एकोनाशीतितमोऽध्यायः
और्व उवाच -
विश्वास-प्रस्तुतिः
ततः पूर्वं महाराज दर्पणो नाम पर्वतः । कुबेरो यत्र वसति धनपालैः समं सदा ॥ १ ॥
मूलम्

यस्मिन्नास्ते मध्यभागे रोहितो रोहिताकृतिः । यस्मिंल्लोहादिकं स्पृष्टं स्वर्णतां याति तत्क्षणात् ॥ २ ॥

यत्रातिदूरे स्रवति दर्पणो नाम वै नदः । हिमाद्रिप्रभवो नित्यं लौहित्यसदृशः फलैः ॥ ३ ॥

समुत्पन्नं हि लौहित्यं सर्वैर्दैवगणैर्हरिः । सर्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम् ॥ ४ ॥

तस्य स्नानसमुद्भूतः पापदर्पस्य पाटनः । तेनायं दर्पणो नाम पुरा देवगणैः कृतः ॥ ५ ॥

तस्मिन् स्नात्वा नदवरे योऽर्चयेद् दर्पणाचले । कुबेरं प्रतिपत्तिथ्यां कार्तिके शुक्लपक्षके ॥ ६ ॥

स याति ब्रह्मसदनमिह भूतिशतैर्युतः । दर्पणाद् दिशि पूर्वस्यामग्निमालाह्वयौ गिरिः ॥ ७ ॥

सर्पाकारः सप्तशतव्यामदीर्घोदर्ध विस्तृतः । तत्र तिष्ठति वै वह्निरूर्ध्वभागेऽग्निमण्डले ॥ ८ ॥

सिन्दूरपुञ्जसङ्काशे चारुदारूशिलातले । तस्मिन्निरिन्धनो वह्निर्नित्यमद्यापि काशते ॥ ९ ॥

भैरवस्य हितार्थाय कामाख्यापरिसेवने । पूर्वमेव स्थितस्तत्र साक्षाद् वह्निर्गणैः सह ॥ १० ॥

लौहित्यपाथसि स्नात्वा त्वग्निमालाह्वयं गिरिम् । आरुह्य वह्निं सम्पूज्य मोदते विष्णुमन्दिरे ॥ ११ ॥

पुरस्तादग्निमालस्य कुण्डकं वारुणाह्वयम् । तस्य तीरे गिरिश्रेष्ठो नाम्ना कंसकरः स्मृतः ॥ १२ ॥

वरुणस्तत्र वसति नित्यमेव जलाधिपः । तस्मिन् कंसकरे सम्यक् पूजयित्वा प्रचेतसम् ॥ १३ ॥

स्नात्वा च वारुणे कुण्डे वारुणं लोकमाप्नुयात् । आद्यं व्यञ्जनमेवात्र पञ्चमस्वरसंयुतम् ॥ १४ ॥

शम्भुचूडाशिखायुक्तं कौवेरं बीजमुच्यते । सप्तमो यः पकारस्य बिन्दुश्चन्द्रार्धसंयुतः ॥ १५ ॥

वह्निबीजमिति ख्यातं तेन वह्नि प्रपूजयेत् । मकारपञ्चमः सोमबिन्दुना वारुणः स्मृतः ॥ १६ ॥

एभिर्मन्त्रैरिमान् देवान् नित्यमेव प्रपूजयेत् । वायुकूटो नाम गिरिः पूर्वस्यां वरुणाचलात् ॥ १७ ॥

द्विखण्डो वायुबीजेन मण्डलेन समन्वितः । वायुलोकस्थितश्चन्द्रो यस्मान्निःसृत्य मारुतः ॥ १८ ॥

ऊर्ध्वाधोभागमासाद्य नित्यं वहति भूपते । तत्र वायुं समभ्यर्च्य वायुलोकमवाप्नुयात् ॥ १९ ॥

पूर्वं वायुगिरेः शैलश्चन्द्रकूट इति स्मृतः । त्रिकोणश्चन्द्रसङ्काशस्तदूर्ध्वे चन्द्रमण्डलम् ॥ २० ॥

द्वितीयवर्गस्याद्यं तु बिन्दुना समलङ्कृतम् । चन्द्रबीजमिति प्रोक्तं तेन चन्द्रं प्रपूजयेत् ॥ २१ ॥

अद्यापि प्रतिदर्शे तु पर्वतं तं निशापतिः । प्रदक्षिणीकरोत्येव दशाभिश्चापि खेचरैः ॥ २२ ॥

तस्यैव पूर्वभागे तु सोमकुण्डाह्वयं सरः । तत्र स्नात्वा च पीत्वा च नरः कैवल्यमश्नुते ॥ २३ ॥

स्वर्गादवतरच्चन्द्रः कामाख्यासेवने यदा । तदा तद्रश्मिसङ्घातान्निःसृतास्तोयराशयः ॥ २४ ॥

तैस्तोयैर्वासवः कुण्डमकरोदिन्द्रचन्द्रयोः । मध्ये पुण्यतमे स्थाने स्वयं ब्रह्मशिलोपरि ॥ २५ ॥

चन्द्ररश्मिसमुद्भुत चन्द्रकुण्दमहोदधे । यं यं भावं समासाद्य त्वं चन्द्र कलुष हर ॥ २६ ॥

सुधास्रवणमाह्लाद त्वं चन्द्र कलुषं हर । इत्यनेन तु मन्त्रेण यः स्नात्वा चन्द्रपाथसि ॥ २७ ॥

चन्द्रकूटं समारुह्य पूजयेद् यस्तु तं नरः । अविच्छिन्ना सन्ततिस्तु सुकान्ता तस्य जायते ॥ २८ ॥

परत्र चन्द्रभवनं भित्त्वा याति परं पदम् । तीरे तु चन्द्रकूटस्य नन्दनो नाम वै गिरिः ॥ २९ ॥

तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः । पञ्चभावं समासाद्य सर्वदेवेश्वरो हरिः । सेवितुं त्रिदशेशानीं सततं वर्तते नरः ॥ ३० ॥

चन्द्रकूटगिरेर्याम्यभागे गिरिजनार्दनः । तस्य याम्ये त्वधोभागे अश्वक्रान्ताह्वयं सरः ॥ अ ॥

न तस्य सदृशं तीर्थमस्ति ब्रह्माण्डगोचरे । जले स्थले मृता येऽत्र यान्ति ब्रह्म सनातनम् ॥ ब् ॥

जनार्दनगिरौ विष्णुः कूर्मरूपस्वरूपधृक् । शिलाँ भित्त्वा स्थितस्तत्र देवगन्धर्वसेवितः ॥ च् ॥

अश्वक्रान्तजले स्नात्वा पूजयित्वा जनार्दनम् । वंशकोटिं समुद्धृत्य स्वयं स्यात् पुरुषोत्तमः ॥ द् ॥

चन्द्रकूटस्य तु गिरेर्नन्दनस्य तथा गिरेः । प्रतिदर्शं तथा चन्द्रः प्रदक्षिणयति त्रिधा ॥ ३१ ॥

चन्द्रकूटजले स्नात्वा समारुह्याथ नन्दनम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
आराध्य शक्रं लोकेशं महाफलमवापुयात् । नन्दनात् पूर्वभागे तु भस्मकूटो महागिरिः ॥ ३३ ॥

यः स्वयं भर्गरूपः स सदा चेच्छान्तमुत्तमम् । दक्षिणे भस्मकूटस्य देवी पीयूषधारिणी ॥ ३४ ॥

उर्वशी नाम विख्याता शक्रप्रीतिकरी सदा । देवैर्यत् स्थापितं पूर्वमभृतं भोजनाय वै ॥ ३५ ॥

कामाख्यायास्तदादाय स्वयं तिष्ठति चोर्वशी । शिलारूपो हरस्तां तु समावृत्यैव तिष्ठति ॥ ३६ ॥

सा चैवामृतराशिं तु कृत्वा किञ्चन किञ्चन । उपस्थापयते नित्यं कामाख्यायोनिमण्डले ॥ ३७ ॥

सुधाशिलान्तरस्था तु उर्वशीकुण्डवासिनी । उर्वशीभस्मकूटस्य मध्ये कुण्डं सदावृतम् ॥ ३८ ॥

द्वात्रिंशद्धनुराकीर्णं पञ्चाशद्धनुरायतम् । तत्र स्नात्वा च पीत्वा च नरा मोक्षमवाप्नुयात् ॥ ३९ ॥

कामाख्यायोनिरैशानीं दिशं याति सदैव हि । भस्मकूटे प्रविशति उर्वशीमपि योगिनी ॥ ४० ॥

आप्यायिता चामृतेन नित्यं देवी प्रमोदते । मोदयुक्ता महादेवी कामेन मोदते सदा ॥ ४१ ॥

भस्मकूटस्य चैशान्यां मणिकूटो महागिरिः । मणिकर्णो नाम हरस्तत्र तिष्ठति लिङ्गकम् ॥ ४२ ॥

स सद्योजातरूपस्तु मणिकर्ण इतीरितः । सद्योजातस्य मन्त्रेण पूजितव्यः सदाशिवः ॥ ४३ ॥

चन्द्रतीर्थजले स्नात्वा दृष्ट्वा चन्द्रं सवासवम् । मणिकर्णेश्वरं दृष्ट्वा मुक्तिर्भस्माचलं गते ॥ ४४ ॥

श्वेतः श्वेताम्बरधरो दशाश्वो हेमभूषितः । गदापाणिर्द्विबाहुश्च कर्तव्यो बरदः शशी ॥ ४५ ॥

सहस्रनेत्रो गौराङ्गो द्विभुजो वामहस्तगम् । वज्रं गदाङ्कुशं धत्ते दक्षिणेनापि पाणिना ॥ ४६ ॥

ऐरावतगजस्थस्तु बाणतूणीरबन्धनः । धनुश्च कक्षे गृह्णाति सेवमानो महेश्वरीम् ॥ ४७ ॥

वकारानन्तरो वर्णश्चन्द्रबिन्दुसमन्वितः । शक्रबीजमिति प्रोक्तं शक्रं तेन प्रपूजयेत् ॥ ४८ ॥

नदी सुमङ्गला नाम हिमपर्वतनिर्गता । पूर्वस्यां मणिकूटस्य सदा स्रवति शोभना ॥ ४९ ॥

मणिकूटं समारुह्य यस्तां पश्यति वै नदीम् । स गङ्गास्नानजं पुण्यमवाप्य त्रिदिवं व्रजेत् ॥ ५० ॥

मणिकूटाचलात् पूर्वं मत्स्यध्वजकुलाचलः । निर्दग्धो यत्र मदनो हरनेत्राग्निना पुनः ॥ ५१ ॥

शरीरं प्राप तपसा समाराध्य वृषध्वजम् । तत्र मत्स्यस्वरूपस्तु कामदेव समंस्थित ॥ ५२ ॥

अधित्यकायां पृथिवीं बीक्षमाणः समन्ततः । नदी तु शाश्वती नाम तत्रास्ते दक्षिणस्रवा ॥ ५३ ॥

सरः कामसरो नाम तत्र शैले व्यवस्थितम् । शाश्वत्यां विधिवत्स्नात्वा पीत्वा आमसरोऽम्भसि ॥ ५४ ॥

बिमुक्तपापः शुद्धात्मा शिवलोके महीयते । गन्धमादनपूर्वस्यां सुक्रान्तो नाम पर्वतः ॥ ५५ ॥

तत्प्रान्ते वासवं कुण्डं वासवामृतभोजनम् । यत्र स्थित्वा दक्षिणस्यां पुरा शक्रः शचीपतिः ॥ ५६ ॥

अमृतं श्रान्तदेहस्तु कामरूपान्तरे पपौ । स्नात्वा तु वासवे कुण्डे समारुह्य सुकान्तकम् ॥ ५७ ॥

वासवस्य प्रियो भूत्वा शक्रलोकमवाप्नुयात् । पूर्वस्यां तु सुकान्तस्य रक्षःकूटाह्वयो गिरिः ॥ ५८ ॥

यत्रास्ते सततं देवो निर्-ऋती राक्षसेश्वरः । खड्गहस्तो महाकायो वामे चर्मधरस्तथा ॥ ५९ ॥

जटाजूटसमायुक्तः प्रांशुः कृष्णाचलोपमः । द्विभुजः कृष्णवासास्तु गर्दभोपरिसंस्थितः ॥ ६० ॥

प्रान्तोपान्तौ बिन्दुचन्द्रसहितावादिरेव च । नैर्-ऋत्यं कथितं बीजं तेन तं परिपूजयेत् ॥ ६१ ॥

रक्षःकूटं समारुह्य नि-ऋतिं राक्षसेश्वरम् । यः पूजयेद् विधानेन चण्डिकां राक्षसेश्वरीम् ॥ ६२ ॥

न तस्य राक्षसेभ्योऽस्ति भयं नृप कदाचन । राक्षसाश्च पिशाचाश्च वेताला गणनायकाः ॥ ६३ ॥

तं दृष्ट्वा पुरुषं राजन् सर्वदैव प्रबिभ्यति । रक्षःकूटात् पूर्वदिशि भैरव नाम माधवः ॥ ६४ ॥

पाण्डुनाथ इति ख्यातो ग्रावरूपेण संस्थितः । तं पाण्डुनाथं सततमष्टाक्षरभवोत्तरम् ॥ ६५ ॥

तेनैव पूजयेद् देवं पाण्डुनाथाह्वयं हरिम् । वर्णेन रक्तगौराङ्गं गदापद्मधरं करे ॥ ६६ ॥

दक्षिणे चक्रशक्ती च बाहुभ्यामपि बिभ्रतम् । चतुर्भुजं रक्तपद्मसंस्थितं मुकुटोज्ज्वलम् ॥ ६७ ॥

कुण्डले बिभ्रतं शुद्धे श्रीवत्सोरस्कमुत्तमम् । नमो नारायणायेति मूलबीजेन वा हरेः ॥ ६८ ॥

एवं सम्पूजयेद् भूप चतुर्वर्गस्य सिद्धये । पाण्डुनाथस्योत्तरस्यां ब्रह्मकूटाह्वयं सरः ॥ ६९ ॥

ब्रह्मणा निर्मितं पूर्वं स्नानार्थं स्वर्गवासिनाम् । आयामेन शतव्यामं विस्तीर्णं त्वतदर्धकम् ॥ ७० ॥

सर्वपापहरं पुण्यं देवलोकात् समागतम् । कमण्डलुसमुद्भूत ब्रह्मकुण्डामृतस्रव ॥ ७१ ॥

हर मे सर्वपापानि पुण्यं स्वर्गं च साधय । इत्यनेन तु मन्त्रेण स्नात्वा तस्मिन् सरोजले ॥ ७२ ॥

पाण्डुनाथं च सम्पूज्य विष्णुसायुज्यमाप्नुयात् । ब्रह्मकुण्डजले स्नात्वा पूजयित्वा उमापतिम् ॥ ७३ ॥

वायुकूटं समारुह्य मुक्तिमेवाप्नुयान्नरः । पाण्डुनाथात् पूर्वदिशि गिरिश्चित्रहरो हरिः ॥ ७४ ॥

सततं यत्र रमते विष्णुर्वाराहरूपधृक् । ततस्तु नीलकूटाख्यं कामाख्यानिलयं परम् ॥ ७५ ॥

तत्पूर्वभागे वसति ब्रह्मा ब्रह्मगिरिः पुनः । ब्रह्मशैलस्य पूर्वस्यां भूमिपीठे व्यवस्थितम् ॥ ७६ ॥

चारुनिम्नशुभावर्तं कामाख्यानाभिमण्डलम् । अत्रोग्रतारारूपेण रमते परमेश्वरी ॥ ७७ ॥

तत्र तेनैव रूपेण पूजितव्या शुभात्मिका । तस्यास्तु बीजं पूर्वस्मिन्नुत्तरे प्रतिपादितम् ॥ ७८ ॥

रूपं शृणु नरश्रेष्ठ येन ध्येया सदा शिवा । कृष्णा लम्बोदरी दीर्घा विरला रक्तदन्तिका ॥ ७९ ॥

चतुर्भुजा कृशाङ्गी तु दक्षिणे कर्तृखर्परौ । खड्गं चेन्दीवरं वामे शीर्षे चैकजटा पुनः ॥ ८० ॥

वामपादं शवस्योर्वोर्निधायाङ्घ्रिं तु दक्षिणाम् । शवस्य हृदये न्यस्य साट्टहासं प्रकुर्वती ॥ ८१ ॥

नागहारशिरोमालाभूषिता कामदा परा । त्रिकोणं मण्डलं चास्या हुङ्कारं मध्यबीजकाम् ॥ ८२ ॥

द्वारेशानां योगिनीनां नामान्यस्यास्तु तन्त्रके । ज्ञेयानि नरशार्दूल यत् प्रोक्तं वाम्यगोचरे ॥ ८३ ॥

उर्वश्यां विधिवत् स्नात्वा स्पृष्ट्वा पाण्डुशिलां तथा । नीलकूटं समारुह्य पुनर्योनौ न जायते ॥ ८४ ॥

पुरन्दरपुरायाते वाराणस्याः हलाधिके । सुधासङ्कीर्णतोयौघैः पाप हर ममोर्वशि ॥ ८५ ॥

अमृतस्राविणी देवी सुधौघपरिपूरणी । अमृतेनामृतं मेऽद्य देहि देवि ममोर्वशि ॥ ८६ ॥

पुरन्दरप्रिये देवि वाराणस्याः सदान्धिके । लोहित्यह्रदसङ्कीर्णे पापं हर मनोर्वशि ॥ ८७ ॥

इत्येभिः स्तुतिभिर्मन्त्रैः स्नात्वा पुण्योर्वशीजले । सर्वपापविनिर्मुक्तो विष्णुलोके विचेष्टते ॥ ८८ ॥

उर्वशी द्विभुजा प्रोक्ता स्वर्णकङ्कणधारिणी । सौवर्णपात्रममृतस्रावणाय बिभर्ति च ॥ ८९ ॥

शुक्लवस्त्रा गौरवर्णा पीनोन्नतपयोधरा । सर्वाङ्गसुन्दरी शुद्धा सर्वाभरणभूषिता ॥ ९० ॥

एतन्नामाद्यक्षरं तु मन्त्रमस्याः प्रकीर्तितम् । उमातन्त्रे तु गदितं मन्त्रमस्याः प्रकीर्तितम् ॥ ९१ ॥

मानसतरङ्गिणीकृत् - टिप्पनी
agnivetAla, like heruka, played an important role in the cult of kAmAkhyA.
विश्वास-प्रस्तुतिः
गणेशः पूर्व-द्वार-स्थः कामाख्या-पर्वतस्य तु । तत्रैव चाग्नि-वेतालः स्थितो द्वारि मनोहरः ॥ ९२ ॥
मूलम्
गणेशः पूर्वद्वारस्थः कामाख्यापर्वतस्य तु । तत्रैव चाग्निवेतालः स्थितो द्वारि मनोहरः ॥ ९२ ॥
मानसतरङ्गिणीकृत्
gaNesha is indeed stationed at the eastern door of the kAmAkhyA hill. There, the charming agnivetAla, is stationed at the gate.
विश्वास-प्रस्तुतिः
तयो रूपं च मन्त्रं च यथोक्तं शम्भुना पुरा । तद् अहं प्रतिवक्ष्यामि महाराज शृणुष्व मे ॥ ९३ ॥
मूलम्
तयो रूपं च मन्त्रं च यथोक्तं शम्भुना पुरा । तदहं प्रतिवक्ष्यामि महाराज शृणुष्व मे ॥ ९३ ॥
विश्वास-प्रस्तुतिः
ॐ नम उल्का-मुखायेति मूल-बीजादि-सङ्गतम् । मन्त्रं सिद्ध-गणेशस्य द्वार-स्थस्य प्रकीर्तितम् ॥ ९४ ॥
मूलम्
ॐ नम उल्कामुखायेति मूलबीजादिसङ्गतम् । मन्त्रं सिद्धगणेशस्य द्वारस्थस्य प्रकीर्तितम् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
रूपं तस्य प्रवक्ष्यामि गज-वक्त्रं त्रि-लोचनम् । लम्बोदरं चतुर्-बाहुं व्याल-यज्ञोपवीतिनम् ॥ ९५ ॥
मूलम्
रूपं तस्य प्रवक्ष्यामि गजवक्त्रं त्रिलोचनम् । लम्बोदरं चतुर्बाहुं व्यालयज्ञोपवीतिनम् ॥ ९५ ॥
विश्वास-प्रस्तुतिः
शूर्पकर्ण बृहद्गण्डमेकदन्तं पृथूदरम् । दक्षिणे तु करे दण्डमुत्पलं च तथापरे ॥ ९६ ॥

लड्डुकं परशुं चैव वामतः परिकीर्तितम् । बृहत्त्वाक्षिप्तगगनं पीनस्कन्धाङ्घ्रिपाणिनम् ॥ ९७ ॥

युक्तं बुद्धिकुबुद्धिभ्यामधस्तान्मूषकान्वितम् । अन्त्रस्तु यादृशः प्रोक्तः पञ्चवक्त्रस्य पूजने ॥ ९८ ॥

स एव तन्त्रो ग्राह्यस् तु
तादृग् विधि-निषेधनम् ।
द्वि-भुजः पीन-वदनो
रक्त-नेत्रो भयङ्-करः ॥ ९९ ॥
मूलम्
स एव तन्त्रो ग्राह्यस्तु तादृग्विधिनिषेधनम् । द्विभुजः पीनवदनो रक्तनेत्रो भयङ्करः ॥ ९९ ॥
मानसतरङ्गिणीकृत्
With two arms, a brawny face, fearsome blood-red eyes,
विश्वास-प्रस्तुतिः
छुरिकां दक्षिणे पाणौ
वामे रुधिर-पात्रकम् ।
दंष्ट्रा-कराल-वदनं
कृशो धमनि+++(=दृश्य-नाडि)+++-सन्ततः ॥ १०० ॥
मूलम्
छुरिकां दक्षिणे पाणौ वामे रुधिरपात्रकम् । दंष्ट्राकरालवदनं कृशो धमनिसन्ततः ॥ १०० ॥
मानसतरङ्गिणीकृत्
holding a dagger in the right hand and a blood bowl in the left hand; with a terrifying face with fangs, lean, with visible veins;
विश्वास-प्रस्तुतिः
जटां दीर्घां मूर्ध्नि बिभ्रद्
घोर-राव-युतस् तथा ।
प-चतुर्थो ऽग्नि-बीजेन
षष्ठ-स्वर-विभूषितः ॥ १०१ ॥
मूलम्
जटां दीर्घां मूर्ध्नि बिभ्रद्घोररावयुतस्तथा । पचतुर्थोऽग्निबीजेन षष्ठस्वरविभूषितः ॥ १०१ ॥
मानसतरङ्गिणीकृत्
bearing long braided hair on the head, and with a terrible roar. bIja-mantra: 4th of pa series = bha + ra+U+(M)= bhrUM.
विश्वास-प्रस्तुतिः
अग्निवेताल-बीजोऽयं
सर्वत्र भयनाशकः ।
पूजयेद् अग्निवेतालं
सर्वत्र भयवारणम् ॥ १०२ ॥
मूलम्
अग्निवेतालबीजोऽयं सर्वत्र भयनाशकः । पूजयेदग्निवेतालं सर्वत्र भयवारणम् ॥ १०२ ॥
मानसतरङ्गिणीकृत्
This is the destroyer of fear. He may worship agnivetAla to ward off fear all around.
Again, he who worships [agnivetAla] has no fear of ghosts and the like.
विश्वास-प्रस्तुतिः
यः पूजयेत् तस्य पुनर्
भूतादिभ्यो भयं नहि ।
अष्टानाम् अथ मन्त्राणां
योगिनीनां क्रमन् नृप ॥ १०३ ॥
मूलम्
यः पूजयेत् तस्य पुनर्भूतादिभ्यो भयं नहि । अष्टानामथ मन्त्राणां योगिनीनां क्रमन्नृप ॥ १०३ ॥
विश्वास-प्रस्तुतिः
शैलपुत्रीप्रमुख्याणां मन्त्राण्यष्टाक्षराणि तु । वैष्णवीतन्त्रसंस्थानि पूर्वप्रोक्तानि तानि तु ॥ १०४ ॥

शैलपुत्र्यास्तथा चाङ्गमन्त्रं प्राक् प्रतिपादितम् । रूपं तु नरशार्दूल योगिनीनां विशेषतः ॥ १०५ ॥

प्रत्यक्षरेण बीजेन दुर्गातन्त्रेण वा त्विमाः । नेत्रबीजेनैव पूज्या योगिन्यो नृपसत्तम ॥ १०६ ॥

कात्यायनीं पाददुर्गां दुर्गातन्त्रेण पूजयेत् । तदेव पूजनं रूपं तत्पूर्वं प्रतिपादितम् ॥ १०७ ॥

कालरात्र्यास्तु मन्त्रेण कालरात्रिं प्रपूजयेत् । कालरात्र्या रूपमन्त्रौ पुरैव प्रतिपादितौ ॥ १०८ ॥

महामायातन्त्रमन्त्रैः पूजयेद् भुवनेश्वरीम् । एताः सर्वास्तु योगिन्यः कामाख्यावत् फलप्रदाः ॥ १०९ ॥

विशेषो यत्र नैवोक्तो रूपे तन्त्रे च पूजने । दुर्गातन्त्रेण मन्त्रेण तत्र पूजां समाचरेत् ॥ ११० ॥

प्रत्येकं योगिनीं यस्तु पूजयेन्नरसत्तमः । स सर्वयज्ञस्य फलं प्राप्नोति नरसत्तम ॥ १११ ॥

नीलशैलस्य पूर्वस्मिन् स्वरूपं प्रतिपादितम् । नाभिमण्डलपूर्वस्यां भस्मकूटस्य दक्षिणे ॥ ११२ ॥

पूर्वस्यां कर्पटो नाम पर्वतो यमरूपधृक् । तत्र याम्यशिला कृष्णा नीलाञ्जनसमप्रभा ॥ ११३ ॥

अधित्यकायां राजेन्द्र व्यामपञ्चसुविस्तृता । पूजयेत् तत्र शमनं पाणौ दण्डं सदैव यः ॥ ११४ ॥

धत्ते तु पाणिना नित्यं प्राणिदण्डस्य साधनम् । कृष्णवर्ण तु द्विभुजं किरीटमुकुटोज्ज्वलम् ॥ ११५ ॥

दधतं चासिपुत्रीं च वामपाणौ सदैव हि । कृष्णवस्त्रं स्थूलपादं बहिर्निःसृतदन्तकम् ॥ ११६ ॥

हयाभयप्रदं नित्यं नृणां महिषवाहनम् । पूजयेत् परया भक्त्या याम्यबीजेन साधकः ॥ ११७ ॥

उपान्तवर्गस्यादिर्यो वर्णो बिन्द्विन्दुसंयुतः । यमबीजमिति ख्यातं यमस्य प्रीतिदायकम् ॥ ११८ ॥

अनेनैव तु मन्त्रेण शमनं पूजयेत् तु यः । कर्पटाख्येऽचलवरे नापमृत्युमवाप्नुयात् ॥ ११९ ॥

पूर्वस्यां कर्पटाख्यात् तु शैलाच्चित्र इति स्मृतः । यः पूर्वभागप्रान्तेऽभूद्दिश्याग्नेय्यामवस्थितः ॥ १२० ॥

पीठस्तु ब्रह्मग्रावस्तु स प्राक् पर्वत उच्यते । तस्मिन् वसन्ति सततं ग्रहा नव यथेच्छया ॥ १२१ ॥

तत्र तान् पूजयेद् यस्तु स नाप्नोत्यापदं क्वचित् । रूपं मन्त्रं च सूर्यस्य चन्द्रस्य प्रतिपादितम् ॥ १२२ ॥

सप्तानामितरेषां तु मन्त्रं रूपं शृणुष्व मे । रक्ताम्बरधरः शूली शक्तिमांश्च गदाधरः ॥ १२३ ॥

चतुर्भुजो मेषरथो वरदो मङ्गलो मतः । पीताम्बरधरः शूली पीतमाल्यानुलेपनः ॥ १२४ ॥

हड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः । स्वर्णगौरः पीतवासाः स्वर्णपर्यङ्कसंस्थितः ॥ १२५ ॥

मालां कमण्डलुं दण्डं वामेन वरदायकम् । चतुर्भुजं च सर्वज्ञं चिन्तयेद् देवतीर्थकम् ॥ १२६ ॥

सर्वैर्देवगणैर्नित्यम् अम्यमानं मनोहरम् । शुक्लवस्त्रं शुक्लवर्णं शङ्खनागोपरिस्थितम् ॥ १२७ ॥

चतुर्भुजं पाशमालां पुस्तकं च वराभये । क्रमाद् दक्षिणवामायां धत्ते दैत्यगुरुः सदा ॥ १२८ ॥

इन्द्रनीलनिभः शूली वरदो गृध्रवाहनः । आशबाणासनधरो ध्यातव्योऽर्कसुतः सदा ॥ १२९ ॥

कामदेवस्यबीजं तु मन्त्रं भौमस्य कीर्तितम् । दुर्गाया नेत्रबीजस्य यत्तु मध्यावरं शुभम् ॥ १३० ॥

तन्मन्त्रं शशिपुत्रस्य सर्वकामफलप्रदम् । अङ्कारपञ्चमादिस्तु चतुःषट्स्वरसंयुतम् ॥ १३१ ॥

गणेशबीजान्तमिदं गुरोर्मन्त्र प्रकीर्तितम् । बिन्द्विन्दुसंयुतं चापि पूर्ववर्णद्वयं पुनः ॥ १३२ ॥

सप्तमस्वरसंयुक्तो मकारस्त्वादिरन्तरम् । प्रान्तवर्गाद्यक्षरं तु बिन्द्विन्दुभ्यां समन्वितम् ॥ १३३ ॥

भवेच्छुक्रस्य बीजं तु सर्वकामसमृद्धिदम् । प्रान्तवर्गाद्यक्षरं तु चन्द्रबिन्दुसमन्वितम् ॥ १३४ ॥

आद्यमन्त्रस्वरोपेतं तदेवेत्यादिसंयुतम् । शनैश्चरस्य मन्त्रोऽयं सर्वदोषविनाशनः ॥ १३५ ॥

बिन्दुचन्द्रसमायुक्तं नामाद्यक्षरमेव वा । तेषां सर्वग्रहाणां वै मन्त्रमङ्ग प्रकीर्तितम् ॥ १३६ ॥

शान्तिके पौष्टिके कृत्ये एभिर्मन्त्रैर्ग्रहानिमान् । पूजयेत् सर्वदा धीरो भूतिकामो महामतिः ॥ १३७ ॥

वरदाभयहस्तश्च खड्गचर्मधरस्तथा । सिंहासनगतः कृष्णा राहुर्धीरः प्रचक्ष्यते ॥ १३८ ॥

धूम्रवर्णो विशालाक्षः पुच्छरूपी चतुर्भुजः । खड्गचर्मगदाबाणपाणिः केतुः शवासनः ॥ १३९ ॥

उपान्तादिर्द्वादशेन स्वरेण सहितः पुनः । उपान्तः पञ्चमेनेन्दुबिन्दुभ्यां सहितावुभौ ॥ १४० ॥

मन्त्रोऽयमनुलोमेन राहोः केतोर्विलोमतः । आद्यक्षरं पूर्ववद् वा मन्त्रयुक्तमथैतयोः ॥ १४१ ॥

एवं चित्रे शैलवरे पूजयित्वा नवग्रहान् । अभीष्टाल्लँभते कामान्तरः शान्तिं तथोत्तमाम् ॥ १४२ ॥

चित्रकूटात् तु पूर्वस्यां कज्जलाचल उत्तमः । सर्वविद्याधराद्यास्तु सन्त्यस्मिन् देवयोनयः ॥ १४३ ॥

तं पर्वतं समारुह्य प्रणम्य सकलान् सुरान् । स्वर्गं यान्ति नरश्रेष्ठ इह चाप्यतुलां श्रियम् ॥ १४४ ॥

कज्जलाचलशैलात् तु पूर्वस्मिञ्छुभपर्वतः । शच्या सार्धं पुरा रेमे यत्र सक्रः सुरेश्वरः ॥ १४५ ॥

तत्पूर्वस्यां महादेवी नदी कपिलगङ्गिका । तस्यां स्नात्वा नरो गङ्गास्नानजं फलमाप्नुयात् ॥ १४६ ॥

कामाख्यानिलयात् पूर्वं दक्षिणस्यां तथा दिशि । विद्यते महदावर्तं भुवि ब्रह्मबिलं महत् ॥ १४७ ॥

पञ्चविंशतिमानेन योजनानां नरेश्वर । तस्मादायाति सुनदी सिताम्भोऽपम ओयभाक् ॥ १४८ ॥

को ब्रह्मा कीर्तितो देवैर्यस्मात् तस्य बिलात् सृता । गङ्गेव फलदा यस्मात् तस्मात् कपिलगङ्गिका ॥ १४९ ॥

स्नात्वा कपिलगङ्गायां सर्वमन्वन्तरेषु च । नरः स्वर्गमवाप्यादौ ब्रह्मलोक ततो व्रजेत् ॥ १५० ॥

अतीत्य तां नदीं पूर्वभागे दमनिकाह्वया । नदी महाकृष्णतोया पापस्य दमनी तथा ॥ १५१ ॥

ततो वृद्धाह्वया चाभूदपरा सरिदुत्तमा । तस्या नद्याः पूर्वभागे गङ्गावत् फलदायिनी ॥ १५२ ॥

माघं तु सकलं मासं स्नात्वा मुक्तिमवाप्नुयात् । तथा दमनिकायां च परं निर्वाणमाप्नुयात् ॥ १५३ ॥

ततः पूर्वे परा देवी नाम्ना सा सरिदुत्तमा । महती दिव्ययमुना यमुनावत् फलप्रदा ॥ १५४ ॥

दक्षिणाद्रिसमुद्भूता दक्षिणोदधिगामिनी । तस्यां तु कार्तिकं मासं स्नात्वा मुक्तिमवाप्नुयात् ॥ १५५ ॥

इह चैवोत्तमान् भोगान् भागधेयान् प्रतिष्ठितान् । तन्मध्ये भैरवो देवो भर्ग सम्भोगसम्भवः ॥ १५६ ॥

उर्जयाख्ये वरगिरावस्त्युपत्यकभूतिगः । योऽसौ शरभरूपस्य मध्यखण्डोऽतिभैरवः ॥ १५७ ॥

स एव भैरवाख्योऽयं पञ्चवक्त्रस्य मन्त्रकैः । सम्पूज्य तत्र मतिमान् स याति शिवलोकताम् ॥ १५८ ॥

कामेश्वरस्य या पूजा कथिता नीलनिर्णये । सम्पूज्य पर्वतश्रेष्ठे दुर्जये चाचलोत्तमे ॥ १५९ ॥

तत्र भैरवगङ्गास्ति सरो वै भैरवाह्वयम् । तयोः स्नात्वा नरो याति शिवलोकं सनातनम् ॥ १६० ॥

दुर्जयाख्यस्य पूर्वस्यां पुर नाम वरासनम् । तद्दक्षिणे महाशैलः क्षोभको नाम नामतः ॥ १६१ ॥

तस्मिन् गिरौ शिलापृष्ठे रक्तदेवी व्यवस्थिता । पञ्चपुष्करिणी नाम्ना पञ्चयोनिस्वरूपिणी ॥ १६२ ॥

अञ्चभिर्दुर्गायोनिभिः पूजयेत् पञ्चवक्त्रकम् । स्थिता रमयितुं तत्र नित्यमेव हिमाद्रिजा ॥ १६३ ॥

तच्छैलपूर्वभागे तु कान्ता नाम महानदी । दक्षिणं सागरं याति प्रथमं चोत्तरस्रवा ॥ १६४ ॥

दिव्यं कुण्डं महाकुण्डम् अच्छैलोपत्यकाक्षितौ । संस्थितं तत्र स्नात्वा तु तां देवीं परिपूजयेत् ॥ १६५ ॥

दिव्यकुण्डे नरः स्नात्वा पञ्चपुष्करणीं शिवाम् । यः पूजयेन्महाभागः स योनौ न हि जायते ॥ १६६ ॥

पञ्चयोन्यः पुष्करिणीः पञ्चैव परिसंस्थिताः । यतस्ततः पञ्चरूपा पञ्चपुष्करिणी मता ॥ १६७ ॥

अथाबकुल-पुष्पाणि तथैताः पञ्चयोनयः । पञ्चपुष्करिणीदेव्यः प्रचण्डाः सर्वकामदाः ॥ १६८ ॥

त्रिपुरायास्तु तन्त्रेण ताः पूज्याः साधकोत्तमैः । कामेश्वरीतन्त्रमन्त्रैरथवा पूजयेच्छिवाम् ॥ १६९ ॥

बालायास्त्रिपुरायास्तु मन्त्रमस्याः प्रकीर्तितम् । कामेश्वर्यास्तु वा मन्त्रं पूजनेऽस्याः प्रकीर्तितम् ॥ १७० ॥

उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका । चण्डा चेति च योगिन्यः पञ्चास्याः परिकीर्तिताः ॥ १७१ ॥

शिवलिङ्गं च तत्रास्ति शिलायां हेरुकाह्वयम् । देवीदक्षिणपूर्वस्यां नायकं तं तु पूजयेत् ॥ १७२ ॥

भैरवस्य तु मन्त्रेण पूजयित्वा दिवं व्रजेत् । निर्माल्यधारिणी देवी चण्डगौरीति कीर्तिता ॥ १७३ ॥

एतस्यां नरशार्दूल पुरा भर्गेण भाषिता । कान्तायां सलिले स्नात्वा वसन्ते मानवोत्तमः ॥ १७४ ॥

रूपवान् गुणवान् भूत्वा शिवलोकाय गच्छति । क्षोभकाख्याद् महाशैलादैशान्यां पर्वतोत्तमः ॥ १७५ ॥

तुङ्गसन्ध्याचलो नाम वसिष्ठो यत्र शप्तवान् । निमिनाम्नस्तु राजर्षेः शापाद् ब्रह्मसुतः पुरा ॥ १७६ ॥

वसिष्ठो ह्यशरीरोऽभूत् तच्छापाच्च निमिस्तथा । ततो ब्रह्मोपदेशेन निर्जने कामरूपके ॥ १७७ ॥

सन्ध्याचले तपस्तेपे तस्य विष्णुरभूत् तदा । प्रत्यक्षस्तस्य देवस्य बरदानान्महामुनिः ॥ १७८ ॥

अमृतान्यवतार्याशु कुण्डं कृत्वा गिरेस्तटे । तत्र स्नात्वा च पीत्वा च शरीरं प्राप पूरितम् ॥ १७९ ॥

तस्मादमृतकृण्डाच्च सन्ध्या नाम नदीवरा । निःसृता तत्र चाप्लुत्य चिरायुरगदो भवेत् ॥ १८० ॥

तस्मात् पूर्वं तु ललिता ललिताख्या सरिद्वरा । सागराद् दक्षिणात् पूर्वं महादेवावतारिता ॥ १८१ ॥

वैशाखशुक्लपक्षस्य तृतीयायां नरस्तु यः । कुर्याद् वै ललितास्नानं स शम्भुसदनं व्रजेत् ॥ १८२ ॥

ललितायाः पूर्वतीरे भगवान्नाम पर्वतः । स्वयं विष्णुर्लिङ्गरूपी तत्रास्ते भगवान् हरिः ॥ १८३ ॥

ललितायां नरः स्नात्वा द्वादश्यां शुक्लपक्षके । भगवन्तं समारुह्य यो यजेत् परमेश्वरम् ॥ १८४ ॥

स याति विष्णुसदनं शरीरेण विराजता । एताः पूर्वोदिता नद्यः सर्वाश्चैवोत्तरस्रवाः ॥ १८५ ॥

क्रमात् तु दक्षिणं यान्ति सागरं जाह्नवीसमाः । कामाख्यां प्रथमं दृष्ट्वा स्नात्वा चैवोर्वशीजले । य एतासु चरेत् स्नानं स तु मुक्तिमवाप्नुयात् ॥ १८६ ॥

इति श्रीकालिकापुराणे एकोनाशीतितमोऽध्यायः ॥ ७९ ॥