दीर्घश्मश्रुजटाधरः ।
रक्तपिङ्गलवर्णस्तु सितपद्मोपरिस्थितः ॥ १७० ॥

यत् तृतीयस्वरान्तेन संयुक्तो बिन्दुनेन्दुना ।
कीर्तितस्तस्य मन्त्रोऽयं तेन तं परिपूजयेत् ॥ १७१ ॥

विसर्जनं तथा विष्णोरैशान्यां परिकीर्तितम् ।
अन्येषां मनसा कुर्याद् बलादीनां विसर्जनम् ॥ १७२ ॥

एवं यः कुरुते पूजां विष्णोः शम्भोर्विधेः क्वचित् ।
पीठे दिक्करवासिन्याः स याति परमं पदम् ॥ १७३ ॥

यत्र यत्र भवेद् विष्णोः पूजनं नृपसत्तम् ।
तत्र तत्रैव तन्त्रोऽयं ग्राह्यो वै वैष्णवैर्बुधैः ॥ १७४ ॥

सङ्क्षेपेणैव तत्रैव पूजयेद् दधिवामनम् ।
हृदयाद्यङ्गपूजा तु न कर्तव्याऽस्य पूजने ॥ १७५ ॥

सङ्क्षेपैर्विस्तरैर्वापि वासुदेवं प्रपूजयेत् ।
रक्तं कोशेयवस्तं च पीतं शुक्लं तथैव च ॥ १७६ ॥

प्रीतिदं वासुदेवस्य वस्त्रमेतत् प्रकीर्तितम् ।
घृतप्रदीपो दीपेषु गन्धेषु मलयोद्भवः ॥ १७७ ॥

पानार्घ्यभोज्यपात्रेषु ताम्रं प्रीतिकरं मतम् ।
किरीटं कुण्डल हारो भूषणं विष्णुतुष्टिदम् ॥ १७८ ॥

शङ्खः स्नानीयपात्रेषु धूपेष्वगुरुरेव च ।
प्रीतिदो वासुदेवस्य सतत परिकीर्तितः ॥ १७९ ॥

कदम्बं कुब्जकं जाती मल्लिका मालती तथा ।
पङ्कजं चेति पुष्पाणि तद् विष्णोः प्रीतिदान्युत ॥ १८० ॥

इर्जनं स्थण्डिलं स्थानं तीर्थं तोयमथापि वा ।
तद् विष्णोरिति मन्त्रस्तु स्तुतिः पुरुषसूक्तकम् ॥ १८१ ॥

पुत्रञ्जीवोद्भवा माला प्रशस्ता विष्नुपूजने ।
तिथिश्च द्वादशी प्रोक्ता वसन्तः काल उत्तमः ॥ १८२ ॥

शाल्योदनं हविष्यान्नं यावकं पायसं घृतम् ।
कृशरान्नं तथान्नेषु पानेषु क्षीरमिष्यते ॥ १८३ ॥

दलेषु तुलसीपत्रं बैल्वमामलमेव च ।
हरेः प्रीतिकराणि स्युरेतानि नृपसत्तम ॥ १८४ ॥

सर्वाणि परकीयाणि यानि तानि च वर्जयेत् ।
एवं यः पूजयेद् विष्णुं सततं नरसत्तमः ॥ १८५ ॥

कुलकोटिं समुद्धृत्य स स्वयं स्याज्जनार्दनः ।
इदं ते कथितं भूप वासुदेवस्य मन्त्रकम् ॥ १८६ ॥

पीठस्य कामरूपस्य सङ्क्षेपान्निर्णयं तथा ।
इति सर्वं कामरूपपीठं शम्भुरदशयत् ॥ १८७ ॥

पुत्राभ्यां स पुनस्ताभ्यां कैलासं प्रययौ गिरिम् ।
तत्र गत्वा यथायोगं निधाय तनयौ स्वकौ ॥ १८८ ॥

विमुक्तशापास्ते जाताः शम्भुर्गिरिसुता तथा ।
वेतालो भैरवश्चेति नृपसत्तम निर्जराः ॥ १८९ ॥

इदं यो महदाख्यानं शृणोत्येकाग्रमानसः ।
शापभीतिर्न तस्यास्ति व्याधयस्तस्य नाधयः ॥ १९० ॥

पुत्रपौत्रधनैश्वर्ययुक्तः सर्वत्र वल्लभः ।
सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति ॥ १९१ ॥

कामरूपं महापीठं यो जानाति नरोत्तमः ।
स दिव्यज्ञानसम्पन्नः परं निर्वाणमाप्नुयात् ॥ १९२ ॥

यः कामरूपे सकले पीठयात्रां समाचरेत् ।
आसाद्य सकलान् पीठान् पूजयेत् सर्वदेवताः ॥ १९३ ॥

दशपूर्वान् दश परानात्मानं चैकविंशतिम् ।
दिव्ये ज्ञाने विधायाशु सर्वं मुक्तिमियात् सह ॥ १९४ ॥

इति श्रीकालिकापुराणेऽशीतितमोऽध्यायः ॥ ८० ॥